न हि ज्ञानज्ञेययोरेकाऽकारता..
ज्ञानकर्मत्वविषयत्वयोरविशेषसमर्थनम्
न हि ज्ञानज्ञेययोरेकाऽकारता
श्रीमज्जयतीर्थटीका
नन्वात्मनो दृक्कर्मत्वाभावे वेदान्तवाक्यजनितविज्ञानस्याऽत्माकारत्वं नोपपद्यत इति प्रतिज्ञाय ‘अतत्कर्मत्वादेव’ इति हेत्वभिधानं ‘तत्कर्मत्वमेव हि तदाकारत्वम्’ इत्युपपादनं चोचितम् । ‘अतद्विषयत्वादेव’ इत्यादि तु केन सङ्गच्छते । मैवम् । शशविषाणशब्दात्तदाकारं ज्ञानमुपजायत इति तावत्साक्षिसिद्धम् । न तु तत्सकर्मकम् । तथा वेदान्तवाक्यजनितं विज्ञान-मनात्मकर्मकमप्यात्माकारं किं न स्यादित्येतदाशङ्कानिवृत्तये ज्ञानं प्रति कर्मत्वविषयत्वयोर्विशेषा-भावसूचनाय कर्मोपक्रमेण विषयव्यवहारस्य सार्थकत्वात् ।
तथा हि, शशविषाणशब्दादुपजायमानं ज्ञानं सविषयं निर्विषयं वा । निर्विषयत्वे ज्ञानमेव न स्यात् घटवत् । सविषयत्वे कथमकर्मकं स्यात् । विषयस्यैव कर्मत्वात् ।
अथ कथं शशविषाणस्य सकलसामर्थ्यविकलस्य कर्मत्वमिति चेत् विषयत्वमपि कथम् । न विषयत्वं नाम वस्तुसामर्थ्यम् । किं नाम करणसामर्थ्याद्यदुल्लेखि ज्ञानमुपजायते स विषय इत्युच्यत इति चेत्, अथ ज्ञानं प्रति कर्मत्वमपि किमधिकं पश्यसि । जनकत्वमिति चेन्न । ज्ञानं प्रत्यर्थस्य क्वापि जनकताऽसम्मतेः । अपरोक्षज्ञानेऽपि कर्मणो न ज्ञानोत्पत्तौ व्यापारः । केवलं करणसन्निकर्षनिष्पत्तावेव तत्सत्तोपयुज्यते । यत्र तु शाब्दादौ ज्ञाने विनाऽपि विषयसत्त्वेन करणसन्निकर्षोत्पत्तिस्तत्रासतोऽपि कर्मत्वे किमनुपपन्नम् ।
ननु कर्तुरन्यत्वे सति क्रियाजन्यफलाश्रयत्वं कर्मत्वम् । यथा गतिजन्यसंयोगाश्रयत्वं ग्रामस्य । न च शशविषाणादीनां ज्ञानजन्यफलाश्रयत्वमिति कथं कर्मतेति चेन्न । तत्रापि ज्ञानेन शाब्दव्यव-हारजननात् । साक्षात्तदाश्रितं फलं नास्तीति चेत् । एवं तर्हि ज्ञानकर्ममात्रे तदभावेनाव्यापकं कर्मलक्षणं स्यात् । ज्ञाततायाश्चान्यत्र निराकृतत्वात् ।
एतेन ‘आत्मनि प्रकाशरूपे ज्ञानजन्यप्रकाशोदयासम्भवात् आत्मनो दृक्कर्मत्वं विना तज्ज्ञानत्वं न स्याद् इत्याद्यतिप्रसङ्गो विपर्ययापर्यवसायी’ इत्येतदपि निरस्तम् ।
किञ्च ज्ञानजन्यफलाश्रयत्वं चेज्ज्ञानकर्मत्वं तदा दृश्यत्वहेतुः प्रतिवादिनोऽसिद्धः स्यात् । ज्ञातताङ्गीकारिभिरपि नित्यानुमेयेषु तदनङ्गीकाराद् भागासिद्धः स्यादिति ।
श्रीविजयीन्द्रभिक्षु
उचितमिति ।। उपक्रान्तशब्देनैव व्यवहारस्य झटित्यर्थोपस्थापकत्वेन प्रतिपत्तिलाघवा-दिति भावः । अनात्मकर्मकमिति ।। आत्मकर्मकत्वरहितमपीत्यर्थः । ज्ञानं प्रति कर्मत्वविषयत्व-योरविशेषज्ञापनाय शशविषाणादिशब्दजन्यज्ञानस्य सकर्मकत्वं तावत्साधयति- तथा हीति ।। विषयस्यैवेति ।। ज्ञानविषयस्यैव ज्ञानकर्मत्वादिति भावः । शक्तिमत्कारकमिति भावेन शङ्कते- अथ कथमिति ।। विषयत्वमपीति ।। वस्तुसामर्थ्यविशेषरूपविषयत्वस्यापि निःस्वरूपे तस्मिन्नसम्भवादिति भावः । अथेति ।। ज्ञानसामर्थ्याद्यदुल्लेखि ज्ञानं जायते तदेव कर्म । अन्यस्य ज्ञानकर्मणो दुर्वचत्वादिति भावः । जनकत्वमिति ।। कारकातिरिक्तत्वे सति ज्ञानजनकत्वमित्यर्थः। ज्ञानजनकत्वमित्यत्र किं ज्ञानत्वाच्छिन्नज्ञानजनकत्वं विवक्षितम् अपरोक्षज्ञानजनकत्वं वा । नाऽद्य इत्याह- ज्ञानं प्रतीति ।। अर्यत इति व्युत्पत्त्या अर्थशब्दो ज्ञेयवस्तुविषयः । तस्य क्वापि कस्मिन्नपि ज्ञाने व्यभिचारेण जनकत्वायोगादिति भावः । न द्वितीय इत्याह- अपरोक्षज्ञानेऽपीति ।। विषयसत्त्वस्थलीयापरोक्षज्ञानेऽपीत्यर्थः । कर्मण इति ।। ‘इदं साक्षात्करोमि’ इति कर्मत्वेना-नुभवसिद्धस्येत्यर्थः । ज्ञानेति ।। विद्यमानविषयापरोक्षज्ञानेत्यर्थः । व्यापारः सामग्रीशरीर-प्रविष्टत्वरूपः । क्व तर्हि प्रमाणसिद्धतदन्वयव्यतिरेकोपयोग इत्यत आह- केवलमिति ।।
