न हि ज्ञानज्ञेययोरेकाऽकारता ..

आत्मज्ञानस्य आत्मविषयकत्वमेव आत्माकारत्वमिति समर्थनम्

श्रीमज्जयतीर्थटीका

कुतस्तद्विषयत्वमेव तदाकारत्वमिति चेत् । परिशेषात् । तथा हि, तदाकार एवाऽकारो यस्येति वा, तदाकार इवाऽकारो यस्येति वा, स आकारो यस्येति वा तदाकारं विज्ञानमित्यभि-धातव्यम् । प्रकारान्तरासम्भवात् । तत्र तावत्प्रथमद्वितीयपक्षावनुपपन्नावित्याह-

मूल

न हि ज्ञानज्ञेययोरेकाऽकारता ।

सति हि ज्ञानज्ञेययोरेकाऽकारत्वे तदाकार एवाऽकारो यस्येति सम्भवेत् । न चैतदस्ति । अनुपलम्भात् । एकैव सत्ता ज्ञानज्ञेययोराकारोऽस्तीति चेन्न । अनुगतसत्ताया अनङ्गीकारात् । ब्रह्मसत्तयैकाऽकारत्वे च वेदान्तवाक्यजनितविज्ञानमात्माऽकारमेव कुतः ? घटाऽकारमपि तत्स्यात् । नापि परेणाऽत्मनि सत्तानामाऽकारोऽङ्गीक्रियते । निराकारताऽङ्गीकारादिति ।

एवं न हि ज्ञानज्ञेययोरेकाकारता सदृशाकारताऽस्ति    येन तदाकार इवाकारो यस्येत्युप-पद्येत । अत्यन्तसादृश्यस्यानुभवबाधितत्वात् । किञ्चित्सादृश्यस्य प्रागिवातिप्रसञ्जकत्वादिति योज्यम् ।

तृतीयेऽपि पक्षे न तावत्साक्षाज्ज्ञेयं ज्ञानस्याऽकारः सम्भवति । आधाराधेयभावाभावात् । अतः प्रकारान्तरासम्भवे परिशेषाद्विषयतया  व्यावर्तकत्वेन  स आकार इव यस्य तत्तदाकारमिति वक्तव्यम् । तथा च तद्विषयत्वमेव तदाकारत्वं सम्पद्यते । ततश्च वेदान्तवाक्यजनितं विज्ञान-मात्मविषयं न चेत्तदा तदाकारमपि न भवेदिति युक्तमेवेति ।

यदि तर्हि तद्विषयत्वमेव तदाकारत्वम् । अतद्विषयत्वात् तदाकारं नेति व्याप्यव्यापक-योरभेदापत्तिः’ इत्येतदप्यनेन निरस्तम् । न हि तदाकारत्वं तद्विषयत्वमिति पर्यायावेतौ । किं नाम सामान्यविशेषवचनौ । परिशेषसिद्धं तु पर्यवसानमभिप्रेत्य तद्विषयत्वमेव तदाकारत्व-मित्युक्तमिति ।

