मय्यनन्तगुणेऽनन्ते..

ब्रह्मनिर्विशेषत्ववादस्य युक्तिविरोधोपपादनम्

मय्यनन्तगुणेऽनन्ते

श्रीमज्जयतीर्थटीका

उपपत्तिविरुद्धञ्च श्रुतीनामखण्डब्रह्मनिष्ठत्वम् । तथा हि । अखण्डार्थनिष्ठत्वं नाम निर्भेदार्थनिष्ठत्वं निर्विशेषार्थनिष्ठत्वं वा । आद्ये सगुणत्वाविरोधः    भेदाभावेऽपि विशेषबलेनैव तदुपपत्तेः । न द्वितीयः । तथा सत्येकार्थत्वेन श्रौतपदजातस्य पर्यायतया सहप्रयोगाभावप्रसङ्गात् । अतः सगुणमेव ब्रह्म श्रुत्यभिप्रेतमवगम्यते ।

श्रीविजयीन्द्रभिक्षु

न केवलमखण्डार्थत्वे साधकाभावः । अपि तु बाधकञ्चास्तीत्याह- उपपत्तीति ।। श्रुतीनां ज्ञेयनिष्ठश्रुतीनाम् । सगुणत्वं हि धर्मवत्त्वम् । तच्च धर्मधर्मिणोर्भेदनियतत्वेन भेदाभावे कथमुपपद्यत इत्याशङ्क्याऽह- भेदाभावेऽपीति ।। विशेषबलेनैवेति ।। विशेषस्य भेदकार्यकारित्वेन भेदप्रतिनिधि-त्वेनैव धर्मिग्राहकमानेन सिद्धत्वादिति भावः । एतच्चोपलक्षणम् । यथाकथञ्चिन्निर्भेदार्थनिष्ठत्वं सगुणब्रह्मनिष्ठवेदान्तवाक्ये व्यापकम् । वस्तुतो निर्भेदार्थनिष्ठत्वञ्चाखण्डार्थत्वेन त्वत्सिद्धे प्रकृष्ट-प्रकाशादिलक्षणवाक्येऽव्यापकमित्यपि दूषणं द्रष्टव्यम् । एकार्थत्वेनेति ।। अन्यूनानतिरिक्तार्थ-त्वेनेत्यर्थः । न चार्थवादवाक्यगतपदानां लक्षणया प्राशस्त्यरूपैकार्थनिष्ठानामपि सहप्रयोगवद् वेदान्तवाक्यगतपदानामपि चिन्मात्रपराणामपि सहप्रयोगः सम्भवतीति वाच्यं दृष्टान्तासम्प्रतिपत्तेः । अर्थवादपदेष्वप्येकस्यैव प्राशस्त्यपरत्वाभ्युपगमात् । न च विनिगमनाविरहः । प्रथमोपस्थितत्वादेरेव विनिगमकत्वात् । ‘किञ्चिदेव पदं स्तौति’ इति तन्त्रवार्तिकोक्तेश्च । न च पदान्तरस्याध्ययन-विध्यापादितपुरुषार्थपर्यवसायित्वभङ्गप्रसङ्गः । तस्य स्तुत्युपयुक्तगुणसमर्पकत्वेन तदभङ्गोपपत्तेरिति ।

श्रीवेदेशतीर्थ

न केवलमखण्डार्थत्वे साधकाभावाच्छ्रुतीनां तत्परत्वाभावः । अपि तु बाधकसद्भा-वाच्चेत्याह- उपपत्तिविरुद्धमित्यादिना ।। इदञ्च बाधकप्रदर्शनं मूले साधकाभावप्रदर्शनमुप-लक्षणपरमिति भावेन कृतमित्यवधेयम् । भेदसामान्याभावे धर्मधर्मिभेदस्याप्यसम्भवात्कथं सगुणत्वमुपपद्यत इत्यत आह- भेदाभावेऽपीति ।। विशेषबलेनैवेति ।। विशेषस्य भेदप्रतिनिधित्वेन तत्कार्यकारितया धर्मिग्राहकप्रमाणसिद्धत्वादिति भावः । उपलक्षणञ्चैतत् । भेदाभावविशिष्टत्व-रूपस्य तदुपलक्षितत्वरूपस्य वा निर्भेदत्वस्य शब्दबोध्यत्वेऽभिप्रेते निर्घटं भूतलमित्यादि-वत्सखण्डार्थत्वापत्तिः । स्वरूपसत्त्वमात्रेऽभिप्रेते च सखण्डार्थानां सगुणवाक्यानामपि वस्तुगत्या निर्भेदब्रह्मनिष्ठत्वेनाखण्डार्थत्वापत्तिः । प्रकृष्टादिवाक्येष्वव्याप्तिश्चेत्यपि दूषणं द्रष्टव्यम् । एकार्थत्वेनेति ।। अन्यूनानतिरिक्तार्थत्वेनेत्यर्थः । पर्यायत्वे इष्टापत्तिरित्याशङ्कापरिहारायाऽह- सहेति ।।

