न चैकनखनिकृन्तनविकारः सर्वं कार्ष्णायसम् ..
उत तमादेशमित्यादीनां पराभिमतार्थखण्डनम्
श्रीमज्जयतीर्थटीका
अत्र येनाश्रुतं श्रुतं भवति, यथा सोम्यैकेन, वाचारम्भणं विकारः, सदेव सोम्येति चतुर्णां वाक्यानां पराभिप्रेतार्थमनादृत्यार्थान्तरमुक्तम् । न च तद्युक्तं निर्निबन्धनत्वादित्यतो यथा सोम्येत्यादिदृष्टान्तवाक्यानां तावत्पराभिमतार्थे बाधकमाह–
मूल
न चैकनखनिकृन्तनविकारः सर्वं कार्ष्णायसम् ।
यद्येते दृष्टान्ताः कार्यकारणभावविवक्षया स्युः । तदैकमृत्पिण्डादिशब्दाः व्यर्थाः स्युः एकमृत्पिण्डादिविकारत्वाभावात्सर्वमृण्मयादीनाम् । इदं तु सर्वथाऽनुपपन्नम् । ‘यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्’ इति । मृत्पिण्डादेर्हि मृन्मयादिकं प्रति कारणत्वमात्रस्येव । नखनिकृन्तनस्य तु स्वयमपि कार्यस्य कार्ष्णायसं प्र(ति तदपि)तीदमपि नास्ति । किमुतैकनखनिकृन्तनविकारः सर्वं कार्ष्णायसं न भवतीति । अतो ज्ञायते ‘नैते दृष्टान्ताः कार्यकारणत्वविवक्षया’ इति । सादृश्यं तु मृत्पिण्डादीनां मृन्मयादीनां चास्त्येवेत्यादि-स्वार्थोपोद्बलकं च वक्तव्यम् ।
येनाश्रुतमित्येतत्प्राधान्यसादृश्याभ्यामित्येतत्कुत इति चेत्, लोकव्यपदेशानुगुण्यादित्याह-
मूल
प्रधानपुरुषज्ञानाद्ग्रामो ज्ञात इति व्यपदेशोऽस्ति ।
एवं सादृश्यादेकगोज्ञानाद्गवान्तरज्ञानमुदाहर्तव्यम् । मुख्यत एवैकविज्ञानेन सर्वविज्ञाने परोक्तरीत्या सम्भवति किमनेनामुख्येनेत्यत आह-
मूल
न हि सत्यज्ञानेन मिथ्याज्ञानं भवति ।
शुक्तिज्ञानेन रजतज्ञाननिवृत्तेरेव दर्शनादिति हिशब्दार्थः । एवं वाचारम्भणं सदेव सोम्येति वाक्ययोरपि स्वपरविवक्षितानुगुण्यवैगुण्ये दर्शनीये । तथा ‘नान्योऽतोऽस्ति द्रष्टा’ इत्याद्यात्मैक्य(वाक्य)विचारोऽपि ग्रन्थान्तरानुसारेणात्र कर्तव्यः ।
ननु प्रपञ्चमिथ्यात्वाद्यागमानां प्रतीतार्थानुपपत्त्यादि वर्णितं प्राक् तत्किमनेनेति । सत्यम् । बाह्यानुपपत्तिमेव प्रदर्श्यान्यार्थकल्पना कार्येत्येव तत्रोक्तम् । अर्थान्तरव्याख्यानमान्तरानुप-पत्त्यादिप्रदर्शनं चात्र क्रियत इत्यदोषः । तत्प्रदर्शनार्थमेव शङ्कोत्थापनमिति । तदेवं प्रपञ्च-मिथ्यात्वादेः कथमप्यसिद्धेः न मुक्तत्वानुमानस्यासिद्धिः प्रमाणविरोधश्चेति स्थितम् ।
श्रीविजयीन्द्रभिक्षु
जगन्मिथ्यात्वे श्रुतेः प्रमाणभावस्यार्थान्तरवत्त्ववर्णनेनैव निरस्तत्वात् ‘न चैकनख-निकृन्तनविकार’ इत्याद्युत्तरग्रन्थवैयर्थ्यमाशङ्क्यावतारयति- अत्रेति ।। न चैकेति वाक्यमुप-लक्षणपरतया व्याचष्टे- यद्येत इति ।। दृष्टान्तक्रमोल्लङ्घनेन दूषणाभिधाने किं कारणमित्यत आह- इदन्त्विति ।। अत्यन्तदुष्टत्वज्ञापनं क्रमोल्लङ्घनप्रयोजनमिति भावः । अत्यन्तदुष्टत्वमेवोपपादयति- मृदादेर्हीति ।। एकस्य मृत्पिण्डस्य सर्वमृण्मयं प्रति कारणत्वाभावेऽपि यत्किञ्चित्प्रति तदस्ति । नखनिकृन्तनस्य तु तदपि नास्ति । न च तस्य कार्यत्वेऽपि तत्कार्यं प्रति कारणत्वं स्यादिति वाच्यम् । अन्त्यावयवित्वेन तत्कार्यस्याप्यसम्भवादिति भावः ।
न केवलं परोक्तार्थे बाधकसत्त्वमात्रेणास्मदुक्तार्थे आदरः । किन्तूपोद्बलकसत्त्वादपीत्याह- सादृश्यन्त्विति ।। उत्तरवाक्यस्य दृष्टान्तदूषणत्वासम्भवात्प्रकृतानुपयुक्तत्वमाशङ्क्यावतारयितुमाह- येनाश्रुतमित्येतदिति ।। प्रधानज्ञानादप्रधानं ज्ञातं भवतीत्यत्रैवोदाहरणमुक्तम् । न तु सदृशैकज्ञानात् सदृशान्तरं ज्ञातं भवतीत्यत्र । तथा च न्यूनतेत्याशङ्क्य पूरयति- एवमिति ।। शुक्तिज्ञानेनेति ।। शुक्तित्वेन शुक्तिसाक्षात्कारेण रजतभ्रमनिवृत्तेर्दर्शनादित्यर्थः । यद्यपि शुक्तित्वरजतत्वयोः परस्परविरहव्याप्तत्वरूपविरोधाप्रतिसन्धानदशायां शुक्तेः साक्षात्कारेणापि न रजतभ्रमनिवृत्तिः । शुक्ती रजतञ्चेति समुच्चयभ्रमस्यैव दर्शनात् । तथाऽपि तत्प्रतिसन्धानदशायां तेन रजतभ्रमनिवृत्तिः सर्वानुभवसिद्धेति भावः ।
