न च भेदे विकल्पो युज्यते ..
प्रश्नस्य संशयमूलकत्वसमर्थनम्
न च भेदे विकल्पो युज्यते
श्रीमज्जयतीर्थटीका
इदमुक्तं भवति । आस्तामिदं दूरे दूषणाभिधानम् । प्रश्न एव तावदयं न युज्यते । सन्देहमूलत्वात् प्रश्नस्य । न खलु कश्चिन्निश्चितं पृच्छति । नाप्यत्यन्ताविदितम् । न च विमतो भिन्न इत्युक्ते विना प्रश्नेनापसिद्धान्ताद्युद्भावनावसरोऽस्ति ।
ननु विनाऽपि सन्देहात् प्रश्नो भवति । यथा देवदत्त कियन्तस्तनयास्तवेति । मैवम् । तत्रापि पुत्रत्वसामान्यस्य सङ्ख्याविशेषसमानाधिकरणतया अनुभूतत्वेन तत्प्रतिभासे सति संस्कारो-द्बोधात् सङ्ख्याविशेषस्मृतौ तत्रान्यतमजिज्ञासायां निश्चायकप्रमाणाभावेन संशयोदयस्य न्याय-प्राप्तत्वेन तन्मूलत्वात् । केवलं सङ्ख्याप्रभेदानां बाहुल्याद्गौरवभयेन एको द्वौ वेत्यादिविशेषनिर्देशेन विना कियन्त इति सामान्येन प्रश्नः क्रियते ।
अथात्र गिरिदर्यां किमप्यद्राक्षमित्युक्ते किं लक्षणकं तदिति पृच्छति । तदा कथं सन्देह-हेतुकत्वम् । विशेषस्मरणोपायाभावादिति चेन्न । तत्रापि वस्तुत्वेन लक्षणसद्भावमनुमाय ततस्तद्विशेषस्मृतौ तत्किमनुभूतेष्वन्यतममन्यद्वेति सन्देहादेव प्रश्नात् ।
(ज्ञानिकृतप्रश्नस्य संशयमूलकत्वाभावेऽपि प्रकृतसंशयस्य तन्नैयत्यसमर्थनम्)
अस्तु वा अन्यत्र प्रश्नो यथा तथा । अनेककोट्यवलम्बी प्रकृतस्तावत् सन्देहमूल एवाङ्गी-कार्यः ।
श्रीविजयीन्द्रभिक्षु
एवपदार्थमुक्तशङ्कानिरासक्षमं विवक्षितं वाक्यार्थं दर्शयितुमाह- इदमुक्तं भवतीति ।। दूषणाभिधानमपसिद्धान्तादिदूषणाभिधानम् । ननु विनाऽपि प्रश्नं दूषणाभिधानमस्त्वित्यत आह- न चेति ।। न्यायानुसन्धानवैधुर्यात् सामग्रीकल्पनायामसमर्थः शङ्कते- ननु विनाऽपि सन्देहादिति ।। अन्यथा एको वा तनयो द्वौ वा त्रयो वेति विशिष्य प्रश्नाकारः स्यादिति भावः । तत्रापीति ।। एतच्च तन्मूलत्वादिति सम्बद्ध्यते । संशयस्य समानधर्मापेक्षायामाह- पुत्रत्वसामान्यस्येति ।। अन्यतमजिज्ञासायामिति ।। एतच्च क्वाचित्काभिप्रायम् । सर्वत्र संशयात्पूर्वं जिज्ञासाया अनुभव-बाधितत्वादिति ध्येयम् । निश्चायकप्रमाणाभावेनेति ।। अन्यतरकोटिनिश्चयतत्सामग्र्य-भावेनेत्यर्थः । तन्निश्चयवत् तन्निश्चयसामग्र्या अपि संशयप्रतिबन्धकत्वादिति ध्येयम् ।
ननूक्तप्रश्नस्य संशयमूलत्वे तस्येव प्रश्नस्याप्यनेककोट्युल्लेखित्वप्रसङ्गः । प्रश्नस्य च स्वहेतुभूत-संशयसमानाकारत्वादित्याशङ्कायामिष्टापत्त्या परिहारमभिप्रेत्य विशेषाकारेण प्रश्नवाक्याप्रवृत्तौ हेतुमाह- केवलमित्यादिना ।। गौरवेति ।। बहुशब्दोच्चारणप्रयुक्तप्रयासभयेनेत्यर्थः । सामान्ये-नेति ।। अभिप्रेतयावदर्थसङ्ग्राहकसङ्कुचितशब्देनेत्यर्थः । संशयस्य प्रश्नहेतुत्वे स्थलान्तरे व्यभिचारं शङ्कते- अथात्रेति ।। इत्युक्त इत्यनन्तरं१ यदेति शेषः । सन्देहहेतुकत्वमिति ।। प्रश्नस्येति शेषः । विशेषस्मरणेति ।। संशयप्रकारभूतधर्मविशेषस्मरणेत्यर्थः । तत्रापीति ।। गिरिदरीस्थत्वेन श्रुतवस्तुन्यपीत्यर्थः । वस्तुत्वेनेति ।। प्रामाणिकत्वेनेत्यर्थः । एतच्च ‘अत्र गिरिदर्यां किमप्यद्राक्षम्’ इत्याप्तवाक्यप्रतिपन्नतया न तत्रासिद्धमिति ध्येयम् । लक्षणवत्त्वमिति ।। वस्तुनो यत्किञ्चिद् असाधारणधर्मवत्त्वनियमादिति भावः । तत इति ।। २तल्लक्षणवत्त्वरूपसामान्यधर्मविशिष्ट-लक्षणवत्तया अनुमित्यनन्तरं तथाविधानुभवजनितसंस्कारोद्बोधात्तेन३ रूपेण लक्षणविशेष-स्मृतावित्यर्थः । अनुभूतेष्विति ।। अनुभूतेष्वेवेदं न वेति सन्देहादेवेत्यर्थः । उक्तस्थलद्वये सन्देहं विनाऽपि प्रश्नमङ्गीकृत्य प्रकृतप्रश्नस्यानेककोट्यवलम्बित्वेन तादृशसंशयमूलकत्वमावश्यकमित्याह- अस्तु वाऽन्यत्रेति ।। यद्वा, ननु प्रश्नमात्रस्य न संशयमूलत्वं सम्भवति । सर्वज्ञेश्वरादिकर्तृकप्रश्नेषु तदभावात् ।
जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा ।
पृच्छन्ति.................।।१
इत्यादेरित्यनुशयवानाह- अस्तु वेति ।। यथा तथेत्यनास्थया । अन्यत्र प्रश्नः संशयमूलोऽस्तु मा वा भूदित्यर्थः । प्रकृत इति ।। गुरुशिष्यविचारमूलप्रश्न इत्यर्थः ।
श्रीवेदेशतीर्थ
ननु विनाऽपि प्रश्नं दूषणाभिधानमस्त्वित्यत आह- न चेति ।। ननु विनेति ।। अन्यथा एको वा तव तनयो द्वौ वा त्रयो वेति प्रश्नाकारः स्यादिति भावः । तत्रापीति ।। एतस्य तन्मूलत्वादित्युत्तरेण सम्बन्धः । संशयोदयस्येति ।। कोटीनामतिबाहुल्यात् ‘किंसञ्ज्ञकोऽयं वृक्षः’ इत्यादिवदनिर्दिष्टकोटिकसंशयोदयस्येत्यर्थः । अत एवाऽह- केवलं सङ्ख्याप्रभेदानामिति । सामान्येनेति ।। अभिप्रेतयावदर्थसङ्ग्राहकसङ्कुचितशब्देनेत्यर्थः । विशेषस्मरणोपायाभावादिति ।। ‘किंलक्षणकम्’ इति प्रश्नहेतुभूतसन्देहे गिरिदरीविवरवर्तिवस्तुनि लक्षणवत्त्वज्ञानं साधारण-धर्मदर्शनत्वेन कोटिस्मरणोपायः । तच्च तस्य वस्तुनो व्यवहितत्वान्नास्तीति भावः । प्रत्यक्षरूपस्य तस्याभावेऽपि अनुमितिरूपं तत्सम्भवतीत्याह- तत्रापीति ।। ननु प्रश्नमात्रस्य न संशयमूलत्वम् । सर्वज्ञकर्तृकप्रश्नेषु तदभावात् ।
जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा ।
पृच्छन्ति साधवः .................. ।।
इत्यादेरित्यनुशयादाह- अस्तु वेति ।। अनास्थायां वाशब्दः । अन्यत्र यथा तथाऽस्तु । शिष्यादिप्रश्नस्तु सन्देहमूलक एवेति भावः ।
द्वैतद्युमणि
न्यायप्राप्तत्वेनेति ।। संशयसामग्रीरूपलिङ्गजन्यानुमितिविषयत्वेनेत्यर्थः । अस्तु वेति ।। अन्यत्र विशेषरूपेण कोट्यनुल्लेखस्थले । यथा तथा सामान्यरूपेण ज्ञातकोटीनां विशेष-रूपेणाज्ञानेनापि । अनेककोट्यवलम्बी विशेषरूपेणानेककोट्युल्लेखी ।
श्रीराघवेन्द्रतीर्थ
