तत एवाभ्रान्तत्वान्न मुक्तस्यापि भेदनिवृत्तिः ..

मुक्तावपि भेदस्यानिवृत्तिसमर्थनम्

श्रीमज्जयतीर्थटीका

एवं मुक्तत्वहेतुना मुक्तस्य भेदवत्तां प्रसाध्यानुमानान्तरेणापि साधयति–

मूल

तत एवाभ्रान्तत्वान्न मुक्तस्यापि भेदनिवृत्तिः ।

तत एवेश्वरेणाप्यनुभूयमानत्त्वात् । अभ्रान्तत्वादीश्वरस्येति शेषः । इदमुक्तं भवति । विमतो भेदो मुक्तौ न निवर्तते । ईश्वरेणानुभूयमानत्वात् । स्वरूपवदिति ।

नन्वीश्वरेणानुभूयमानोऽपि ब्रह्मात्मभेदो मुक्तौ निवर्तताम् । किं विपक्षे बाधकमित्यत उक्तम्- अभ्रान्तत्वादिति ।। यदीश्वरेणानुभूयमानमपि बाध्येत तदेश्वरस्य भ्रान्तत्वं प्रसज्येत । बाध्यशुक्तिरजतद्रष्टृवत् । तस्य त्वभ्रान्तत्वान्न तेनानुभूयमानो ब्रह्मात्मभेदो निवर्तत इति । अथ वाऽनुमानेन मुक्तस्य परमात्मनो भेदं प्रसाध्य प्रत्यक्षेणापि तत्साधनायेदं वाक्यम् । यदुक्तमीश्वरेणापि भेदोऽनुभूयत इति तत एव ईश्वरप्रत्यक्षादेव मुक्तस्यापि भेदनिवृत्तिर्नास्तीति गम्यते ।

नन्वीश्वरेण स्वस्मात्संसारिणो भेदः प्रत्यक्षेण गृह्यते । मुक्तस्य भेदः साध्यते । किं केन सङ्गत-मित्यत उक्तम्- अभ्रान्तत्वादिति ।। भेदस्येति शेषः    ईश्वरेणानुभूयमानो हि स्वस्मात् संसारिणो भेदो न तावद् भ्रान्तः । ईश्वरस्य भ्रान्तिकारणाविद्यावरणाभावात् । ततश्च पारमार्थिक-भेदस्य मुक्तावप्यवस्थानमीश्वरप्रत्यक्षेणैव सिद्धं भवतीति ।

श्रीविजयीन्द्रभिक्षु

मूले पक्षसाध्यहेतुविभागस्य स्फुटमप्रतीतेराह- इदमुक्तमिति ।। अभ्रान्त्वादित्यस्य वैयर्थ्यमाशङ्क्य विपक्षे बाधकसूचकत्वात् सार्थक्यमित्याह- नन्वित्यादिना ।। विपक्षे बाधकतर्क-सनाथेनैकेनैवानुमानेन सिषाधयिषितार्थसिद्धेरनुमानान्तरोपन्यासपरतया व्याख्यानस्यानतिप्रयो-जनतां मन्वान आह- अथवेति ।। भेदनिवृत्तिरिति ।। भेदबाध इत्यर्थः । ननु न भेदवाक्यं सिषाधयिषितार्थे प्रत्यक्षप्रमाणान्तरसद्भावप्रदर्शनपरम् । अनुमानस्य मुक्तभेदविषयत्वेन प्रत्यक्षस्य च संसारिभेदविषयत्वेन च भिन्नविषयत्वादित्याशङ्कते- नन्वीश्वरेणेति ।। शङ्कोत्तरत्वेन मूलमवतार्य व्याचष्टे- अत उक्तमिति ।। भ्रान्तो भ्रमविषयः । तथा च संसारिप्रतियोगिकभेदस्येश्वरप्रत्यक्ष-विषयस्याऽरोपितत्वाभावेन ज्ञानान्निवृत्त्यभावेन मुक्तावपि सत्त्वम् । अस्यैवानुमानविषयत्वान्न भिन्नविषयत्वमिति भावः ।

श्रीवेदेशतीर्थ

मूले पक्षसाध्यहेतुविभागस्य स्फुटमप्रतीतेराह- इदमुक्तं भवतीति ।। अभ्रान्तत्वादित्यस्य वैयर्थ्यमाशङ्ख्य विपक्षबाधकतर्कसूचकतया सार्थक्यं वक्तुमाह- नन्विति ।। अत्र मुक्तस्यापीत्यपि-शब्दस्वारस्यं नास्तीति प्रकारान्तरेण व्याख्याति- अथ वेति ।। निवृत्तिरिति ।। बाध इत्यर्थः । भ्रान्तिकारणेति ।। अनेनाभ्रान्तत्वादित्येतत्प्रकारान्तरेण योजितमिति ध्येयम् । पारमार्थिक-भेदस्येति ।। ईश्वरेणानुभूयमानस्य संसारिप्रतियोगिकभेदस्येत्यर्थः । मुक्तावपीति ।। संसारिण इति शेषः ।

