सर्वत्राखिलसच्छक्तिः..
आगमस्येश्वरे प्रामाण्यसमर्थनम्
श्रीमज्जयतीर्थटीका
नन्वीश्वर एव किं प्रमाणम् । आगमं तावद् ब्रूमः । श्रूयते हि ‘द्यावाभूमी जनयन् देव एकः’ इत्यादि । केवलसिद्धार्थबोधकस्य प्रवृत्त्याद्यनङ्गतया वैयर्थ्यप्रसङ्गादागमस्येश्वरे न प्रामाण्य-मिति चेत् तत्राऽह- इष्ट इति ।। यद्धि यस्येष्टं तत्तं प्रति बोधनीयं नान्यत् । तथा सत्यनु-पादेयताप्रसङ्गात् । इष्टश्च रमापतिरिति युक्तमेव तद्बोधनम् । न च प्रवृत्त्याद्यनुपपत्तिदोषः । इष्टानुभवस्यैव पुरुषार्थत्वेन ततः प्रयोजनानपेक्षणात् । न हि सुखानुभवस्य प्रयोजनमन्विष्यते । तस्यैव स्वरससुन्दरत्वात् । स्वाश्रिते सुखे दुःखनिवृत्तौ वा लोकानामिष्टव्यवहारः । न चानयोरन्यतरो रमापतिस्तत्कथमसाविष्ट इत्यत आह- नः ।। अस्माकमिति । यथा खलु केषाञ्चिदिष्टसाधनतामनासादयन्तोऽपि भावाः परेषां तथाभूता दृश्यन्ते तथा लौकिकानामिष्टता-मभजन्नपि भगवानुत्तमाधिकारिणामिष्टो भवतीति किमनुपपन्नम् । सन्ति खलु तेऽपि पुरुषाः येषामपवर्गोऽपि परमपुरुषावबोधनार्थमेवार्थनीयः । यथोक्तम् -
......... एकान्तानां न कस्यचित् ।
अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम् ।। इति ।
इतरान् प्रत्यपीश्वरस्येष्टसाधनत्वान्न तत्परत्वमागमस्यानुपपन्नम् । इष्टवदिष्टसाधनस्यापि बुभुत्सितत्वात् ।
श्रीविजयीन्द्रभिक्षु
सर्वत्रेत्यादिविशेषणोपादानेन आचार्यस्येश्वरे प्राधान्येनाऽगम एव प्रमाणत्वेनाभिमतः । तत्प्रामाण्यसमर्थनं च इष्ट इति विशेषणेनाभिप्रेतमिति वक्तुं तदनुगुणां शङ्कां दर्शयति- नन्विति ।। अयमाशयः । न तावदीश्वरे प्रत्यक्षं मानम् । तस्यायोग्यत्वात् । नाप्यनुमानम् । स्वतन्त्रप्रमाणावष्टम्भं विना तस्य स्वार्थासाधकत्वात् । नाप्युपमानम् । तस्य नियतविषयत्वात् । नाप्यर्थापत्तिः । ईश्वरं विना अनुपपद्यमानस्यार्थस्याभावात् । क्षित्यादिकार्यस्याप्यदृष्टद्वारा अस्मदादित एवोपपत्तेः । नाप्यागमः । कर्मकाण्डस्य कर्मपरत्वात् । वेदान्तानामपि केषाञ्चिदुपासनापरत्वात् । केषाञ्चित्तु केवलसिद्धार्थत्वेन प्रवृत्त्याद्यनङ्गतया वैयर्थ्येन प्रामाण्यासम्भवात् । हुं फट् इत्यादिशब्दवत् जपमात्रोपयोगित्वेनाध्ययनविध्यापादितपुरुषार्थपर्यवसायित्वोपपत्तेश्चेति ।
वक्ष्यमाणरीत्या आगमप्रामाण्यध्रौव्यं मन्वानः सिद्धान्ती सामान्यत उत्तरयति- आगमं तावदिति ।। तावच्छब्दः क्रमार्थः । अनुमानानामप्यग्रे दर्शयिष्यमाणत्वात् । प्रथमं तेषामनुपन्यासस्तु-
‘पृष्टेनाऽगम एवाऽदौ वक्तव्यः साध्यसिद्धये ।’१
इत्यनुसारात् । तदागमस्याप्रत्यक्षत्वशङ्कां वारयति- श्रूयते हीति ।। इत्यादीति नपुंसकनिर्देशः प्रमाणापेक्षया । आदिशब्देन ‘पराऽस्य शक्तिः’ इत्याद्यस्मदुदाहृतश्रुतिपरिग्रहः । न चैवं श्लोकोपात्तविशेषमूलतया पराऽस्येत्यादिश्रुतीनामेव टीकायामुदाहर्तव्यत्वे कथं तत्र ‘द्यावापृथिवी जनयन् देव एकः’ इत्याद्युदाहरणमिति वाच्यम् । तदुदाहरणस्य पराऽस्येत्यादिसर्वागमार्थाक्षेपकत्वेन लाघवेन तस्यैव तत्रोदाहरणोपपत्तेरित्यवधेयम् । आचार्याशयमविद्वान् शङ्ककस्तदभिप्रेतोदा-हृतागमप्रामाण्यं दूषयति- केवलेति ।। साध्यतोपरागरहितस्य प्रवृत्तिनिवृत्त्यजनकतया विगीत-प्रयोजनत्वापत्त्या अप्रामाण्यमेव तस्य दुर्वारमिति भावः । आचार्याशयमाविष्कर्तुमाह- तत्राऽहेति ।। उक्ताशङ्कायां समाधानमाहेत्यर्थः ।
यद्यपि ‘यथार्थं प्रमाणम्’ इति केवलानुप्रमाणसाधारणलक्षणानुसारात् ‘यथार्थज्ञानं केवलम्’ इति तद्विशेषकेवलप्रमाणलक्षणानुसाराच्च हानोपादानोपेक्षारूपयथार्थज्ञानतत्करणानां सर्वेषामप्य-विशेषेण प्रामाण्यं सिद्ध्यति । न तु पुरुषार्थपर्यवसायिनामेवेति नोदाहृतागमानां वैयर्थ्येऽपि प्रामाण्याभावः शङ्कार्हः । अबोधकत्वाप्रमाजनकत्वरूपाप्रामाण्ये तु तेषामाकांक्षादिमच्छब्दत्वा-पौरुषेयत्वप्रयुक्तनिर्दोषशब्दत्वाभ्यामेव निरस्ते इति न प्रामाण्याभावे किमपि कारणमस्ति । न हि प्रामाण्यं प्रयोजननियतम् । येन तदभावे तन्न स्यात् । किं तु विषयाबाधनियतम् । न हि ‘द्यावापृथिवी जनयन् देव एकः’ इत्याद्यागमार्थेषु किमपि बाधकमस्तीति न किञ्चिदनुपपन्नम् । तथाऽपि ‘निर्दोषः शब्द आगमः’ इत्यागमलक्षणानुसारात् प्रयोजनं विना नाऽगमाप्रमाण्यसिद्धिरिति शङ्कासमाधाने तदनुसारेणैवात्र कृते इति ध्येयम् । अत एव पद्धतौ ‘निर्दोषः शब्द आगमः’ इत्यागमलक्षणमभिधाय ‘शब्ददोषाश्च निरभिधेयत्वेन अन्वयाभावेन वा अबोधकत्वं विपरीतबोधकत्वं ज्ञातज्ञापकत्व-मप्रयोजनत्वमनभिमतप्रयोजनत्वमशक्यसाधनप्रतिपादनं ‘लघूपाये सति गुरूपायोपदेशनं च’ इति शब्ददोषेष्वप्रयोजनत्वमपि तदप्रामाण्यप्रयोजकतया दोषत्वेन सङ्कीर्तितम् ।
इष्ट इत्यस्योदाहृतागमप्रामाण्योपपादकत्वमुपपादयितुमाह- यद्धीति ।। यद्धीष्टं बुभुत्सितं तं प्रति तदेव बोधनीयं नान्यदित्यर्थः । यद्यपि यद्धि यस्यानिष्टं तदपि तं प्रत्युपदिश्यते ततो निवर्ततामिति तथाऽपि यस्य यद् बुभुत्सितं तदेव तं प्रत्युपदिश्यते नान्यदिति सामान्यव्याप्तिरभिप्रेता । विशिष्य तत्प्रदर्शनं तु प्रकृताभिप्रायेणेति द्रष्टव्यम् । तथा सतीति ।। अबुभुत्सितस्याप्युपदेश इत्यर्थः । न चेति ।। न च प्रवृत्त्याद्यनङ्गत्वप्रयुक्तवैयर्थ्यापादितप्रामाण्याभावरूपदोष इत्यर्थः ।
