देवदत्तादिस्वरूपमात्रस्य ..
वक्तुर्विशिष्टार्थविवक्षाभावेन लक्षणाश्रयणमिति शङ्का तन्निरासश्च
श्रीमज्जयतीर्थटीका
ननु मा भूद्वाच्यार्थानुपपत्तिर्लक्षणाऽऽक्षेपिका । वक्तुर्विशिष्टार्थविवक्षाऽभावस्तु गरल-मभ्यवहरेत्यादाविव भविष्यति । स च स्वरूपमात्रप्रश्नोत्तरत्वात् सिद्ध्यति । अस्मिन् ज्योतिर्मण्डले कश्चन्द्र इति कोऽयमिति च चन्द्रदेवदत्तस्वरूपमात्रं ह्यनेन पृष्टम् । वक्ता च विशिष्टार्थं वदन् आम्रान्पृष्टः कोविदारानाचक्षाण इवानवधेयवचनः प्रसज्ज्येतेति चेत् । स्यादेवम् । यदि स्वरूपमात्रे प्रश्नः स्यात् । न चैवम् । स्वरूपमात्रस्य सिद्धत्वात् । न हि कश्चित्सिद्धं पृच्छतीत्याह-
मूल
देवदत्तादिस्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्नः ।
ननु प्राक्प्रकृष्टप्रकाशश्चन्द्र इत्येतदुदाहरणं प्रथमं निराकृत्य पश्चात्सोऽयं देवदत्त इत्येतन्निरा-कृतम् । अतश्चन्द्रादिमात्रस्येति वक्तव्यम् । किमर्थं क्रमभङ्गः । उच्यते । परेण स्वग्रन्थे प्रकृष्टादि-वाक्यविषय एव प्रश्नानुपपत्तिर्व्युत्पादिता । सोऽयमित्यत्र तु वाच्यार्थानुपपत्तिरेव । अतश्चन्द्रादि-स्वरूपस्येत्युच्यमाने प्रकृष्टादिवाक्यविषयानुपपत्तिपरिहार एवायमिति विज्ञायेत । तदुभय-विषयतां तु ज्ञापयितुं क्रमभङ्गः ।
एवमपि सोऽयमित्येतद्विषयतैव ज्ञास्यत इति चेन्न । प्रकृष्टादिवाक्यविषयत्वस्य परसिद्धत्वेन सुज्ञानत्वात् । परानुक्तं कस्माच्छङ्कनीयमिति चेन्न । न्यायप्राप्तस्यापि परिहार्यत्वात् ।
श्रीविजयीन्द्रभिक्षु
वक्तुरिति ।। वक्तुस्तात्पर्यविषयार्थानुपपत्तिस्त्वित्यर्थः । प्रकृष्टादिवाक्ये सोऽयमित्यादि-वाक्ये च विशिष्टार्थविवक्षैव नास्तीति पराभिमानज्ञापनायैवमुक्तिः । अन्यथा ‘गरलमभ्यवहर’ इत्यादाविवेति विशिष्टार्थपरत्वाभावोपपादनाभावप्रसङ्गात् । यद्वा वक्तुर्विशिष्टार्थविवक्षाभावप्रमाण-वाक्यत्वे लक्षणाऽऽक्षेपिके इत्यर्थः । अज्ञातस्य तदाक्षेपकत्वानुपपत्तेर्ज्ञात एव स तदाक्षेपक इति वाच्यम् । तज्ज्ञानञ्च न प्रत्यक्षेण । अयोग्यत्वादित्याशङ्क्य तज्ज्ञानोपायं दर्शयति- स चेति ।। तत्सिद्धिप्रकारमेवोपपादयति- अस्मिन्निति ।। अनेनेति ।। चन्द्रदेवदत्तादिस्वरूपमात्रे जिज्ञासा-वतेत्यर्थः । स्वरूपमात्रप्रश्नोत्तरत्वेन लिङ्गेनानुमितो विशिष्टार्थविवक्षाऽभावः स्वयमनुपपन्न-स्तत्स्वरूपमात्रलक्षणाऽऽक्षेपक इत्ययुक्तम् । प्रकृष्टादिवाक्यस्य