असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ..
भगवद्गीतावचनैः प्रपञ्चसत्यतासमर्थनम्
श्रीमज्जयतीर्थटीका
प्रपञ्चानिर्वचनीयताभिधायिनां वाक्यानामुक्तार्थान्तरपरतासमर्थनार्थं तत्सत्यतां भगवद्गीताभिः श्रुतिभिश्च दृढीकरोति-
मूल
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ।।
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।।’२ इत्यादि च गीतासु ।
ते असुराः असत्यत्वादप्रतिष्ठं ज्ञानबाध्यम् । तत एवानीश्वरम् । न च यतो यतो जातमसावसावीश्वर इति वाच्यम् । यतोऽपरस्परसम्भूतम् । एकस्मादेकस्य नोत्पत्तिरिति यावत् । सत्यं न चेत्किमसदेव । परस्परसम्भूतं न चेत्किं नित्यं स्वतो वा जातम् । आद्यस्योत्तरम् । अन्यत् सदसद्भ्यामिति शेषः । द्वितीयस्य कामहैतुकं काम इति तत्कारणमविद्योपलक्ष्यते । अत्र जगदसत्यतावादिनामसुरत्वाद्युक्त्या तत्सत्यताऽवगम्यते ।।
श्रीविजयीन्द्रभिक्षु
नन्वसुरोक्तत्वमात्रेण कथं तदर्थस्यासत्त्वमित्यत आह- आसुरा इति ।।
सम्यग्ज्ञानं तु देवानां मनुष्याणां विमिश्रकम् ।
विपरीतं तु दैत्यानां...............।।
इत्यादिस्मृतेरिति भावः । आहुरित्यत्रैतावता किमुत्तरं जातमित्याकाङ्क्षायामेवमुत्तरं जातमित्यभि-प्रेत्य तच्छब्दं व्याचष्टे- ते असुरा इति ।। असत्यत्वादिति ।। वक्ष्यमाणरीत्या सदसद्विलक्षण-त्वादित्यर्थः । असत्यमिति हेतुगर्भं विशेषणम् । यद्वा सद्विविक्तत्वादित्यर्थः । न चेति ।। ज्ञानबाध्यत्वादनीश्वरत्वसाधने बाध इति शङ्काभिप्रायः । भवेदेवमनीश्वरत्वसाधने बाधः यद्येकस्यान्य-स्मादुत्पत्तौ नियमाकं पश्याम इत्यभिप्रेत्य शङ्कां निराचष्टे- यत इति ।। किमन्यत् इत्यत्र किंशब्दमवतारयति- सत्यं न चेदिति ।। द्वितीयस्येति ।। उत्तरमित्यनुषज्यते । तत्कारण-मिति ।। कामकारणमित्यर्थः । ननु जगदसत्यतावादिनश्चेज्जगदीदृशमाहुस्तर्ह्यस्तु जगदपि तथा । न ह्ययथार्थवादिन इत्यत्र किमपि नियामकमस्तीत्यत आह- अत्रेति ।। असुराणां मिथ्याज्ञानित्वादिति भावः ।
नन्वत्र न जगन्मिथ्यात्ववादिनां निन्दा क्रियते । किन्तु जगदत्यन्तासत्त्ववादिनाम् । तथा हि । असत्त्वमिति जगतोऽत्यन्तासत्त्ववादस्यानुवादः । अप्रतिष्ठम् इति क्षणिकत्ववादस्य अनीश्वरम् इति निरीश्वरत्ववादस्य अपरस्परसम्भूतम् इति स्वभाववादस्य किमन्यत्कामहैतुकम् इति विज्ञान-वादस्य । अत्र पक्षे कामहैतुकशब्देन विज्ञानमुच्यते । स्वार्थे कप्रत्यय इति