इष्टानुभवस्येति१ ।। नन्वत्रानुभवशब्देन स्मृत्यन्यज्ञानमात्रमुच्यते, किं वा साक्षात्कारः । न प्रथमः । यन्न दुःखेन सम्भिन्नमित्यादिवाक्यजन्यज्ञानस्यापि पुरुषार्थत्वापत्त्या ततः प्रयोजनान्तरा-पेक्षाऽभावप्रसङ्गात् । न द्वितीयः । ‘द्यावापृथिवी२ जनयन् देव एकः’ इत्याद्यागमेन रमापतेर्निरु-पाधिकेष्टत्वेऽपि तत्साक्षात्काराजननात् । तथा च तद्वैयर्थ्यप्रसङ्गतादवस्थ्यम् । तत्प्रयुक्ता-प्रामाण्यतादवस्थ्यञ्चेति । उच्यते । अत्रेष्टानुभवपदेन स्वसम्बन्धिवर्तमानेष्टज्ञानमात्रं विवक्षितम् । न चातिप्रसङ्गः । इष्टरूपेश्वरस्य व्यापकतया सर्वसम्बन्धित्वेन सर्वदा वर्तमानत्वादिति वाच्यम् । ईश्वरस्य परमैकान्तिनः प्रतीष्टत्वेन तदितरान् प्रतीष्टसाधनत्वेनैव पुरुषार्थत्वेन निरुपाधीष्टत्वेन पुरुषार्थत्वाभावात् । शत्रुसुखस्य सुखत्वेन पुरुषार्थत्वेऽपि स्वीयत्वप्रयोजकसम्बन्धविशेषाभावेना-पुरुषार्थत्ववदीश्वरस्यापि तत्त्वेन पुरुषार्थत्वेऽपि परमैकान्तिषु तस्य यादृशसम्बन्धविशेषेण तदीयत्वं तदितरेषु तदभावेन तान् प्रत्यपुरुषार्थत्वोपपत्तेः । वक्ष्यत्येतत्सप्रमाणकमनुपदमेवेति । स्वाश्रित इति ।। यद्रूपावच्छिन्नं ३ज्ञातं सत् स्ववृत्तितयेष्यते तद्धि लोकानां निरुपाधीष्टव्यवहारगोचरः । तद्रूपं च सुखत्वं दुःखविरहत्वं वा नान्यत् । न चेश्वरत्वं तथेत्यत्र मानमस्ति । न च रमापतिरूपेश्वरस्तयो-रन्यतरः । येन स्वतः पुरुषार्थः स्यात् । तथा च कथं तदनु-भावकत्वेऽप्युक्तागमप्रामाण्यनिर्वाह इति शङ्काभिप्रायः। यद्यपि ‘४विज्ञानमानन्दं ब्रह्म’५ ‘यो वै भूमा तत्सुखम्’६ इत्यादिश्रुत्या रमापतेः सुखरूपत्वावेदनेनास्त्येव सुखदुःखाभावयोरन्यतरत्वम् । तथा
‘य आत्मनि तिष्ठन्’७, ‘एक एव तु भूतात्मा भूते भूते व्यवस्थितः’८
इति तस्य स्वाश्रितत्वञ्च श्रुतम् । तथाऽपि सुखदुःखाभावयोरिव भगवतः सम्बन्ध-विशेषेणैकान्ताश्रितत्वे प्रमाणाभावेन तस्य तान् प्रति न तेन रूपेणेष्टत्वमिति ध्येयम् ।
ननु इष्टो नो रमापतिरित्यस्माद्रमापतिरिष्टो नेति प्रतीतेः कथं तद्बोधकत्वेऽप्यागमस्येष्टबोधकत्वेन प्रामाण्यसिद्धिरिति भ्रान्तिं निवारयितुं नायमोदन्तो निपातः प्रतिषेधार्थः । किं तु षष्ठी-स्थास्मच्छब्दस्य ‘बहुवचनस्य वस्नसौ’१ इति नसादेशोऽयमिति ज्ञापनायाऽह- नोऽस्माकमिति ।। द्वितीयास्थास्मच्छब्दबहुवचनरूपत्वेऽनन्वयः । रक्षत्वित्यध्याहारे च स एव दोष इति भावः । ‘न केवलं ममैव रमापतिरिष्टः । किं तु मत्समानशीलानां सर्वेषामिति स्वाशयज्ञापनाय नः इत्याचार्येण षष्ठीबहुवचनान्तनिर्देशः कृतः’ इति अनेन व्याख्यानेन भावितम् ।
नन्वीश्वरस्य सुखादेः सुखत्वादिनेव रमापतित्वादिना स्वरससुन्दरत्वे २तदेव प्राणभृन्मात्रं प्रत्यपीष्टत्वप्रसङ्गः । उत्तमाधिकारिणः प्रत्येवेत्यस्यासम्भावितत्वादित्यशङ्क्य ३अगस्त्यस्य समुद्र-पानवत् कामधेनोः ४प्रासादाद्युद्गिरणवच्च असम्भावितमपि प्रमाणसिद्धत्वात् स्वीकार्यमेव । किमुत सम्भावितं प्रामाणिकञ्चेत्यभिप्रेत्य पदार्थेषु वैचित्र्यदर्शनात् पुरुषविशेषान् प्रत्येवेश्वरस्येष्टत्वं सम्भावितमिति वक्तुं तदनुरूपदृष्टान्तं तावदाह- यथा खल्विति ।। भवन्तीति भावाः पदार्थाः । तथाभूता इष्टसाधनतामासादयन्तः । लौकिकानामनुत्तमाधिकारित्वेन लोकविदितानाम् । इष्टतां निरुपाधीष्टताम् ।
ननु रमापतिर्निरुपाधीष्टश्चेत् सुखादिवत्सर्वान् प्रत्यपि तथा स्यात् । न चेद्घटादिवत् कांश्चित् प्रत्यपि न स्यात् । विशेषनियामकाभावादित्युक्ताशङ्कानिवारणायात्र भगवान् इत्युक्तम् । अनेन-
‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।।’
इति भगवच्छब्दप्रवृत्तिनिमित्ततयोक्तं समग्रैश्वर्यमेव तत्र विशेषनियामकमिति विभावितम् । मनुष्यान् प्रतीष्टविशेषसाधनत्वस्वरूपायोग्या अपि तृणादिपदार्थाः पश्वादीन् प्रत्येव यथा इष्टविशेषसाधनत्व-स्वरूपयोग्या दृश्यन्ते एवमनुत्तमाधिकारिणां निरुपाधीष्टतामभजन्नपि भगवानैश्वर्यविशेषवशाद् उत्तमाधिकारिणां निरुपाधीष्टो भवतीति किमनुपपन्नमिति यथा खल्विति वाक्यस्य निर्गलितोऽर्थः ।
नन्वेवं पुरुषवैचित्र्यदर्शनात् कांश्चित्प्रत्येवेश्वरस्य निरुपाधीष्टत्वे तर्ह्यपवर्गादिकमपि तान् प्रति निरुपाधीष्टं न स्यादित्याशङ्क्येष्टापत्त्या परिहरति- सन्ति खल्विति ।। अपवर्ग इति ।। अनाद्यविद्याकाम्यकर्मादि१रूपोपप्लवहेतूच्छेदरूप इत्यर्थः । परमेति ।। पुरुषस्य परमत्वमुत्तमत्वम् । तच्च कल्याणगुणपूर्णत्वेनेति २कल्याणगुणविशिष्टतया परमपुरुषार्थावबोधार्थमित्यर्थः । सुख-दुःखाभावयोरन्यतरत्वाभावेऽपि रमापतिः कांश्चित्प्रत्येव निरुपाधीष्ट इत्यत्रैव किं मानमित्यतस्तत्र प्रमाणं वक्तुमाह- यथोक्तमिति ।। एकस्मिन् ईश्वरे अन्तो निरुपाधीष्टत्वनिश्चयो येषाम् । कस्यचिदर्थे कस्मैचित्प्रयोजनाय । नारायणो दोषविरुद्धः सकलकल्याणगुणाश्रयः । देवो न उपास्यो न । दीव्यते गम्यते ज्ञायते स्तूयत इति वा देवः । सर्वमन्यत् श्रवणमनननिदिध्यासनसाक्षात्कार-तत्साध्यमोक्षकालीनकर्मानुष्ठानादिकमन्यत्सर्वं भगवद्गुणानुभवैकप्रयोजनमिति तद्वचनार्थः ।