ननु स्वतन्त्रान्वयव्यतिरेकदर्शनात् कर्मणोऽपि हेतुत्वं दुर्वारम् । अन्यथा इन्द्रियस्यापि तन्न स्यात् । अविशेषात् । इत्यत आह- यत्र त्विति ।। सति करणसन्निकर्षे विषयसत्त्वं विनाऽपि ज्ञानव्यतिरेकादर्शनेन विषयस्य न हेतुत्वमित्यर्थः । तथा च ज्ञानादिक्रियां प्रति अर्थस्य कर्मत्वेनैव जनकत्वं वाच्यम् । कर्मत्वञ्च जनकत्वाभावेऽप्यनुमितिशाब्दधीविषयस्य दृष्टमिति क्वचिद्विषय-सत्त्वेऽपि व्यभिचारेण न तस्य जनकत्वमभ्युपगमार्हम् । यदि च विद्यमानविषयप्रत्यक्षत्वावच्छेदेन विषयस्य ज्ञानजनकत्वं तदा विद्यमानविषयकानुमितित्वाद्यवच्छेदेनैव सामान्यरूपतया लघुभूत-विद्यमानविषयकज्ञानत्वावच्छेदेन वा विषयस्य जनकतापत्तिरिति भावः । यद्वा करणसन्निकर्ष-निष्पादकत्वेन जनकत्वेऽपि करणवत्कर्मणोऽपि जनकत्वं किं न स्यादित्यत आह- यत्र त्विति ।। विषयं विनाऽपि करणसन्निकर्षनिष्पत्त्या ज्ञानोत्पत्तिस्तत्रैव व्यभिचारान्न विषयस्य करणतुल्य-योगक्षेमतेत्यर्थः ।
ननु विनाऽपि विषयसत्त्वं करणसन्निकर्षोत्पत्तिरिति कथमुच्यते । कथं वा शब्दादिरूपकरणस्थले सन्निकर्षापेक्षेति चेत् न हि करणसन्निकर्षो विषयसत्त्वव्याप्यः । सामान्यादेरतीतानागतविषय-प्रत्यासत्तिरूपत्वाभ्युपगमात् । न च शब्दादिकमसन्निकृष्टकरणम् । घटशब्दादिना पटादेरपि बोधप्रसङ्गात् । न च शक्तिव्याप्त्यादिकमेवातिप्रसङ्गभञ्जकमिति वाच्यम् । तस्यैव सन्निकर्ष-शब्दार्थत्वोपगमादिति ।
शशविषाणादीनां ज्ञानकर्मत्वं नास्तीति वक्तुं कर्मसामान्यलक्षणं शङ्कते- नन्विति ।। मामहं जानामीति कर्तुरपि कर्मत्वानुभवात् तत्राव्याप्तिरिति दूषणे सत्येव दूषणान्तरमाह- तत्रापीति ।। ननु तादात्म्यसम्बन्धेन क्रियाजन्यफलशालित्वं कर्मत्वम् । न चासता कस्यचित्तादात्म्यं सम्भ-वति । तस्याप्यसत्त्वापत्तेरित्याशयेन शङ्कते- साक्षादिति ।। एवं तर्हीति ।। शब्दाभिलपन-रूपज्ञानजन्यफलस्य विषयेण सहावस्थानाभावेन ज्ञानकर्ममात्रे उक्तलक्षणाभावेनाव्याप्तिः स्यादित्यर्थः ।
ननु ज्ञानजन्यफलं न व्यवहारः । किं तु प्राकट्यापरपर्यायज्ञाततैव । तस्या विषयेण साक्षात्सम्बन्ध एवास्तीति नाव्याप्तिः । न च ज्ञाततायां मानाभावः । ‘ज्ञातो घटः’ इत्याद्यनुभवस्य एतस्यैवेतज्ज्ञानविषयत्वं नान्यस्येति नियमान्यथानुपपत्तेश्च मानत्वादित्यत आह- ज्ञातताया-श्चेति ।। ‘ज्ञातो घटः’ इत्याद्यनुभवेन ज्ञाततासिद्धौ ‘इष्टो घटः’ इत्याद्यनुभवेनेष्टतादेरपि सिद्धिप्रसङ्गेन अतीतादौ ज्ञातताऽभावेऽपि तद्भानस्य वस्तुस्वभावादेव नियतविषयत्वस्योपपत्त्या चेत्यन्यत्र पद्धत्यादौ निराकृतत्वादित्यर्थः ।
यद्यपि भाट्टाभिमतज्ञातता परैरपि नाङ्गीक्रियते तथाऽपि तदङ्गीकारेऽपि दूषणमिदमिति ज्ञात-व्यम् । तथा च ज्ञानकर्मत्वं तद्विषयत्वान्नातिरिच्यते । यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते तत्त्वमेव तद्विषयत्वमिति सिद्धं शशविषाणादिशब्दजन्यज्ञानस्यापि सकर्मकत्वमिति भावः । एतेनेति ।। ज्ञानकर्मत्वस्य ज्ञानविषयत्वव्यतिरेकेण दुर्निरूपत्वेनेत्यर्थः । आत्मनीति ।। प्रकाशरूपत्वा-दात्मनस्तत्र ज्ञानजन्यत्वाभिमतज्ञाततापरनामकप्रकाशोदयासम्भवादित्यर्थः ।
अयमाशयः । न हि घटादौ ज्ञातता कुलधर्मतयाऽङ्गीक्रियते । किं तु ज्ञानस्य तदीयता-सिद्ध्यर्थमेव । प्रकाशरूपे चाऽत्मनि स्वप्रकाशत्वं स्वतःसिद्धमिति न तत्र ज्ञाततोदयाङ्गीकारो युक्त इति ।
