जगतो भिन्नमभिन्नं ..

विशिष्टनिरासकतर्कस्य प्रतिकूलतर्कप्रतिहतिसमर्थनम्

श्रीमज्जयतीर्थटीका

एवं विशिष्टादिनिराकरणतर्कस्य विपर्ययापर्यवसानमभिधाय प्रतितर्कपराहतिञ्चाऽह-

मूल

जगतो भिन्नमभिन्नं वेत्यादिविकल्पस्तत्रापि युज्यते ।

यथा विशिष्टं विशेषणादिभ्यो भिन्नमभिन्नं वेत्यादिविकल्पः परेण कृतः । तथा जगतो भिन्नमभिन्नं भिन्नाभिन्नमुभयविलक्षणं वेत्यादिविकल्पो ब्रह्मण्यपि कर्तुं शक्यते । किमतो न हि विकल्पनमेव दोषः इत्यतः प्रथमपक्षे दोषमाह-

मूल

भिन्नं चेद्भेदादिविशिष्टाच्छुद्धं भिन्नमभिन्नं वेत्याद्यनवस्था ।

यदि जगतो ब्रह्म भिन्नं स्यात् । तदा भेदेन तत्सम्बन्धेन व्यावर्तकधर्मादिना च विशिष्टं मिथ्या स्यात् । ततश्चोपास्याभावः प्रसज्येत । माभूद्भेदादिविशिष्टमुपास्यं किन्तु शुद्धमेवेति चेत्तर्हि तच्छुद्धमस्माद्भेदादिविशिष्टाद्भिन्नमभिन्नं भिन्नाभिन्नं वेत्यादि विकल्पयामः । भिन्नं चेत्तदपि भेदादिविशिष्टं मिथ्या स्यादिति प्रतिपत्तव्याभावः । अथ पुनः शुद्धं प्रतिपत्तव्यमिति ब्रूयात्तदा पूर्ववदनवस्था स्यात्ततश्च न कदाऽपि ब्रह्मप्रतिपत्तिः । अभेदादिपक्षस्तूत्तरन्यायेन दुष्ट इति न पृथग्दूषितः ।

द्वितीयं दूषयति-

मूल

अभिन्नं चेन्मिथ्यारूपेण जगता ब्रह्मापि मिथ्यैव स्यात् ।

यदि जगता ब्रह्माभिन्नं स्यात् । तदा जगतो मिथ्यात्वात्तदपि मिथ्यैव प्रसज्येत । यद्यप्यत्र जगदपि सत्यमेव स्यादिति शक्यमापादयितुम् । तथापि तत्प्रसङ्गाननुगुणत्वान्नोक्तम् । ब्रह्मणो मिथ्यात्वापादनं ह्यत्र प्रसक्तम् । तच्च स्फुटीकरिष्यामः ।

तृतीयं निराचष्टे-

मूल

भिन्नाभिन्नं चेद् दोषद्वयमपि ।

ब्रह्म जगतेत्यनुवर्तते । भिन्नत्वे वैशिष्ट्यापत्तिः । अभिन्नत्वे मिथ्यात्वमिति दोषद्वयम् । अपिशब्दाद्व्याघातश्च । ननु भेदाभेदौ क्वचिदस्माभिरङ्गीक्रियेते । तत्कथमेतत् । सत्यम् । परोक्तरीत्याऽनुवाद इत्यदोषः ।

चतुर्थं निराकरोति-

मूल

उभयविलक्षणं चेदनिर्वचनीयत्वं ब्रह्मण एवाऽपतितम् ।

यदि ब्रह्म जगतो भिन्नाभिन्नविलक्षणमङ्गीक्रियते तदा वक्तव्यं किमयं निषेधसमुच्चयस्तात्त्विक उत नेति    नाऽद्यः । विरोधात् । द्वितीये सत्वेनाङ्गीकृतस्य ब्रह्मण एवानिर्वचनीयत्वमापतितं स्यात् । इदमनेनोक्तं भवति । यदि भेदादिविकल्पानुपपत्त्या विशिष्टादिकमनिर्वचनीयं स्यात् । तदा ब्रह्मापि तथा प्रसज्येत । भेदादिविकल्पानुपपत्तेस्तत्रापि साम्याद् इति ।