नन्वेतावता प्रबन्धेन ‘येनाश्रुतम्’ ‘यथा सोम्य’ इति वाक्ययोरेव स्वपरपक्षविवक्षितार्थानु-गुण्यवैगुण्ये दर्शिते । न तु ‘वाचारम्भणं, सदेव सोम्येति’ वाक्ययोः । तथा च न तयोरर्थान्तर-परत्वाश्रयणं युक्तम्, निर्निबन्धनत्वादित्यत आह- एवमिति ।। दर्शनीय इति ।। साङ्केतिकं नाम विविधप्रकारवत् । संस्कृतनामैव नित्यं धार्यमित्यस्मदुक्तेऽर्थे साङ्केतिकनाम्नः पुरुषमतिवैचित्र्य-कल्प्यत्वाद् विविधप्रकारत्वमुपपन्नम् । संस्कृतनाम्नः औत्पत्तिकसम्बन्धवत्त्वान्नित्यं धार्यत्वञ्च युक्तमित्येवंरूपानुगुण्यम् । वाचारम्भणं वाचा व्यवहारमात्रं मिथ्येति यावत् । घटः शराव उदञ्चनं चेति विकारः नामधेयं नाममात्रं ह्येतत् । वस्तुतो विकारः कोऽपि नास्ति । किं तर्हि सत्यम् । मृत्तिकेत्येव उपादानभूतं ब्रह्मैवेति परोक्तेऽर्थे तु -
‘वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।।’१
इत्येवंरूपवैगुण्यञ्च दर्शनीयम् । एवं सदेव सोम्येत्यस्य इदमग्रे सृष्टेः प्राक् ब्रह्मैवाऽसीदित्युक्तार्थे, तत्काले प्रकृत्यादेः सत्त्वेऽपि अस्वातन्त्र्यादेवेत्यवधारणमुपपन्नम् । लोकेऽस्वतन्त्रेऽसत्त्वोक्ति-दर्शनादित्येवंरूपानुगुण्यम् । इदमग्रे सृष्टेः प्राक् सदेवाऽसीत् ब्रह्मैवाऽसीदिति परोक्तार्थे तु जडाजडयोरत्यन्ताभेदासम्भवः । सम्भवे वा ब्रह्मवत्पारमार्थिकत्वापत्तिः । ब्रह्मव्यतिरेकेण इदं किमपि नाऽसीदित्यर्थपरत्वाश्रयणे त्वश्रुतकल्पनम् । कालविशेषप्रापकाग्र इति स्वपदविरोध-श्चेत्यादिरूपानानुगुण्यञ्च दर्शनीयमित्यर्थः । विचारः कर्तव्य इति ।। स्वरूपेणान्यद्रष्टृनिषेधपरत्वे जीवस्वरूपस्यापि जडवन्मिथ्यात्वप्रसङ्गात् परमात्मा यथास्वपरगताशेषविशेषज्ञस्तद्वद् अन्यो नेत्येवमर्थपरमभ्युपगन्तव्यमिति विचारः कर्तव्य इत्यर्थः । प्रपञ्चितञ्चैतच्छ्रुत्यर्थोऽस्माभिः श्रुत्यर्थसार इति नेह प्रपञ्च्यते ।
नन्वनिर्वचनीयत्वनिराकरणप्रस्तावे प्रपञ्चमिथ्यात्वागमानां प्रतीतार्थेऽनुपपत्तेरुक्तत्वादिह पुनस्तदुक्तिर्व्यर्थेत्याशङ्कते-नन्विति ।। आन्तरानुपपत्त्यादिप्रदर्शनं चेति ।। परोक्तार्थ इति शेषः । शङ्कोत्थापनमिति ।। माभूदनुमानात्प्रपञ्चमिथ्यात्वसिद्धिरित्यादिशङ्कोत्थापनमित्यर्थः । यद्यपीयं शङ्का न आचार्यैः दर्शिता । तथाऽपि परिहारवाक्यदर्शनेनोन्नीताऽपि शङ्का आचार्याभिमतेत्येव-मुक्तमित्यवधेयम् । उत्तरग्रन्थे मुक्तस्य संसारः स्यादित्यादिदूषणमुच्यते । तर्कस्य प्रपञ्चमिथ्यात्व-दूषणत्वाभावादयुक्तमित्याशङ्क्य तदवतारणाय परमप्रकृतमुपसंहरति- तदेवमिति ।। मिथ्यात्वादे-रित्यादिपदेनानिर्वचनीयत्वपरिग्रहः । मुक्तत्वानुमानस्येति ।। विमतो भिन्नो मुक्तत्वादित्यस्ये-त्यर्थः । प्रमाणविरोधश्चेति ।। ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिप्रमाणविरोधश्चेत्यर्थः ।
श्रीवेदेशतीर्थ
‘एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।
विकारित्वविवक्षायाम् ...... ............ ।।’१
इत्यनुव्याख्यानं मनसि निधाय मूलमुपलक्षणतया योजयति- यद्येत इति ।। क्रमोल्लङ्घनेन दूषणाभिधाने किं कारणमित्यत आह- इदं त्विति ।। अत्यन्तदुष्टत्वज्ञापनं क्रमोल्लङ्घनप्रयोजनमिति भावः । वक्तव्यमिति ।। न हि परार्थे बाधकोक्तिमात्रेण स्वार्थनिश्चयः । अतो न्यूनतापरिहाराय स्वार्थोपोद्बलकमध्याहार्यमिति भावः ।
शुक्तिज्ञानेनेति ।। शुक्तित्वेन शुक्तिज्ञानेनेत्यर्थः । ननु येनाश्रुतं श्रुतं भवति । यथा सोम्येत्यादिवाक्ययोरेव स्वपरपक्षविवक्षितार्थयोरानुगुण्यवैगुण्ये दर्शिते । न तु वाचारम्भणं सदेव सोम्येतिवाक्ययोरतो न्यूनतेत्यत आह- एवमिति ।। वाचारम्भणवाक्ये साङ्केतिकनाम्नां पुरुष-मतिवैचित्र्यकल्पितत्वेन विविधप्रकारत्वं प्रसिद्धमतो नानुपपन्नम् । संस्कृतनाम्नां नित्यत्वञ्च तदेवेदं पदमित्यादिप्रत्यभिज्ञाप्रत्यक्षेणास्मत्पूर्वेषां तत्पूर्वेषामेवं सृष्ट्यादावपि जायमानेन सिद्धमिति स्वार्थानुगुण्यम् ।
