अतद्विषयज्ञानेन..

आत्माविषयकस्याऽत्मज्ञानस्याऽत्माज्ञाननिवर्तकत्वे घटज्ञानस्यापि तन्निवर्तकत्वाऽपादनम्

श्रीमज्जयतीर्थटीका

अथानात्मविषयमपि तद् आत्माज्ञानं निवर्तयेत् हन्त तर्हि घटज्ञानमपि कस्मान्न निवर्त-येत् । अनात्मविषयत्वाविशेषादित्याह-

मूल

अतद्विषयज्ञानेन तदज्ञाननिवृत्तौ घटज्ञानेनापि निवर्तेत ।

आत्माज्ञानमिति शेषः ।