ननु ‘द्यावापृथिवी जनयन्’ इत्यादेः निरुपाधीष्टेश्वरबोधकत्वेन पुरुषविशेषान् प्रत्युपादेयत्वेऽपि नास्मदादीन् प्रति तस्योपादेयत्वं स्यादित्यत आह- इतरान् प्रत्यपीति ।। तत्परत्वमिति ।। तत्प्रतीतिप्रयोजनकत्वमित्यर्थः । नन्वीश्वरस्येतरान् प्रति निरुपाधीष्टत्वाभावे बुभुत्सितत्वायोगात् तत्प्रतिपादकागमस्य वैयर्थ्यं तदवस्थमित्यत आह- इष्टवदिति ।। अन्यथा ‘स्वर्गकामो यजेत’ इत्याद्यागमानामपि वैयर्थ्यं स्यात् । एतावांस्तु विशेषः । यागादिरूपेष्टसाधनं स्वरूपेण कृति-साध्यम् । भगवत्स्वरूपं तत्प्रसादविशिष्टतयेति । ईश्वरस्यापवर्गादिरूपेष्टसाधनत्वम्-
‘संसारमोक्षस्थितिबन्धहेतुः’ ‘त्वं मुक्तिदो बन्धदोऽतो मतो मे’
इत्यादिश्रुतिसिद्धमिति न तत्र विवदितव्यमिति भावः । यद्यप्यत्रेश्वरस्य संसाराद्यनिष्टहेतुत्वमपि श्रूयते तथापीश्वरस्य पित्रादिवत् परमहितैषितयोपादेयत्वमेव । अन्यथा कष्टं कर्मेति न्यायेन ज्योतिष्टोमादीनामप्यनुपादेयत्वमेव स्यादिति ध्येयम् ।
श्रीवेदेशतीर्थ
किमपि प्रयोजनमभिधीयत इत्युक्तम् । तद्वक्तुमाक्षिपति- नन्विति ।। ग्रन्थो हि वादप्रक्रियया प्रवर्तते । वादे च -
‘पृष्टेनाऽगम एवाऽदौ वक्तव्यः साध्यसिद्ध्ये ।’३
इत्यागमस्याऽदौ वक्तव्यत्वोक्तेरागममेवादावाह- आगममिति ।। मङ्गलस्य समाप्तिहेतुतावबोधक-श्रुतिवन्नायमनुमेय इत्याह- श्रूयते हीति ।। केवलसिद्धार्थेति ।। स्वप्रधानतया कार्यत्वाति-रिक्तार्थबोधकस्येत्यर्थः । कार्यान्वितसिद्धार्थबोधकत्वं त्वनुमतमिति भावः । प्रवृत्त्याद्यनङ्गतयेति ।। यद्यपि बोधकत्वेन प्रामाण्यं तथापि वाक्यप्रयोगस्य परार्थत्वात् परप्रवृत्तिनिवृत्त्यौपयिक एवार्थो वाक्यबोध्योऽङ्गीकार्यः । कार्यमेव तथाविधम् । कार्यवाचिपदोपेतवाक्यात् प्रवृत्त्यादेर्दर्शनात् । तच्छून्यवाक्याच्चादर्शनादिति भावः । सिद्धार्थबोधकवाक्यस्य वैयर्थ्यं वदतो मते कार्यताबोधकत्वेन प्रामाण्यमभिमतम् । कार्यताबोधस्य प्रवृत्त्याद्यङ्गत्वात् । कार्यता १चेष्टसाधनतातिरिक्ता न काचिदित्यन्यत्रोक्तम् । तथा चेष्टरूपपरमात्मबोधकस्यागमस्य कार्यताबोधकत्वेनैव प्रामाण्यमुप-पन्नमित्यभिप्रेत्याऽह- यद्धि यस्येष्टमित्यादिना ।। प्रवृत्त्याद्यनङ्गतयेत्युक्तं दोषं परिहरति- न चेति ।। प्रवृत्त्याद्यनुपपत्तिदोषश्च नेति सम्बन्धः । इष्टानुभवस्यैवेति ।। अत्रेष्टानुभवपदेन स्वसम्बन्धिवर्तमानेष्ट-ज्ञानमात्रं विवक्षितम् । तेनात्रानुभवपदेन स्मृत्यन्यज्ञानमात्रमुच्यते साक्षात्कारो वा । नाऽद्यः । ‘यन्न दुःखेन सम्भिन्नम्’ इत्यागमजन्यज्ञानस्यापि पुरुषार्थत्वापत्त्या ततः प्रयोजनान्तरापेक्षाभाव-प्रसङ्गात् । न द्वितीयः । प्रकृतेऽपि ‘द्यावाभूमी’ इत्याद्यागमेन रमापतिरूपेष्टसाक्षात्काराजननात् तद्वैयर्थ्यप्रसङ्गस्तदवस्थ इति निरस्तमित्याहुः । ततः प्रयोजनानपेक्षणादिति ।। अयं भावः । परप्रयोजनोपयुक्तमेव वाक्यं प्रमाणमिति सत्यम् । परप्रयोजनं च परस्यापेक्षितमेव भवति । परश्च मुख्यतयेष्टमनिष्टनिवृत्तिं वा अमुख्यतया तत्साधनं वा अपेक्षते । न प्रवृत्तिनिवृत्ती । क्लेशरूपत्वात् । प्रवृत्त्याद्यर्थवाक्यानामपीष्टसाधनज्ञानार्थत्वेनैव सार्थकत्वाच्च । यथोक्तम् अनुव्याख्याने-
‘इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ।
अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।।
क्वापि चेष्टा तदर्था स्यात्...... ।’२ इति ।
अतः परमेष्टेश्वरानुभवस्यैव परैरर्थ्यत्वान्मुख्यप्रयोजनत्वेन ततः प्रयोजनान्तरानपेक्षणान्न तत्परागमवैयर्थ्यमिति । केषाञ्चित् ज्वराद्युपेतानाम् । भावाः क्षीरादयः पदार्थाः । परेषां ज्वरादिरहितानाम् । नन्वेकान्तभक्तानामागमस्येष्टबोधकत्वेनोपादेयत्वेऽपि मध्यमभक्ता-द्यनुपादेयत्वं स्यात् । तान् प्रतीश्वरस्येष्टत्वाभावादित्यत आह- इतरान् प्रत्यपीति ।।
नारायणस्तु मोक्षार्थो मोक्षो नान्यार्थ इष्यते ।
इति मध्यमभक्तानां....................... ।। इत्युक्तेरित्यर्थः ।
द्वैतद्युमणि
यद्धि यस्येष्टमिति ।। इष्टं स्नेहविशेषविषयीभूतम् । अनुपादेयत्वं तत्पुरुषवृत्तीच्छा-विषयत्वाभाववत्स्वतात्पर्यविषयीभूतबोधकत्वम् । तत्प्रसङ्गात् तत्पूर्वकमप्रामाण्यप्रसङ्गादित्यर्थः । इष्टश्चेति ।। इष्टत्वं तु जिज्ञासाजननद्वारा वाक्यस्योपादेयत्वे नियामकम् ।
तस्यैवेति ।। सुखस्यैवेत्यर्थः । एवकारेण घटादिव्यवच्छेदः । स्वस्य सुखस्य यो रसः असाधारण-धर्मः सुखत्वम् । तेन सुन्दरत्वात् । तत्प्रयोज्यनिरुपाधिकेष्टत्ववत्त्वात् ।
श्रीराघवेन्द्रतीर्थ
किमपि प्रयोजनमभिधीयत इत्युक्तं तद्वक्तुमाक्षिपति- नन्विति ।। वक्ष्यमाणानुमानस्यानु-ग्राहकमाह- आगमं तावदिति ।। २मङ्गलस्य समाप्तिहेतुतावबोधकश्रुतिवन्नानुमेय इत्याह- श्रूयते हीति ।। इत्यादीति ।। ‘एको दाधार भुवनानि विश्वा’ ‘उक्षा स द्यावापृथिवी बिभर्ति’ ‘यत्प्रयन्ति’ ‘आत्मानमन्तरो यमयति’ इत्यादिरादिपदार्थः । केवलेति ।। कार्यानन्वितकृत्यसाध्यरूपार्थ इत्यर्थः । तथा सतीति ।। इष्टादन्यस्य बोधन इत्यर्थः । शङ्कते- स्वाश्रित इति ।। स्वीयमनोगत इति वा धनीतिवन्मनोगतं प्रति स्वामितासम्बन्धेन स्वाश्रित इति वा पररीत्या वा स्वाश्रित इत्युक्तिः । केषाञ्चिदिति ।। उष्ट्रादीनामिष्टसाधनताविधुराः कदलीफलादयोऽन्येषामिष्टसाधनभूता दृश्यन्त इत्यर्थः । यथोक्तमिति ।। गीताभाष्ये सप्तमान्ते । ग्रन्थकर्ता च एकान्तीति भावः ।३
गुरुराजीया