श्रीविजयीन्द्रभिक्षु

ननु न तदाकारत्वमेव तद्विषयत्वम् । शशविषाणशब्दजनितज्ञाने तद्विषयत्वाभावेऽपि तदाकारत्वदर्शनात् । न च तत्तद्विषयम् । असतः केनापि सम्बन्धाभावेन तत्सम्बन्धरूपविषयत्वा-नुपपत्तेरित्याशयेन शङ्कते- कुतस्तद्विषयत्वमिति ।। असतो निःस्वरूपत्वेन संयोगादेः सम्बन्ध-रूपत्वासम्भवेऽपि ‘असच्छशविषाणम्’ इत्यबाधितविशिष्टप्रतीतिबलेन सिद्धे सम्बन्धे विषयत्व-रूपस्वरूपसम्बन्धस्य विद्यमाने ज्ञान एव कल्पनात् वक्ष्यमाणरीत्या तद्विषयत्वातिरिक्तस्य तदाकारत्वस्य दुर्निरूपत्वाच्च तद्विषयत्वमेव तदाकारत्वमित्यभिप्रेत्य परिहरति- परिशेषादिति ।। आद्येऽपि विषयस्य यावदाकारत्वं, ज्ञानस्य तावदाकारत्वं विवक्षितं यत्किञ्चित्तदाकारत्वं वा । आद्य आह-अनुपलम्भादिति ।। द्वितीयं शङ्कते-एकैवेति ।। अनुगतेति ।। ब्रह्मणि पारमार्थिकी सत्ता । तदितरप्रपञ्चे व्यावहारिकी सत्तेति त्वत्सिद्धान्तादिति भावः । ननु सर्वत्र ब्रह्मसत्ता एकैवेति नोक्तदोष इत्यत आह- ब्रह्मसत्तयेति ।। किञ्च ब्रह्मसत्तयेति कोऽर्थः । ब्रह्मैव सत्तेति, ब्रह्मणः सत्तेति वा । नाऽद्यः । तथा सति तादृशसत्तावत्त्वेन जगतः पारमार्थिकसत्त्वापत्तेः । ब्रह्मणो घटत्वाऽदिवज्जगद्धर्मत्वाऽपाताच्चेत्याद्यं बहिरेव निराकृत्य द्वितीयं निराचष्टे- नापीति ।। निराकारतेति ।। निर्धर्मकतेत्यर्थः । आद्यपक्षदूषणार्थत्वमुपपाद्य द्वितीयपक्षदूषणार्थत्वमुपपादयति- एवमिति ।। एवं योज्यमिति सम्बन्धः । अत्यन्तसादृश्येति ।। आत्मतज्ज्ञानयोरिति शेषः । यद्यपि निराकारताऽङ्गीकारादिति दूषणेनैव द्वितीयपक्षोऽपि दूषितस्तथाऽप्यभ्युच्चयेन दूषणान्तरोक्तिरिति ध्येयम् । तृतीयेऽपीति ।। तदाकारो हि तदाश्रितो धर्मः । न च ज्ञेयं ज्ञानाश्रितम् । अननुभवात् । तथा च विषयतासम्बन्धेन ज्ञेयस्य ज्ञानव्यावर्तकत्वेन तस्य तदाकारत्वं निर्वर्त्यमिति परिशेषात् तदाकारत्वं तद्विषयत्वमेव पर्यवसन्नमित्यर्थः । किमतो यद्येवमत आह- ततश्चेति ।। अनेनेति ।। वक्ष्यमाणेनेत्यर्थः । किं नामेति ।। तद्विषयत्वं सामान्यं तदाकारत्वं तु विशेष इति विवेकः । नन्वेवं ‘तद्विषयत्वमेव तदाकारत्वम्’ इत्याचार्योक्तिः कथमित्यत आह- परिशेषसिद्धं त्विति ।। तथा च सामान्यविशेषयोरभेदोपचारेण तथोक्तमिति भावः ।