स्वरूमात्रप्रश्नोत्तरत्वासिद्धेः । ज्योतिर्मण्डलं साक्षात्कुर्वतैव ‘अस्मिन् ज्योतिर्मण्डले कश्चन्द्रः’ इत्यादिप्रश्नकरणात् । न हि तत्साक्षात्कारे चन्द्रादिस्वरूपं विषयः । न हि निश्चितार्थस्वरूपं कोऽपि पृच्छतीत्याह- स्यादेवमिति ।। चन्द्रादिस्वरूपमात्रस्येतीति ।। ‘देवदत्तस्वरूपमात्रस्य सिद्धत्वात्’ इति वाक्ये देवदत्तस्वरूमात्रस्येत्यस्य स्थाने चन्द्राऽदिस्वरूपमात्रस्येति वक्तव्यमित्यर्थः । प्रश्नानुपपत्तिरिति ।। उत्तरस्य विशिष्टार्थविषयत्वे स्वरूपमात्रविषयकप्रश्नो नोपपद्यत इति तदनुपपत्तिरित्यर्थः । तदुभयविषयतामिति ।। प्रश्नानुपपत्तिपरिहारयोरुदाहरणद्वयविषयतामित्यर्थः ।
श्रीवेदेशतीर्थ
विशिष्टार्थेति प्रकृताभिप्रायेणोक्तम् । मुख्यार्थेत्यर्थः । अतो गरलमिति दृष्टान्तः सङ्ग-च्छते । विवक्षाऽभाव इति ।। वक्तृतात्पर्यानुपपत्तिरित्यर्थः । गरलमिति ।। अत्र यथा वाक्यार्थस्य गरलकर्मकाभ्यवहारक्रियाकसंसर्गस्याग्निना सिञ्चेत्यादिवद्बाधाभावेन मुख्यार्थानुपपत्त्यभावेऽ-प्याप्तस्य वक्तुस्तत्र तात्पर्यानुपपत्त्या प्रस्तुतद्विषदन्नरूपमनिष्टसाधनं गरलपदेन विधिप्रत्ययेन च निषेधं लक्षयित्वा धातुना अनिष्टसाधनभोजनप्रतीतावनिष्टसाधनरूपप्रस्तुतद्विषदन्नकर्मकभोजनं न कार्यमिति वक्तृतात्पर्याविषयीभूतमर्थं प्रत्येति श्रोता । तथा प्रकृतेऽपि विशिष्टार्थरूपमुख्यार्थानुप-पत्त्यभावेऽपि तत्र वक्तृतात्पर्यानुपपत्त्या तत्तात्पर्यविषयीभूतं स्वरूपमात्रं लक्षणया प्रत्येतीत्यर्थः ।
ननु विशिष्टरूपवाक्यार्थे वक्तृविवक्षाभाव एव कुतः सिद्ध इत्यत आह- स चेति ।। स्वरूपमात्रप्रश्नोत्तरत्वलक्षणं हेतुं प्रकृष्टादिवाक्ये सोऽयमित्यादिवाक्ये चोपपादयंस्तस्य विशिष्टार्थ-विवक्षाभावसाधकत्वेऽप्रयोजकतां च परिहरति- अस्मिन्नित्यादिना ।। अनुपपत्तिपरिहार इति ।। मुख्यार्थे तात्पर्यानुपपत्तिपरिहार इत्यर्थः । तदुभयविषयतामिति ।। तात्पर्यानुपपत्ति-परिहारस्योदाहरणद्वयविषयतामित्यर्थः ।
द्वैतद्युमणि
आम्रान् चूतवृक्षान् कोविदारान् निम्बवृक्षान् ।
श्रीराघवेन्द्रतीर्थ