आत्मन इति ।। आत्मनो यदि दृक्कर्मत्वं न स्यत्तदा वेदान्तजनितविज्ञानमात्मज्ञानं न स्यात् । अस्ति च तस्याऽत्मज्ञानत्वम् । तस्मादस्त्येवाऽत्मनो दृक्कर्मत्वमिति विपर्यये पर्यवसाना-सम्भवेनाऽभासोऽयं तर्क इत्यर्थः । प्रतिवादिन इति ।। भट्टान्यभेदवादिन इत्यर्थः । तदनङ्गीकारा-दिति ।। नित्यानुमेयेषु प्राकट्याननुभवादिति भावः ।
श्रीवेदेशतीर्थ
उचितमिति ।। उपक्रान्तशब्देनैव व्यवहारस्य झटित्यर्थोपस्थापकत्वेन प्रतिपत्ति-लाघवादिति भावः । अनात्मकर्मकमपीति ।। आत्मकर्मकत्वरहितमपीत्यर्थः । ज्ञानं प्रति कर्मत्वविषयत्वयोर्विशेषाभावसूचनेऽपि कथमुक्तशङ्कानिवृत्तिरित्यत आह- तथा हीति ।। ज्ञानं प्रति कर्मत्वविषयत्वयोरविशेषज्ञापनाय शशविषाणादिशब्दजन्यज्ञानस्य सकर्मकत्वं साधयति- तथा हीति ।। इत्यप्याहुः । जनकत्वमिति ।। कर्तृकारकाद्यन्यत्वे सति ज्ञानजनकत्वमित्यर्थः । ज्ञान-जनकत्वमित्यत्र किं ज्ञानत्वावच्छिन्नजनकत्वं विवक्षितम् अपरोक्षज्ञानजनकत्वं वा । नाऽद्य इत्याह- ज्ञानं प्रतीति ।। क्वापि कस्मिन्नपि ज्ञाने । व्यभिचारेण जनकत्वासम्भवादिति भावः । न द्वितीय इत्याह- अपरोक्षज्ञानेऽपीति ।। यद्यप्यपरोक्षज्ञाने विषयस्य नियतपूर्ववृत्तित्वमस्त्येव तथाऽपि नानन्यथासिद्धिः । करणसन्निकर्षनिष्पत्तावेवान्यथासिद्धत्वादित्यर्थः ।
न च वर्तमानविषयकजन्यप्रत्यक्षत्वावच्छेदेनाव्यभिचारादनन्यथासिद्धेश्च कर्मणोऽपि हेतुत्वम् । अन्यथा कर्मसन्निकर्षनिष्पादकत्वेन करणस्याप्यन्यथासिद्धत्वेनाजनकत्वं स्यादिति वाच्यम् । वर्तमानविषयकानुमितित्वावच्छेदेनापि कर्मणो हेतुत्वापत्तेः । सामान्यरूपतया लघुभूतविद्यमान-विषयकज्ञानत्वावच्छेदेनापि जनकतापत्तेश्च । तत्र विषयस्य व्याप्त्यादिलक्षणसन्निकर्ष-निष्पादकत्वेनान्यथासिद्धत्वेऽत्रापि तथाऽस्तु । क्रियायाः करणजन्यत्वनियमेन व्यापारवतश्च करणत्वेन सन्निकर्षजनकस्यापि चक्षुरादेर्ज्ञानहेतुत्वं युक्तमिति न करणसमानयोगक्षेमताऽपि विषयस्य युक्तेति भावः ।
ननु चक्षुरादेः करणस्य करणत्वसिद्ध्यर्थं कर्मसन्निकर्षरूपव्यापारजननद्वारा क्रियाजनकत्ववत् कर्मणोऽपि कर्मत्वसिद्ध्यर्थं १करणसन्निकर्षरूपव्यापरजननद्वारा क्रियाजनकत्वमस्तु । अन्यथा करणत्ववत्कर्मत्वमपि न स्यादित्यत आह- यत्र त्विति ।। न हि करणत्वमिव कर्मत्वमपि व्यापारवत्त्वम् । अतीतादिविषयकशाब्दादिज्ञानकर्मण्यव्याप्तेरिति भावः । उपलक्षणमेतत् । गमनक्रियाकर्मणि ग्रामेऽप्यव्याप्तिर्द्रष्टव्या ।
केचित्तु ‘करणसन्निकर्षजनकत्वेऽपि करणवत्कर्मणोऽपि जनकत्वं किं न स्यादित्यत आह- यत्र त्विति ।। विषयं विनाऽपि यत्र करणसन्निकर्षनिष्पत्त्या ज्ञानोत्पत्तिस्तत्रैव व्यभिचारान्न विषयस्य करणतुल्ययोगक्षेमतेत्यर्थः । ननु विनाऽपि विषयसत्त्वं सन्निकर्षोत्पत्तिरिति कथमुच्यते । कथं वा शब्दादिरूपकरणस्थले सन्निकर्षापेक्षेति चेन्न । न हि सन्निकर्षो विषयसत्त्वव्याप्यः । सामान्यादे-रतीतादिविषयप्रत्यासत्तित्वाभ्युपगमात् । न वा शब्दादिकमसन्निकृष्टकरणम् । घटशब्दादिना पटादेरपि बोधप्रसङ्गात् । न च शक्तिव्याप्यत्वादिकमेवातिप्रसङ्गभञ्जकमिति वाच्यम् । तस्यैव सन्निकर्षशब्दार्थत्वोपगमात्’ इत्याहुः । नन्वेवं पद्धत्यादिविरोधः । तत्र ‘प्रमातृप्रमेयव्युदासार्थं साधनग्रहणम्’ इत्युक्त्या प्रमेयस्यापि ज्ञानजनकत्वाभ्युपगमादिति चेन्न । तस्य पररीत्याऽङ्गी-कारवादत्वात् ।
