अतो मुक्तेभ्योऽप्यन्य एव ..
मुक्तेश्वरभेदतल्लब्धविष्णुगुणपरिपूर्णत्वयोरुपसंहारः
श्रीमज्जयतीर्थटीका
एवमुपपादितं मुक्तेश्वरभेदमुपसंहरन् यदर्थं तदुपपादनं तदप्याह-
मूल
अतो मुक्तेभ्योऽप्यन्य एव समस्तगुणपरिपूर्णो भगवान् विष्णुरिति सिद्धम् ।
विमतो भिन्नः, न मुक्तस्यापि भेदनिवृत्तिः, न मुक्तस्येश्वरैक्यमित्येकवचनं जातिपरमिति सूचयितुं मुक्तेभ्य इत्युक्तम् । एवकारेण भेदाभेदनिवृत्तिः । समस्तगुणा मुक्तनियन्तृत्वादयः ।
श्रीविजयीन्द्रभिक्षु
विपक्षे बाधकतर्कप्रतिपादकतयोत्तरग्रन्थो व्यर्थः । यदि चोपसंहारार्थस्तथाऽपि समस्त-गुणपरिपूर्ण इत्यादि व्यर्थम् । इत्याशङ्क्याऽवतारयति- एवमिति ।। यदर्थमिति ।। यद्यप्यत्यन्तभेदः समर्थितः । तेन नियम्यनियामकभावमात्रसिद्धावपि नेश्वरस्य गुणपरिपूर्णत्वसिद्धिः । तथाऽपि चेतनाचेतनात्मकसकलजगन्नियामकत्वस्यापरिमितशक्तिमत्त्वसर्वज्ञत्वादिकं विनाऽनुपपत्तेः नियामकत्वसिद्धौ गुणपरिपूर्णत्वमपि सिद्ध्यतीति भावः । ननु भगवताऽऽचार्येण विमतो भिन्नो इत्यादिवाक्ये एकवचनं प्रयुज्यास्मिन् वाक्ये बहुवचनं प्रयुक्तम् । तत्कुत इत्यत आह- विमतो भिन्न इत्यादि ।।
श्रीवेदेशतीर्थ
यदर्थमिति ।। यच्छब्देन मुक्तनियन्तृत्वमुच्यते । ननु विमतो भिन्न इत्यादिवाक्ये एकवचनं प्रयुज्यास्मिन् वाक्ये बहुवचनं प्रयुक्तं तत्कुत इत्यत आह- विमत इत्यादि ।। मुक्तनियन्तृत्वादय इत्यादिपदेनाखिलसच्छक्त्यादिपरिग्रहः ।
श्रीराघवेन्द्रतीर्थ
तदुपपादनमिति ।। मुक्तेश्वरभेदोपपादनमित्यर्थः । अत इत्यस्योक्तदिशाऽभेदोपपादक-प्रमाणाभावादित्यर्थः । यद्यपि नियम्यनियामकभावसिद्ध्यर्थमेव भेदस्योपपादनं प्रागुक्तम् । तथापि नियामकत्वं सार्वज्ञादिगुणपूर्णस्य भवतीति समस्तगुणेत्याद्युक्तमिति भावः । अत एव वक्ष्यति- मुक्तनियन्तृत्वादय इति ।। प्रागुक्तवाक्येषु प्रक्रान्तैकवचनविरोधमाशङ्क्य निराह – विमतो भिन्न इति ।। इत्येकवचनमिति ।। इति वाक्यत्रयस्यैकवचनं मुक्तत्वजातिपरमित्यर्थः । यदर्थमिति ।। मुक्तनियन्तृत्वोपपादनार्थमित्यर्थः । तदुपपादनं भेदोपपादनम् । विमतो भिन्न इत्यादिवाक्ये एकवचनं प्रयुक्तं तत्कुत इत्यत आह– विमत इत्यादिना । जातिपरमिति ।। समुदायापेक्षमित्यर्थः । सिद्धान्ते अनुगतजातेरभावादिति ज्ञातव्यम्१। नन्वनेन मुक्तनियन्तृत्वं भगवतः कथमुक्तमित्यत आह– मुक्तनियंतृत्वादय इति । आदिपदेन अखिलसच्छक्तित्वादि-परिग्रहः ।
गोविन्दीया
यदर्थमिति ।। विष्णोः समस्तगुणपरिपूर्णत्वसिद्ध्यर्थमित्यर्थः । इत्येकवचनमिति ।। इति वाक्यत्रयेऽप्येकवचनं जातिपरत्वेनानेकपरमिति सूचयितुं मुक्तेभ्य इति बहुवचनमुक्तमित्यर्थः । एवकारेणेति ।। अन्यो भिन्न एवेत्येवकारेण भेदाभेदनिवृत्तिर्न तु भिन्नाभिन्न इत्यर्थः ।
जनार्दनभट्टीया
मुक्तनियन्तृत्वादय इति ।। ‘नित्यातादृशचिच्चेत्ये’त्यादिना तेषां साधनायैव भेदस्य समर्थितत्वादिति भावः । न भेदमात्रेणेति ।।