द्वैतद्युमणि

उपपत्तीति ।। वक्ष्यमाणबाधकविरुद्धमित्यर्थः । निर्भेदार्थेति ।। स्वगतगुणक्रियादिप्रति-योगिकभेदरहितार्थत्वमित्यर्थः । पररीत्या विकल्पकोटिं दर्शयति- निर्विशेषेति ।। निर्धमेकेत्यर्थः । विशेषेति ।। तस्य भेदप्रतिनिधित्वादित्यर्थः । पर्यायतयेति ।। ब्रह्मातिरिक्तस्य सत्यज्ञानादिशब्द-मुख्यार्थत्वाभावाद् ब्रह्मण एव मुख्यार्थत्वे वक्तव्ये तत्र यदि शब्दानां शुद्धस्वरूपमात्रबोधकत्वं तदा शब्दानामन्यूनानतिरिक्तविषयबोधजनकत्वप्राप्त्या पर्यायत्वं प्राप्तमेवेति हृदयम् । सहप्रयोगेति ।। एकवस्तुविषयकैकज्ञानेच्छया युगपत्प्रयोगानुपपत्तिरित्यर्थः ।

श्रीराघवेन्द्रतीर्थ

 निर्भेदेति  ।।  १स्वीयगुणकर्मादिभिरिति योज्यम् । विशेषेति ।। भेदप्रतिनिधि-रूपविशेषबलेन सगुणत्वोपपत्तेरित्यर्थः । पर्यायतयेति ।। क्रमेण प्रयोज्यतयेत्यर्थः । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘विज्ञानमानन्दं ब्रह्म’ इत्यादौ सत्यपदबोधितस्यैव स्वरूपस्य ज्ञानादिपदैर्बोध-नेनैकार्थकत्वहेतुना क्रमेण प्रयोगार्हतया सत्यं ज्ञानमिति सहप्रयोगो न स्यादित्यर्थः ।

१. स्वकीय....- क.

निर्विशेषार्थनिष्ठत्वमिति ।। विशेषो धर्मः । तथाच निर्धर्मकार्थनिष्ठत्वं ब्रह्मप्रातिपदिक-मात्रनिष्ठत्वं  तत्स्वरूपमात्रप्रतिपादकत्वमिति यावत्    यथोक्तम्- ‘यद्वा तत्प्रातिपदिकार्थता’ इति । तदुपपादयति- भेदाभावेऽपीति ।। गुणादिभिस्सह भेदाभावेन निर्भेदार्थनिष्ठत्वेऽपि विशेषबलेनैव सगुणत्वोपपत्तेरित्यर्थः  । सहप्रयोगेति ।। सत्यं ज्ञानमित्यादिसहप्रयोगेत्यर्थः । क्रमप्रयोज्यत्वमेव हि पर्यायत्वमिति भावः ।

गुरुराजीया

एवं साधकाभावेन श्रुतीनामखण्डार्थनिष्ठत्वं निराकृत्य बाधकसद्भावेनापि निराकरोति- उपपत्तिविरुद्धञ्चेति ।। निर्भेदत्वे ब्रह्मणो धर्मधर्मिभेदस्याप्यभावापत्त्या कथं ब्रह्मणः सगुणत्वमित्यत आह- विशेषबलेनेति ।। विशेषस्य भेदप्रतिनिधित्वेन भेदकार्यकारितया धर्मिग्राहकप्रमाणसिद्ध-त्वादिति भावः । उपलक्षणञ्चैतत् । भेदाभावविशिष्टत्वरूपस्य तदुपलक्षितत्वस्य वा निर्भेदत्वस्य शब्दबोध्यत्वेऽभिप्रेते ‘निर्घटं भूतलम्’ इत्यादिवत् सखण्डार्थत्वापत्तिः । स्वरूपसत्त्वमात्रे चाभिप्रेते सखण्डार्थानां सगुणवाक्यानामपि वस्तुगत्या निर्भेदब्रह्मनिष्ठत्वेनाखण्डार्थत्वापत्तिः । प्रकृष्टादि-वाक्यानां निर्भेदनिष्ठत्वाभावेनाव्याप्तिश्चेत्यपि द्रष्टव्यम् । एकार्थत्वेनेति ।। अन्यूनानति-रिक्तार्थकत्वेनेत्यर्थः । अस्तु पर्यायत्वमपीतीष्टापत्तिं परिहरति- सहप्रयोगेति ।। क्रमेण प्रयोज्यत्व-स्यैव तल्लक्षणत्वेन घटकलशादिशब्दवद्वाक्यभेदेनैव प्रयोज्यत्वापत्त्या एकस्मिन् वाक्ये सहप्रयोगा-भावप्रसङ्गादिति भावः ।

गोविन्दीया

आद्ये इति ।। भेदरहितार्थप्रतिपादकत्वे विशेषबलेनैव भेदोपपत्त्या भेदघटितसगुणत्वेना-विरोध इत्यर्थः । तथा सतीति ।। निर्विशेषार्थनिष्ठत्वे निर्विशेषाभावरूपसमानार्थप्रतिपादक-एकार्थत्वेन श्रौतपदजातस्य पर्यायत्वे प्रयासः प्रयोगाभावप्रसङ्ग इत्यर्थः ।।

अत इति ।। उभयार्थनिष्ठत्वेनाप्यनुपपत्तेरित्यर्थः ।

जनार्दनभट्टीया

सखण्डार्थानां सगुणवाक्यानाम् अपि वस्तुतो निर्भेदब्रह्मनिष्ठतया१ अखण्डार्थता स्यादिति दूषणे सत्येव दूषणान्तरमाह – तथा सतीति ।। निर्विशेषार्थनिष्ठत्वे सत्यज्ञानादिश्रौतपदानाम् अपर्यायत्वापादक सत्यज्ञानत्वादिप्रवृत्तिनिमित्तभेदाभावेन पौनरुक्त्यापत्त्या सहप्रयोगो न स्यादिति भावः ।