सोऽयं देवदत्त ..

प्रतिवादिमतरीत्या सोऽयं देवदत्त इत्यादिवाक्ये वाच्यार्थानुपपत्त्या स्वरूपमात्रे लक्षणासमर्थनम्

अनित्यदेशकालसम्बन्धित्वस्य सत्त्वात्

श्रीमज्जयतीर्थटीका

ननु कथमत्र लक्षणाऽश्रयणनिमित्तवाच्यार्थानुपपत्त्यभावः । तद्देशकालविशिष्ट-स्यैतद्देशकालवैशिष्ट्यं एतद्देशकालविशिष्टस्य तद्देशकालवैशिष्ट्यं वा विशिष्टद्वयैक्यं वाऽत्र मुख्यार्थो वाच्यः । तत्र न तावदाद्यः । एतद्देशकालवैशिष्ट्यस्य प्रत्यक्षसिद्धत्वेनाबोध्यत्वात् । तद्देशकालविशिष्टस्यैतद्देशकालवैशिष्ट्यबोधने तद्देशकालयोरपीदानीं सत्त्वप्राप्तेश्च । न द्वितीयः । एतद्देशकालयोस्तदानीं सत्त्वप्रसङ्गात् । न तृतीयः । विशेषणभूतदेशकालैक्येन विना विशिष्टैक्या-नुपपत्तेः । विशेषणैक्यस्य च प्रमाणबाधितत्वात् । अतो मुख्यार्थेऽनुपपत्तिदर्शनाद्विशिष्ट-द्वयोपलक्षितमेव देवदत्तस्वरूपमनेन भेदभ्रमव्युदासेन प्रतिपाद्यमिति युक्तमाश्रयितुम् ।

श्रीविजयीन्द्रभिक्षु

वाच्यार्थानुपपत्तीति ।। वाच्यार्थान्वयानुपपत्तीत्यर्थः । मुख्यार्थो वाच्य इति ।। सोऽयं देवदत्त इति वाक्यस्येति भावः । अबोध्यत्वादिति ।। सन्दिग्धविपर्यस्तयोरन्यतरं प्रत्येव शब्दस्यार्थ-वत्त्वादिति भावः । तद्देशकालयोरपीति ।। विशिष्टवृत्तेर्विशेषणवृत्तित्वनियमेनैतद्देशकालविशिष्टत्वं सम्भवतीति भावः । तदानीमिति ।। तदानीमसतस्तद्देशकालविशिष्टवृत्तित्वासम्भवादिति भावः । अनेन सोऽयं देवदत्त इति वाक्येन ।

श्रीवेदेशतीर्थ

अनित्येत्येतद्व्याख्यातुमाह - नन्विति ।। अबोध्यत्वादिति ।। सन्दिग्धविपर्यस्तान्यतरं प्रत्येव शब्दस्यार्थवत्त्वादिति भावः । तद्देशकालयोरिति ।। तद्देशकालादेः सत्त्वं विना देवदत्तस्य तद्देशकालादिविशिष्टत्वं न सम्भवति । विधेयान्वयकाले सत एव विशेषणत्वादिति भावः । एवमेतद्देशकालयोरिति वाक्यमपि योज्यम् । विशिष्टैक्यानुपपत्तेरिति ।। यदा ह्यविरुद्धदण्ड-कुण्डलादिविशेषणभेदेन विशिष्टाभेदस्तदा तदेतद्देशकालरूपविरुद्धविशेषणभेदे सुतरां न विशिष्टाभेद इत्यर्थः । तदुक्तं सङ्क्षेपशारीरके-

अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।

घटते न यदैकता तदा सुतरां तद्विपरीतरूपयोः ।।’१ इति ।

अनेनेति ।। सोऽयं देवदत्त इति वाक्येनेत्यर्थः ।

श्रीराघवेन्द्रतीर्थ

लक्षणाबीजं मुख्यार्थासम्भवमाशङ्कते- नन्विति ।। विशेषणैक्यस्येति ।। तद्देशकाल-सम्बन्धैतद्देशकालसम्बन्धरूपविशेषणयोरैक्यस्येत्यर्थः । भेदभ्रमेति । स इत्युक्तस्यायमित्युक्तस्य चेति योज्यम् ।