श्रीराघवेन्द्रतीर्थ

अनुमानप्रयोगस्यास्फुटत्वादाह - इदमुक्तमिति ।। विमत इति ।। इदानीमुपलभ्यमानो ब्रह्मात्मभेद इत्यर्थः । विपक्षे बाधकतर्कं स्वयमुक्त्वा विपर्ययपर्यवसानतया मूलशेषं योजयति - ईश्वरेणानुभूयमानमपीति ।। निर्बाधानुमानसिद्धेऽर्थेऽनुमानान्तरोक्तिमरोचयमान आह-अथ वेति ।। मुक्तत्वादित्यनुमानेनेत्यर्थः । इदमिति ।। तत एवेति वाक्यमित्यर्थः । ईश्वरेणापीत्यादिपूर्व-वाक्यार्थानुवादोऽयम् । यदुक्तमीश्वरेणापीत्यादि ।। ईश्वरस्याज्ञानाभावादिति प्राङ्मूलोक्तमेव हेतुमाह- ईश्वरस्य भ्रान्तिकारणेति ।। अत एवानुमानान्तरेणापि साधयतीत्युक्तम् । द्रष्टृपुरुषवदिति ।। तस्य  यथाऽभ्रान्तत्वं तथेत्यर्थः । पारमार्थिकभेदस्येति ।। स्वस्मात् संसारिणो भेदस्येत्यर्थः । अवस्थानमिति ।। पारमार्थिकसत्यत्वस्य चानिवृत्तिरिति तत्पक्ष इति द्रष्टव्यम् ।

गुरुराजीया

ईश्वरेणापीति ।। ईश्वरेणानुभूयमानत्वादपीत्यर्थः । तथा चानुमानद्वयसमुच्चयार्थत्वान्नापि-शब्दवैयर्थ्यमिति भावः । अनुमानान्तरेण भेदसाधनपरत्वे अभ्रान्तत्वादित्युक्त्यनपेक्षमूलवाक्येनैव तत्सिद्धेः अभ्रान्तत्वादित्यनर्थकमित्यतोऽप्रयोजकताशङ्कापरिहाराय विपक्षे बाधकोपदर्शनार्थत्वात् तस्य न वैयर्थ्यमिति भावेन तच्छङ्कापरिहारकतया तद्योजयितुमप्रयोजकताशङ्कामुत्थापयति- नन्विति ।। अनुमानान्तरेण भेदसाधनपरत्वे मूलवाक्यस्य१, प्रत्यक्षेण भेदसाधनालाभात् तदलाभप्रयुक्तग्रन्थकाराचातुर्यशङ्कानिरासाय प्रत्यक्षेण भेदसाधनपरतयैतदेव वाक्यं व्याख्याति- अथवेति ।। निवृत्तिरिति ।। बाध इत्यर्थः । अवस्थानमिति ।। पारमार्थिकस्वरूपवदेव अवस्थाननियमादिति भावः ।

गोविन्दीया

तथा चेत्यादिना वाक्येनानुमानान्तरेणापि भेदस्यैवानुभूयमानत्वादिति भावः । न निवर्तत इति ।। न बाध्यत इत्यर्थः । तत एवेति ।। मुक्तगतभेदस्येश्वरप्रत्यक्षादेव तस्य निवृत्तिर्नास्तीति ज्ञायत इत्यर्थः । किं केन सङ्गतमिति ।। ईश्वरेण स्वस्मात् संसारिणो भेदः प्रत्यक्षेण गृह्यते, स एव विप्रतिपत्ति-विषयः । तस्यैव साधनमुचितम् । मुक्तभेदस्य प्रत्यक्षत्वाभावेन विप्रतिपत्त्यविषयत्वात् तत्साधनमनु-चितम् । इदानीं तु मुक्तस्य भेदः साध्यते किं केन सङ्गतमित्यर्थः । तावदिति ।। क्रमार्थः मुक्तगतभेदस्य प्रत्यक्षसिद्धत्वं वक्ष्याम इति भावः । ततश्चेति ।। मुक्तगतभेदः प्रत्यक्षसिद्धः, संसारिगत-भेदस्याभ्रान्तत्वादित्यनुमानं न पारमार्थिकभेदस्य मुक्तावप्यवस्थानमीश्वरप्रत्यक्षेण सिद्धं भवतीति कृत्वा तस्य च विप्रतिपत्तिविषयत्वेन साधनात् । न सङ्गत्यभाव इत्यर्थः ।

नारोपन्तीया

न तावद्भ्रान्त इति । न भ्रमविषय इत्यर्थः ।

जनार्दनभट्टीया

यदुक्तमिति ।। त्वदुक्तमित्यर्थः । ‘इत्यादिना ईश्वरेण भेदस्य’ इति पूर्ववाक्य इति शेषः । पूर्वम् ईश्वरस्य अभ्रान्तत्वादिति योजना कृता । अधुना भेदस्य अभ्रान्तत्वादिति योजयितुं तदनुसारिणीं शङ्काम् उत्थापयति – नन्वीश्वरेणेत्यादिना ।। ईश्वरप्रतियोगिकसंसारिकधर्मिको भेदः ईश्वरप्रत्यक्ष-विषयः । मुक्तजीवधर्मिको भेदो अनुमानसाध्यः । एवं प्रत्यक्षानुमानयोः भिन्नविषयत्वात् प्रत्यक्षेणापि तत्साधनाय ‘इदम्’ इति पूर्वोक्तानुपपत्तिरिति शङ्कितुराशयः । सत्यभेदमात्रम् अनङ्गीकुर्वाणां प्रति अनिर्धारितधर्मिविशेषभेदमात्रावस्थानम् अस्माभिः साध्यते । तावताऽपि पूर्तेरित्याशयेन परिहरति– ईश्वरेणेत्यादिना ।। आशयमाविष्करोति – ततश्चेति ।। पारमार्थिकेति स्वरूपकथनम् । मुक्तौ अवस्थानोक्त्यैव पारमार्थिकत्वलाभादिति ।