तात्पर्यानुपपत्तिरूपलक्षणाबीजं शङ्कते- ननु मा भूदित्यादिना ।। गरलमिति ।। शत्रुगृहे बुभुक्षुं प्रति कश्चिदाप्तो वक्ति ‘गरलं विषम् अभ्यवहर भक्षय’ इति तस्य ‘यद् द्विषदन्नं तन्न भोक्तव्यम्’ इत्यर्थः। लक्षणायां विषभक्षणे वक्तुर्विवक्षाऽभावो हेतुस्तथेत्यर्थः । स चेति ।। विशिष्टे वक्तुर्विवक्षाभाव इत्यर्थः । कोऽयमितीति ।। अयं क इति देवदत्तस्वरूपप्रश्ने सोऽयं देवदत्त इत्युक्तेरित्यर्थः । विशिष्टेति ।। प्रकृष्टत्वादिविशिष्टार्थं तद्देशकालादिविशिष्टार्थं वा वदन्नित्यर्थः । आम्रकोविदारशब्दौ १देशविशेषवाचकौ । अनवधेयेति ।। अश्रद्धेयवचन इति बहुव्रीहिः । प्रश्नानुप-पत्तिर्व्युत्पादितेति ।। उत्तरस्य विशिष्टार्थकत्वे स्वरूपमात्रविषयकप्रश्नोऽनुपपन्नः स्यादिति व्युत्पादि-तेत्यर्थः । वाच्यार्थेति ।। विशिष्टाभेदरूपवाच्यार्थानुपपत्तिरेव व्युत्पादितेत्यनुषङ्गः उभयविषयता-मिति ।। प्रश्नानुपपत्तिपरिहारस्योदाहरणद्वयविषयतामित्यर्थः । परानुक्तमिति ।। सोऽयमिति वाक्यस्य विशिष्टार्थकत्वे कोऽयमिति स्वरूपमात्रप्रश्नो नोपपद्यत इत्येतदित्यर्थः । येन देवदत्तादी-त्यादिमूलवाक्यं सङ्गतं स्यादिति वाक्यशेषः । न्यायेति ।। उत्तरस्य विशिष्टार्थकत्वे स्वरूपमात्रप्रश्नो न युक्त इति न्यायार्थस्य प्रकृष्टादिवाक्य इव सोऽयमिति वाक्येऽपि प्राप्तत्वादिति भावः । विशिष्टार्थेति ।। मुख्यार्थेत्यर्थः । विवक्षाभावस्त्विति ।। विवक्षा वक्तुमिच्छा । तत्प्रतीतीच्छयोच्चरितत्वरूपं तात्पर्यमित्यर्थः । तथा च तात्पर्यानुपपत्तिर्लक्षणा ज्ञापिकाऽस्त्विति भावः । गरलं विषम् । अभ्यवहर भुङ्क्ष्व । कस्यचिद् द्विषदन्नभोजनप्रसक्तिं दृष्ट्वा आप्तेनोच्यते विषं भुङ्क्ष्वेति । अस्य वाक्यस्य द्विषदन्नभोजनवर्जने लक्षणा । तद्बीजं चात्र न मुख्यार्थानुपपत्तिः । विषकर्मकभोजनक्रियायाः कर्तुं शक्यत्वेन अग्निना सिञ्चेदित्यादाविव बाधाभावात् । अतोऽत्र तात्पर्यानुपपत्तिरेव लक्षणाज्ञापिका । आप्तस्य विषभोजनविधाने तात्पर्याभावात् अतस्तदनुपपत्तिरेव द्विषदन्नभोजनवर्जने लक्षणाज्ञापिका । सन्निहितद्विषदन्नभोजने तवापेक्षा चेत्तर्हि विषं भुङ्क्ष्व । तदपेक्षया विषभोजनमेव वरम् । २उभयत्राविशिष्टत्वादतस्तन्न कर्तव्यमिति । एवमत्रापि पूवर्•ेक्तरीत्या विशिष्टैक्यरूपमुख्यार्थानुपपत्त्यभावेऽपि वक्तुरुद्दालकस्य विशिष्टैक्ये तात्पर्यस्याभावेन तदनुपपत्त्या स्वरूपमात्रे लक्षणा क्रियत इति भावः । ननु कुतोऽत्र विशिष्टैक्यरूपवाक्यार्थे वक्तुस्तात्पर्याभाव इत्यत आह- स चेति ।। सत्यज्ञानादिवाक्यं तत्त्वमसीत्यादिवाक्यं च, स्वरूपमात्रपरं, तन्मात्रप्रश्नोत्तरत्वात्, ‘प्रकृष्टप्रकाशश्चन्द्रः’ ‘सोऽयं देवदत्तः’ इत्यादिवाक्यवदित्यनुमानमभिप्रेत्य दृष्टान्तद्वये हेतुमुपपादयति- अस्मिन्निति ।। आम्रान् चूतवृक्षान् । कोविदारान् निम्बबृक्षान् । आचक्षाण इति ।। वदन्नित्यर्थः । अनवधेयवचनः । प्रथममिति ।। प्रकृष्टप्रकाशश्चन्द्र इति वाक्येनेत्यर्थः । पश्चादिति ।। अनित्येति वाक्येनेत्यर्थः । इति वक्तव्यमिति । देवदत्तादिस्वरूप-मात्रस्येति कथमुक्तमित्यर्थः । प्रश्नानुपपत्तिरिति ।। प्रकृष्टप्रकाशश्चन्द्र इति वाक्यस्य प्रकृष्टत्वादि-गुणविशिष्टे तात्पर्याङ्गीकारे कश्चन्द्र इति प्रश्नोऽनुपपन्नः स्यात् । कश्चन्द्र इति चन्द्रस्वरूप-मात्रजिज्ञासायां ह्येतदुच्यते अतः स्वरूपमात्र एव तात्पर्यमङ्गीकार्यं प्रकृष्टत्वादिविशिष्टे तात्पर्याङ्गी-कारे च किंलक्षणक इति प्रश्नापत्त्या कश्चन्द्र इति चन्द्रस्वरूपप्रश्नोऽनुपपन्नः स्यात् क्रियते१ चन्द्रस्वरूपप्रश्नस्तेन ज्ञायते प्रकृष्टत्वादिगुणयोगे न तात्पर्यमिति । अन्यथा आम्रान् पृष्ट इति न्यायेन प्रश्नोत्तरयोर्वैयधिकरण्यं स्यादित्येव व्युत्पादितेत्यर्थः । २वाच्यार्थानुपपत्तिरेवेति । न प्रश्नानुपपत्ति-रिति ‘एव’कारार्थः । सोऽयं देवदत्त इति वाक्यस्य योऽर्थः तद्देशकालविशिष्टस्यैतद्देशकालविशिष्टस्य चैक्यरूपस्तदनुपपत्तिर्व्युत्पादिता । तथाहि- तद्देशकालविशिष्टस्यैतद्देशकालवैशिष्ट्यं तद्बोधने तद्देशकालयोरिदानीं सत्त्वप्रसङ्गः । एतद्देशकालयोस्तदानीं सत्वप्रसङ्गः-विशिष्टद्वयैक्यबोधने विशेषणयोरैक्यप्रसङ्ग इत्येवं व्युत्पादितेत्यर्थः । अनुपपत्तिपरिहार इति ।।
प्रकृष्टादिवाक्यस्य प्रकृष्टत्वादौ मुख्यार्थे या तात्पर्यानुपपत्तिस्तस्याः स्वरूपमात्रस्य सिद्धत्वेन तत्प्रश्नत्वानङ्गीकारादिति परिहार एवायमिति विज्ञायेतेत्यर्थः । उभयविषयतामिति । मुख्यार्थे तात्पर्यानुपपत्तिपरिहारस्य ‘प्रकृष्टप्रकाशश्चन्द्रः’, ‘सोऽयं देवदत्तः’ इति दृष्टान्तद्वयविषयतां ज्ञाप-यितुमित्यर्थः । एवमपीति क्रमभङ्गेऽपीत्यर्थः । विषयतैवेत्यत्रानुपपत्तिपरिहारस्येति वर्तते । देवदत्तादिस्वरूपमात्रस्येत्युक्त्या सोऽयमिति वाक्य एव मुख्यार्थे तात्पर्यविषयकानुपपत्तिपरिहार एव क्रियत इति ज्ञास्यते, न तु प्रकृष्टादिवाक्यविषयकानुपपत्तिपरिहारः क्रियत इति अत उभयविषयता-ज्ञापनमनुपपन्नमित्यर्थः ।। प्रकृष्टादिवाक्येति । प्रकृष्टादिवाक्यस्य मुख्यार्थे तात्पयर्यानुपपत्त्या स्वरूपमात्रविषयतायाः परमते