किमपि प्रयोजनमभिधीयत इत्युक्तम् । तद्वक्तुं गूढाभिसन्धिराक्षिपति- नन्विति ।। किं प्रमाणं न किमपीत्यर्थः । तद्धि न तावत्प्रत्यक्षम् । तस्याऽपाततस्तदभावावेदकत्वात् । नाप्यनु-मानम् । तत्प्रतिबद्धलिङ्गाभावात् । नाप्यागमः । तस्य प्राभाकररीत्या कार्यनिष्ठत्वेन सिद्धरूपेश्वरपरत्वासम्भवात् । नाप्यर्थापत्तिः । तस्या अनुमानानतिरेकेण तत्पक्षोक्तदोषात् । नाप्युपमानाभावौ । तयोर्नियतविषयत्वादित्याशयः । गूढाभिसन्धिरेव परिहरति- आगममिति ।। अनुमानस्याप्युत्तरत्र कथनात् तावदित्युक्तम् ।
ननु आगमः किं प्रत्यक्ष उताऽनुमानिकः । नाऽद्यः । तदनाकलनात् । नान्त्यः । तदनुमापकलिङ्गाभावादित्यतः प्रथमं कल्पमङ्गीकृत्य तत्पक्षोक्तदोषमसिद्ध्या परिहरति- श्रूयते हीति ।। पूर्ववादी स्वाशयमुद्घाटयति- केवलसिद्धार्थेति ।।
ननु कार्यान्विततया यूपाहवनीयादाविव उपासनाकार्यशेषतया सिद्धरूपेऽपीश्वरे ‘द्यावाभूमी जनयन् देव एकः’ इत्यागमप्रामाण्यसम्भवात् कथं कार्य एव प्रामाण्यमित्यवधारणमित्यतो न सर्वथाऽऽगमस्य तत्र प्रामाण्यं निराकुर्मः । किं तु सिद्धान्त्यभिमतमकार्यशेषतया स्वप्रधाने ईश्वरे तत्प्रामाण्यमेवेति युक्तमवधारणमिति भावेन केवलत्वेन सिद्धविशेषणम् । केवलत्वं च सिद्धस्य कार्यान्वयरहितत्वम् । स्वप्रधानत्वमिति यावत् ।
अयमाशयः । यद्यपि बोधकत्वेनैव प्रमाणानां प्रामाण्यम् । ज्ञापनमेव साक्षाद्वाक्यस्य प्रयो-जनम् । तथापि स एवार्थो वाक्येन ज्ञापनीयो यज्ज्ञानं परस्य क्वचित् प्रवृत्तिं क्वचिन्निवृत्तिं कुर्यात् । परप्रवृत्तिनिवृत्त्यभिप्रायेण वाक्यप्रयोगात् । प्रवृत्त्यादिकारणं च कार्यज्ञानमेव । ‘अग्निहोत्रं जुहुयात् स्वर्गकामः’ इत्यादिकार्यपरवाक्यश्रवणात् प्रवृत्त्यादिदर्शनात् । न केवलसिद्धज्ञानम् । ‘काकस्याष्टौ दन्ताः’ इति सिद्धपरवाक्यश्रवणात् प्रवृत्त्याद्यदर्शनात् । अतः प्रवृत्त्यादिकारणं कार्यमेव वाक्यबोध्यमिति तत्रैवाऽगमस्य प्रामाण्यं नेश्वर इति ।
कथमिष्टत्वोक्तिमात्रेणोक्तशङ्कापरिहार इत्यतो नायमस्ति नियमः कार्यमेव वाक्यबोध्यं नान्यदिति । किं तु यद्धि यस्य बुभुत्सितं तदेव वाक्येन तं प्रति बोधनीयं नान्यदिति । अन्यथा अपिपासुं प्रति जलाशयोपदेशस्यापि प्रामाण्यप्रसङ्गात् । ईश्वरश्चेष्टत्वाद्बुभुत्सित इति युक्तं तत्प्रतिपादकत्वमागमस्येति बुभुत्सितत्वनियामकेष्टत्वकथकत्वाद् युक्तोऽनेनोक्तशङ्कापरिहार इत्यभिप्रेत्येश्वरबोधकतामुपपादयति- यद्धीति ।। इष्टं बुभुत्सितमित्यर्थः ।
ननु ‘अग्निहोत्रं जुहुयात् स्वर्गकामः’ इत्यादौ वाक्यजन्यज्ञानस्य प्रवृत्त्यादिजनकतया प्रयोजनवत्त्वदर्शनादीश्वरज्ञानस्य च तदजनकत्वात् कथं प्रयोजनवत्त्वमित्याशङ्क्य तद्वाक्यार्थस्य निरुपाध्यनुकूलत्वाभावेन तज्ज्ञानस्य स्वतः प्रयोजनत्वासम्भवेन प्रयोजनान्तरसाधनतयैव प्रयोजन-विषयत्वेन तदर्थतया प्रवृत्त्यादिजनकत्वावश्यम्भावेऽपि प्रकृते बोध्यस्येश्वरस्य निरुपाध्यनुकूलतया तज्ज्ञानस्य स्वतःपुरुषार्थत्वेन प्रयोजनान्तरानपेक्षणान्न प्रवृत्त्याद्यजनकत्वेऽपि प्रयोजनत्वव्याघात इत्याशयेनाऽह- न चेत्यादिना ।। तत इति ।। तस्येत्यर्थः । ज्ञानमात्रस्य प्रयोजनान्तरसाधनतया प्रयोजनत्वनियमादिष्टानुभवस्यापीश्वरज्ञानस्य प्रयोजनान्तरापेक्षा स्यादेव । अन्यथा प्रयोजनत्वा-निर्वाहादित्यतो व्यभिचारान्नोक्तनियमो युक्त इत्याह- न हीति ।। बुभुत्सितत्वप्रयोजकस्येष्टत्व-स्यैवेश्वरेऽसिद्धेः न तस्य बुभुत्सितत्वमिति कथं वाक्यबोध्यतेत्यभिप्रेत्य तस्येष्टत्वाभावमाशङ्कते- स्वाश्रित इति ।। उत्तमाधिकारिणामिति ।। पुरुषार्थान्तराभिलाषशून्यानामित्यर्थः । कुतः प्रमाणात् तन्निश्चय इत्यतः उत्तमाधिकारिस्वरूपविवरणपूर्वकं तत्र प्रमाणमप्याह- सन्तीति ।। एकान्तानां नियतानामुत्तमभक्तानाम् । न कस्यचिदर्थे । स एव परमपुरुषार्थ इत्यर्थः । एक एवान्तोऽन्तं गतः अस्मादसावुच्च इति तारतम्यक्रमस्यान्तगतो हरिर्वेद्यतया येषां ते एकान्ता इति वा अर्थः ।
‘अस्मादसावुच्च इति क्रमस्यान्तगतं हरिम् ।
एकमेव तु ये विद्युस्ते ह्येकान्तिन ईरिताः ।।’
इति छान्दोग्यभाष्यानुसारादिति ध्येयम् । अस्त्वेवमुत्तमाधिकारिणः प्रतीष्टत्वेन भगवतो बुभुत्सित-त्वाद्वाक्यबोध्यत्वं तथापि तदितरान् प्रति न तद्बोधकत्वमागमस्य सम्भवति । तत्प्रयोजकीभूत-बुभत्सितत्वप्रयोजकाभावादित्यतो न निरुपाध्यनुकूलत्वमात्रं बुभुत्सिततायां प्रयोजकम् । किं तु तत्साधनत्वमपि । ततश्चेतराधिकारिणः प्रति भगवत इष्टत्वाभावेऽपि इष्टसाधनत्वेन बुभुत्सितत्वोपपत्तेर्युक्तमेव तान् प्रत्यपि ईश्वरबोधकत्वमागमस्येत्याह- इतरान् प्रतीति ।।
गोविन्दीया
नन्विति ।। मास्तु धर्मसद्भावे प्रमाणचिन्ता तावत्, ईश्वर एव धर्मिणि किं प्रमाणमि-त्यर्थः । प्रवृत्तीति ।। प्रवृत्तिनिवृत्त्यनङ्गतयेत्यर्थः । तथा सतीति ।। अनिष्टबोधनेनेत्यर्थः । इष्टेति ।। इष्टानुभवस्यैव पुरुषापेक्षितत्वेन मुख्यप्रयोजनत्वात्, ततः तस्माद् उद्भाव्यमानप्रयोजनान्तरानपेक्ष-णादित्यर्थः । स्वरसेति ।। प्रयोजनान्तरमनपेक्ष्य स्वरससुन्दरत्वात् स्वतो दक्षत्वादित्यर्थः । तथाभूता इति ।। इष्टसाधनताम् अनासादयन्त इत्यर्थः । इतरानिति ।। तत्परत्वम् इष्टसाधनत्वपरत्वम् आगमस्यानुपपन्नम् इष्टपरत्वेनाङ्गीकारादिति न वाच्यमित्यर्थः ।
जनार्दनभट्टीया