कर्तुरन्यत्वे सतीति ।। कर्तर्यतिव्याप्तिवारणायेति ज्ञातव्यम् । ननु संयोगादिना साक्षात्सम्बन्धेन क्रियाजन्यफलशालित्वं विवक्षितम् । न चासता सह व्यवहाररूपफलस्य संयोगादिराश्रयताप्रयोजकः सम्भवतीत्याशयेन शङ्कते- साक्षात्तदाश्रितमिति ।। एवं तर्हीति ।। व्यवहाररूपस्य ज्ञानजन्य-फलस्य विषयेण सह संयोगाद्यसम्भवेन ज्ञानकर्ममात्रेऽपि उक्तलक्षणाभावादव्याप्तिः स्यादित्यर्थः । एतेनेति ।। दृग्जन्यफलाश्रयत्वस्य कर्मलक्षणत्वासम्भवेनेत्यर्थः । आत्मनीति ।। प्रकाश-रूपत्वादात्मनस्तत्र ज्ञानजन्यत्वाभिमतज्ञाततापरनामकप्रकाशोदयासम्भवादित्यत्यर्थः । आत्मन इति ।। आत्मनो यदि दृक्कर्मत्वं न स्यात्तदा वेदान्तवाक्यजनितविज्ञानस्याऽत्मज्ञानत्वं न स्यात् । अस्ति च तस्याऽत्मज्ञानत्वम् । तस्मादस्त्येवाऽत्मनो दृक्कर्मत्वमिति विपर्ययपर्यवसाना-सम्भवेनाऽभासोऽयं तर्क इत्यर्थः ।
द्वैतद्युमणि
असम्मतेरिति ।। १विषयत्वेनेत्यादिः । तेन ‘चैत्र ईश्वरं वा स्वात्मानं वा जानाति’ इत्यादौ विषयस्य कारणत्वेऽपि न क्षतिः । तादृशकारणत्वमेव सार्वत्रिकत्वाद् वक्तव्यमिति भावः । तथा च यत् क्रियास्थले यादृशजनकत्वं तु प्रसिद्ध्यति अधिकरणादिकं च प्रसिद्ध्यति तत्र तावदन्य-तमत्वमेव तत्क्रियाकारकत्वम् । क्रियाजनकत्वं तु प्रायिकम् । अन्यथा ‘ईश्वरो घटं जानाति, अस्ति’ इत्यादिस्थले तदीयज्ञानसत्त्वयोर्नित्यत्वेन घटेश्वरयोः कर्मकर्तृकारकत्वानुपपत्तिरिति भावः । ननु विषयस्य प्रत्यक्षान्वयिव्यतिरेकित्वेन तत्कारणात्वावधृत्या कारणत्वग्रहः सामान्यत एव विषयत्वेन जन्यज्ञानत्वेन जायते । यद्विशेषयोरिति न्यायादित्यतः तमेवादौ वस्तुस्थितिमनुरुद्ध्य दूषयति- अपरोक्षज्ञानेऽपीति ।। ज्ञानोत्पत्तौ व्यापार इति ।। न ज्ञानोपधायककोटौ निवेश इत्यर्थः । सन्निकर्षनिवेशस्यावश्यकत्वेनास्यान्यथासिद्धत्वादिति भावः ।
ननु तर्हीन्द्रियाणामप्यन्यथासिद्ध्यापत्तिरुक्तरीत्या । यदि च स्वतन्त्रान्वयव्यतिरेकशालि-त्वेनावधृतकारणताकत्वात् तन्निर्वाहायैव सन्निकर्षकारणत्वस्य कल्पनेन न तस्यान्यथासिद्धिरुप-जीव्यविरोधादिति ब्रूते विषयस्यापि तथात्वमेवास्तु । वैषम्यस्योपपादयितुमाक्यत्वादिति चेन्न । ज्ञानत्वेन प्रत्यक्षजातीयानुमित्यादिस्थले विषयं विनाऽप्यतीतादिविषयकानुमित्याद्युत्पत्तिदर्शनात् कारणीभूतलिङ्गपरामर्शरूपव्यापारादिकं विना तदुत्पत्त्यदर्शनात् करणव्यापारादीनामवश्यक्लृप्तत्वेन तज्जातीयप्रत्यक्षेऽपि तथैव कार्यसम्भवे तत्सहभूतविषयस्यान्यथासिद्धताया एवोचितत्वात् । अन्यथा चाक्षुषप्रत्यक्षमात्रेऽनेकद्रव्यत्वस्य (द्रव्य)समवेतद्रव्यसमवेतत्वरूपस्य कारणत्वापत्तेः । गौरवात् तस्य काणत्वानङ्गीकारेऽत्रापि तथास्तु ।
श्रीराघवेन्द्रतीर्थ
कर्मत्वविषयत्वयोः भेदं मत्वा शङ्कते- नन्वात्मन इति ।। परोक्तमनुवदति-शशविषाणेति ।। अविशेषमुपपादयति- तथा हीत्यादिना ।। अथ ज्ञानमित्यत्राथेति निपातो विषयत्वादित्यर्थे । चक्षुरादेरपि घटादेरिव सत्तोपयुज्यतामिति शङ्कानिरासाय धर्मिग्राहकमानसिद्धं जनकत्वमिति भावेन करणसन्निकर्षेत्युक्तम् । कर्तर्यनतिव्याप्तये कर्तुरन्यत्वे सतीति ।। तदभावेनेति ।। संयोगादिरूपस्य साक्षात् तदाश्रितफलस्याभावेनेत्यर्थः । ज्ञाततैव तादृशं फलं सार्वत्रिकमित्यत आह- ज्ञातताया इति ।। ‘न प्रमासाधनं प्रमाणम्’ इत्यादिना प्रमाणलक्षणादौ निराकृतत्वादित्यर्थः । एतेनेति ।। ज्ञातताया निरस्तत्वेनेत्यर्थः । विषयत्वमेव कर्मत्वमिति कथनेनेत्यर्थः । ज्ञानजन्यप्रकाशेति ।। ज्ञाततारूपप्रकाशोदयासम्भवादित्यर्थः । विपर्ययापर्यवसायीति । ‘यद्यात्मनो न दृक्कर्मत्वं तर्हि वेदान्तजन्यज्ञानस्याऽत्मज्ञानत्वं न स्यात् । अस्ति तत् । अतो दृक्कर्माऽत्मा’ इति विपर्यय-पर्यवसानस्य बाधान्न विपर्यये पर्यवसायीत्येतन्निरस्तम् । ज्ञाततापर्यायस्य प्रकाशस्य निरस्तत्वेन न तदाश्रयत्वं कर्मत्वम् । किं तु विषयत्वमेव कर्मत्वम् । तदात्मनोऽपि