‘वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।।’२
इत्यनुव्याख्यानोक्तपरार्थवैगुण्यञ्च द्रष्टव्यम् । तथा सदेव सोम्येति वाक्ये इदमग्रे जगतः सृष्टेः प्राक् सच्छब्दवाच्यं ब्रह्मैवाऽसीदित्यर्थके प्रकृतिजीवकालादेः सत्त्वेऽपि तेषामस्वातन्त्र्याल्लोकेऽ-स्वतन्त्रेऽसत्त्वोक्तिदर्शनात् नान्यत्किञ्चन मिषदिति श्रुत्यन्तरसमाख्यानाच्चावधारणोपपत्तिरिति स्वार्थानुगुण्यम् । पराभिमतार्थे त्वग्र इत्यादिस्वपदविरोधः । प्रत्यक्षादिविरोधश्चेत्याद्यनानुगुण्यं द्रष्टव्यमिति भावः ।
ऐक्यविचारोऽपीति ।। अन्यद्द्रष्टृनिषेधस्य प्रत्यक्षादिबाधितत्वेन स्वातन्त्र्येणान्यद्द्रष्टृनिषेध एवास्य वाक्यस्यार्थो बृहदारण्यकभाष्यानुसारेण वक्तव्यः । आदिपदेन च यदि तत्त्वमस्यादि-वाक्यमुपादीयते तर्हि तस्यापि तद्भाष्यानुसारेण विचारः कर्तव्य इति ज्ञापयति । प्रतीतार्थानु-पपत्त्यादीत्यादिपदेनाप्रामाण्यपरिग्रहः । तथाऽनुमानस्याप्रामाण्यमागमस्यापि वेदाननुसारिणो विप्रलम्भादिमूलकत्वेनाप्रामाण्यमेव । वेदस्य वेदानुसारिणो वाऽऽगमस्य प्रतीतार्थप्रच्यावनमात्रं न तु सर्वथाऽप्रामाण्यमविरुद्धार्थान्तरकल्पनाऽपि कार्येत्यादि प्राक् ‘ईशोऽनीशः’ इति प्रमाणोदा-हरणेन प्रदर्शितमिति भावः ।
अनेनेति ।। प्रतीतार्थेऽनुपपत्तिप्रदर्शनेनार्थान्तरप्रदर्शनेन चेत्यर्थः। ततश्च मिथ्यात्वानुमानागमानां प्रागुदाहृतस्मृत्यैव दूषितत्वात् ‘मा भूदनुमानात् प्रपञ्चमिथ्यात्वसिद्धिः । श्रुत्या तु भविष्यति’ इति शङ्कैवानुपपन्नेति भावः । बाह्यानुपपत्तिमेवेति ।।
‘एवमादिविरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ।।’
इति बहुप्रमाणविरोधरूपबाह्यानुपपत्तिमेव प्रदर्श्येत्यर्थः । अन्यार्थकल्पनेति ।।
‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।’
इति सामान्यत एवोक्तत्वादिति भावः । अर्थान्तरव्याख्यानमिति ।। विशेषाकारेणेति शेषः । आन्तरानुपपत्त्यादीत्यादिपदेन स्वार्थानुगुण्यप्रदर्शनपरिग्रहः । शङ्कोत्थापनमिति ।। यद्यप्युक्तरीत्या शङ्का न सम्भवति । तथाऽप्यर्थान्तरव्याख्यानादि कर्तुमुक्ताच्छादनेन शङ्कोत्थापनीयेति भावः । मिथ्यात्वादेरित्यत्रादिपदेन भेदाभावो ग्राह्यः । प्रमाणविरोधश्चेति ।। ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यदिप्रमाणविरोधश्चेत्यर्थः । नञनुकर्षार्थश्चकारः ।
द्वैतद्युमणि
व्यर्थाः स्युरिति ।। विरुद्धार्थाः निष्प्रयोजनकाश्च स्युरित्यर्थः । विरुद्धार्थकत्वमुपपाद-यति- एकेति ।। मृद एवोपादानत्वान्मृदा विज्ञातयेत्येतावता पूर्णत्वात् तत्रैकशब्दस्य विरुद्धार्थक-त्वम् । सर्वमृन्मयादीनामेकमृत्कार्यत्वाभावात् । जातिविवक्षयैकत्वस्य चैकवचनेनैव बोधितत्वादेक-शब्दस्य वैयर्थ्यमेव । मन्मते चैकवचनेन जातिनिष्ठैकत्वबोधनसम्भवात् । तथात्वे च प्रकृतदृष्टान्त-वैषम्यपरिहारायैकशब्दस्य सार्थक्यम् । पुनस्तत्प्रयोगबलेनैव ‘सिद्धे सत्यारम्भो नियमार्थः’ इति न्यायेनैव व्यक्त्यैक्यलाभात् । ‘पिण्ड’पदमपि भवत्पक्षे विरुद्धार्थकं व्यर्थं च । तस्य कार्य-व्यक्तिवाचित्वेन सर्वमृन्मयानां तत्कार्यत्वाभावाद् विरुद्धार्थकत्वम् । मृत्कार्यत्वेन मृदभेदस्यैवेदानीं बोध्यत्वेनाभिधित्सिततया पिण्डशब्दवैयर्थ्यम् । आदिपदेन लोहमणिवाक्यस्थमणिपदस्य वाक्यत्रयस्थेतिशब्दानां नामधेयशब्दस्य च ग्रहणम् । ग्रन्थान्तरेषु तेषामपि वैयर्थ्यस्योक्तत्वात् । मणिशब्देन लोहकार्यविशेषस्यैव बोधितत्वात् तत्कार्यत्वस्य सर्वलोहकार्येष्वभावादुक्तरीत्या विगतार्थकत्वं विरुद्धार्थकत्वम् । अर्थप्रकरणपठितार्थविपर्यासकारीतिशब्दैर्मृदादिशब्दानामेव बोधितत्वेन भवदुक्तार्थे तस्यानुपयोगो विरुद्धत्वञ्च । वाचारम्भणशब्देनैवोक्तस्य नामधेयशब्देन प्रतिपादनात् तत्रापि स्वार्थे धेयप्रत्ययस्याङ्गीकाराच्च वैयर्थ्यं चेत्यर्थः ।