श्रीविजयीन्द्रभिक्षु

भिन्नं चेदित्यंशस्य प्रथमपक्षदूषणत्वमुपपादयति- यदि जगत इति ।। व्यावर्तकेति ।। व्यावर्तकधर्माभावे भेदस्यैवायोगादिति भावः । विशिष्टमिति ।। हेतुगर्भविशेषणम् । इष्टापत्ति-माशङ्क्याऽह- ततश्चेति ।। उपास्याभाव इति ।। ज्ञेयाभाव इत्यर्थः । तथा च ज्ञानान्मोक्ष इति न स्यादिति भावः । भेदादिविशिष्टाच्छुद्धमित्यादिमूलांशोपपादनाय तन्निवर्त्याशङ्कां दर्शयति- मा भूदिति ।। न कदाऽपीति ।। ब्रह्मप्रतिपत्तिरिति शेषः । शुद्धस्य विशिष्टाभिन्नत्वे दूषणानुक्तेर्न्यूनतामाशङ्क्याऽह- अभेदादिपक्षस्त्विति ।। उत्तरन्यायेनेति ।। अभिन्नं चेज्जगत इति भिन्नाभिन्नं चेदित्यादिविकल्पे द्वितीयादिपक्षदूषणन्यायेनेत्यर्थः । तच्चेति ।। ब्रह्मणो मिथ्याज्ञानत्वापादनं चेत्यर्थः । अस्माभिरिति ।। सिद्धान्तिभिरित्यर्थः । निषेधसमुच्चय इति ।। यद्यपि वैलक्षण्यशब्दो न निषेधार्थः । तथाऽपि तदुभयवैलक्षण्यस्य तदुभयतादात्म्याभाव-व्याप्तत्वात्तथोक्तमिति ध्येयम् । विरोधादिति ।। जगद्भिन्नत्वाभिन्नत्वयोः परस्परविरहरूपत्वेनैकत्र तदुभयनिषेधस्य विरुद्धत्वादित्यर्थः ।

ननु भिन्नाभिन्नविलक्षणत्वे नानिर्वचनीयत्वम् । किं तर्हि सदसद्विलक्षणमेवेत्यत आह- इदमनेनेति ।। भेदादिविकल्पानुपपत्त्याऽप्यनिर्वचनीयत्वस्य त्वयैवोक्तत्वाद्ब्रह्मणोऽप्यनिर्वचनीयत्वं दुर्वारमित्यर्थः ।

श्रीवेदेशतीर्थ

भेदादिविशिष्टादित्यनुवादोपपत्तये विशिष्टस्य तदर्थप्रस्तुतिं दर्शयति- तदा भेदेनेत्यादिना ।। आदिपदार्थमाह-तत्सम्बन्धेनेत्यादिना ।। व्यावर्तकधर्मादिनेत्यत्राऽदिपदेन तत्सम्बन्धपरिग्रहः । विशिष्टमिति हेतुगर्भविशेषणम् । इष्टापत्तिमाशङ्क्याऽह- ततश्चेति ।। एवं भेदादिविशिष्टादित्यनुवाद-लब्धां तदर्थप्रस्तुतिं तदुपपत्तये प्रदर्श्य तद्व्याख्यातुं तन्निवर्त्याकाङ्क्षां दर्शयति- मा भूदिति ।। इत्याद्यनवस्था इति मूलगतादिशब्दार्थमाह- अथ पुनरिति ।। उत्तरन्यायेनेति ।। ब्रह्म जगतो भिन्नमभिन्नं वेत्यादिविकल्पे द्वितीयादिपक्षदूषणपरोत्तरग्रन्थन्यायेनेत्यर्थः । प्रसङ्गेति ।। प्रसङ्गः प्रसक्तिः । प्रकरणमिति यावत् । प्रसङ्गाननुगुणत्वमेव दर्शयति- ब्रह्मण इति ।। तच्चेति ।। मिथ्यात्वापादनं ‘अनिर्वनीयत्वं ब्रह्मण एवापतितं’ इत्यत्र स्फुटीकरिष्याम इत्यर्थः । एवञ्च सर्वेष्वपि पक्षेषु ब्रह्ममिथ्यात्वापादने प्रकरणस्वारस्यं भवतीति भावः ।

