यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’..

श्रुतिद्वयसिद्धस्य नासदासीदिति श्रुत्यर्थस्य निरूपणम्

यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’

श्रीमज्जयतीर्थटीका

ततश्चायं श्रुत्यर्थो भवति । तदानीं प्रलये असदमूर्तं वाय्वन्तरिक्षाख्यं नासीत् । सच्च मूर्तं पृथिव्यप्तेजोरूपं नो आसीत् ।

रजःशब्दोपलक्षितं गुणत्रयं च नासीत् । यत्परः परं सर्वगतमव्याकृतं व्योम तच्च मूर्त-सम्बन्धाभावान्नो आसीदिति सदसच्छब्दयोर्भावाभावपरत्वे प्रसिद्धमूर्तामूर्तविषयत्वे वा सर्वस्य तदन्तर्भावात्पुना रजःप्रभृतेः प्रतिषेधोऽनर्थकः स्यादित्यनिष्टान्तरसूचनार्थं प्रागधिकांशोदाहरणं कृतम् । अन्यथा ‘नासदासीन्नो सदासीत्तदानीम्’ इत्येतावदेवोदाहरिष्यत् ।