एवं नखनिकृन्तनवाक्यस्य चरमत्वात् तस्यैव कण्ठत उपादानम् । अन्यस्य तूपलक्षणया ग्रहणं मूलकृतोऽनुचितमित्याशङ्क्यानुपपन्नत्वांशे इतरेभ्य आधिक्यमेव तद्बीजमित्याशयेनाऽह - इदं त्विति ।। कारणत्वमात्रमिति ।। किञ्चिन्मृन्मयं प्रतीत्यर्थः । मात्रपदेन पराभिमतसर्वमृन्मयकारणत्व-व्यवच्छेदः ।। स्वयमपि कार्यस्येति ।। अन्त्यावयवविरूपस्येत्यर्थः ।
श्रीराघवेन्द्रतीर्थ
अर्थान्तरमुक्तमिति ।। ‘प्रधानज्ञानादप्रधानं ज्ञातार्थमिव भवति’ इति वाक्येन तात्पर्यगत्या ‘येनाश्रुतम्’ इति वाक्यार्थस्य, ‘यथा सोम्येत्याद्यपि’ इति वाक्येन द्वितीयवाक्यार्थस्य, ‘वाचारम्भणं विविधप्रकारः’ इत्यनेन तृतीयवाक्यार्थस्य, ‘प्राधान्यज्ञापनार्थमेव’ इत्यनेन चतुर्थ-वाक्यार्थस्योक्तत्वादिति भावः । इत्यादिदृष्टान्तवाक्यानामिति ।। यथा सोम्यैकेन लोहमणिना विज्ञातेन सर्वं लोहमयं विज्ञातं स्यात् । यथा सोम्यैकेन नखनिकृन्तनेन विज्ञातेन सर्वं कार्ष्णायसं विज्ञातं स्यादिति वाक्यद्वयमादिपदार्थः । कार्ष्णायसं प्रतीदमपीति ।। कृष्णायोविकारस्य विकारं प्रति कारणत्वमपीत्यर्थः । स्वमते कथमुपपत्तिरित्यत आह- सादृश्यं त्विति ।।
मूलोक्तिरुपलक्षणमिति भावेनाऽह- एवं सादृश्यादिति ।। पर(रोक्त)रीत्येति ।। ब्रह्मैव परमार्थसद्वियदादिकन्तु तत्राऽरोपितं तद्व्यतिरेकेण नास्तीत्यर्थ इत्युक्तेरित्यर्थः । किमनेनामुख्ये-नेति ।। प्रधानज्ञानादप्रधानं ज्ञातार्थमिव भवति । ‘तज्ज्ञानप्रयोजनलाभश्चोपमार्थः’ इत्युक्तदिशेति भावः । एवमिति ।। येनाश्रुतं श्रुतमिति यथा सोम्येति वाक्ययोरिवेत्यर्थः । दर्शनीये इति ।। वाचारम्भणं विविधप्रकारः नाम धेयं नित्यं धार्यं नाम मृत्तिकेत्यादिवैदिकमेवेत्येतद्वचनं सत्यमिति श्रुत्यर्थ इति प्रागुक्तदिशा स्वाभिप्रेतार्थे सर्वपदानामस्त्वानुगुण्यं, वाचा केवलमस्तीत्यारभ्यते विकारो घटः शराव उदञ्चनं चेत्यादिप्रागुक्ते पराभिप्रेतेऽर्थे,
‘वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पना ।
पुनरुक्तिर्नाम धेयमितीत्यस्य निरर्थता ।।’
इत्यानुमानिकपादीयानुव्याख्यानसुधाद्युक्तरीत्या वैगुण्यं दर्शनीयम् । तथा इदमग्रे अस्य प्रपञ्चस्याग्रे प्रलये सदेव ब्रह्मैवासीदित्यस्मदर्थे प्रकृत्यादेः सत्त्वेऽपि स्वातन्त्र्येण ब्रह्मैवाऽसीदित्यवधारणोपपत्तेः पदानामानुगुण्यमिदं जगदग्रे सदेव ब्रह्मात्मकमेवाऽसीदिति परोक्तार्थे जडाजडयोरत्यन्ताभेदा-सम्भवः सम्भवे वा ब्रह्मवज्जगतः सत्त्वापत्तिः । ब्रह्मव्यतिरेकेण किमपि नास्तीत्यर्थपरत्वे त्वश्रुतकल्पनम् । अग्र इति कालप्रापकपदविरोधश्चेत्यादिरूपेण वैगुण्यं ध्येयमिति भावः ।
एवं ब्रह्मणो वियदादिप्रपञ्चैक्यश्रुतिविचारो मूलकृत्कृत उपलक्षणम् । दृश्यत्वाद्यनुमानेष्वप्येत एव दोषा इत्येतद्वाक्यावतारिकायां पूर्वपक्षिशङ्कितजीवात्मैक्योक्तिपरश्रुतिविचारोऽपि बृहद्भाष्यानु-सारेण कर्तव्य इत्यर्थः । तथा हि- वाजसनेये, अन्तर्यामिप्रकरणस्थे ‘नान्योऽतोऽस्ति द्रष्टा’ इति वाक्ये तथाऽक्षरप्रकरणस्थे ‘नान्यदतोऽस्ति द्रष्टृ’ इति वाक्ये चात इत्यनेन प्रस्तुतं सर्वनियन्तारं परामृश्यान्यो द्रष्टा नास्तीत्युक्ते सर्वनियामकद्रष्ट्रन्तरनिषेधस्यैव प्रतीत्यैक्यस्याप्रतीतेः । अन्यथा जडस्यैव जीवस्वरूपस्यैव निषेधेन तस्य मिथ्यात्वापत्तिः । तद्भेदेन नास्तीत्यध्याहारादिना कथञ्चिदैक्यपरत्वकल्पने चान्तर्यामिवाक्ये ‘यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति’ इति पूर्ववाक्येन, ‘एष त आत्मान्तर्याम्यमृतः । अतोऽन्यदार्तम्’ इत्युत्तरवाक्येन विरोधः । अक्षरवाक्ये च ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इति पूर्ववाक्येन विरोधः स्यादित्यादिरूपेण विचारः कर्तव्य इत्यर्थः ।