श्रीवेदेशतीर्थ

ननु तदाकारत्वमेव न तद्विषयत्वम् । शशविषाणशब्दजनितज्ञाने तद्विषयत्वाभावेऽपि तदाकारत्वदर्शनात् । तदपि सम्बन्धाभावादित्याशङ्कते- कुतस्तद्विषयत्वमिति ।। असतो निःस्वरूपत्वेन विषयत्वरूपसम्बन्धवत्त्वाभावेऽपि ‘असच्छशविषाणम्’ इत्यबाधितविशिष्ट-प्रतीतिबलेन सिद्धे सम्बन्धे विषयत्वरूपसम्बन्धस्य विद्यमाने ज्ञान एव कल्पनाद्वक्ष्यमाणरीत्या तद्विषयत्वातिरिक्तस्य तदाकारत्वस्य दुर्निरूपत्वाच्च तद्विषयत्वमेव तदाकारत्वमित्यभिप्रेत्य परिहरति - परिशेषादिति ।। तदाकार एवेति ।। यथा एतद्घटाकारं घटान्तरमित्यर्थः । तदाकार इवेति ।। यथा गवाकारो गवय इत्यर्थः । स आकार इति ।। यथा घटत्वाकारो घट इत्यर्थः । आद्येऽपि विषयस्य यावानाकारः ज्ञानस्य तावदाकारत्वं विवक्षितम् । यत्किञ्चित्तदाकारत्वं वा । आद्य आह- अनुपलम्भादिति ।। द्वितीयं शङ्कते- एकैवेति ।। द्वितीयपक्षनिराकरणपरतयाऽपि मूलवाक्यं व्याचष्टे- एवमिति ।। एवं योज्यमिति सम्बन्धः । अत्यन्तसादृश्यस्येति ।। आत्मज्ञानयोरिति शेषः । यद्यपि निराकारताङ्गीकारेणैव द्वितीयपक्षोऽप्यनुपपन्नः । तथाऽप्यभ्युच्चयेन दूषणान्तरोक्तिरिति ध्येयम् । स आकार इवेति विषयस्याऽकारसादृश्यमुक्तम् । तन्नात्यन्तसादृश्यम् । आधाराधेय-भावाभावात् । नापि यत्किञ्चित्सादृश्यम् । वेदान्तजन्यज्ञानस्य घटज्ञानत्वापत्तेरित्यत उक्तम्- व्यावर्तकत्वेनेति ।। आधाराऽधेयभावाभावाद्व्यावर्तकत्वमपि कथमित्यत उक्तम्- विषयतयेति ।। यदि तर्हीति ।। तदाकारत्वमित्यतः परं तर्हीत्यस्य सम्बन्धः । अभेदापत्तिरिति ।। प्रतियोगि-भेदाभावेऽभावभेदस्याप्यभावादिति भावः । अनेनेति ।। न हीति मूलवाक्येनेत्यर्थः । न हि ज्ञानज्ञेययोः एकाकारत्वमिति वदतैकाकारत्वं सदृशाकारत्वं च तदाकारत्वशब्दार्थ इति सूचनेन तदाकारत्वस्य सामान्यत्वसूचनादित्यर्थः । किं नाम सामान्यविशेषवचनाविति ।। वृक्षत्वशिंशुपात्वे इव तदाकारत्वं सामान्यं तद्विषयत्वं विशेषः । तदाकारत्वस्य तद्विषयत्वपरित्यागेनोक्तप्रकारेण निर्विषये घटादावपि सत्त्वादित्यर्थः ।

नन्वेवं ‘न च तदाकारम् । अतद्विषयत्वादेव’ इति कथं विशेषाभावेन सामान्याभावसाधनम् । व्यभिचारात् । न हि शिंशुपात्वाभावेन वृक्षत्वाभावसाधनं युक्तमिति चेन्न    यावद्विशेषाभावेन सामान्याभावसाधनात् । अत एवोक्तं प्राक् ‘ततश्च वेदान्तवाक्यजनितं विज्ञानमात्मविषयं न चेत्तदाकारमपि न भवेत्’ इति ।

अत एव च ‘अतद्विषयत्वादेव’ इति हेतुमुक्त्वा ‘तद्विषयत्वमेव हि तदाकारत्वम्’ इत्युपपाद्य ‘कथं तद्विषयत्वमेव तदाकारत्वम् । तदाकारत्वस्य तद्विषयत्वपरित्यागेनापि तदाकार एवाकारो यस्येत्यादिव्युत्पत्त्या निर्विषये घटादावपि सत्त्वात्’ इत्याशङ्कापरिहारपरम् ‘न हि ज्ञान-ज्ञेययोरेकाकारता’ इति मूलं प्रसक्तप्रतिषेधपरतया प्रवृत्तमिति स्वरसम् । तदेतदुक्तम् ‘अनेन निरस्तम्’ इति ।

केचित्तु- अनेनेति ।। वक्ष्यमाणेनेत्यर्थः । किं नामेति ।। तद्विषयत्वं सामान्यं तदाकारत्वं विशेष इति विवेक इत्याहुः । परिशेषसिद्धमिति ।। तथा च तद्विषयत्वमेव तदाकारत्वमित्यभेदोक्ति-रौपचारिकीति भावः ।