सम्भवतीत्युपपादनेन बाधाभावाद्विपर्ययपर्यवसानं युक्तमिति भावः । असिद्ध इति ।। दृग्जन्यज्ञाततारूपफलाश्रयत्वं दृश्यत्वमिति वाच्यत्वाज्ज्ञाततायाः प्रतिवादिनोऽसम्मतेरिति भावः । वस्तुसामर्थ्यं वस्तुनो ज्ञानजनकत्वरूपं यदुल्लेखियत्संबद्धतया व्यवह्रियमाणम् । ज्ञानजनकत्वं कर्मत्वमित्युक्ते प्रष्टव्यम् । ज्ञानत्वावच्छिन्नज्ञानजनकत्वं विवक्षितम् अपरोक्षज्ञान-जनकत्वं वा । नाऽद्यः । अतीतानागतज्ञाने विषयाभावेऽपि ज्ञानस्य जायमानत्वेन व्यभिचारादर्थस्य ज्ञानं प्रति जनकत्वासम्मतेः यदाकदाचित्सत्त्वस्य ज्ञानसमयेऽनुपयुक्तत्वात् । न द्वितीयः । यद्यप्यपरोक्षज्ञाने विषयस्य नियतपूर्ववर्तित्वमस्ति तथाऽपि नान्यथासिद्धिः । इन्द्रियरूपकरण-सन्निकर्षनिष्पत्तावेव तत्सत्ताया१ उपयुक्तत्वेनान्यथासिद्धतया ज्ञानजनकत्वाभावात् । ननु इन्द्रिय-रूपकरणस्यापि विषयसन्निकर्षजनकत्वेनान्यथासिद्धत्वान्न ज्ञानजनकत्वमिति चेत् । न । या क्रिया सा सकरणिकेति नियमेन व्यापारवतश्च करणत्वेन सन्निकर्षजनकस्यापि चक्षुरादीन्द्रियस्य ज्ञानजनकत्वावश्यंभावात् । या क्रिया सा सकर्मिकेति नियमस्य शयनासनादिक्रियायां व्यभिचारेणाभावान्न कर्मणो ज्ञानजनकत्वम् । ननु चक्षुरादेःकरणस्यावान्तरव्यापारवत्त्वरूप-करणत्वसिद्ध्यर्थं कर्मसन्निकर्षरूपव्यापारजननद्वारा ज्ञानरूपक्रियाजनकत्ववत् कर्मणोऽपि कर्मत्व-सिद्ध्यर्थं करणसन्निकर्षरूपव्यापारजननद्वारा ज्ञानरूपक्रियाजनकत्वं किं न स्यादिति चेन्न । यत्र अतीतादिविषयके शाब्दानुमित्यादिरूपे ज्ञाने विनाऽपि विषयसत्त्वेनार्थप्रतिपादनादिरूप-सन्निकर्षोत्पत्तिस्तत्रासतोऽपि कर्मत्वे काऽनुपपत्तिः । तथा च करणत्वमिव कर्मत्वमपि न व्यापारवत्त्वं अतीतादिविषयकशाब्दादिज्ञानकर्मण्यव्याप्तेः । तथा च ज्ञानमात्रे २अर्थस्य जनकत्वाभावेन शशविषाणविषयकशाब्दज्ञाने शशविषाणस्य सत्त्वाभावेऽपि विषयत्वाङ्गीकारे न कोऽपि दोषः । ननु शाब्दादिरूपकरणस्थले कथं सन्निकर्षापेक्षा । तथात्वे च विषयसत्त्वं विना कथं सन्निकर्षोत्पत्ति-रिति चेत् । उच्यते । न हि सन्निकर्षो विषयसत्त्वव्याप्तः सामान्यादेरतीतादिविषयप्रत्यासत्तित्वस्य परैरङ्गीकारात् । न हि शब्दादिकमसन्निकृष्टकरणं घटशब्दादिना पटादेरपि बोधजननप्रङ्गात् । न च शक्तिव्याप्त्यादिकमेव तत्रातिप्रसङ्गभञ्जकमिति वाच्यम् । तस्यैव सन्निकर्षशब्दार्थत्वादि-त्यालोचनीयम् । तदेतत्सर्वमभिप्रेत्याऽह- ज्ञानं प्रत्यर्थस्येत्यादिना ।। ननु ज्ञानजन्यज्ञाततैव साक्षात्तदाश्रितं फलमस्तीति चेत्तत्राऽह - ज्ञातताया इति ।। एतेनेति ।। यद्यात्मनो दृक्कर्मत्वं न स्यात्तदा वेदान्तजनितज्ञानस्य तज्ज्ञानत्वं न स्यात् । वर्तते च तज्ज्ञानत्वं तस्मादात्मनो दृक्कर्मत्वमस्तीति भवद्भिर्विपर्ययपर्यवसानं कर्तुं न शक्यते । दृग्जन्यफलाश्रयत्वरूपदृक्कर्मत्व-स्याऽत्मन्यसम्भवात् । १आत्मनि प्रकाशरूपे ज्ञाततारूपप्रकाशाश्रयत्वायोगादिति यत्परेणोक्तं तदप्येतेन निरस्तम् । ज्ञातताया अन्यत्र निराकृतत्वेन दृग्जन्यज्ञाततारूपफलाश्रयत्वस्य कर्मलक्षणत्वाभावादित्यर्थः । तत्कर्मज्ञानप्रतिबन्धकस्यैव तदज्ञानत्वादित्यर्थ इति भावः ।
गुरुराजीया
उचितमिति ।। उपक्रान्तशब्देनैव व्यवहारस्य झटित्यर्थोपस्थापकत्वेन प्रतिपत्ति-लाघवादिति भावः । अनात्मकर्मकमपीति ।। आत्मकर्मकत्वरहितमपीत्यर्थः । ननु शशविषाण-ज्ञानस्य निर्विषयत्वेऽपि ज्ञानत्वे बाधकाभावादप्रयोजकतेत्यतः तथा सति निर्विषयस्य घटस्यापि ज्ञानत्वप्रसङ्ग इति विपक्षे बाधकस्य सत्त्वान्न तदित्याशयेनाऽह- घटवदिति ।। विषयत्वं नामेति ।।