ननूभयविलक्षणं चेदनिर्वचनीयत्वं ब्रह्मण एवापतितमित्ययुक्तम् । उभयविलक्षणत्वेनैव निर्वचनादित्यतो नोभयविलक्षणत्वमपि वास्तवं ब्रह्मण्यङ्गीक्रियत इति वक्तुं पृच्छति - किमय-मिति ।। विरोधादिति ।। विधिसमुच्चयवन्निषेधसमुच्चयस्याप्येकत्र विरोधादिति भावः । अनिर्वच-नीयत्वमिति ।। उभयविलक्षणत्वस्य वस्तुतोऽनङ्गीकारादिति भावः । ननु कोऽयं प्रतितर्कः । यत्पराहतिरस्मत्तर्कस्येत्याकाङ्क्षायां वाक्यपञ्चकनिष्पन्नं प्रतितर्कस्वरूपं दर्शयति- इदमनेनेति ।।

श्रीराघवेन्द्रतीर्थ

इत्यादिविकल्प इति ।। भेदोऽपि किं भेदिभ्यां भिन्नोऽभिन्नो वेत्यादिविकल्प आदि-पदार्थः । व्यावर्तकधर्मादिनेति । तेन विना भेदासिद्धेरिति भावः । विशेषणमादिपदार्थः । को दोष इत्यत आह- ततश्चेति ।। पूर्ववदिति । शुद्धमस्माद्भेदादिविशिष्टाद्भिन्नमभिन्नं वेत्यादि-विकल्पस्य भिन्नं चेद्भेदादिविशिष्टं मिथ्येति प्रतिपत्तव्यब्रह्मणोऽभाव इति दोषस्य च सम्भवात् । तदर्थं तत्रापि शुद्धं ज्ञेयमित्युक्तौ तत्राप्येवमित्यनवस्थेत्यर्थः ।

ननु ‘जगतो भिन्नमभिन्नं वेत्यादिविकल्पस्तत्रापि युज्यते’ इति वाक्ये भेदादिविकल्पमुक्त्वा भिन्नं चेदिति वाक्ये प्रथमपक्षे ‘तस्य मिथ्यात्वेन ज्ञेयाभाव’ इत्युक्तदोषनिरासाय शुद्धं ज्ञेयमित्युक्ते तच्छुद्धं विशिष्टाभिन्नं चेत् पुनर्ज्ञेयाभावः । तत्रापि शुद्धं ज्ञेयमित्युक्तौ तदपि विशिष्टाभिन्नं चेत् पुनर्ज्ञेयाभाव इत्येवं भेदपक्ष एवानवस्थादोष उक्तः। भेदादिविशिष्टाच्छुद्धमभिन्नमिति वा भिन्नाभिन्नमिति वा कैश्चिदुक्तेस्तत्पक्षदोषः कुतो नोक्त इत्यत आह- अभेदादिपक्षस्त्विति ।। भेदादिविशिष्टाच्छुद्ध-मभिन्नं चेन्मिथ्यारूपेण विशिष्टेनाभिन्नं शुद्धं मिथ्या स्यात् । भिन्नाभिन्नं चेद्विशिष्टभिन्नत्वपक्ष-दोषस्य वैशिष्ठ्यस्याऽपत्त्या मिथ्यात्वापत्तिः । अभिन्नत्वपक्षदोषस्य मिथ्याविशिष्टाभिन्नत्वप्रयुक्त-मिथ्यात्वस्यापत्तिरित्येवं१ दुष्ट इति भिन्नं चेदित्याद्युक्तवक्ष्यमाणन्यायेन सिद्धमिति शुद्धं विशिष्टादभिन्नं चेन्मिथ्या स्यादित्यादिरूपेण पृथङ् न दूषित इत्यर्थः ।