द्वैतद्युमणि

तावदिति ।। तृतीयपक्षस्य सर्वथा दूष्यत्वाभावादिवार्थमन्तर्भाव्य तस्यैवाङ्गीकारात् तावदित्युक्तम् । ननु मूलकारैस्तृतीयपक्षदूषणस्योत्तरत्राकृतत्वात् कथं तावदित्युक्तिरिति चेन्न । ज्ञानमेययोरिति निर्धारणसप्तमी । ज्ञेयस्येति योग्यतया सम्बन्धः । एकपदं मुख्यार्थकम् । तथा च ज्ञानज्ञेययोर्मध्ये ज्ञेयस्य ज्ञानमुख्याकारता नेत्यभिप्रायकतयोत्तरत्र १तृतीयपक्षेत्यादिना स्वयं धृत्वा व्याख्यास्यमानत्वेन तदभिप्रायकतया तावदित्युक्तिसम्भवात् ।

अनेनेति ।। अवयवव्युत्पत्तिलभ्यार्थान्तरनिराकरणपूर्वकं तत्र परिशेषकथनद्वारा तदाकारत्वपद-जन्यप्रमितिविषयत्वरूपसामान्यसूचनेनेत्यर्थः । तथा च तद्विषयकत्वाभावात् तदाकारणत्वजन्य-प्रमितिविषयत्वाभाववान् इति हेतुहेतुमद्भावो बोध्य इति भावः ।

श्रीराघवेन्द्रतीर्थ

स एवाऽकारो यस्येति । आत्मैवाऽकारो यस्येत्यर्थः। द्वितीयपक्षनिरासकतयाऽपि तदेव वाक्यं योजयति- एवं न हीत्यादि ।। किञ्चित्सादृश्येति । सत्त्वादिना सादृश्यस्य वेदान्तजन्यं ज्ञानं घटाऽकारमपि स्यादिति प्रागुक्तदिशा अतिप्रसञ्जकत्वादित्यर्थः । आधाराऽधेयेति । आकार-स्याऽकार्येवाऽधारः । आत्मन एवाऽकारत्वे ज्ञानस्याऽधारता आत्मनश्चाऽधेयता स्यात् । न चायमाधाराऽधेयभावो युक्तः । आत्मनोऽपरिच्छिन्नतया अनाधेयत्वाज्ज्ञानस्य परिच्छिन्नतया तदनाधारत्वाच्चेति भावः । अनेन निरस्तमिति । विषयतया व्यावर्तकत्वेन आकार इवेति कथनेनेत्यर्थः । तद्व्यनक्ति- न हीति ।। सामान्येति । विषयत्वं सामान्यमाकारत्वं विशेष इत्यर्थः। तर्हि मूलविरोध इत्यत आह- परिशेषेति ।। अनुभवेति । आन्तरत्वबाह्यत्वरूपवैलक्षण्यस्यैवानुभवसिद्धत्वादिति भावः । प्रागिवेति ।। सत्तयैकाकारत्वेत्युक्तरीत्येत्यर्थः सामान्येति ।। तदाकारत्वस्य निर्विषये शशविषाणशब्दाज्जायमाने शशविषाणादिज्ञानेऽपि सत्त्वेन तदाकारत्वं सामान्यमित्यर्थः ।  परिशेषेति ।। तदाकारत्वशब्दार्थ-स्योक्तरीत्या प्रकारत्रयेणासम्भवादित्यर्थः ।

