ततश्च दुःखित्वं स्यात् ..

ईश्वरस्य संसारिणैक्याननुभवसमर्थनम्

श्रीमज्जयतीर्थटीका

नन्वीश्वरेण संसारिणैक्यमनुभूयत एव । अतो नैतदनिष्टापादनमित्यत आह-

मूल

ततश्च दुःखित्वं स्यात् ।

ईश्वरस्येति वर्तते । ‘यो दुःखिनैक्यमनुभवति स दुःखी । यथा सम्प्रतिपन्नः’ इति व्याप्तेः । यदीश्वरः संसारिणैक्यमनुभवेत्तदा दुःखी प्रसज्येत । न चैवम् । ततो नेश्वरस्य संसारि-णैक्यानुभवोऽङ्गीकर्तुमुचितः ।

श्रीविजयीन्द्रभिक्षु

ईश्वरस्य दुःखित्वं स्यादित्येतदुपपादयति- यो दुःखिनेति ।। दुःखी दुःखानुभव-प्रयुक्तापकर्षभाक् प्रसज्येतेत्यर्थः । नन्वीश्वरस्य संसार्यैक्यानुभवसत्त्वेऽपि न दुःखित्वप्रसङ्गः । तत्कर्मार्जितत्वस्यैव तदीयत्वप्रयोजकत्वात् । ईश्वरस्य च कर्माभावादिति चेन्न । ईश्वरस्य संसारिणा वास्तवैक्ये कर्मणां तदीयत्वस्याप्यापाद्यत्वात् ।

श्रीराघवेन्द्रतीर्थ

ईश्वरो दुःखीभवितुमर्हति दुःखिनैक्यानुभवितृत्वात् । चैत्रेणैक्यानुभवयुक्तचैत्रवदेवेति साधनाभिप्राये  बाधापसिद्धान्तौ   स्यातामित्यतिप्रसङ्ग   एवात्राभिप्रेत  इति  भावेनाऽह- यदीश्वर इति ।।

गुरुराजीया

ततश्चेति मूले अप्रयोजकत्वमाशङ्क्य परिहरति- य इति ।।

गोविन्दीया

सम्प्रतिपन्न इति ।। अर्जुनाख्यांशवानिन्द्र इत्यर्थः ।