पूर्वोक्तेन ‘ईशोऽनीशो जगन्मिथ्या’ इत्यादिग्रन्थेन वाचारम्भणं विविधप्रकार इत्यादिग्रन्थस्य गतार्थतामाशङ्क्य निराह- ननु प्रपञ्चेति ।। बाह्येति ।। ‘प्रत्यक्षबाधितञ्च जगन्मिथ्यात्वम्’ ‘न च जगतोऽज्ञानजन्यत्वे किञ्चिन्मानम्’ ‘न च मायाविना माया दृश्यते’ इत्यादिना मानाभाव-प्रत्यक्षादिबाधरूपानुपपत्तिमित्यर्थः। अन्तरानुपपत्त्यादीति ।। अश्रुतकल्पनम्, पौनरुक्त्यम्, एकपिण्डादिपदवैयर्थ्यम्, नखनिकृन्तनदृष्टान्तासङ्गतिरित्यादिरूपमित्यर्थः । आदिपदेन स्वाभि-मतार्थे सर्वानुगुण्यं ग्राह्यम् । शङ्कोत्थापनमिति । ‘वाचारम्भणं विविधप्रकारः’ इति वाक्या-वतारिकायां माभूदनुमानादित्यादिनोक्तशङ्कोत्थापनमर्थान्तराद्युक्त्यर्थमेवेत्यर्थः । ‘दृश्यत्वाद्यनुमानेष्वप्येत एव दोषाः’ इत्येतदवतारिकायां ‘अथापि स्यात्’ इत्यादिना शङ्कितयोर्मुक्तत्वहेतोरसिद्धिप्रमाणविरोधयोरियता ग्रन्थेनोक्तं परिहारमुपसंहरति- तदेवमिति ।। तदित्यस्य विवरणमसिद्धेरित्यन्तेन । आदिपदेनानिर्वचनीयत्वजीवब्रह्मैक्याऽऽविद्यकत्वग्रहः । कथमपीति ।। अनुमानसिद्धत्वेनागमसिद्धत्वादिना केनापि प्रकारेणेत्यर्थः । एवं दृश्यत्वाद्यनु-मानेष्वित्यादिनोक्तप्रकारेणेत्यर्थः। प्रमाणेति ।। ‘विमता आत्मानः परमात्मनस्तत्त्वतो न भिद्यन्ते’ इत्यादिप्रागुक्तानुमानेन ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिश्रुत्या च विरोधश्च मुक्तत्वानुमानस्य नास्तीत्यर्थः ।
निर्निबन्धनत्वादिति ।। निर्निमित्तत्वादित्यर्थः । स्वयमपि कार्यस्येति ।। अन्त्यावयविन इत्यर्थः । कार्ष्णायसम् एकमपि कार्ष्णायसरूपकार्यं प्रतीत्यर्थः । तदपि कारणत्वमात्रमपि । सर्वमिति ।। सर्वं कार्ष्णायसं प्रति कारणत्वं नास्तीति किमु वक्तव्यमित्यर्थः । तथा च नखनिकृन्तनदृष्टान्तस्त्वत्यन्तासम्बद्ध इत्याशयः । सादृश्यं मृत्त्वेन । येनाश्रुतमित्येतदिति ।। येनाश्रुतमित्यादिवाक्योक्तमेकविज्ञानेन सर्वविज्ञानमित्यर्थः । सम्भवति सति ।। अत्रेदं ज्ञात-व्यम् । तथा हि । अत्र सादृश्ये दृष्टान्तत्रयम् । तत्र सदृशज्ञानात् सदृशज्ञानं भवतीत्यत्र मृत्पिण्डमृण्मयदृष्टान्तः । प्रधानसदृशज्ञानादप्रधानसदृशज्ञानं भवतीत्यत्र लोहमणिदृष्टान्तः ‘मणिर्मुखं प्रधानं चेत्युत्तमस्य वचो भवेत्’ इति वचनात् लोहेषु प्रधानं सुवर्णं लोहमणिशब्देनो-च्यते । अल्पसदृशज्ञानाद् बहुसदृशज्ञानं भवतीत्यत्र नखनिकृन्तनदृष्टान्तः । मृत्तिकादिशब्दत्रयं प्राधान्ये दृष्टान्तः । ननु सादृश्ये दृष्टान्तत्रयमेकत्रैव सङ्गृह्योक्त्वा प्राधान्ये दृष्टान्तत्रयं एकत्रैव सङ्गृह्य कस्मान्नोच्यत इति चेत्सत्यम् । तत्तदर्थप्रसङ्गायातं तत्तन्नाम धेयं तत्र तत्रैव दृष्टान्तत्वेनोक्तमित्यदोष इति । प्रागिति ।। ईशोऽनीश इत्यादिनेत्यर्थः । अनेनेति ।। वाचारम्भणं विविधप्रकार इत्यादिग्रन्थेनेत्यर्थः । बाह्यानुपपत्तीति ।। ईशोऽनीश इत्यादेर्बहुप्रमाणविरोधरूपबाह्यानुपपत्ती-त्यर्थः । अत एवोक्तं ‘प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः’ इति । अन्यार्थेति ।। ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इत्युक्तत्वादित्यर्थः । अर्थान्तरेति ।। प्रपञ्चमिथ्यात्वे परोदाहृतानां वाचारम्भणमित्याद्यागमानां वाचारम्भणं विविधप्रकार इत्यादिनाऽर्थान्तरव्याख्यानमित्यर्थः । आन्तरानुपपत्तीति । एकपिण्डमणिपदवैयर्थ्यसर्वकार्ष्णायस्यैकनखनिकृन्तनकार्यत्वाभाव रूपान्त-रानुपपत्तीत्यर्थः ।। तत्प्रदर्शनार्थमिति । अर्थान्तरव्याख्यानान्तरानुपपत्तिप्रदर्शनार्थमित्यर्थः । शङ्कोत्थापनमिति ।। मा भूदनुमानात् प्रपञ्चमिथ्यात्वसिद्धिः, श्रुत्या तु भविष्यतीत्यादिना शङ्कोत्थापनं कृतमित्यर्थः । असिद्धिरिति ।। प्रमाणविरोधश्चेति ।। दृश्यत्वानुमानानुग्राहक-तयोक्तवाचारम्भणमित्यादिप्रमाणविरोधश्च नेत्यर्थः ।