इष्टविशेषणस्य प्रयोजनं वक्तुं तद्व्यावर्त्यां शङ्कामुत्थापयति – नन्विति ।। ‘सर्वत्र’ इत्यादिविशेषणविशिष्टे तु दूरोत्सारितमित्येवकारार्थः । आगमं तावदिति ।। क्रमेण अनुमानमपि ब्रूम इति ‘तावत्’शब्दः क्रमार्थः । श्रूयते हीति ।। ‘अस्ति हि’ इति वाच्ये ‘श्रूयते हि’ इति वदता नेयं श्रुतिरध्येतॄणामभावादुच्छिन्ना नापि मङ्गलस्य समाप्तिकारणताबोधकश्रुतिवदनुमेयेति सूचितम् । अत्र यद्यपि ‘यतो वा इमानि भूतानि’ इति श्रुतिरुदाहर्तुं शक्या । तथापि प्रकृते तदुदाहरणे तात्पर्य-चन्द्रिकारीत्या रुद्रादेरपि कल्पभेदेन जगत्कारणत्वमस्तु । अतो नेयं श्रुतिर्नित्यातादृशचिच्चेत्य-यन्तृत्वविशिष्टे प्रमाणमिति शङ्कोदयात् तामनुदाहृत्यापतच्छङ्कानिवर्तक‘एक’पदघटितेयमेव श्रुतिरुदाहृतेति ज्ञातव्यम् । ‘आदि’ इत्यनेन ‘य उ त्रिधा तु पृथिवीमुत द्यामेको दाधार’ इत्यादेर्ग्रह-णम् । केवलसिद्धार्थेति ।। १कार्यपरस्य ‘गामानय’ इत्यादेर्गवादिरूपसिद्धार्थबोधकस्यापि प्रवृत्त्यङ्गत्वदर्शनादाह – केवलेति ।। ततश्च सिद्धसमभिव्याहृतानयनादिकार्यबोधकत्वात् प्रवर्तकत्वमुपपद्यत इति भावः । स्वरससुन्दरत्वादिति ।। निरुपाधिकेच्छाविषयत्वादित्यर्थः । न इति पदव्यावृत्त्या शङ्कामुत्थापयति – स्वाश्रित इति ।। दुःखनिवृत्तौ इत्यत्र ‘स्वाश्रितायाम् इति शेषः ।
उत्तमाधिकारिणामिति ।। एकान्तभक्तानामित्यर्थः । अत एव तथैव गीताभाष्योदाहृतप्रमाणमाह– एकान्तानामिति ।। नन्वितरकार्यापेक्षया रमापतेरिष्टत्वाभावेन तान् प्रति तस्य बोधनीयत्वं स्यादित्यत आह– इतरानिति ।। बुभुत्सितत्वादिति ।। तथा चेष्टसाधनसाधारणं बोधनीयतावच्छेदकं बुभुत्सितत्व-मेव । अतो नाननुगम इति भावः ।
नारोपन्तीया
सिद्धार्थबोधकस्येति । अयमत्र कार्यतावादिनः प्राभाकरस्य पूर्वपक्षिणोऽभिप्रायः । वाक्यं तावद् द्विविधम्- कार्यपरं सिद्धार्थबोधकं च । तत्राऽद्यं लिङ्लोट्तव्यपञ्चमलकारान्यतमवत् । ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादि वैदिकम् । ‘गामानय’ इत्यादि लौकिकं च तदुभयमपि कार्यबोधकम् । प्रयोजकवृद्धोदीरितप्रयोज्यवृद्धव्यापारदर्शनेन तटस्थस्य व्युत्पित्सोर्बालस्य कार्यतायामेव लिङादेः शक्तेर्गृहीतत्वात् । कार्यत्वं च कृतिसाध्यत्वम् । ततश्च ‘स्वर्गकामस्य यागः मम कृतिसाध्यः’ इति ज्ञात्वा पुरुषः प्रवर्तत इति तादृशं वाक्यं प्रवृत्त्यङ्गत्वाद्भवति प्रमाणम् । द्वितीयं तु ‘द्यावाभूमी जनयन् देव एकः’ इत्यादि वैदिकम् । ‘सुरसमाम्रफलम्’ इत्यादि लौकिकम् । तदुभयमपि प्रवृत्त्याद्यनङ्गत्वादप्रमाणम् । तदर्थस्येश्वरादेः सिद्धरूपत्वेन कृतिसाध्यत्वाभावात् । तथा चात्र तर्कः- यदीदं वाक्यं ईश्वरे प्रमाणं स्यात् तर्हि अनुपादेयतया व्यर्थं स्यात् । तदेव हि वाक्यमुपादीयते यत्प्रवृत्त्याद्यङ्गम् । तत्रैव च पुरुषः प्रवर्तते । यत्पुरुषस्य कृतिसाध्यम् । न च तदर्थत्वेनाभिमत ईश्वरस्तथा । तस्य सिद्धार्थत्वादिति । तस्मान्नेदं वाक्यं अत्रार्थे प्रमाणमिति ।
सिद्धान्ताभिप्रायस्तु- न तावदत्र भवता याथार्थ्यलक्षणस्य सर्वजनसम्प्रतिपन्नस्य प्रामाण्यस्य प्रतिषेधः कर्तुं शक्यः । ‘द्यावाभूमी जनयन् देव एकः’ ‘सुरसमाम्रफलम्’ इत्याद्युदाहृतवाक्ये, यथाव-स्थितार्थविषयीकारिज्ञानसाधनत्वरूपयाथार्थ्यस्य सत्त्वात् । किं तु यथार्थमपि वाक्यं द्विविधम् । उपादेयमनुपादेयं च । तत्र विषयप्रयोजनादिमदुपादेयम् । अत एव सर्वेष्वपि शास्त्रेषु प्रेक्षावदुपादित्साप्रयोजकं विषयप्रयोजनादि वर्णयन्ति । अतथाविधं त्वनुपादेयम् । यथा रासभ-लोमविचारादिशास्त्रम् । तत्रापि तान्त्रिकाणां अप्रामाण्यव्यवहारात्, उपादेयत्वाख्यमपि तान्त्रिकाणां पारिभाषिकम् । द्वितीयं प्रामाण्यमभ्युपगतमस्ति तत्सिद्धार्थबोधके प्रकृतवाक्ये नास्तीति वक्तव्यम् । तदप्ययुक्तम् । तथा हि- निष्प्रयोजनमनुपादेयप्रयोजनवदुपादेयमिति तावत् तवापि सम्मतम् । प्रयोजनवत्ता चास्य वाक्यस्य ‘स्वाध्यायोऽध्येतव्यः’ इत्यध्ययनविध्यध्यापितस्य सर्वस्याप्याम्नायस्य पुरुषार्थपर्यवसायित्वावगाहनादेव सिद्धा । प्रयोजनं तदुच्यते यत्पुरुषस्येष्टं तदेव । पुरुषेणार्थ्यमानत्वात् पुरुषार्थ इत्युच्यते । तच्चाधिकारिवैचित्र्यान्नानाविधम् । न त्वनुगतं किञ्चिदस्ति । अत एव मुमुक्षुं प्रति अन्यदप्रमाणमिति व्यवस्थिते एव प्रामाण्याप्रामाण्ये । अत एव मुमुक्षुं प्रति वात्स्यायनशास्त्रं, स्वर्गकामादिवाक्यं, विरक्तं प्रति वाणिज्योपदेशवाक्यं च सत्यपि याथार्थ्ये अप्रमाणमेव । अविरागावस्थायां च तदेव तं प्रति प्रमाणमेव । तस्मिन् काले तदिष्टसम्पादकत्वात् । अत एव व्रीहिनिर्वापकाले ‘व्रीहिभिर्यजेत’ इति व्रीहिशास्त्रमेव प्रमाणम् । ‘यवैर्यजेत’ इति यवशास्त्रमप्रमाणमेवेति एकैकस्मिन् शास्त्रे क्लृप्ताप्रामाण्यपरित्यागो क्लृप्तप्रामाण्यकल्पनम् । क्लृप्तप्रामाण्यपरित्यागोऽ-क्लृप्ताप्रामाण्यकल्पनमिति चत्वारश्चत्वारो दोषा इत्यष्टदोषदुष्टो विकल्प इति मीमांसकानां घण्टा-घोषः ।