चेन्न त इत्याहुः इत्यस्य प्रतिविशेषणमावृतिप्रसङ्गात् । किमन्यदित्यस्य वैयर्थ्यापत्तेश्च । असत्यम् इति सत्यभिन्नार्थका-सत्यशब्देन मिथ्यावादस्याप्यनुवादे बाधकाभावाच्च । न चोत्तरत्र वैदिकमतानुवाददर्शनेनेहापि तन्मात्रार्थकत्वमेवाऽश्रयितुं युक्तमिति वाच्यम् । अनीश्वरम् इति निरीश्वरमीमांसकसाङ्ख्य-मतानुवाददर्शनेन तदसिद्धेः । त्वयाऽपि पर्यायेण वेदाप्रामाण्यस्यैवोक्त्या तत्तुल्ययोगक्षेमत्वाच्च ।
वस्तुतस्तु कृत्स्नस्यापि श्लोकस्य मिथ्यामतानुवादत्वमेव युक्तम् ।
‘येऽभिमानेन मन्यन्ते परमेशोऽहमित्यपि ।
मिथ्या जगदिदं सर्वं भ्रमजत्वान्न तिष्ठति ।।
मिथ्यात्वान्नेश्वरोऽस्यास्ति परेभ्यो न च जायते ।
स्वस्मिन्नपि तथाऽन्यस्मिन्नियन्ताऽन्य इतीरिते ।।
प्रद्विषन्त्यसुरास्ते तु सर्वे यान्त्यधरं तमः ।
अयोग्यत्वात्सकामत्वाल्लोभित्वादात्मसमर्पणे ।
तत्ववेदिषु कोपाच्च तमस्तेषां न दुर्लभम् ।।’
इति ब्रह्मवैवर्तवचनानुगुण्यादिति ।
श्रीवेदेशतीर्थ
ते आसुरा इति ।।
‘प्रवृत्तिञ्च निवृत्तिञ्च जना न विदुरासुराः ।’१
इति पूर्वमसुराणां प्रकृतत्वादित्यर्थः । अन्योन्याश्रयभियाऽपरस्परसम्भूतत्वं सर्वैरप्यङ्गीकार्यमित्यत आह- एकस्मादेकस्येति ।। प्रपञ्चस्येच्छाहेतुकत्वानङ्गीकारादाह- काम इतीति ।। नन्वत्र जगदसत्यत्ववादिनां बौद्धानामासुरत्वाद्युच्यते । नास्माकम् । अस्माभिर्जगत्सत्यत्वाङ्गीकारादिति चेन्न । बौद्धानामपि सांवृतसत्यत्वाङ्गीकारस्य वक्ष्यमाणत्वात् । परमार्थतो जगदसत्यत्वस्य त्वन्मतेऽपि साम्यादिति भावः ।
द्वैतद्युमणि
दृढीकरोतीति ।। असत्यत्ववादिनिन्दया जगत्सत्यता दृढीकृता भवतीत्यर्थः । त आसुरा इति ।।
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
इति पूर्वं तेषामेव प्रक्रान्तत्वादिति भावः । तत एव बाध्यत्वादेव । पालनादिना नियामकस्यैवेश्वर-त्वाज्जगतो मिथ्याभूतस्य पालनाभावादनीश्वरत्वमिति भावः । अपरस्परेण सम्भूतमित्यर्थ-स्यानुपयोगाद् बाधितत्वाच्च नञो विशिष्टपदयोगमभिप्रेत्य पर्यवसितमाह- एकस्मादिति ।। सर्वस्य प्रत्ययस्य भ्रान्तित्वे उत्पत्त्यादिप्रतीतेरपि भ्रान्तित्वापत्त्या उत्पत्त्यभाव एव पर्यवसानं तद्वाक्यस्येति भावः । लौकिकैः सदसत्प्रकारयोर्द्वयोरेव ज्ञातत्वादसत्यमित्युक्ते सद्भिन्नत्वस्यैव बुद्ध्यारूढतया तस्यार्थक्रियाशून्यत्वेन कथमेतदुत्पत्तिसहमिति पृच्छति- सत्यं न चेदिति ।। उत्पत्तिप्रतीतेः सर्वथा