गुरुराजीया

तद्विषयत्वाभावेऽपि शशविषाणादिज्ञानस्य तदाकारत्वदर्शनात् कथं तद्विषयत्वस्यैव तदाकारत्ववर्णनमिति भावेन शङ्कते- कुत इति ।। परिशेषयति- परिशेषादिति ।। आद्यपक्षमात्र-निरासकत्वाद्वाक्यस्य कथं पक्षद्वयनिरासकत्वेन व्यापार इत्यत एकशब्दस्यैकार्थत्वे२ प्रथमपक्ष-निरासकत्ववत् सदृशार्थकत्वे द्वितीयपक्षनिरासकत्वस्यापि सम्भवाद्युक्तः पक्षद्वयनिरासकत्वेनास्य व्यापार इत्यभिप्रेत्य तत्सिद्ध्यर्थं तथापि योजयति-एवमिति ।। १अत्यन्तसादृश्यस्येति ।। ज्ञानज्ञेयमात्रनिष्ठधर्मेण सादृश्यस्येत्यर्थः । घटज्ञानत्वस्य घटे घटत्वस्य च घटज्ञाने असत्त्वेना-त्यन्तसादृश्यस्यानुभवबाधितत्वादिति भावः । यद्यपि निराकारत्वयुक्त्या अयं पक्षः प्रागेव दूषितः। तथाऽपि साकारत्वमङ्गीकृत्य पृथग्दूषणाभिधानमेतदिति द्रष्टव्यम् । प्रागिवेति ।। वेदान्तजनित-विज्ञानस्य आत्मनेव घटेनापि सत्तया सदृशत्वेनाऽत्मज्ञानत्ववद्घटज्ञानत्वस्यापि प्रसङ्गादित्यर्थः । स आकार इवेति विषयस्याऽकारसादृश्यमुक्तम् । तन्नात्यन्तम् ।  अनुभवबाधितत्वात् ।  नापि सत्तया । पूर्ववदतिप्रसङ्गित्वादित्यत उक्तम्- व्यावर्तकत्वेनेति ।। आधाराधेयभावाभावेन कथं व्यावर्तकत्वमपि तस्येत्यत उक्तम्- विषयतयेति ।। यदि तर्हीति ।। यदि तद्विषयत्वमेव तदाकारत्वं तर्हीति सम्बन्धः । अनेनेति ।। तदाकारत्वस्य परिशेषेण २तद्विषयत्वे पर्यवसानवर्णनेनेत्यर्थः ।

केचित्तु ‘किन्नाम । सामान्यविशेषवचनौ’ इत्यत्र वृक्षशिंशुपाशब्दाविवेति शेषः । वृक्षत्ववत् तदाकारत्वस्य सामान्यतायाः शिंशुपात्ववत् तद्विषयत्वस्य विशेषतायाः सत्त्वादित्यर्थः । एवं तर्हि ‘न च तदाकारम् । अतद्विषयत्वादेव’ इति कथं विशेषाभावेन सामान्याभावसाधनम् । व्यभि-चारात् । न हि शिंशुपात्वाभावेन वृक्षत्वाभावसाधनं युक्तमिति चेन्न । यावद्विशेषाभावेन सामान्याभावसाधनात् । अत एवोक्तं प्राक् ‘ततश्च वेदान्तजनितविज्ञानम् आत्माविषयञ्चेत् तदाकारमपि न भवेत्’ इति । अत एव च ‘अतद्विषयत्वादेव’ इति हेतुमुक्त्वा ‘तद्विषयत्वमेव हि तदाकारत्वम्’ इत्युपपाद्य कथं तद्विषयत्वमेव तदाकारत्वम् । तदाकारत्वस्य तद्विषयत्वपरित्यागेनापि ‘तदाकार एवाऽकारो यस्य’ इत्यादिव्युत्पत्त्या निर्विषये घटादावपि सत्त्वाद् इत्याशङ्कापरिहारपरं ‘न हि ज्ञानज्ञेययोरेकाऽकारता’ इति मूलं प्रसक्तप्रतिषेधपरतया प्रवृत्तमित्याहुः ।

