न च बाध्यं जगदित्यत्र किञ्चिन्मानम्..

मूले जगत्पदग्रहणकृत्यम्

न च बाध्यं जगदित्यत्र किञ्चिन्मानम्

श्रीमज्जयतीर्थटीका

ननु ज्ञाननिवर्त्यत्वमस्माकं शुक्तिरजतादेरपि नास्ति । यथोक्तम्- ‘न हि नाशोऽसतो भवेत्’ इति    अतः किं जगद्ग्रहणेन । मैवम् । न हि ज्ञाननिवर्त्यत्वं नाम ज्ञानेन विनाशः परस्याभिमतः । तेन ‘अधिष्ठानयाथात्म्यज्ञानेनाविद्यायां विलीनायां तदुपादानकं रजतं स्वयमेव निवर्तते’ इत्यङ्गीकृतत्वात् । किं नाम । प्रतिपन्नोपाधौ निषेधप्रतियोगित्वम् । न च तच्छुक्तिरजतादौ नास्तीति शक्यते वक्तुम् । नात्र रजतमभूदिति प्रतिषेधस्य प्रमितत्वात् । ततः सार्थकं जगद्ग्रहणम् ।

शुक्तिरजताद्येवार्थापत्त्या यदि सदसद्विलक्षणतया सिषाधयिषितम् । तदैतद्दूषणं न घटत इति चेत् । मा घटिष्ट । प्रागुक्तदूषणेनार्थापत्तेर्दूषितत्वात् ।

श्रीविजयीन्द्रभिक्षु

ननु ‘न च बाध्यं जगदित्यत्र किञ्चिन्मानम्’ इति वाक्ये जगद्ग्रहणं व्यर्थम् । अत्यन्तासतः शुक्तिरजतादेरस्माभिर्ज्ञाननिवर्त्यत्वानभ्युपगमेन तद्दृष्टान्तेन वियदादेरनिर्वचनीयत्वसाधनायोगेन ‘न च बाध्यं शुक्तिरजतमित्यत्र किञ्चिन्मानम्’ इत्येव वाक्यविन्यासौचित्यादिति शिष्यः पृच्छति- ननु ज्ञाननिवर्त्यत्वमिति ।। न हीति ।। परेण ज्ञानाज्ञानयोरेव विरोधाभ्युपगमेन जगद्रूपोपादेय-प्रपञ्चस्य ज्ञाननिवर्त्यत्वानङ्गीकारादिति भावः । किन्नामेति ।।

तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः ।

अविद्या सह कार्येण नाऽसीदस्ति भविष्यति ।।’

इति परोक्तेरिति भावः । निषेधप्रतियोगित्वमेवोपपादयति- नात्रेति ।। तदा दूषणमिति ।। शुक्ति-रजतादावुक्तरीत्योक्तबाध्यत्वस्य सत्त्वात्कल्पकसत्त्वेन तदभावप्रयुक्तसद्वैलक्षण्यासिद्धिरूप-मित्यर्थः । प्रागुक्तेति ।। असत्त्वेऽपि प्रतीत्युपपत्त्या असद्वैलक्षण्यासिद्धिरिति प्रागुक्तेत्यर्थः ।

श्रीवेदेशतीर्थननु तदङ्गीकारबलेनाप्यज्ञानस्य तदुपादानकस्य वाऽधिष्ठानयाथात्म्यज्ञानविनाश्यत्व-मेवावगम्यत इति पृच्छति- किं नामेति ।। पराभिप्रायकथनेनोत्तरयति- प्रतिपन्नेति ।।

तत्त्वमस्यादिवाक्यार्थसम्यग्धीजन्ममात्रतः ।

अविद्या सह कार्येण नाऽसीदस्ति भविष्यति ।।

इति तद्वचनादिति भावः । न घटत इति ।। तत्रोक्तरीत्या बाध्यत्वसत्त्वेन तदभावप्रयुक्त-सद्वैलक्षण्यासिद्धिरूपमिदं दूषणमित्यर्थः । प्रागुक्तेति ।। रजतस्यात्यन्तासत्त्वेनोपपत्तेः इत्युक्तान्यथैवोपपत्तिरूपदूषणेनेत्यर्थः ।

श्रीराघवेन्द्रतीर्थ

ज्ञाननिवर्त्यत्वं ज्ञाननाश्यत्वमिति मत्वा शङ्कते शिष्यः- नन्विति ।। यथोक्तमिति ।। ‘कश्चात्र बाध उद्दिष्टो न हि नाशः’ इति पृथगधिकरणानुव्याख्याने इति योज्यम् । अभिमत इत्यस्य किन्नामेत्यादिनाऽन्वयः । अनभिमतत्वोपपादनम्- तेनेत्यादि ।। अविद्यायामिति ।। शुक्त्यव-च्छिन्नचैतन्याऽवरकाविद्यायामित्यर्थः । प्रतिपन्नोपाधाविति ।। उपाधित्वेनाधिष्ठानत्वेन प्रतिपन्ने ज्ञाते शुक्तिकादौ यो निषेधस्तत्प्रतियोगित्वेनेत्यर्थः । अर्थापत्त्येति ।। प्रागुक्तख्यातिबाधान्यथाऽ-नुपपत्तिरूपार्थापत्त्येत्यर्थः । एतद्दूषणमिति ।। निषेधप्रतियोगित्वरूपज्ञाननिवर्त्यत्वलक्षणबाध्यत्वे मानं नेति दूषणमित्यर्थः । ‘नात्र रजतमभूत्’ इति प्रतिषेधप्रमितेरुक्तत्वादिति भावः । प्रागुक्तेति ।। असति अपरोक्षप्रतीतेरप्युपपादिततया ‘असच्चेन्न प्रतीयेत’ इति व्याप्तिभङ्गव्याहत्यादि-दूषणेनेत्यर्थः ।