भ्रान्तित्वं उतान्यजन्यत्वांशे । आद्यमनुपपन्नम् । तर्हि कुत्राप्युत्पत्त्यभावेन तत्स्वरूपस्यैव सर्वथा शशविषाणादिवदसत्त्वे प्रधानाभावादारोपानुपपत्तिः । द्वितीयं तु सर्वथाऽङ्गीकारानर्हम् । व्याहतेः स्फुटत्वादित्याशयेन पृच्छति- परस्परेति ।। आद्यस्येति ।। ‘अन्यदेव हि गाम्भीर्यम्’ इत्यादाविव प्रसिद्धवैलक्षण्यबोधकान्यशब्दप्रयोगमहिम्नैव सदसद्वैलक्षण्यबोधो झडिति भवत्येव । बोधस्तु नान्यपदलक्षणया । सदसतोः पुरःस्फूर्तिकत्वेन तद्वाचकपदयोरेव बुद्धिसन्निहितत्वादित्याशयेनाऽह- सदसद्भ्यामिति ।। द्वितीयस्येति ।। ‘आयुर्वै घृतम्’ इत्यत्र कार्यकारणयोरभेदोपचारस्य दृष्टत्वात् कामपदं तत्कारणाविद्यालक्षकमित्याह- काम इतीति ।। न च लाक्षणिकप्रयोगे बीजाभावः । अविद्ये-त्युक्तौ अनिर्वचनीयोपादानभूता परसिद्धा अनिर्वचनीयाऽविद्या काचिदस्तीति भ्रमः स्यात् । स मा भूदिति तथा लक्षणानुसरणात् । तदनुसरणे तु मन्मते सत्यभूतकामादिहेतुत्वेनाङ्गीकृताविद्याया एव परैर्जगदुपादानत्वानिर्वचनीयत्वादिना भाषितत्वमित्यस्य लाभसम्भवात् ।
श्रीराघवेन्द्रतीर्थ
उक्तार्थान्तरेति ।। १‘अद्भुतत्वादवाच्यम्’ इत्याद्युक्तार्थेत्यर्थः । नात्र सत्यता प्रतीयत इत्यत आह - अत्र जगदित्यादि ।।
गुरुराजीया
ते आसुरा इति ।।
‘प्रवृत्तिञ्च निवृत्तिञ्च जना न विदुरासुराः ।’२
इति तेषामेव प्रकृतत्वादिति भावः । अन्योन्याश्रयापत्त्या परस्परसम्भूतत्वाभावः सर्वैरप्यभ्युप-गन्तव्यः । तत्कथमासुराणामेवेदं विशिष्याभिधानमित्यतोऽभिप्रायमाह- एकस्मादेकस्येति ।। तैः प्रपञ्चस्याविद्याहेतुकत्वोक्तावपि कामहेतुकत्वानुक्तेरसदनुवादोऽयमित्यतः कामपदमविद्यापरत्वेन व्याख्याति- काम इतीति ।। लक्षणाहेतुभूतशक्यसम्बन्धकथनं तत्कारणमिति । कामकारणमि-त्यर्थः । उदाहृतवाक्ये जगत्सत्यताया अनुक्तत्वात् तदुदाहरणानुपपत्तिमाशङ्क्य तदनुक्तावपि तदवगमकत्वात्तदुपपत्तिरित्याशयेनाऽह- अत्रेति ।।
गोविन्दीया
ते असुरा इति ।। मिथ्याज्ञानित्वे हेतुरित्यर्थः । तथा च ते मिथ्याज्ञानिनः त एवासुरा इति भावः । स्वयमिति ।। नष्टाः बुद्धिभ्रंशयुक्ताः । जगतः क्षयकारिणः बुद्धिभ्रंशकारिण इत्यर्थः ।
जनार्दनभट्टीया
‘किमन्यत्काम’ इत्यत्र किंशब्दस्य प्रश्नार्थकत्वमभिप्रेत्य प्रश्नं विवृणोति – सत्यं न चेदिति ।। तत्कारणमिति ।। लक्षणघटकसम्बन्धप्रतिपादनम् । तथा च ‘कामहैतुकम्’ इत्यस्य अविद्याहेतुकमित्यर्थ उक्तो भवति ।