गुरुराजीया
‘एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।
विकारित्वविवक्षायाम्........।।’
इत्यनुव्याख्यानं मनसि निधाय मूलमुपलक्षणतया व्याचष्टे- यद्येत इति ।। व्यर्थाः विगतार्था विरुद्धार्थाश्चेत्यर्थः । तत्कथमित्यतः मृदा विज्ञातया मृण्मयं१ विज्ञातं स्यादित्येतावता पूर्णत्वाद् विगतार्थत्वस्य स्पष्टत्वात् शिष्यैरेव तदूह्यतामिति भावेन विगतार्थत्वं स्वयमनुपपाद्य विरुद्धार्थत्व-मेवोपपादयति- एकेति ।। इदमित्युक्तमेव दर्शयति- यथेत्यादिना इतीत्यन्तेन ।। तस्य सर्वथाऽ-युक्ततामेव दर्शयति- मृत्पिण्डादेर्हीत्यादिना ।। कार्यस्येति ।। अन्त्यावयविन इत्यर्थः । तदपीति ।। कारणत्वमपीत्यर्थः । द्रव्यानारम्भकं कार्यद्रव्यमन्त्यावयवीति तल्लक्षणादिति भावः । वक्तव्यमिति ।। परोक्तार्थे२ बाधकोक्तिमात्रेण तन्निराससिद्धावपि स्वार्थोपोद्बलकानुक्तौ तदसिद्धेरिति भावः ।
किमनेनामुख्येनेति ।। ‘प्राकृताज्ञोऽपि’ इति मुख्यार्थदर्शनरूपफलापेक्षया एकविज्ञानेन सर्वविज्ञानस्य समर्थितत्वादिति भावः । शुक्तिज्ञानेनेति । शुक्तित्वप्रकारकशुक्तिज्ञानेनेत्यर्थः ।
ननु ‘येनाश्रुतं श्रुतं भवति’, ‘यथा सोम्य’ इति वाक्ययोः स्वपरविवक्षितार्थानुगुण्यवैगुण्योप-पादनवत् ‘वाचारम्भणम्’, ‘सदेव सोम्य’ इत्यादिवाक्ययोरपि स्वपरविवक्षितार्थयोरानुगुण्यवैगुण्य-व्युत्पादनस्यानुगुण्यवैगुण्ययोरवश्यमुपदर्शनीययोरनुपदर्शनान्न्यूनतामाशङ्क्य परिहरति- एवमिति ।। वाचारम्भणवाक्ये साङ्कतिकनाम्नां पुरुषमतिवैचित्र्यकल्पितत्वेन विविधप्रकारत्वं सिद्धम् । संस्कृतनाम्नां नित्यत्वं च तदेवेदं वचनमित्यादिप्रत्यभिज्ञयेत्यादि स्वार्थोपोद्बलकम्१ ।
‘वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।’
इत्याद्यनुव्याख्यानानुसारेण परविवक्षितार्थे वैगुण्यं द्रष्टव्यमित्यर्थः । तथा ‘सदेव सोम्य’ इत्यादिवाक्ये इदमग्रे जगतः सृष्टेः प्राक् सच्छब्दवाच्यं ब्रह्मैवाऽसीदित्यर्थके प्रकृतिजीवकालादेः सत्त्वेऽपि तेषामस्वातन्त्र्यात् लोके अस्वतन्त्रेऽसत्त्वोक्तिदर्शनात् ‘नान्यत् किञ्चन मिषत्’ इति श्रुत्यन्तरसमाख्यानाच्चावधारणोपपत्तिरिति स्वार्थानुगुण्यं पराभिमतार्थे तु ‘अग्र’ इत्यादिस्वपद-विरोधः प्रत्यक्षादिविरोधश्चेत्यनानुगुण्यं द्रष्टव्यमित्यर्थः ।
ग्रन्थान्तरानुसारेणेति ।। अन्यद्रष्टृनिषेधस्य प्रत्यक्षादिबाधितत्वेन स्वातन्त्र्येणान्यद्रष्टृनिषेध एव वाक्यस्यार्थो बृहदारण्यकभाष्यानुसारेण वक्तव्यः२ । आदिपदोपात्ततत्त्वमस्यादिवाक्यविचारोऽपि तद्भाष्यानुसारेण कर्तव्य इत्यर्थः । अनुपपत्त्यादीत्यादिपदेनाप्रामाण्यपरिग्रहः । प्रागिति ।। ‘प्रत्यक्षबाधितं च,
‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’
इत्यादिनेत्यर्थः । अनेनेति ।। प्रतीतार्थेऽनुपपत्तिप्रदर्शनेनार्थान्तरप्रदर्शनेन चेत्यर्थः । तथा च माभूदनुमानान्मिथ्यात्वसिद्धिः, श्रुत्या तु भविष्यतीति शङ्कानवकाश इति भावः । बाह्यानुपपत्तिमेवेति ।।
‘एवमादिविरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ।।’
इति बहुप्रमाणविरोधरूपबाह्यानुपपत्तिमेव प्रदर्श्येत्यर्थः । अन्यार्थकल्पनेति। अर्थान्तरमप्रदर्श्य
‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।’
इत्येवोक्तत्वादिति भावः । अर्थान्तरव्याख्यानमिति ।। ‘वाचारम्भणं विविधः प्रकारः, सादृश्याद्यर्थान्येव योजनीयानि’ इत्यादिरूपेण विशेषतोऽर्थान्तरकथनमित्यर्थः । आन्तरेति ।।
‘एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।’
