सद्विलक्षणत्वमसद्विलक्षत्वं च..
अनिर्वचनीयलक्षणस्य मिथ्यात्वे जगत्सत्यतापादनम्
श्रीमज्जयतीर्थटीका
स्यादयं विरोधः । यदि निषेधसमुच्चयस्तात्विकः स्यात् । न चैतदस्ति । तस्यापि मिथ्यात्वाङ्गीकारादित्यत आह-
मूल
सद्विलक्षणत्वमसद्विलक्षत्वं च मिथ्येत्यविलक्षणत्वमेव सत्यं स्यात् ।
निषेधसमुच्चयपक्षनिराकरणसूचनार्थं द्विर्विलक्षणत्वग्रहणम् । अन्यथा सदसद्विलक्षणत्व-मित्यवक्ष्यत् ।
ननु प्रपञ्च एव धर्मी नास्ति । कस्य सदसदात्मकत्वमापद्यत इति चेन्न । परेणाप्य-सत्त्वस्यानङ्गीकृतत्वात् ।
श्रीविजयीन्द्रभिक्षु
स्यादयमिति ।। स्वप्ने वसन्तग्रीष्मयोः विरुद्धयोरप्यविरोधदर्शनेन तात्त्विकयोरेव विरोध इति भावः । सदसदात्मकत्वापादनस्य सत्त्वसमुच्चितासत्त्वाभावनिराकरणेऽप्युपपन्नतया कथं निषेधसमुच्चयनिराकरणार्थत्वेन व्याख्यायत इत्याशङ्क्याऽह- निषेधसमुच्चयपक्षेति ।। ननु मिथ्या-शब्दस्यापह्नववचनत्वेन प्रपञ्चो मिथ्येत्युक्ते नास्तीत्येवोक्तं स्यात् । एवञ्च न तस्य सदसदात्मक-त्वापादनं युज्यत इति शङ्कते- नन्विति ।। असत्त्वस्येति ।। निःस्वरूपत्वस्येत्यर्थः ।
श्रीवेदेशतीर्थ
स्यादयमिति ।। स्वप्ने वसन्तग्रीष्मयोर्विरुद्धयोरप्यविरोधदर्शनेन तात्त्विकयोरेव विरोध इति भावः ।
श्रीराघवेन्द्रतीर्थ
व्याख्यानं प्रागिवेति मत्वा स्वोक्तार्थज्ञापकमात्रमाह- निषेधसमुच्चयेति ।। अविलक्षणत्वं सत्यं स्यादित्यस्य सदसदात्मकत्वं सत्यं स्यादिति प्राग् व्याख्यानाच्छङ्कते- ननु प्रपञ्च एवेति ।।
सदसदात्मकत्वं स्यादिति ।। अविलक्षणत्वं सत्यं१ स्यादित्यविलक्षणशब्दार्थः । अनङ्गीकृतत्वादिति ।। व्यावहारिकसत्त्वस्याङ्गीकारादिति भावः ।
गोविन्दीया
सद्विलक्षणत्वमिति ।। यदि सद्विलक्षणत्वमसद्विलक्षणत्वं मिथ्या स्यात् तर्हि अविलक्षणत्वं सदसदात्मकत्वं सत्यं स्यादिति अनिष्टप्रसङ्गात्, मिथ्यात्वत्यागेन विरोधो दुर्वार एवेत्यर्थः । परेणेति ।। परेणापि प्रपञ्चस्यानङ्गीकारात् सत्त्वमेवाङ्गीकृतम् । अतो धर्मिसद्भावात् सदसदात्मकत्वापादनं युक्तमित्यर्थः ।