एवं च द्यावाभूमीवाक्यार्थस्यापि पुरुषविशेषं प्रतीष्टत्वात्तद्बोधकं एतत्कथनं प्रामाण्यमश्नुवीत । सन्ति हि लोकेऽपि ‘पुत्रस्ते जातः’ इत्यादीनि वाक्यानि, केवलसिद्धार्थबोधकान्यपि इष्टार्थबोधकत्व-मात्रेणाऽनन्दहेतुत्वादुपादेयतालक्षणप्रामाण्यभाञ्जि । प्रवृत्तिजनकत्वेन उपादेयतां वदताऽपि न तन्मात्रजनकत्वादुपादेयता वक्तुं शक्या । किं नाम ? वाक्यार्थबोधानन्तरं प्रवृत्तौ सत्यां तदनन्तर-कालीनाभीष्टावाप्तिमादाय तथात्वं वाच्यम् । सा चेद्विनाऽपि प्रवृत्तिं वाक्यार्थश्रवणाद्भवेत् । किमिति प्रवृत्तिं प्रतीक्षामहे । तदिदमाहुः- ‘र्ओ चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ इति । अभ्युपेत्य चेदमुदि-तम् । वस्तुतस्तु त्वदुक्तन्यायेनैव ‘स्वाध्यायोऽध्येतव्यः’ इत्यध्ययनविधिवाक्यबलादेव सिद्धे द्यावाभूमीवाक्यार्थभूते ब्रह्मण्येव सर्ववेदानां महातात्पर्यं सिध्यति ।। तथा हि- अध्ययनविधिना तावत्पुरुषार्थपर्यवसायिता स्वाध्यायस्यावगता । तत्र पुरुषार्थो द्विविधः । ऐहिकः, आमुष्मिकश्च । आमुष्मिको स्वर्गोऽपवर्गश्चेति द्विविधः । तत्र ‘मुख्यामुख्ययोर्मुख्ये कार्यसम्प्रत्ययः’ इति न्यायेनापवर्गरूपमुख्यपुरुषार्थपर्यवसायित्वं वाच्यम् । स चापवर्गः ‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते’१ इति श्रुतेः ब्रह्मज्ञानैकसाध्य इत्यगत्या सर्वस्यापि स्वाध्यायस्य ब्रह्मज्ञापकत्वमनिच्छताऽपि वक्तव्यमेव । अन्यथाऽध्ययनविधिप्रामाण्यस्य जलाञ्जलिप्रदानापत्तेः । एतदेवाभिप्रेत्य श्रुतिः सहेतुकं भगवत्परत्वमुपपादयति-
‘सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् ।
अवान्तरं तत्परत्वं तदन्यत्सर्वागमानां पुरुषार्थस्ततोऽतः ।।’२ इति ।
सौपर्णश्रुतिरप्यमुमेवार्थमाह–
‘न तादृशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात् ।
तत्प्रीणनान्मोक्षमाप्नोति सर्वस्ततो वेदास्तत्पराः सर्व एव ।।’ इति ।
तथा स्मृतयोऽपि-
‘वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृत्’३, ‘वेदे रामायणे चैव पुराणे’ इत्यादिकाः । तस्मादिष्टरूपभगवत्स्वरूपबोधकत्वात् सर्वोऽपि वेदान्त एकान्तानाम् उपादेयत्वात् प्रमाणमेव । वृद्धव्यवहारेण शक्तिग्रहकालेऽपि इष्टसाधनताज्ञानस्यैव प्रवर्तकत्वात् । लिङर्थोऽपि मनादौ निषिद्धेऽपि कलञ्जभक्षणादौ प्रवृत्त्यापत्तेः ।।
स्यादेतत् । यद्यथाकथञ्चित्कार्यताज्ञानं प्रवर्तकं ब्रूमः । किं त्विष्टसाधनताप्रतिसन्धानजन्यं तथा । न च सन्ध्यावन्दनादौ नित्यकर्मणि पण्डापूर्ववादिनो मम इष्टसाधनत्वाभावादप्रवृत्तिः स्यादिति वाच्यम् । तत्र शुचितत्कालजीवित्वप्रतिसन्धानजन्यस्यैव कार्यताज्ञानस्य तथात्वात् । न चैवमननु-गमः । स्वविशेषणवत्ताप्रतिसन्धानजन्यकार्यताज्ञानत्वेनानुगमात् । अस्यार्थः- स्वस्य प्रवर्तमानपुरुषस्य यद्विशेषणं काम्यस्थले कामना । नित्यशुचिस्थले शुचितत्कालजीवनं तद्वत्त्वं तद्वर्तमानता । तत्प्रतिसन्धानजन्यं यत्कार्यताज्ञानं तत्त्वेनानुगमादिति । तथा च निषिद्धे कार्यताज्ञाने सत्यपि उक्तविधिविशेषसामग्रीविरहादप्रवृत्तिरिति ।
अत्र ब्रूमः । इष्टसाधनताप्रतिसन्धानजन्यं कार्यताज्ञानं प्रवर्तकमिति वदता ज्योतिष्टोमादि-विधयस्तावदप्रमाणीकृताः । तत्र हि लिङर्थः कृतिसाध्यत्वम् । तद्ज्ञानं च विधिवाक्यजन्यम् । न च विधिवाक्यमिष्टसाधनत्वं वा तत्प्रतिसन्धानं वा । तस्य शब्दात्मकत्वेनोभयरूपत्वाभावात् । किं चैवं वदतो भ्रान्तस्य मते अन्वयव्यतिरेकाद्यविषयेऽत्यन्तालौकिके यागस्वर्गयोः कार्यकारणभावे किं मानम्? ‘स्वर्गकामो यजेत’ इति विधेः यागः कृतिसाध्य इति वा, यागविषयं कार्यमिति वा, अर्थ इति त्वयाऽभ्युपगतत्वात् । कार्यताज्ञानजनकत्वेनाभिमतस्य तत्कालजीवप्रतिसन्धानादेः लौकिक-प्रमाणसिद्धत्वेऽपि इष्टसाधनताप्रतिसन्धानस्य कथं लाभः ? न हि यागस्य साधनत्वं प्रत्यक्षेणानुमान-सहस्रेण ज्ञातुं शक्यम् । ननु वाक्येन स्वर्गकामस्य यागविषयं कार्यमित्यवगते, कामी कामानुमायां कार्यतया नावगच्छति । किन्तु तदुपायमेवेति स्वर्गकामनावतः कर्तव्यतया उपदिश्यमानो यागोऽगत्या तत्साधनत्वेन पर्यवस्यति । तदुक्तम्-
‘कृतितत्साध्यमध्यस्थो यागादिर्र्विषयो मतः ।
कार्ये सङ्घटिताकारे करणत्वेन सम्मते ।।’
इति चेत्, अत्र प्रष्टव्यम् । किमियं मानसो बोध उपन्यस्तः, आनुमानिको अर्थापत्तिजो वा । नाऽद्यः । मनसो बहिरस्वातन्त्र्यात् । यागस्वर्गयोः सङ्कल्पसुखात्मकत्वात् कथं वाऽऽत्मत्वमिति चेत् । सत्यम् । विधिवाक्यार्थज्ञानकाले तयोरसन्निकर्षेण मानसत्वायोगात् । ज्ञात्वा खलु यागे प्रवृत्तिः । तदनन्तरं तत्स्वरूपसिद्धिः । मरणानन्तरं स्वर्गानुभव इति कथं तयोरिदानीं मानसत्वम् ? कारणतायाश्च शक्तिरूपत्वेनातीन्द्रियत्वमेवेति । विधिवाक्यस्य तु साधनत्वानावेदकत्वेन उपनायकत्वाभावात् । भावे वा किं मनःपर्यन्तधावनेन ? न च शब्देन स्वर्गादिकतिपयपदार्थोपस्थितौ प्रत्यक्षाद्युपस्थितिं घटादिनिष्ठं साधनत्वमात्रमादाय मानसः संसर्गबोधः उपपत्स्यत इति वाच्यम् । प्रत्यक्षोपस्थितमभावमादाय यागाभावः स्वर्गसाधनम् । ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’ इत्यादावपि प्रत्यक्षोपस्थितचण्डालादेरपि अधिकारान्वयापत्तौ, बहुविप्लवापत्तेः । न द्वितीयः । अनुमानं हि - यागः स्वर्गसाधनम् । स्वर्गकामवतः कर्तव्यतयाऽऽम्नानात्, इत्येवं प्रकारं वाच्यम् । प्रकारान्तरासम्भ-वात् । तस्य दृष्टान्ताभावेनानुत्थानात् । विधिवाक्यमात्रस्य पक्षप्रविष्टत्वात् । यद्यत्कामनावन्तं प्रति कार्यतयोपदिश्यते तत्तत्साधनम् । यथा तृप्तिकामं प्रति भुङ्क्ष्वेत्यादिपित्रादिवाक्येन, तृप्तिसाधनत्वेनोप-दिश्यमानं भोजनं तत्साधनमिति सामान्यव्याप्तिरस्तीति चेन्न । तत्रापीष्टसाधनत्वं लिङर्थ इति वदतो विप्रतिपत्तेर्दृष्टान्तस्य साधनविकलत्वात् । न च तत्कामस्य तत्कृतिसाध्यमिति साक्षात्कृतिसाध्यत्व-रूपार्थप्रतिपादकतया सम्प्रतिपन्नशब्दस्थले अधिकारिविशेषणीभूतकामनाविषयतृप्त्यादिकं प्रति विधेयस्य भोजनादेः साधनत्वावगमाद् अस्ति व्याप्तिरिति वाच्यम् । व्यधिकरणत्वात् । न हि वयं कृतिसाध्यताबोधकः शब्द एव नास्तीति ब्रूमः । किन्नाम ? लिङः तदर्थत्वे विप्रतिपद्यामहे । तत्र तावद्व्याप्त्युपन्यासस्याप्रयोजकत्वात् । वस्तुतस्तु सापि नास्ति । बुभुक्षोर्भोजनं कृतिसाध्यमित्युक्ते अधिकारिविशेेषणतया प्रतीयमानकामनायां विषयतयोपस्थिते भोजने भुक्तिसाधनत्वावगमात् । परस्त्रीकामः प्रायश्चित्तं कृत्या साधयेदित्युक्तौ चातथात्वेन व्यभिचारात् । एतेनैव तृतीयोऽप्यपास्तः । अर्थापत्तेरनुमानानतिभिन्नत्वात् । तस्माद्यागस्य स्वर्गं प्रति पूर्ववृत्तित्वसाधनतायां मानाभावेन कृतितत्साध्यमध्यस्थतैव दुर्ज्ञानेति तद्बलेन करणत्वबोध इति बिडालाशामात्रमेवेति । यदपि नित्यस्थले शुचितत्कालजीवित्वप्रतिसन्धानेत्युक्तं तदप्यतितुच्छमेव । विशेषणव्यावर्त्याभावात् । न हि मृतस्याशुचेर्वा काम्ये, लौकिके वा कर्तव्यताप्रसक्तिरस्ति । यदि च सम्भवमात्रेण तद्विशेषणं तर्हि प्रमेयत्वाभि-धेयत्वादिप्रतिसन्धानेत्यादिविशेषणमपि किमिति न प्रवेशयेः ? काम्येऽप्यशुचेर्मृतस्याप्यनधि-कारात् । शुचितत्कालजीवनप्रतिसन्धानमेव तत्राप्यस्तु ।।
माऽस्त्विष्टसाधनताप्रतिसन्धानरूपमधिकारिविशेषणम् । तत्र तस्याप्रवर्तकत्वे नित्येऽपि प्रवर्तकं न स्यात् । स्वर्गकामस्य शुचित्वादिविशिष्टस्य यागः कृतिसाध्य इति बोधेऽपि, ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’ इत्यादौ ब्राह्मणत्वमिव, सामवत्त्वादौ गृहदाहादिकमिव, स्वर्गकामनाऽपि निमित्तभूतं विशेषणमस्तु । ततश्च ब्राह्मणत्वादेरिव स्वर्गकामनाविषयस्वर्गादेर्धात्वर्थासाधकत्वेऽपि पण्डापूर्वमादायैव तत्र प्रवृत्तिरस्तु । न च तत्र फलाज्ञाने प्रेक्षावन्तो न प्रवर्तन्ते । तत्किं नित्ये तदज्ञाने प्रवर्तन्ते ? ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति वचनात् । प्रत्युत फलाज्ञाने निवृत्तेरन् । केवलं कष्टरूपत्वात् कर्मणः । अत एवाऽहुः -
‘विफलानि दुरन्तानि तुल्यायव्ययकान्यपि ।
विरुद्धान्यपि कार्याणि नारभेत विचक्षणः ।।’ इति ।
तस्मात् प्रेक्षावत्सु पापक्षयं ईश्वरप्रीतिं वा फलमपेक्ष्य प्रवर्तमानेषु तत्र पण्डापूर्वमेव । नित्यकर्माणि वस्तुतो निष्फलान्येवेति त्वत्प्रलापमात्रमवशिष्यते । एवमत्रापि काम्यस्थले लोकाः फलाभिसन्ध्यैव प्रवर्तन्ताम् । फलं नास्तीति च भवान् रारटीतु त्वदीयरटनस्य उन्मत्तप्रलापतया महाजनप्रवृत्त्य-प्रतिबन्धकत्वादिति दिक् ।।
एतेन स्वविशेषणवत्तेत्यादिनाऽनुगमोऽपि परास्तः । किञ्च सर्वत्र लडाद्याख्याते कृतिमात्रवाच्यं वाच्यम् । तदेव लिङादेरपि वाच्यमस्तु । न चैवं यजेतेत्यादिश्रवणवद् यजतीत्यादिश्रवणादपि प्रवृत्तिः स्यादिति वाच्यम् । त्वदुक्तविशेषणवत्तेत्याद्यावश्यकसामग्रीसत्त्वे इष्टापत्तेः । असत्त्वे तु तदभावादेव तदभावोपपत्तेः । एतच्चाभ्युपेत्योक्तम् । वस्तुतस्तु ‘न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययमात्रम्’ इति वचनात् निरर्थक एव लिङ् साधुत्वार्थोऽस्तु । यजेतेत्यनेन प्रवृत्त्यर्थयागस्वरूपमात्रावगतौ त्वदुक्तसामग्रीमहिम्नैव प्रवृत्त्युपपत्तेः । किञ्च प्रकृत्यसाध्ये कामनाया अनुदयात् कृतिसाध्यत्वज्ञानं कामनां प्रति हेतुरिति कथञ्चिद्वक्तुं युक्तमिति कथं तस्यास्तद्धेतुत्वं कथन्तरां च तदुत्तरभाविनः तृतीयकक्ष्यापन्नस्य कामनाप्रतिसन्धानस्य कार्यताज्ञानहेतुत्वम् । न हि सम्भवति नप्ता पितामहस्य जनक इति ।।
ननु कामना द्विविधा । फलविषया साधनानुष्ठानविषया चेति । तत्र चिकीर्षारूपायाः द्वितीयायाः कार्यताज्ञानजन्यत्वेऽपि आद्यायाः फलकामनायाः तत्पूर्वभावित्वोपपत्त्या युक्तमुक्तमिति चेन्न । तस्याः स्वरूपसत्याः कथञ्चित्प्रवर्तकत्वेऽपि तत्प्रतिसन्धानस्य कार्यताज्ञानं प्रत्यजनकत्वात् । फलेच्छाप्रतिसन्धानेऽपि चन्द्रमण्डलादौ तक्षकचूडामणिहरणादौ च कार्यताज्ञानानुदयात् । फलकामनाविरहेऽपि विरक्तस्य वाणिज्यादौ कृतिसाध्यताज्ञानोदयाच्चान्वयव्यतिरेकव्यभिचारात् । तस्मादगत्यावैदिकं मन्ये । न च यागस्वर्गयोः साध्यसाधनभावनिर्वाहाय साधनत्वमेव लिङर्थोऽवश्यं वाच्यः । तदुक्तम् अनुव्याख्याने– ‘कार्यता च न काचित् स्यादिष्टसाधनतां विना’१ इत्यादिना । तस्य कृतिसाध्यत्वं तु तदङ्गकलापस्य तदनुरूपद्रव्यादिसामर्थ्यस्य च पर्यालोचनया लोकत एवावगन्तुं शक्य इति । तदर्थकत्वे विधेर्वैयर्थ्यं स्यात् । ‘अपूर्वे शास्त्रमर्थवत्’ इति न्यायात् । किञ्च विधिवाक्यादेव कृतिसाध्यतावगमे अङ्गकलापपर्यालोचना, ज्योतिष्टोमः कर्तव्य इत्युपदिष्टे च श्रोतुः पुरुषस्य सः मत्कृतिसाध्यो न वेति सन्देहः सः कथं कियता द्रव्येण सिध्यतीत्यादिप्रश्नोऽपि न स्यात् । तस्मात्–
‘शास्त्रार्थो यद्यशास्त्रार्थः शास्त्रार्थश्च ह्यशास्त्रिकः ।
अहो मीमांसकम्मन्याः वेदविप्लवकारिणः ।।’ इति परिनिष्ठितम् ।।