कथं  प्रसङ्गाननुगुणतेत्यत आह- ब्रह्मण इति ।। स्फुटीकरिष्याम इति ।। ‘न सत्तन्नासदुच्यते’ इत्यादिमूलवाक्यव्याख्यावसाने तदनेन विशिष्टनिराकरणेत्यादिग्रन्थेनेति भावः । २भिन्नादिविशिष्ट-पदार्थस्य मिथ्यात्वोपपादनाय विशेषणादिना भिन्नाभिन्नत्वादिविकल्पपूर्वमनवस्थादितर्कोक्तौ तस्य ‘दृष्टस्य वस्तुनः’ इत्यादिना ३विपर्ययापर्यवसानमुक्त्वा प्रतितर्कपराहतिं वक्तुं सत्यभूतब्रह्मण्यपि मिथ्यात्वाय तदुक्तभिन्नाभिन्नत्वादितर्कसञ्चारस्यात्र क्रियमाणत्वाद् ब्रह्मणो मिथ्यात्वं प्रसक्तमिति ध्येयम् । क्वचिदस्माभिरिति । अयावद्द्रव्यभाविगुणगुण्यादाविति भावः । परोक्तरीत्येति । विशिष्टं विशेषणादितो भिन्नाभिन्नमिति तृतीये दोषद्वयमिति पूर्वमुक्तत्वादिति भावः ।

दृष्टस्य वस्तुन इत्यादिना उभयविलक्षणत्वं चेत् इत्यन्तेन ग्रन्थेनोक्तं निष्कृष्य दर्शयति- इदमनेनोक्तमिति ।। दृष्टस्य वस्तुन इत्यादिग्रन्थेनेदं वक्ष्यमाणमुक्तं भवतीत्यर्थः । यद्वा न भिन्नाभिन्नविलक्षणत्वमनिर्वचनीयत्वम् । किन्तु सदसद्विलक्षणत्वमेवेत्यतः परोक्तरीत्यैव परस्येद-मापादनमिति भावेनाऽह- इदमनेनेति ।। विशिष्टादेर्जगत इति समानाधिकरणम् । विशिष्ट-निराकरणस्य प्रकृतत्वाद्विशिष्टादेर्जगत इत्युक्तम् । उपास्याभाव इति ।। मुमुक्षुणा मिथ्याभूतस्यानुपास्यत्वादिति भावः । प्रतिपत्तव्यं ज्ञातव्यम्, उपास्यमित्यर्थः । ननु भेदादिविशिष्टाच्छुद्धं ब्रह्म अभिन्नमिति पक्षः कस्मान्न दूषित इत्यत आह- अभेदादीति । ब्रह्म जगता अभिन्नमिति पक्षे यो दोषः कथ्यते मिथ्यारूपजगदभिन्नत्वेन, ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गरूपस्तन्न्यायेन भेदादिविशिष्टाच्छ्रुद्धब्रह्मणोऽभिन्नत्वे भेदादिविशिष्ट-ब्रह्मणो मिथ्यात्वात्तदभिन्नस्य शुद्धब्रह्मणोऽपि मिथ्यात्वं स्यादिति दुष्टत्वान्न पृथग् दूषित इत्यर्थः । शिष्यः शङ्कते- नन्विति ।। गुणगुण्यादाविति शेषः । अयमर्थः । गुणादेर्गुण्यादिना भेदे अङ्गुलीद्वयवद्भेदेनोपलम्भप्रसङ्गः । अभेदे अन्यतरमात्रावशेषः, तच्छब्दयोः पर्यायत्वापत्तिरिति दोषद्वयमस्माकमपि समानं विरोधश्च समान इति अनुवादः । भिन्नाभिन्नं चेद्दोषद्वयमित्यनुवादः । अस्मन्मते विशेषेण सर्वमुपपद्यते । परेण तु स नाङ्गीकृत इति भावः ।