इत्यादिरूपान्तरानुपपत्तिप्रदर्शनमित्यर्थः । तत्प्रदर्शनार्थमेवेति ।। विशेषव्याख्यानान्तरानुपपत्ति-प्रदर्शनार्थमेवेत्यर्थः । शङ्केति ।। यद्यप्युक्तरीत्या शङ्का न सम्भवति । तथापि अर्थान्तर-व्याख्यानादिकर्तुमुक्ताच्छादनेनैवेदं मा भूत् प्रपञ्चस्यानुमानेनेत्यादिशङ्कोत्थापनमित्यर्थः । मिथ्या-त्वादेरिति ।। आदिपदेन भेदाभावपरिग्रहः । कथमपीति ।। अनुमानेन श्रुत्या वेत्यर्थः । प्रमाण-विरोधश्चेति ।। विमता आत्मानः परमात्मनस्तत्वतो न भिद्यन्ते आत्मत्वात् परमात्मवदि-त्यनुमानेन, ‘नान्योऽतोऽस्ति द्रष्टा’ इति तदनुग्राहकत्वेनोक्तश्रुत्या चेत्यर्थः ।
गोविन्दीया
निर्निबन्धनत्वादिति ।। अर्थान्तरकथनस्य बाधकरूपकारणरहितत्वादित्यर्थः । स्वाभिमतार्थे साधकं च वक्ष्याम इति तावच्छब्दार्थ इति भावः । इदमिति ।। नखनिकृन्तनवाक्यं सर्वथाऽनुपपन्नमित्यर्थः । सादृश्यमिति ।। पराभिमतार्थे ऐक्ये बाधकोक्तिः । स्वार्थस्य ब्रह्म-जगद्भेदस्य निश्चायका अपि तु मृत्तिकादीनां मृण्मयादीनां च सादृश्यमस्त्येवेति कृत्वा सादृश्योक्तिः आदिपदगृहीता प्राक्तननामापेक्षया संस्कृतनाम्नः प्राधान्योक्तिश्च स्वार्थोपोद्बलकं स्वार्थसाधकेति वक्तव्यमित्यर्थः । येनाश्रुतमिति ।। येनाश्रुतमित्येतद्वाक्यं यथा सौम्येति वाक्यं जगतः कार्यस्य चासत्त्वाभावोऽपि प्राधान्यसादृश्याभ्यामुपपन्नमित्येतत् कुतोऽवगतमिति चेदित्यर्थः । लोकव्यपदेशेति ।। लोकप्रयोगेणानुगुण्यादित्यर्थः । मुख्यत एवेति ।। कारणव्यतिरेकेण कार्यस्य पृथगसत्त्वमस्तीति परोक्तरीत्या कार्यकारणयोरभेदेन कारणभूतैकविज्ञानेन कार्यभूतसर्वज्ञाने मुख्यत एव साक्षादेव सम्भवति सति सादृश्यप्राधान्याभ्यामुपपन्नेन मुख्यज्ञानेन किमित्यर्थः । न हीति ।। सत्यभूतब्रह्मज्ञानेन मिथ्याभूतजगज्ज्ञानं न हि भवति । उभयोर्विरुद्धधर्माधिकरणत्वादि-त्यर्थः । एवमिति ।। ‘येनाश्रुतं’, ‘यथा सोम्य’ इति वाक्यद्वयवत् । ‘वाचारम्भणं’ ‘सदेव सोम्य’ इति वाक्ययोरपि स्वविवक्षितार्थे भेदे आनुगुण्यं परविवक्षितार्थे ऐक्ये वैगुण्यं दर्शनीयमित्यर्थः । तथेति ।। अतः ब्रह्मणः सकाशादन्यो द्रष्टा नास्तीत्यन्यद्रष्टुर्निषेधात् । ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिवाक्ये प्रतीतात्मैक्यस्य विचारोऽपि अन्यस्मिन् अस्वतन्त्रद्रष्टरि विद्यमानेऽपि स्वतन्त्रोऽन्यो द्रष्टा नास्तीति ग्रन्थान्तरानुसारेणात्र कर्तव्य इत्यर्थः । नन्विति ।। प्रपञ्चमिथ्यात्वा-सत्यत्वानिर्वचनीयत्वाभिधायकानामागमानां मध्ये केषाञ्चिदपौरुषेयाणां तदनुकूलानां च प्रतीतार्थानुपपत्तिः । विप्रलम्भादिमूलकानां पौरुषेयाणामादिपदसङ्गृहीतमप्रामाण्यं प्राग् ईशोऽनीश इत्यादिना चर्चितम् । तत्किमनेन ग्रन्थेनेत्यर्थः । तत्रेति ।। ईशोऽनीश इत्यादिवाक्ये इत्यर्थः । अत्रेति ।। अस्मिन्नुत्तरग्रन्थे इत्यर्थः । तदिति ।। पूर्वोत्तरग्रन्थयोर्विषयभेददर्शनार्थमेव शङ्कोत्थाप-नमित्यर्थः ।
नारोपन्तीया
ब्रह्मविवर्ततोपपादनेनेति । अविद्यमानोऽन्यथाकारो विवर्तः । तत्त्वोपपादनेनेत्यर्थः । ग्रन्थान्तरानुसारेणेति । ‘नान्योऽतोऽस्ति द्रष्टा’ इति वाक्यं परमेश्वरस्य मुख्यद्रष्टृत्वपरमेव । पार्थादन्यो धनुर्धरो नास्तीति वाक्यवत् । न हि तत्र धनुर्धरान्तरस्य मिथ्यात्वं वा सर्वधनुर्धरैः सह पार्थस्यैक्यं वा वाक्यार्थः । एवं प्रकृतेऽपीति ज्ञातव्यम् । उत्कृष्टत्वाप्रकृष्टत्वाभ्यामिति । ‘यस्मात् क्षरमतीतोऽहम्’ इत्यनेन
‘ब्रह्मादिजीवाः सर्वेऽपि शरीरक्षरणात् क्षराः ।
लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः ।।’
इति समाख्याबलाच्चेतनोत्तमत्वं लभ्यते । जडोत्तमत्वं तु अर्थात् कैमुत्येन सिद्धम् । तथा च- क्षरं ब्रह्मादिजीवगणं, अतीतः अतिक्रम्य, वर्ते तदपेक्षयाऽधिकदेशे तिष्ठामीत्यर्थः । जीवानाम् अणुत्वाद् भगवतश्च विभुत्वात् । न च एतल्लक्ष्म्याः सम्भवति, तस्याः भगवता समं व्याप्तत्वादित्यतः, क्षरमक्षरं चातीतमित्यनुक्त्वा अक्षरादुत्तम इत्युक्तम् । तदपेक्षया गुणैर्ज्यायानित्यर्थः । गुणैरुत्तमत्वं न केवलमक्षरा-देव । किन्नाम ? क्षरादपीत्यपिशब्देनाऽचष्टे । तथा च- जीवापेक्षया गुणतो देशतश्च व्याप्तत्वरूपोत्कृष्टत्वं, लक्ष्म्यपेक्षया गुणव्याप्तत्वरूपोत्कृष्टत्वमनेनोच्यत इत्युक्तं भवति ।