एतेन ‘इष्टसाधनत्वविशिष्टं कृतिसाध्यत्वं लिङर्थः’ इति वदन्तः तार्किका अपि परास्ता वेदि-तव्याः । अनन्यलभ्यस्यैव शास्त्रार्थत्वमित्युपपादितत्वात् । नन्विष्टसाधनत्वज्ञानमात्रं न प्रवर्तकम् । निषिद्धे मधुविषसम्पृक्तान्नभोजनादावपि तत्सत्त्वेन प्रवृत्त्यापत्तेः । तथा कृत्यसाध्ये इष्टसाधने तक्षकचूडामण्याहरणादौ च प्रवृत्त्यापत्त्या बलवदनिष्ठाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यत्वज्ञानं प्रवर्तकमिति वाच्यम् । यागादिकर्मणोऽपि श्रमादिसाधनत्वादनिष्टरूपदुःखसाधनत्वेन तत्राप्यप्रवृत्त्यापातादनिष्टे बलवत्त्वं विशेषणम् । न च तस्यापि किञ्चिद्दुःखापेक्षया बलवत्त्वमस्त्येवेति कथं तद्व्युदास इति वाच्यम् । बलवदनिष्टाननुबन्धित्वशब्देनेष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःख-जनकत्वस्याभिप्रेतत्वात् । यागादेश्चेष्टोत्पत्तिनान्तरीयकं यद्दुःखं यागस्वरूपनिर्माणार्थं क्लेशः तदधिकं यद्दुःखं तदजनकत्वात्तथात्वम् । अगम्यागमनादौ तु तन्निष्पत्त्यर्थं दुःखाधिकस्य नरकयातनादिजन्यस्य दुःखस्य सत्त्वान्न तथात्वमिति चेत् । अकाण्डताण्डवमेतत् । प्रवर्तकज्ञानस्यैवंरूपत्वे लिङर्थस्य किमायातम् ? न हि यावत्प्रवृत्तिं जनयति तावत्सर्वं ज्ञानं लिङर्थविषयकमेवेत्यत्र किञ्चिन्मानं पश्यामः ।
अर्थवादादिवाक्यस्यापि तदर्थत्वापत्त्या तद्वैयर्थ्यापत्तेः । दृश्यते हि- इयं गौः क्रय्येति वाक्यश्रवणानन्तरमपि अजाता प्रवृत्तिः । इयं गौर्बहुक्षीरा स्त्र्यपत्याऽनवद्यप्रजेत्यादिवाक्यश्रवणे सत्युपपद्यत इति । अहिकण्टकादिज्ञानस्यापि प्रवृत्तिप्रतिबन्धकत्वेन तदभावोऽपि लिङर्थः स्यात् । काशीं गच्छेदिति विधिश्रवणेनैव प्रतिबन्धकाभावस्याप्यवगमे सार्थान्वेषणं पदातिसङ्ग्रहादिकं च न क्रियेत । किञ्च बलवदनिष्टाननुबन्धित्वस्यापि विध्यर्थत्वे ‘श्येनेनाभिचरन् यजेत’ इत्यादिविधिनाऽपि तद्बोधनाच्छ्येनादेरपि ज्योतिष्टोमादिसाम्यापत्तिः स्यात् । न च निन्दार्थवादप्रायश्चित्तविधिविरोधात् सा नेति वाच्यम् । षोडशीग्रहणादिवद्विकल्पस्यापि सम्भवात् । मन्मते त्विष्टसाधनत्वमात्रं लिङर्थः । श्येनादौ तु प्रायश्चित्तविधिबलाद्बलवदनिष्टाननुबन्धित्वम् । ज्योतिष्टोमादीनां तु प्रायश्चित्ताद्यश्रवणान्न तथात्वमिति न कश्चित् क्षुद्रोपद्रवः ।
नैय्यायिकाभिमतविशिष्टज्ञानस्य प्रवर्तकत्वमभ्युपेत्येदमुक्तम् । वस्तुतस्तु बलवदनिष्टाननुबन्धित्वज्ञानं कृत्यसाध्यताज्ञानं चिकीर्षाप्रतिबन्धकमिति । तत्सत्त्वे तदनुदयात् । न तक्षकचूडामण्यादौ प्रवृत्तिरिति तदभावज्ञानस्य प्रवर्तकत्वे मानाभावः । एवं चागम्यागमनादौ प्रायश्चित्तादिविधिबलादेव बलवदनिष्टानुबन्धित्वेऽवगते तत्र तद्भीरोः चिकीर्षैव नोदेति । यः पुनः
‘भवत्कृते खण्डने मञ्जुलाक्षि शिरो मदीयं यदि याति, यातु ।
नीतानि नाशं जनकात्मजाकृते दशाननेनापि दशाननानि ।।’
इत्यादि प्रलपन् वर्तते । तस्य तदानीन्तनरागौत्कण्ठ्येन तज्जन्ये नरकादौ बलवद्द्वेषाभावेन तज्जन्यनरकदुःखापेक्षया तात्कालिकमिदं सुखमधिकमित्यभिमानेनोक्तविधस्य प्रतिबन्धकीभूतस्य विशिष्टज्ञानस्य विशेषणाभावप्रयुक्तासत्त्वेन चिकीर्षोदयाद्भवति प्रवृत्तिः ।
नन्वेवं सति इष्टसाधनत्वज्ञानमपि न प्रवर्तकं स्यात् । किं त्विष्टसाधनत्वज्ञानं प्रतिबन्धकम् । तदभावादेव प्रवृत्तिरस्तु । एवं सतीष्टसाधनत्वमपि लिङर्थो न स्याद् इति चेन्न । साधनत्वस्य लिङर्थत्वाभावे मानान्तरस्य तत्राप्रवृत्त्या यागस्वर्गयोः कार्यकारणभावो निष्प्रमाणः स्यादित्यनुपदमेवोपपादितत्वात् । तस्माद्वाक्यस्योपादेयताप्रयोजकरूपमिष्टसाधनत्वबोधकं, ‘पुत्रस्ते जातः’ इत्यादौ इष्टमिष्टबोधकं चेत्येवं त्वयाऽपि वक्तव्यमिति तावन्मात्रेणैव निराकाङ्क्षतया वाक्यार्थस्य पर्यवसानात् । अम्बतातादिशब्दानां व्युत्पत्तिः सिद्धार्थेष्वपि मात्रादिष्वङ्गुल्यादिना प्रदर्शितेषु ‘इयं ते माता, अयं ते पिता’ इत्याद्युपदेशेनापि बालानां भवतीत्यन्यत्र सविस्तरमुपपादितत्वात् । शक्तिः कार्यान्वित एवेत्यप्ययुक्तम् । तदुक्तम्- ‘व्युत्पत्तिः प्रथमा यस्माद्वर्तमाने गते ततः’१ इत्यादि । तस्माद् द्यावाभूमीवाक्यस्य, ‘पुत्रस्ते जातः’ इत्यादिवद् इष्टार्थबोधकत्वाद्युक्तमुक्तं प्रामाण्यम् । तस्येष्टत्वं च ‘तदेतत्पुत्रात् प्रेयो वित्तात्प्रेयः सर्वस्मादन्यस्मादन्तरं यदयमात्मा’ इति श्रुतेः । न इष्टो रमापतिरिति सकलमकलङ्कमिति ।
एकान्तानां न कस्यचिदिति । एकान्तभक्तानां न कस्यचिदपि पुरुषस्य, अर्थे मोक्षादिपुरुषार्थनिमित्तं, नारायणः दीव्यते स्तूयतेऽसौ देवः किञ्चित्प्रयोजनमुद्दिश्योत्तमाधिकारिणा स्तुत्यो न भवतीत्यर्थः । किन्तु सर्वमन्यत् मोक्षादिकमपि तदर्थकं सः नारायणः अर्थः प्रयोजनं यस्येति तदर्थकम् । तदुक्तम्- ‘मोक्षं सारूप्यसालोक्यं प्रार्थये न धराधर’ इत्यादि । यद्यपि नारायणस्य स्वरूपेण सिद्धत्वान्न साध्यत्वरूपप्रयोजनत्वं सम्भवति ।। तथाऽप्येतत्प्रमाणबलादेव गम्यमानं साध्यत्वं, विशिष्टसाक्षात्कारविषयतया वा प्रसादविशिष्टतया वा पर्यवस्यति । यथा ‘व्रीहीन् प्रोक्षति’ ‘स्रुवः सम्मार्ष्टि’ इत्यादौ व्रीह्यादिस्वरूपस्य सिद्धत्वेऽपि द्वितीयाश्रवणेन गम्यमानं साध्यत्वम् अलौकिकातिशयविशिष्टत्वेन पर्यवस्यति । तथैवात्रापीति भावः । चिच्चेत्ययन्तेत्यत्र चिच्चेत्ये यन्तेति द्वितीयान्तस्य तृन्नन्तेन समासः । न षष्ठ्यन्तस्य । ‘न लोकाव्यय’१ इति षष्ठीनिषेधात् ।