द्वैतद्युमणि

परोक्तलक्षणवाक्यस्थनिवर्त्यपदस्य ध्वंसप्रतियोग्यर्थकत्वाभिमानिनः शङ्कामुद्भाव्य निरस्यति-नन्वित्यादिना ।। यथोक्तमिति ।। अनुव्याख्याने श्रुतिपाद इत्यर्थः । जगद्ग्रहणेनेति ।। जगत्पदस्य सत्यजगत एवोपस्थापकत्वेनासत्यस्य रूप्यादेरनुपस्थापनात् ‘तत्र बाध्यत्वं नास्ति’ इत्युक्तौ ‘शुक्तिरजतादौ तद्वर्तते’ इति व्यञ्जनया लभ्यते । विशेषनिषेधस्य शेषविध्यनुज्ञानरूप-त्वात् । तच्चायुक्तम् । ‘मिथ्याशब्दोऽनिर्वचनीयम्’ इत्यारभ्य प्रक्रान्तस्य शुक्तिरजतस्या-ग्रहणान्न्यूनत्वं चेति भावः । शिष्यः शङ्कते । नन्विति ।। शुक्तिरजतादेरपीति ।। तस्यास्मन्मतेऽसत्त्वेन जगदन्तः-पातित्वाभावादिति भावः । ज्ञानेन विनाशः ज्ञानजन्यध्वंसप्रतियोगित्वम् ।

गुरुराजीया

शिष्यः शङ्कते- नन्विति ।। ननु पराङ्गीकारबलेनाप्यज्ञानस्य तदुपादानकस्य च अधिष्ठानयाथात्म्यज्ञाननिवर्त्यत्वमेवावगम्यत इति पृच्छति- किन्नामेति ।। पराभिप्रायकथनेनोत्त-रयति- प्रतिपन्नेति ।।

तत्त्वमस्यादिवाक्यार्थसम्यग्धीजन्ममात्रतः ।

अविद्या सह कार्येण नाऽसीदस्ति भविष्यति ।।’

इति वचनादिति भावः । न घटत इति ।। तत्रोक्तरीत्या बाध्यत्वेन तदभावप्रयुक्तसद्वैलक्षण्या-सिद्धिरूपमिदं दूषणमित्यर्थः । प्रागुक्तेति ।। रजतस्यात्यन्तासत्त्वेनैवोपपत्तेरित्युक्तान्यथैवोप-पत्तिरूपदूषणेनेत्यर्थः ।

गोविन्दीया

दूषणान्तरमाह- यथेति ।। तस्य बाध्यत्वस्य वियदादावभावेन हेतोरसिद्ध्या कस्याप्यनुपपत्त्या तस्य वियदादेः सदसद्विलक्षणत्वप्रतिपत्तिः स्यादित्यर्थः । तेनेति ।। अधिष्ठान-याथात्म्यज्ञानेन अधिष्ठानयथास्वरूपज्ञानेनेत्यर्थः । नात्रेति ।। रजतं नाभूत् इति निषेधस्य प्रमितत्वात् तत्प्रतियोगित्वमपि प्रमितमित्यर्थः । जगन्नाभूत् इत्यप्रमितत्वात् जगतः तत्प्रति-योगित्वमपि अप्रमितमिति भावः । तदेति ।। इदं दूषणं हेतोरसिद्धदूषणमित्यर्थः । प्रागुक्तेति ।। असत्त्वेनैवोपपत्तेरिति ।। अन्यथोपपत्तिरूपप्रागुक्तदूषणेनार्थापत्तेर्दूषितत्वादित्यर्थः ।

नारोपन्तीया

प्रतिपन्नोपाधाविति । एवं प्रागुक्तज्ञाननिवर्त्यत्वान्तर्गतनिवृत्तिशब्दार्थो न ध्वंसः । किन्नाम नास्तिताप्रमितिरेवाभिप्रेता । तथा चोभयवादिसिद्धं ज्ञाननिवर्त्यत्वं शुक्तिरजतादावस्त्येव । अधिष्ठानयाथात्म्यज्ञानजन्यनास्तिताप्रमितिवषयत्वस्यैव ज्ञाननिवर्त्यत्वशब्दार्थतया फलितत्वा-दिति भावः ।

जनार्दनभट्टीया

न हि असतः शशविषाणादेः केनापि निवृत्तिरिति सूचयति – सार्थकमिति ।। शुक्तिरजतादिव्यावृत्तेरेव प्रयोजनत्वादिति भावः । १तदेतद्दूषणमिति ।। अस्य मूलवाक्यस्य व्यावहारिक एव बाध्यत्वनिराकरणपरत्वादिति भावः । प्रागुक्तेति ।। व्याप्त्यभावान्यथोपपत्यन्यथैवोपपत्तिरूप-दूषणेनेत्यर्थः ।