अयमर्थः । न विषयत्वं घटत्वादिवद् विषयहेतुकृतम् । नापि पाकजरूपादिवद् २बुद्धि-भिन्नाऽगन्तुकस्वहेतुकृतम् । किन्तु बुद्धिहेतुकृतमेवेति । तर्हि कर्मत्वमप्यनिवार्यमेवेत्याह- कर्मत्वमपीति ।। तस्यापि बौद्धत्वेन वस्तुसामर्थ्यकृतत्वाभावादित्यर्थः । अत एवोक्तमन्यथा-ख्यातिवादीयसुधायां ‘बौद्धमेवाभावाश्रयत्वम् । न वस्तुकृतम् । अतो न विरोधः’ इत्यादिना ।
विषयत्वातिरिक्तं कर्मत्वं शङ्कते- जनकत्वमिति चेदिति ।। तत्किं ज्ञानत्वावच्छेदेनाभिमतं जन्यज्ञानत्वावच्छेदेन वा लौकिकापरोक्षज्ञानत्वावच्छेदेन वा । न प्रथमद्वितीयावित्याह- ज्ञानं प्रत्यर्थस्य जनकताऽसम्प्रतिपत्तेरिति ।। ज्ञानत्वावच्छेदेन विषयस्य जनकत्वे ऐश्वरज्ञानस्य नित्यत्वेनार्थजन्यत्वाभावादर्थविषयत्वाभावप्रसङ्गात् । प्रत्यभिज्ञानस्य च तत्तांशजन्यत्वाभावेन तद्विषयकत्वाभावप्रसङ्गादिति भावः । तदुक्तं सुधायाम् ‘तथा सतीश्वरज्ञानस्य नित्यस्यार्थो विषयो न स्यात् । प्रत्यभिज्ञानस्य च तदंशो न विषयो भवेत्’ इति । तृतीयमनूद्य दूषयति- अपरोक्षज्ञानेऽपीति ।। लौकिकापरोक्षज्ञानेऽपीत्यर्थः । तत्र विषयस्य नियतपूर्ववृत्तिकत्वेऽपि करणसन्निकर्षनिष्पादकत्वेनानन्यथासिद्धत्वविशिष्टनियतपूर्ववृत्तित्वाभावान्न कारणत्वमिति भावः ।
न चैवं चक्षुषोऽपि करणसन्निकर्षनिष्पत्तावेवोपक्षीणत्वेनान्यथासिद्धत्वेन विशिष्टकारणलक्षणा-भावादकारणत्वप्रसङ्ग इति वाच्यम् । ‘रूपाद्युपलब्धिः सकरणिका क्रियात्वाच्छिदिक्रियावत्’ इति चक्षुरादेः करणत्वे सिद्धेऽवान्तरव्यापारवतः कारणस्यैव करणत्वात् तन्निर्वाहार्थं कल्प्यमान-सन्निकर्षस्य ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति न्यायेन स्वोपजीव्यचक्षुः-करणत्वाविघातकत्वात् । न चैवं ‘रूपाद्युपलब्धिः सकर्मिका क्रियात्वाच्छिदिक्रियावत्’ इति कर्मणः १कारणत्वमुपजीव्य तन्निर्वाहार्थं कल्पितस्यार्थसन्निकर्षस्योक्तन्यायेनैव स्वोपजीव्यार्थकारणत्वा-विघातकत्वानुपपत्त्या नार्थस्याप्यन्यथासिद्धिः स्यादिति वाच्यम् । अव्यभिचारात् क्रियात्वेन करण-जन्यत्वानुमानसम्भवेऽप्यकर्मकक्रियायां व्यभिचारेण ‘या क्रिया सा कर्मजन्या’ इति व्याप्त्यसिद्ध्या क्रियात्वेन सकर्मकत्वस्यानुमातुमशक्यत्वेनोक्तन्यायाप्रवृत्त्या वैषम्येणान्यथासिद्धत्वावश्यम्भावा-दिति भावः ।
नन्वेवं चक्षुरादेः करणस्य करणत्वसिद्ध्यर्थं कर्मसन्निकर्षरूपव्यापारजननद्वारा क्रियाजनकत्ववत् कर्मणोऽन्यथासिद्धत्वेनाजनकत्वेऽपि करणसन्निकर्षनिष्पत्तावुपयोगित्वेन तत्सत्त्वावश्यम्भावात् कथमसतः शशविषाणादेर्ज्ञानकर्मत्वं स्यादित्यत आह- यत्र त्विति ।। मीमांसकाभिमतं कर्मलक्षणमाशङ्कते- कर्तुरन्यत्वे सतीति ।। क्रियाजन्यफलशालित्वेनैव कर्मत्वे देवदत्त-समवेतगतिक्रियाजन्यफलसंयोगशालिग्रामस्येव संयोगशालिनो देवदत्तस्यापि कर्मत्वं स्यात् । ततश्च ‘देवदत्तं ग्रामं गच्छति’ इति द्वितीयापत्तिः । अतः सत्यन्तोपादानम् ।
नन्वत्र अन्यसमवेतत्वं क्रियाविशेषणं फलविशेषणं वाऽभिमतम् । आद्येऽप्यन्यत्वं क्रिया-श्रयापेक्षया विवक्षितं फलाश्रयापेक्षया वा । नाऽद्यः । क्रियाश्रयादन्यत्र क्रियाया असम्भवात् । न द्वितीयः । ‘ग्रामं गच्छति’ इत्यादौ गमनक्रियायाः संयोगरूपफलाश्रयाद्देवदत्तशरीरादन्यत्रा-समवेतत्वेन ग्रामादेरकर्मत्वप्रसङ्गात् । न द्वितीयः । उक्तविकल्पक्रमेणातिव्याप्त्यसम्भवप्रसङ्गात् । गमनक्रियाश्रयदेवदत्तान्यग्रामनिष्ठसंयोगरूपफलभागिनि देवदत्त एवातिव्याप्तेः । फलाश्रयादन्यत्र फलासम्भवाच्च । अथ कर्मापेक्षयैवान्यत्त्वं विवक्ष्यते तदा आत्माऽश्रयप्रसङ्गः । कर्तर्यतिव्याप्तेश्च ।