गुरुराजीया

तद्देशकालयोरपीति ।। तद्देशकालविशिष्टस्यैतद्देशकालयोरसत्त्वे तस्यैतद्देशकालवैशि-ष्ट्यानुपपत्त्या तदुपपत्त्यर्थं तस्यैतद्देशकालयोः सत्त्वस्यावश्यं वाच्यत्वाद् एतद्देशकालयोस्तत्सत्त्वस्य च तद्देशकालयोरिदानीं सत्त्वं विनाऽनुपपन्नत्वेन तद्देशकालयोरिदानीं सत्त्वापातादित्यर्थः । एतद्देशकालयोरिति ।। एतद्देशकालविशिष्टस्य तद्देशकालयोरसत्त्वे तस्य तद्देशकाल-वैशिष्ट्यानुपपत्त्या तदुपपत्त्यर्थं तस्य तद्देशकालयोः सत्त्वस्यावश्यं वाच्यत्वादेतद्देशकालविशिष्टस्य तद्देशकालसत्त्वस्य चैतद्देशकालयोस्तद्देशकालसत्त्वं विनाऽयोगादेतद्देशकालयोरपि तदा सत्त्वं स्यादित्यर्थः । विशेषणैक्येन विनेति ।। विशिष्टस्य हि विशेषणविशेष्यतत्सम्बन्धात्मकत्वपक्षे विशेषणभेदेन पदार्थान्तरत्वपक्षे विशेष्यभेदेनेव विशेषणभेदेनापि तद्भेदस्याऽवश्यकत्वादिति भावः। अस्तु तर्हि तदेतद्देशकालरूपविशेषणैक्यमपि इत्यत आह- विशेषणैक्यस्येति ।। विशिष्टद्वयेति ।। न च वृत्तित्वेन शक्तिवल्लक्षणाया अपि शब्दमात्रधर्मत्वाद् अशब्दरूपविशिष्टद्वयोपलक्षितत्वं कथं देवदत्तस्वरूपस्येति वाच्यम् । विषयानन्तर्गतत्वे सति तद्व्यवहारजनकस्यैवोपलक्षणत्वेन विषयभूत-गृहैकदेशत्वाभावेन विषयानन्तर्गतस्यैव काकादेस्तद्व्यवहारजनकतया तदुपलक्षणत्ववद्विशिष्टस्य देवदत्तस्वरूपानन्तर्गतस्यैव तद्व्यवहारजनकत्वेन तदुपलक्षणत्वसम्भवादिति भावः । एतच्च ‘ज्ञानलक्ष्यञ्च’ ‘सर्वैर्विशेषणैर्लक्ष्यम्’ इत्येतद्ग्रन्थव्याख्यानावसर आकर एव स्पष्टम् ।

गोविन्दीया

अबोध्यत्वादिति ।। सन्दिग्धं वा विपर्यस्तं वा वस्तु शब्दबोध्यम् । एतद्देशकालवैशिष्ट्यस्य प्रत्यक्षसिद्धत्वेन सन्दिग्धत्वादेरभावाच्छब्दाबोध्यमित्यर्थः । युक्तमिति ।। सोऽयं देवदत्तादिवाक्यं लक्षणामाश्रययितुं युक्तमित्यर्थः ।

जनार्दनभट्टीया

तद्देशकालयोरपीति ।। दण्डिनमानयेत्यत्र दण्डस्येव विधेयान्वयकाले सत एव विशेषणत्वादिति भावः ।

ननु अस्तु विशिष्टद्वयैक्योपपत्तये विशेषणयोरैक्यमित्यत आह – विशेषणैक्यस्य चेति ।। प्रमा-णेति ।। अतीतत्ववर्तमानत्वग्राहिप्रत्यक्षरूपप्रमाणबाधितत्वादित्यर्थः । अतो मुख्यार्थ इति ।। उक्तविधमुख्यार्थेत्यर्थः । ननु देवदत्तस्वरूपप्रतिपादनस्य देवदत्तपदमात्रेणाऽप्युपपत्तेः सोऽयमिति पदद्वयं व्यर्थं स्यादित्यत आह – भेदभ्रमव्युदासेनेति ।। ‘अयं स न वा’ ‘सः अयं न वा’ इति भेदभ्रमव्युदासेनेत्यर्थः।