प्रसिद्धत्वेन मुख्यार्थे तात्पर्यानुपपत्तिपरिहारोऽपि चन्द्रस्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्न इति सुज्ञानं इत्यर्थः । परानुक्तमिति । सोऽयमिति वाक्ये वाक्यार्थानुपपत्तरेव२ परेणोक्तत्वात् । प्रश्नोत्तरयोर्वैयधिकरण्यान्यथानुपपत्त्या स्वरूपमात्रपरत्वमिति परेणानुक्तत्वात् सोऽयमितिवाक्यं स्वरूपमात्रप्रश्नोत्तरत्वेन स्वरूपमात्रपरमित्यत्र दृष्टान्ततया कस्माच्छङ्कनीयमित्यर्थः । तथा च परानुक्तत्वात्तदाशङ्कनं देवदत्तादीति वाक्ये तत्परिहारकरणं चायुक्तमिति भावः । न्यायप्राप्तस्यापीति । प्रकृष्टादिवाक्ये स्वरूपमात्रपरत्वे यो न्यायः स्वरूपमात्र-प्रश्नोत्तरत्वरूपस्तेनैव न्यायेन प्राप्तं यत् सोऽयमिति वाक्यस्य स्वरूपमात्रपरत्वं तस्यापि परिहारः कार्य इत्यभिप्रेत्य परानुक्तमपि वाक्यमाशङ्क्य परिहृतमित्यर्थः ।
गुरुराजीया
ननु वाच्यार्थानुपपत्तिरेव लक्षणाऽक्षेपिकेति न नियमः । तथा सति गरलमभ्यवहरेत्यादौ अभ्यवहरेत्यादिपदवाच्यस्याभ्यवहारकर्मत्वादेः गरलादौ विद्यमानत्वेन लक्षणाऽक्षेपकवाच्यार्थानुप-पत्तेरभावेन लक्षणाऽभावप्रसङ्गात् । किं तु वक्तुर्विशिष्टार्थविवक्षाऽभावोऽपि । ततश्च गरल-मभ्यवहरेत्यादौ वाच्यार्थानुपपत्त्यभावेऽपि वक्तुर्विशिष्टार्थविवक्षाऽभावस्य सत्त्वात् तेनैव लक्षणाऽक्षेपवत् प्रकृष्टादिवाक्ये सोऽयमित्यादिवाक्ये च वाच्यार्थानुपपत्तेरभावेऽपि वक्तुर्विशिष्टार्थ-विवक्षाऽभावस्य सत्त्वात्तेनैव लक्षणाऽक्षेपसिद्धेर्न लक्षणाया अभावो वक्तुं शक्य इत्यभिप्रायेण शङ्कते- मा भूदिति ।। गरलमभ्यवहरेत्यत्र वक्तुः परमप्रेमास्पदतयाऽनिष्टसाधनकर्तव्यत्व-बोधकत्वानुपपत्त्या विशिष्टार्थविवक्षाऽभावसिद्धिवत् प्रकृष्टादिवाक्ये सोऽयमित्यादिवाक्ये च वक्तुर्विशिष्टार्थविवक्षाऽभावस्य साधकाभावेनासिद्धेर्न वक्तुर्विशिष्टार्थविवक्षाऽभावेन लक्षणा-सिद्धिरिति वैषम्यमाशङ्क्य प्रकृतेऽपि स्वरूपमात्रप्रश्नोत्तरत्वेनैव वक्तुर्विशिष्टार्थविवक्षाऽभावस्य सिद्धत्वान्न दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमित्याशयेन तत्सिद्धिप्रकारं दर्शयति- स चेति ।। भवेदेतद्यदि स्वरूपमात्रप्रश्नोत्तरत्वं सिद्धं स्यात् । तदेव तु न सिद्धमिति कथं तेन विशिष्टार्थविवक्षाऽभाव-सिद्धिरित्यतस्तत्सिद्धिमुपपादयति- अस्मिन्निति ।। प्रकृष्टादिवाक्यस्य सोऽयमित्यादिवाक्यस्य च स्वरूपमात्रप्रश्नोत्तरत्वेऽपि