गोविन्दीया

परिशेषादिति ।। परिशेषप्रमाणादित्यर्थः । स इति ।। स आत्मा आत्माकारः यस्येति वा, विज्ञानं तदाकारम् इत्यभिधातव्यमित्यर्थः । प्रकारान्तरेति ।। प्रकारत्रयाद् अन्यस्य प्रकार-स्यासम्भवादित्यर्थः । एकैवेति ।। ज्ञानज्ञेययोः एकैव सत्ता नाम आकारे सतीति चेदित्यर्थः । अनुगतेति ।। सत्तारूपजातेः अनुगतत्वानङ्गीकारादित्यर्थः । अङ्गीकृत्य दूषणमाह- सत्तयेति ।। वेदान्तजनितविज्ञानं पटगतसत्तयाऽपि एकाकारत्वेन पटाकारमपि स्यादित्यर्थः । दूषणान्तरमाह- नापीति ।। किञ्चिदिति ।। सत्ताया एव किञ्चित्सादृश्यस्य पूर्ववदतिप्रसङ्गजनकत्वादित्यर्थः । तथा हि-  पटगतसत्तयाऽपि किञ्चित् सदृशत्वाद् वेदान्तजनितविज्ञानं पटाकारमपि स्यादिति । अत इति ।। प्रकारत्रयस्य दुष्टत्वात् प्रकारान्तरासम्भवे सति परिशेषाद् आत्मनो विषयतया व्यावर्तक-त्वेनेतरज्ञानापेक्षया अस्य ज्ञानस्य भेदकत्वेन स आत्मा आकार इव यस्य तत् तदाकारमिति वक्तव्यमित्यर्थः । उपसंहरति- ततश्चेति ।। यदीति ।। यदि तद्विषयत्वमेव तदाकारत्वं तर्हि भावधर्मयोरेकत्वेन अतद्विषयत्वात् तदाकारं तेनेति अभावरूपधर्मयोरप्येकत्वेन व्याप्यव्यापकभावो न स्यादिति । एतदपि अनेन हि ज्ञानज्ञेययोरेकाकारतेति वाक्येन निरस्तम् । तथा हि । तत्र वाक्ये एकाकारतेति भावप्रधाननिर्देशेन एकाकारतायाः सामान्यधर्मत्वं सूचितम् । तथा च एकाकारत्वमेव तदाकारत्वम्, तस्यापि सामान्यधर्मत्वेन व्यापकत्वम् । तद्विषयत्वस्य विशेषधर्मत्वेन व्याप्यत्वम् अतो न दोष इत्यर्थः । इममेवार्थमुपपादयति- न हीति ।। परिशेषेति ।। परिशेषप्रमाणेन सिद्धं तद्विषयत्वे पर्यवसानं स आकार इव यस्य तत् तदाकारं तस्य भावस्तदाकारत्वमभिप्रेत्य तद्विषयत्वमेव हि तदाकारत्वमित्यभेदोक्तमित्यर्थः ।

जनार्दनभट्टीया

तदाकार एवेति ।। तत्र विकल्पद्वयेऽपि आकारशब्दः किमवयवसंस्थानवाचकः उत धर्ममात्रपरः? इति विकल्पं हृदि निधाय आद्यस्य निरवयवाकाशज्ञाने असम्भवात्१, तमुपेक्ष्य द्वितीयेऽपि किमेकासाधारणधर्मत्वं एकाकारत्वम् उत एकसाधारणधर्मवत्वमिति द्विधा विकल्प्य तद्दूषणपरतया ‘न हि’ इति मूलं योजयति– सति हीति ।। एकाकारत्व इति ।। एकसाधारणधर्मवत्त्वे इत्यर्थः । अनुपलम्भादिति ।। ज्ञाननिष्ठज्ञानत्वादेः विषये विषयनिष्ठघटत्वादेः ज्ञाने च अनुपलम्भादिति भावः। साधारणधर्मवत्त्वमेकाकारत्वम् इति द्वितीयं शङ्कते – एकैवेति ।। अननुगतस्वरूपसत्तायाः भेदवादिभिः अपि अङ्गीकारात् ‘अनुगता’ इत्युक्तम् ।

निराकारताङ्गीकारात् ।। निर्धर्मकत्वाङ्गीकारादित्यर्थः । ‘तदाकार एव’ इति द्वितीयविकल्प२ निराकरणपरतया तदेव वाक्यं योजयति – एवमिति ।। सदृशाकारतेति ।। एकशब्दस्य सादृश्येऽपि प्रयोगादिति भावः । असाधारणसाधारणविकल्पौ अत्रापि आवर्तयति– अत्यन्तेति ।। असाधारण-धर्माभिव्यङ्ग्यसादृश्यस्येत्यर्थः । साक्षादिति ।। ज्ञानमाश्रित्येत्यर्थः ।

ननु तदाकारत्वतद्विषयत्वशब्दयोः साधारणासाधारणधर्मवाचित्वे तद्विषयत्वमेव तदाकारत्व-मित्यैक्याभिधायिमूलानुपपत्तिरित्यत आह – परिशेषेति ।।