एतेन ‘कर्तुरेवान्यपदार्थत्वेन कर्तृसमवेतक्रियाफलशालित्वस्यैव लक्षणार्थत्वान्नाऽत्माश्रयप्रसङ्गः’ इति निरस्तम् । तावताऽपि कर्तर्यतिव्याप्तेरपरिहारात् । तत्कथमिदं कर्मलक्षणमिति चेन्न । तत्क्रियानधिकरणत्वे सति तत्क्रियाफलशालित्वस्यैव समुदायार्थत्वेन विवक्षितत्वात् ।
ननु संयोगादिना क्रियाजन्यफलाश्रयत्वस्य लक्षणत्वेन विवक्षितत्वाद् असतश्च संयोगादिना१ क्रियाजन्यव्यवहारानाश्रयत्वान्न शशविषाणादेः कर्मत्वमित्याशङ्कते- साक्षादिति ।। तथा सति साक्षात्सम्बन्धेन गत्यादिरूपक्रियाजन्यसंयोगरूपफलाश्रयत्वस्य समवायेन संयोगवति ग्रामे सत्त्वेऽपि ज्ञानकर्ममात्रे घटादौ संयोगादिना ज्ञानरूपक्रियाजन्यव्यवहारानाश्रयतयाऽभावाज्ज्ञान-कर्ममात्रे लक्षणाभावप्राप्त्याऽव्याप्तत्वादलक्षणत्वं स्यादित्यत आह- एवं तर्हीति ।।
ननु ज्ञानकर्ममात्रे साक्षात्सम्बन्धेन ज्ञानजन्यव्यवहारानाश्रयत्वेऽपि ज्ञानजन्यज्ञाततारूप-फलाश्रयत्वस्य सत्त्वान्न २ज्ञानकर्मस्वव्याप्तिरित्यतो भवेदेवं यदि ज्ञाततैव स्यात् । न च साऽस्ति । साधकाभावेन बाधकसद्भावेन च तस्याज्ञानव्यतिरिक्तज्ञाततायां प्रमाणाभावात् ।
‘न च प्रमाणतोऽन्या स्यात् प्रमितिर्नाम कुत्रचित् ।।
मानाभावाद् गौरवाच्च कल्पनायाः किमेतया ।।’३
इत्यादिना प्रमाणलक्षणानुव्याख्यानयोः निरस्तत्वेन न ज्ञानजन्यज्ञाततारूपफलाश्रयत्वेन ४कर्म-लक्षणसमर्थनमित्याशयेनाऽह- ज्ञाततायास्त्विति ।। एतेनेति ।। दृग्जन्यफलाश्रयत्वस्य कर्मलक्षणत्वनिराकरणेनेत्यर्थः । आत्मनीति ।। प्रकाशरूपत्वादात्मनोऽनाधेयातिशयत्वेन तत्र ज्ञानजन्यप्रकाशोदयासम्भवादित्यर्थः । अयमाशयः । यथा घटादौ तदाकारवृत्त्या स्फुरणरूपोऽ-तिशय आधीयते नैवमात्मनि । तस्यैव स्फुरणरूपत्वादिति । आत्मन इति ।। ‘आत्मनो यदि दृक्कर्मत्वं न स्यात् तदा वेदान्तजनितं विज्ञानमात्मज्ञानं न स्यात् । भवति च तत् तज्ज्ञानम् । तस्माद् अस्त्येवाऽत्मनो दृक्कर्मत्वम्’ इति विपर्यये पर्यवसानासम्भवेनाऽभासोऽयं प्रसङ्ग इति निरस्तमित्यर्थः । दृग्जन्यफलाश्रयत्वस्य कर्मलक्षणत्वनिराकरणादिति भावः ।
ननु परेणापि परोक्षवृत्तौ न तदाधेयस्फुरणमङ्गीकृतम् । परोक्षवृत्तेरेव तत्र ज्ञानत्वाभ्युपगमात् । अन्यथा स्फुरणस्यापरोक्षैकरसत्वेनाभिव्यक्तापरोक्षैकरसस्फुरणसम्बन्धेन परोक्षवृत्तिविषयस्या-प्यतीतादेर्नित्यातीन्द्रियस्य धर्मादेश्चाऽपरोक्ष्यप्रसङ्गात् । एवं च परोक्षवृत्तेरिवापरोक्षवृत्तेरपि ज्ञानत्वोपपत्तौ तदाधेयस्फुरणमप्रामाणिकमिति प्रतिवादिनो भागासिद्धिः स्यादित्याशयेनाऽह- किञ्चेति ।।
गोविन्दीया
कर्मत्वविषयत्वयोर्भेदाभिप्रायेण शङ्कते - नन्विति ।। तदुभयोरैक्याभिप्रायेणोत्तर-माह- एवमिति ।। निर्विषयत्वे इति ।। सविषयमेव ज्ञानमित्युच्यते, निर्विषयत्वे ज्ञानमेव न स्यात् घटवत् । तथा हि । विषयशून्यत्वेन यथा घटः ज्ञानं न भवति तथा इदमपि घटस्यैव विषयत्वादि-त्यर्थः । अथेति ।। विषयत्वात्किमप्यधिकं पश्यसि विषयत्ववत् कर्मत्वमपि न वस्तुसामर्थ्यमि-त्यर्थः । अपरोक्षज्ञानेऽपीति ।। अपरोक्षज्ञानं प्रत्यक्षस्य ज्ञानजनकताभावेऽपि अपरोक्षज्ञानं प्रति जनकताऽस्तीत्याशङ्क्य अपरोक्षज्ञानेऽपि कर्मभूतस्यार्थस्य ज्ञानोत्पत्तौ न व्यापारः जनकताऽस्ती-त्यर्थः । तत्सत्ता ज्ञानसत्तेत्यर्थः । न विषयेति ।। फलस्यैवाभावाच्छशविषाणादीनां ज्ञानजन्य-फलाश्रयत्वं नास्तीति कथं कर्मतेति चेदित्यर्थः । तत्रापीति ।। ज्ञानेन शब्दव्यवहारजननात् तत्रापि शशविषाणादावपि शब्दव्यवहाररूपफलाश्रयत्वमस्तीत्यर्थः । साक्षादिति ।। व्यवहारः फलं तत्र शब्दे वर्तते शब्दप्रतिपाद्यत्वादर्थे