जनार्दनभट्टीया
निर्निबन्धनत्वादिति ।। ‘पराभिमते अर्थे अनादरस्य’ इति शेषः । ‘न चैक’ इति मूले पराभिमतार्थे बाधकापादनाप्रतीतेः तर्कपरतया योजयति – यदीत्यादिना ।। अथवा मूले एकपदवैयर्थ्यमाशङ्क्य आपाद्यसमर्पकतया उपयोग इति मनसि निधाय मूलसूचिततर्कं दर्शयति – यदीत्यादिना ।।
ननु नाऽयं मूलसूचितः तर्कः । ‘न चैक’ इति मूले तर्कशरीरप्रविष्टमृत्पिण्डादिपदानामभावात् इति चेत्, न । न्यायसाम्येन मृत्पिण्डलोहमणिवाक्ययोरपि अस्य तर्कस्य प्रसारात्१ । व्यर्था स्युरिति ।। २विगतप्रयोजनाः विरुद्धप्रयोजनाश्च स्युरित्यर्थः । यदा ‘लोहेन कार्ष्णायसेन’ इत्येतावता पूर्णत्वेन विगतप्रयोजनत्वात् सर्वेषां लोहमयकृष्णायसानां एकलोहमणिनखनिकृन्तनविकारत्वाभावात् इति भावः ।
ननु त्रिष्वपि दृष्टान्तेषु तत्तद्विकारमात्रं सर्वशब्देनोच्यते । अतो नोक्तदोष इति चेत्, न । तथा सति सर्वपदवैय्यर्थ्यापातात् । मृण्मयम् इत्यादिनैव पूर्णत्वात् । ननु त्रिष्वपि मृत्पिण्डादिवाक्येषु एकादिपदवैय्यर्थ्यापादकतर्कस्य प्रवृत्तौ सम्भवत्यां ‘न चैक’ इति मूले नखनिकृन्तनवाक्यमात्रे एकपदवैय्यर्थ्यस्य कण्ठत आपादने को विशेषहेतुः? इत्यत आह – इदं त्वित्यादिना ।। स्वयमपि कार्यस्येति ।। घटादिवद् अन्त्यावयविन इत्यर्थः । अन्त्यावयविनो घटादेः द्रव्यान्तरानुपादानत्वस्य नियमेन दर्शनाद् इति भावः । ‘नचैक’ इति मूले शब्दसूचितां स्वार्थे उपपत्तिं चाऽह – सादृश्यं त्वित्यादिना ।।
अत्र अयमाशयः टीकाकाराणाम् – अस्मन्मते ‘यथा सोम्य’ इति वाक्यस्य सादृश्यकथनपरत्वात् सादृश्यप्रतियोगिनीनां च मृदाम् अनन्तत्वेन तद्ज्ञानासम्भवात् तद्घटनाय एकपदं सार्थकम् । ‘एकया मृदा’ इत्येवोक्ते परमाण्वादिरूपाया मृदः श्वेतकेतुना प्रत्यक्षेण ज्ञातुमशक्यत्वात् प्रत्यक्षीकृत्य शृङ्गिग्राहिकतया दृष्टान्तप्रदर्शनाय पिण्डशब्दश्च सार्थकः । किञ्च वाचारम्भणवाक्यस्य मिथ्यात्वे प्रमाणत्वेन उदाहरणमप्यनुपपन्नम् । तत्र मिथ्यात्ववाचिपदाभावात् ।
न च वाचारम्भणपदमेवास्तीति वाच्यम् । तत् किं मिथ्यात्वे रूढम् उत यौगिकम्? नाऽद्यः । अभिधानाद्यभावात् । न द्वितीयः । अवयवशक्त्या मिथ्यात्वस्यालाभात् । ननु यथा ‘अन्नमात्रं भुक्तम्’ इत्युक्ते व्यञ्जनाभावो लभ्यते तथा ‘वाचारम्भणम्’ इत्युक्ते वस्तुतो घटादिविकारो नास्तीति मिथ्यात्वसिद्धिरिति चेत् । भवेदेतदेवम् । यद्यत्र मात्रशब्दः श्रूयेत । न चैवम् । तथा च अश्रुतकल्पना दोषः स्यात् । न च अब्भक्षो, वायुभक्षः इतिवत् मात्रपदकल्पकमत्र किमपि अस्ति । येन मिथ्यात्वलाभः स्यात् । किञ्चैवम् अवधारणाध्याहारेण वाचारम्भणशब्दमिथ्यात्वलाभाङ्गीकारे नामधेयपदं पुनरुक्तत्वेन व्यर्थं स्यात् । तस्यापि नामैव केवलं न विकारो नाम वस्त्वस्तीति त्वया व्याख्यातत्वात् । किञ्च मृत्तिकेत्येव सत्यमित्यत्र इतिशब्दश्च व्यर्थः स्यात् । अस्मन्मत इव मिथ्यात्ववादिमते तस्य पदार्थविपर्यासार्थत्वाभावात् । उक्तं हि अनुव्याख्याने –
‘वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।
पुनरुक्तिर्नाम धेयम् इतीत्यस्य निरर्थता ।
एको पिण्डो मणिश्चेति पदवैय्यर्थ्यमेव च ।।’ – इति ।
तदेतत् सर्वं मनसि निधायाऽह – इत्यादिस्वार्थोपोद्बलकं च वक्तव्यमिति१ ।। न केवलं परोक्तार्थे बाधकम् । किन्तु२ स्वोक्तार्थे उपोद्बलकमपीत्यर्थः । प्रागिति ।। प्रत्यक्षबाधितं च जगन्मिथ्यात्वमित्यादावपीत्यर्थः । बाह्यानुपपत्तिमेवेति ।। विजातीयं यत् प्रत्यक्षादिकं तद्विरोधरूपानुपपत्तिमेवेत्यर्थः । तत्रेति ।। वेदवेदानुसारिष्वित्यर्थः३ । आन्तरेति ।। तद्वाक्यगतैकमृत्पिण्डादिपदवैय्यर्थ्यरूपामान्तरानुपपत्तिमित्यर्थः । अत्र चेति ।। वाचारम्भणमित्यादावित्यर्थः ।