वक्तुर्विशिष्टार्थविवक्षाङ्गीकारे बाधकाभावादप्रयोजकमेतदित्याशङ्कां विपक्षे बाधकोपदर्शनेन परिहरति- वक्ता चेति ।। न हि कश्चिदिति ।। सिद्धार्थतायाः प्रश्नदूषणत्वस्याऽकरे स्थितत्वादिति भावः । किमर्थः क्रमभङ्ग इति ।। निष्प्रयोजनत्वान्न क्रमभङ्गो युक्त इत्यर्थः । निष्प्रयोजनत्वमसिद्धमित्याशयेन प्रयोजनमुपदर्शयति- उच्यत इति ।। अनुपपत्ति-रिति ।। वाच्यार्थे तात्पर्यानुपपत्तिरित्यर्थः । तदुभयेति ।। तात्पर्यानुपपत्तिपरिहारस्योदाहरण-द्वयविषयतामित्यर्थः । क्रमभङ्गेऽपि उभयविषयत्व१ज्ञानासम्भवान्नैतत्क्रमभङ्गप्रयोजनमिति निष्प्रयोजनत्वतादवस्थ्यमिति शङ्कते- एवमपीति ।।
गोविन्दीया
वक्तुरिति ।। गरमभ्यवहरेत्यादौ शरीरनाशप्रसङ्गात् सिद्धे न तत्र विवक्षाभावेन द्विषदन्नं नाभ्यवहार्यमिति तात्पर्यार्थद्योतकलक्षणा यथाऽक्षिप्ता, ‘सोऽयं देवदत्तः’ इत्यादौ वक्तुर्विशिष्टार्थविवक्षाभावः लक्षणाक्षेपको भविष्यतीत्यर्थः । अनवधेयवचन इति ।। वक्ता अनिर्धारितवचनः प्रसज्येतेत्यर्थः । प्रकृष्ट इति ।। प्रकृष्टादिवाक्यविषयप्रश्नोत्तरानुपपत्तिपरिहार एवायं ग्रन्थः प्रवर्तत इति ज्ञायेतेत्यर्थः । उभयविषयतामिति ।। प्रश्नोत्तरानुपपत्तेः प्रकृष्टादिवाक्यं सोऽयमित्यादिवाक्यं चेत्युभयवाक्यविषयतां ज्ञापयितुं क्रमभङ्ग इत्यर्थः । एवमपीति ।। देवदत्तादि-स्वरूपमात्रपरस्येत्येवमुच्यमानेऽप्यनुपपत्तेः सोऽयमित्येतद्वाक्यविषयतैव ज्ञास्यत इति चेदित्यर्थः । प्रकृष्टादिवाक्येति ।। प्रकृष्टादिवाक्यविषयत्वस्य परसिद्धत्वेन सुज्ञानत्वादित्यर्थः । परेति ।। सोऽयं देवदत्त इत्यत्र परानुक्ता प्रश्नानुपपत्तिः कस्माच्छङ्कनीया परिहारो वा कस्माद्वाच्य इति चेदि-त्यर्थः । न्यायेति ।। न्यायप्राप्तस्य प्रश्नोत्तरानुपपत्तिरूपस्य परिहार्यत्वात् तत्परिहारोऽप्यावश्यक इत्यर्थः ।
नारोपन्तीया
गरमभ्यवहरेति । कुपथ्यशीलं पुत्रादिकं प्रति पित्रादेरिदं वाक्यम् । तत्र यथा, यथाश्रुते वक्तृविवक्षाभावात् कुपथ्यं न कर्तव्यमित्यत्र तात्पर्यं तद्वदत्र ।
जनार्दनभट्टीया
ननु परबुद्धिवत् परविवक्षाभावस्यापि अप्रत्यक्षत्वात् कथं विशिष्टार्थविवक्षाभावनिश्चयः श्रोतुः? इत्यत आह – स चेति ।। दृष्टान्तद्वयेऽपि स्वरूपमात्रप्रश्नोत्तरत्वस्य असिद्धिमाशङ्क्य परि-हरति–अस्मिन्निति ।। स्वरूपमात्रप्रश्नोत्तरत्वहेतोः अप्रयोजकत्वमाशङ्क्य विपक्षे बाधकतर्कमाह-१