परम्परया वर्तते । अतः साक्षाच्छशविषाणाद्याश्रितं फलं नास्तीति तस्य कथं कर्मतेति चेदित्यर्थः । एवमिति ।। यद्येवं साक्षात्फलाश्रितत्वाभावात् कर्मता न स्यात्, तर्हि ज्ञानकर्मसु सर्वेषु ज्ञानजन्यसाक्षात्फलाश्रयत्वाभावात् कर्मलक्षणमव्यापकं स्यात् । ज्ञानव्यतिरिक्त-सकलक्रियां प्रति यानि कर्माणि तत्र लक्षणस्य सत्त्वाद्, ज्ञानक्रियां प्रति कर्माणि यानि तत्र च लक्षणस्यासत्त्वाद् अव्यापकमित्यर्थः । ज्ञातताया इति ।। ज्ञाततामादाय ज्ञानकर्मणामपि क्रिया-जन्यसाक्षात्फलाश्रयत्वान्नाव्यापकं कर्मलक्षणमिति न च वाच्यम् । ज्ञाततायाश्चान्यत्र प्रमाण-लक्षणविष्णुतत्त्वनिर्णयादौ निराकृतत्वाद् अव्यापकमेव लक्षणमित्यर्थः । एतेनेति ।। कर्मलक्षण-निराकरणेन एतच्चोद्यमपि निराकृतमित्यर्थः । किञ्चेति ।। मन्मते दृक्कर्मत्वमेव दृश्यत्वम्, तस्य च जगत्यभावादित्यर्थः । ज्ञाततेति ।। ऐन्द्रियकेषु पदार्थेषु ज्ञाततामादाय दृश्यत्वहेतोः सत्त्वेऽपि नित्यानुमेयेषु काल-धर्म-ईश्वरादिषु ज्ञातताया अभावात् हेतोरसत्त्वात् भागासिद्धिः स्यादित्यर्थः ।
नारोपन्तीया
ज्ञानं प्रति कर्मत्वविषयत्वयोरिति । तथा च गत्यादिकर्मत्वस्याऽश्रयसत्तासापेक्षत्वेऽपि ज्ञानकर्मत्वस्य तदनपेक्षत्वादत्यन्तासतोऽपि शशशृङ्गादेरभावप्रतियोगित्ववत् ज्ञानविषयत्वरूप-तत्कर्मत्वमपेक्षितमेवेति भावः । करणसामर्थ्यादिति । प्रत्यक्षादिरूपकरणनिष्ठज्ञानजनन-शक्तेरित्यर्थः । यदुल्लेखीति । यद्व्यवहारजनकमित्यर्थः । कर्तुरन्यत्वे सतीति । गतिजन्यसंयोग-रूपफलं ग्रामदेवदत्तसंयोगो द्विनिष्ठ इति पक्षे, देवदत्तप्रतियोगिको ग्रामे, तत्प्रतियोगिकश्च देवदत्त इति मते च, देवदत्ते कर्तरि अतिव्याप्तिवारणाय सत्यन्तम् ।
जनार्दनभट्टीया
केन सङ्गच्छत इति ।। केन निमित्तेन इत्यर्थः । जनकत्वमिति ।। ‘ज्ञान’ इति शेषः । क्वापीति ।। परोक्षे प्रत्यक्षेऽपीत्यर्थः । एतदेव विवृणोति – अपरोक्षेति ।। कथं तर्हि अन्यापरोक्षज्ञानस्य विषयान्वयव्यतिरेकानुविधानमित्यत आह – केवलमिति ।। यत्र त्विति ।। करणसन्निकर्षोत्पत्ति-रिति ।। करणस्य शब्दस्य यः सन्निकर्षः शक्तिग्रहणरूपः तदुत्पत्तिरित्यर्थः । ‘ग्रामं गच्छति देवदत्तः’ इत्यत्र गमनक्रियाजन्यग्रामसंयोगलक्षणफलशालिनि देवदत्ते कर्तरि अतिव्याप्तिवारणाय ‘कर्तुरन्यत्वे सति’ इत्युक्तम् । जन्यपदादाने क्रियालक्षणफलशालित्वमित्यर्थपर्यावसानापत्त्या तदनाश्रये ग्रामादावव्याप्तिः । तन्निवृत्तये तदुपादानम् । फलपदन्तु स्वरूपकथनार्थम् । ‘साक्षात्’ इत्यस्यैव विवरणम् –तदाश्रितमिति ।।
ननु ज्ञाततैव ज्ञानजन्यं१ फलमित्यत आह – ज्ञातताया इति ।। एतेनेति ।। आत्मनोऽपि ज्ञान-जन्यशब्दव्यवहारलक्षणफलाश्रयत्वरूपकर्मत्वस्य सत्वेनेत्यर्थः । किञ्चेति ।। ज्ञानजन्यफलाश्रयत्व-मिति ।। ज्ञानजन्यज्ञाततालक्षणफलाश्रयत्वमित्यर्थः । प्रतिवादिन इति ।। तत्ववादिन इत्यर्थः । असिद्ध इति ।। तैः ज्ञाततायाः कुत्राप्यनङ्गीकारादिति भावः । मायावादिरीत्याऽपि असिद्धिमाह – ज्ञाततेति ।। नित्यानुमेयेष्विति ।। नित्यानुमेयान्तःकरणवृत्तिनिर्गमनाभावेन प्रत्यक्षस्थल एव ज्ञातताङ्गी-कारादिति भावः ।
आत्माज्ञाननिवर्तकतया आत्मसम्बन्धितया वा इति व्यधिकरणे तृतीया इति आत्माज्ञान-निवर्तकत्वेन आत्मसम्बन्धितयेति । आत्माज्ञाननिवर्तकत्वेन इत्थम्भावे तृतीया । आत्माज्ञान-निवर्तकरूपात्मसम्बन्धेनेत्यर्थः । आत्मनो दृक्कर्मत्वाभावे ज्ञानस्येत्यत्र अज्ञानस्येति पदविभागः दुर्घटमित्युक्तमिति । सति पुष्कलकारणे तत्कर्मज्ञानप्रतिबन्धकत्वातिरिक्तसम्बन्धानिरूपणादिति प्रागुक्तमिति भावः ।