अस्फुटत्वादाह- इदमुक्तमिति ।। एवकारतात्पर्यमाह- आस्तामिति ।। दूषणेति ।। विकल्पस्येति योज्यम् । इदं दूषणाभिधानं दूरे आस्तामित्यन्वयः । हेतोरप्रयोजकत्वं निराह - न खल्विति ।। माऽस्तु प्रश्नः दूषणमात्रं मयोच्यत इत्यत आह- न चेति ।। अतो विकल्प्यैव दूष्यम् । स विकल्प एवायुक्त इति साधूक्तं मूल इति भावः । सन्देहमूलत्वात् प्रश्नस्य इत्युक्तहेतोः व्यतिरेकव्यभिचारमाशंक्य निराह - नन्वित्यादिना ।। देवदत्तेति सम्बुद्धिः । साधारणधर्मादिसन्देह-सामग्रीमाह- तत्रापीति ।। कियन्त इति १प्रश्नेऽपि । वाक्येऽपीति वा । तथात्वे प्रश्नस्येति शेषः । तन्मूलत्वादित्यन्वयः । संशयकोटीराह - संख्याविशेषेति ।। द्वित्वत्रित्वादीत्यर्थः । तत्प्रतिभासे पुत्रत्वप्रतिभासे । केवलमित्यस्य विवरणं विनेत्यन्तम् । विशेषेति ।। लक्षणविशेषरूपकोटि-स्मरणोपायाभावात्२ । साधारणधर्मसहचरिततया कोटीनामननुभवादिति भावः । प्रकृतस्तावदिति ।। द्विकोटिकत्वेन कोटिस्मृतिसम्भवादिति भावः ।
गोविन्दीया
तत्रापीति ।। वस्तुत्वेन हेतुना सामान्यतो लक्षणसद्भावमनुमायेत्यर्थः ।
जनार्दनभट्टीया
‘प्रश्न एव न युज्यते’ इत्युक्ते अन्यस्तु युज्यत इत्यर्थपरत्वं वारयितुमाह– इदमुक्तमिति ।। प्रश्न एवेति ।। तथा च कैमुत्यन्यायसूचनमेव कारणप्रयोजनमिति भावः । प्रश्नस्य सन्देहमूलकत्वं व्यतिरेकमुखेन दृढयति – न खल्विति ।। ननु प्रश्न एव मया न कृतः यस्य अयुक्तत्वं साध्यत इत्यत आह – न च विमत इति ।। ‘देवदत्त कियन्तः?’ इति प्रश्नस्य पुत्रमात्रविषयत्वं भ्राम्यन् शङ्कते– नन्विति ।। तत्प्रतिभास इति ।। पुत्रत्वसामान्यप्रतिभास इत्यर्थः । तत्रेति ।। ‘द्वित्वादिसङ्ख्याविशेषाणां मध्ये’ इत्यर्थः । तथा च सङ्ख्याविशेष एवायं प्रश्न इति भावः । न्यायप्राप्तत्वेनेति ।। ‘कारणे सति कार्यम्’ इति न्यायप्राप्तत्वेनेत्यर्थः । विशेषस्मरणोपायेति ।। प्रत्यक्षोपस्थिते धर्मिणि साधारणधर्मज्ञानं विशेषस्मरणहेतुः । तच्च प्रकृते नास्तीत्यभिमानः । प्रत्यक्षेण धर्म्युपस्थितिरेव न विशेषस्मरणोपायः । किन्तु अनुमानादिनापीत्याशयेन परिहरति – तत्रापीति ।। ननु निश्चयवतोऽपि परीक्षार्थं प्रश्नदर्शनात् न प्रश्नस्य सन्देहमूलकत्वनियम इत्यत आह – अस्तु वेति ।। ‘परीक्षादिस्थले’ इत्यर्थः । यथा तथेति ।। सन्देहमूलस्तदमूलको वेत्यर्थः । ‘प्रश्न’ इति शेषः । ‘सन्देहमूलक एवाङ्गीकार्यः’ इत्यत्र सम्भावकमाह – अनेककोटीति ।।३
नन्विदं न सन्देहमूलत्वनिश्चायकम् । परीक्षार्थं प्रश्नेऽपि अनेककोट्यवलम्बित्वस्य सत्वात् । कथं तर्हि सन्देहमूल एव अङ्गीकार्यः? इति निष्टङ्कनमिति चेत्, न अनिर्वचनीयत्वादिनिश्चयविधुरं पारमार्थिकभेदजिज्ञासुं प्रत्येव आचार्येणैतद्ग्रन्थरूपेण वादकथाप्रवर्तनात् । अत एवोक्तमर्वाक्– ‘ग्रन्थोऽयं वादप्रक्रियया प्रवर्तते । शिष्यानुकम्पया प्रवर्तनात्’ इति । अत एवास्य प्रश्नस्य न परीक्षार्थत्वशङ्कावकाश इत्याकलयामः । उक्ताभिप्रायस्फोरणायाह – प्रकृतस्तावदिति ।।