अतोऽनौपाधिकत्वादेव..
मुक्तेश्वरयोः स्वाभाविकभेदोपसंहारपूर्वकं मुक्तत्वानुमानोपसंहारः
श्रीमज्जयतीर्थटीका
तदेवं जीवेश्वरभेदस्यौपाधिकत्वेऽपि स्वाभाविकाभेदेनेश्वरस्य जीवगतदुःखाद्यनुसन्धान-प्रसङ्गस्यावर्जनीयत्वात् तदङ्गीकारस्य च प्रमाणविरुद्धत्वात् स्वाभाविक एव जीवेश्वरभेदो न त्वौपाधिक इति स्थितम् । ततश्च किं प्रकृते । तत्राऽह-
मूल
अतोऽनौपाधिकत्वादेव भेदस्य न मुक्तस्येश्वरैक्यम् ।
अत इति ।। जीवगतसुखदुःखाद्यनुसन्धानाभावादीश्वरस्य ।
न ह्यनौपाधिकं कदाचिदन्यथा भवति । स्वभावहानौ स्वरूपहानिप्रसङ्गात् । एतेनेश्वरेण भिन्नाभिन्नो मुक्त इत्यपास्तम् । अभेदेनानुसन्धानानिवारणादिति ।।
श्रीविजयीन्द्रभिक्षु
भास्करमतदूषणमुपसंहृत्य, परमप्रकृतानुपसंहारे न्यूनतेत्याशङ्क्य स्वयमाचार्याभिप्रेत-तदुपसंहारं दर्शयति- तदेवमिति ।। प्रमाणविरुद्धत्वादिति ।। ‘निरनिष्टो निरवद्यः, अदुःखमसुखं समम्’ इत्यादिप्रमाणविरुद्धत्वादित्यर्थः । नन्वीश्वरस्य संसारिगतसुखदुःखाद्यनुसन्धानप्रसङ्ग-रूपबाधकभावात् जीवेश्वरभेदस्यानौपाधिकत्वसमर्थनेऽपि मुक्तेश्वरयोर्नियम्यनियामकभावप्रयोजक-भेदासमर्थनात् प्रकृतानुपयोग इति पृच्छति- ततश्चेति ।। प्रश्नोत्तरत्वेनावतारयति- तत्रेति ।। तथाचोक्तबाधकबलेन संसारीश्वरयोर्भेदस्यानौपाधिकत्वे सिद्धे ईश्वरस्वभावस्य तस्य यावद्वस्तु-भावितया मुक्तावपि सत्त्वेन नियम्यनियामकभावोपपत्तेः न प्रकृतानुपयोग इति भावः । अतोऽ-नौपाधिकत्वादित्यनयोः व्याख्यानत्वप्रतीतिं निराकरोति- अत इतीति ।। मुक्तो नेश्वराभिन्नः तत्प्रतियोगिकानौपाधिकभेदवत्त्वात् । न च तद्भेदस्यानौपाधिकत्वमसिद्धम् । ईश्वरस्य जीवगत-सुखदुःखाद्यनुसन्धानाभावेन तदनौपाधिकत्वसिद्धेरवर्जनीयत्वादित्यर्थः ।
नन्वनौपाधिकमपि कदाचिन्निवर्ततामित्याशङ्क्याऽह- न हीति ।। अनौपाधिकं हि स्वाभाविक-मुच्यते । ततश्चानौपाधिकस्यान्यथात्वे स्वभावस्यैवान्यथाभाव उक्तः स्यात् । न च सोऽभ्युप-गमार्हः । स्वरूपहानिप्रसङ्गादित्यर्थः । ननु भेदाभेदवादोऽपि निराकर्तव्यः । विरोधित्वात् । सत्यम् । शुद्धाभेदनिराकरणेनैव निरस्तत्वादाचार्येण न पृथङ्निराकृत इत्याह- एतेनेति ।।
श्रीराघवेन्द्रतीर्थ
तदङ्गीकारस्येति ।। अनुसन्धानाङ्गीकारस्य ‘निरनिष्टो निरवद्यः’ ‘शोकं मोहं जरां मृत्युमत्येति’ इत्यादिप्रमाणविरुद्धत्वादित्यर्थः । अनौपाधिकत्वादित्युक्तहेतोरप्रयोजकत्वं निराह- न ह्यनौपाधिकमिति ।। भेदाभेदमतं निराह- एतेनेति ।। एतच्छब्दार्थमेवाऽह- अभेदेनेति ।। इष्टापत्तिं परिहरति- तदङ्गीकारस्य चेति ।। न हीति ।। औपाधिकत्त्वे हि तन्निवृत्तौ निवृत्तिर्वक्तव्या भेदस्त्वनौपाधिकः । अतो नान्यथा भवति निवृत्तौ न हि भवतीत्यर्थः । स्वाभाविकस्यापि निवृत्तौ बाधकमाह– स्वभावहानाविति ।।
गोविन्दीया
तदङ्गीकारस्येति ।। ईश्वरस्य सुखाद्यनुसन्धानाङ्गीकारस्येत्यर्थः । अत इति ।। जीवगत-सुखाद्यनुसन्धानाभावादीश्वरस्य संसारावस्थायां भेदस्यानौपाधिकत्वादेव स्वभावस्यानपायेन मुक्त्यवस्थायां भेदस्य सत्त्वान्मुक्तस्येश्वरैक्यं नास्तीत्यर्थः । अभेदेनेति ।। सुखाद्यनुसन्धाना-निवारणादीश्वरेऽनुसन्धानं प्रमाणविरुद्धमित्यर्थः ।
जनार्दनभट्टीया
स्वभावहानाविति ।। ‘अनौपाधिकस्य हानौ अङ्गीक्रियमाणायाम्’ इति शेषः ।