सत्यचिच्चेत्यपतये मुक्तामुक्तोत्तमाय ते ..
प्रकरणान्ते प्रतिपादितगुणगणविशिष्टभगवन्नमनम्
श्रीमज्जयतीर्थटीका
एवं यद्गुणगणविशिष्टं भगवन्तमनेन प्रकरणेन प्रतिपादितवानाचार्यस्तादृशमेव स्तुवन् प्रकरणान्तेऽपि नमस्करोति-
मूल
सत्यचिच्चेत्यपतये मुक्तामुक्तोत्तमाय ते ।
नमो नारायणायार्यवृन्दवन्दितपद्द्वय ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
तत्वोद्योतप्रकरणं समाप्तम् ।।
श्रीमज्जयतीर्थटीका
चिच्चेत्यपतित्वोपपादनं सत्येति मुक्तामुक्तोत्तमायेति च । आर्येत्यादि तु नारायणस्यैव नमस्कार्यत्वोपपादनार्थम् । इत्यशेषमतिमङ्गलम् ।
श्रीविजयीन्द्रभिक्षु
प्रकरणान्तेऽपीति ।। ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते’ इत्यादिन्यायेनाऽद्यन्तयोः मङ्गलकरणस्य प्रकरणप्रचयहेतुत्वात् शिष्यायुरभिवृद्ध्यादिहेतुत्वाच्चेति भावः । चिच्चेत्येति ।। चिच्चेत्ययोरारोपितत्वे तत्पतित्वमप्यारोपितत्वेनासदेव स्यादिति वास्तवपतित्वसिद्ध्यर्थं सत्येति विशेषणमिति भावः ।
श्रीवेदेशतीर्थ
प्रकरणान्तेऽपीति ।। ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते’ इत्युक्तत्वेनान्तेऽपि मङ्गलकरणस्य ग्रन्थप्रचयहेतुत्वादिति भावः । चिच्चेत्येति ।। चिच्चेत्ययोरसत्त्वे कस्य पतिः स्यादिति भावः । इति च पतित्वोपपादनमिति सम्बन्धः । तदपेक्षयाऽनुत्तमस्य तत्पतित्वासम्भवादिति भावः ।।
श्रीराघवेन्द्रतीर्थ
विशेषणानां कृत्यमाह- सत्येति ।। इति चेति ।। चिच्चेत्यपतित्वोपपादनमित्यनुषङ्गः । आर्येतीति ।। आर्या ब्रह्मादयो महात्मान इत्यर्थः । प्रकरणान्त इति ।। ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते आयुष्मत्पुरुषकाणि भवन्ति’ इत्युक्तत्वेनान्तेऽपि मङ्गलकरणस्य ग्रन्थप्रचयहेतुत्वेनाऽवश्यकत्वादिति भावः । मूले सत्येति ।। आर्या ब्रह्मादयस्तेषां वृन्दाः समूहास्तैर्वन्दितं पदोर्द्वयं यस्यासौ तथोक्तः तस्य सम्बुद्धिः हे आर्यवृन्दवन्दितपद्द्वय । सत्येत्यादिविशेषणद्वयविशिष्टाय नारायणाय ते नम इत्यन्वयः । पतित्वेति ।। चिच्चेत्ययोरसत्त्वे तत्पतित्वायोगात् । न हि वन्ध्यासुतस्य कश्चित्पति-रस्तीति भावः । इति चेति ।। पतित्त्वोपपादकमिति सम्बन्धः मुक्तामुक्तोत्तमत्वोक्त्या चित्पतित्वं प्राप्तम् । चित्पतित्त्वे च चैत्यपतित्वं कैमुत्येन लब्धमिति भावः । नारायणस्यैवेति ।। सतीष्वन्यासु देवतासु अस्यैव नमस्कार्यत्वं कुतः ? इत्याशङ्का परिहाराय नारायणस्य ब्रह्मादिसर्वदेवता-वन्द्यत्वाद्युक्तं तस्यैव नमस्कार्यत्वमित्युपपादनार्थमित्यर्थः ।
गुरुराजीया
अन्तेऽपीति ।। मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते आयुष्मत्-पुरुषकाणि वीरपुरुषकाणि च भवन्तीति, आदाविवान्तेऽपि मङ्गलानुष्ठानस्य कर्तव्यत्वश्रवणादिति भावः । चिच्चेत्ययन्तेति।। पूर्वग्रन्थानुसारेण चिच्चेत्यपतय इत्येव वक्तव्यत्वात्सत्यपदस्याऽनर्थक्य-मित्याशङ्क्य, तयोरसत्त्वे तत्पतित्वायोगेन तदुपपादकत्वात्सत्यपदस्य नाऽनर्थक्यमित्याशयेन तत्प्रयोजनमाह- चिच्चेत्येति ।। इति चेति ।। इति च चिच्चेत्यपतित्वोपपादनार्थमुक्तमित्यर्थः । अयं भावः । न सत्यतामात्रेणेश्वरस्य चिच्चेत्यपतित्वमुपपद्यते । तस्य हीनोत्तमभावसापेक्षत्वेनासति तस्मिन्नयोगादित्यतस्तदुपपादनाय मुक्तामुक्तोत्तमायेत्युक्तम् । एतच्च ब्रह्मेशानादिभिरित्यादि-प्रागुपन्यस्तप्रमाणसिद्धमिति न कश्चित् क्षुद्रोपद्रवः । सङ्कोचे कारणाभावेन तत्र मुक्तानाममुक्तानां च ब्रह्मेशानादिपदैः सङ्गृहीतत्वात् ।
गोविन्दीया
तादृशमेवेति ।। तद्गुणविशिष्टमेवेत्यर्थः । इत्यशेषमिति ।। इति समस्त-प्रकरणमतिमङ्गलमित्यर्थः ।
जनार्दनभट्टीया
‘सत्यचिच्चे’त्यादिना आद्यश्लोकोक्तगुणैरेव स्तवने पौनरुक्त्यदोषः । प्रयोजनाभावादित्यत आह – एवमिति ।। तथा च प्रकरणार्थोपसंहाररूपत्वात् अस्य न पौनरुक्त्यं दोषायेति भावः । मूले ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि भवन्ति’ इति शास्त्रात् प्रकरणान्ते भगवन्नामनिबन्धनात्मकत्वाच्च नासङ्गतिरिति भावः । मूले नमःशब्दयोगात् ‘नमः स्वस्तिस्वाहा...’१ इत्यादिना ‘नारायणाय’ इति चतुर्थी । आचार्यस्य अपरोक्षीकृतनारायणत्वात् ‘वन्दितपद्द्वय’ इति सम्बोधनम् ।