गुरुराजीया

भिन्नं चेद्भेदादीत्यादिपदार्थमाह- तत्सम्बन्धेनेत्यादिना ।। मिथ्या स्यादिति ।। त्वया विशिष्टस्य मिथ्यात्वाङ्गीकारादिति भावः । इष्टापत्तिं परिहरति- ततश्चेति ।। उत्तरन्यायेनेति ।। ब्रह्म जगतो भिन्नमभिन्नं वेत्यादिविकल्पे द्वितीयादिपक्षदूषणपरोत्तरग्रन्थन्यायेन भेदादिविशिष्टा-च्छुद्धमभिन्नमिति द्वितीयादिपक्षो निरसनीय इत्यर्थः । प्रसङ्गेति ।। प्रसङ्गः प्रसक्तिः । प्रकरणेत्यर्थः । तदेवोपपादयति - ब्रह्मणो मिथ्यात्वेति ।। स्फुटीकरिष्याम इति ।। अनिर्वचनीयत्वं ब्रह्मण एवाऽपतितमित्यादिनेति शेषः ।

ननु उभयविलक्षणं चेदनिर्वचनीयत्वं ब्रह्मण इत्ययुक्तम् । उभयविलक्षणत्वेनैव१ निर्वचनादित्यतो नोभयविलक्षणत्वमपि वास्तवं ब्रह्मण्यङ्गीकृतमिति वक्तुं पृच्छति- किमयमिति ।। विरोधादिति ।। विधिसमुच्चयवन्निषेधसमुच्चयस्यापि एकत्र विरोधादिति भावः । अनिर्वचनीयत्वमिति ।। उभयविलक्षणत्वस्यापि वस्तुतोऽनङ्गीकारादिति भावः । ननु कोऽयं प्रतितर्कः । यत्पराहतिर्विशिष्टादिनिराकरणतर्कस्येत्यतो वाक्यपञ्चकलब्धं प्रतितर्कस्वरूपमुपदर्शयति- इदमनेनेति ।।

गोविन्दीया

किमत इति ।। अतः विकल्पात् किमित्यर्थः । व्यावर्तकधर्मादिनेति ।। आदिपदेन तत्सम्बन्धो ग्राह्य इत्यर्थः । अभेदादिपक्ष इति ।। ब्रह्मजगद्विषयाभेदादिपक्षस्तूत्तरत्र निवार्यते । तन्न्यायेन विशिष्टशुद्धविषयाभेदादिपक्षोऽपि दुष्ट इति न पृथग् दूषित इत्यर्थः । तच्चेति ।। तच्च ब्रह्मणो मिथ्यात्वापादनमुभयविलक्षणं चेदित्यत्र स्फुटीकरिष्याम इत्यर्थः । नन्विति ।। यस्मादयावद्द्रव्य-भाविधर्ममादाय क्वचित् स्थले भेदाभेदौ अस्माभिरङ्गीक्रियेते तत् तस्मादेतत् व्याघातदूषणं कथमित्यर्थः । विरोधादिति ।। विधिसमुच्चयवन्निषेधसमुच्चयस्यापि विरोधादित्यर्थः । इदमनेनेति ।। अनेन वाक्येनेदमुक्तं भवतीत्यर्थः ।

जनार्दनभट्टीया

उभयविलक्षणं वेत्यादीति ।। यद्यपि विशिष्टनिराससमये प्राग् विकल्पत्रयमेव कृतम् । तथाऽपि उभयविलक्षणं विकल्पनम् ‘उभयविलक्षणं चेद् अनिर्वचनीयत्वं ब्रह्मण एवाऽपतितम्’ इत्युत्तरार्थम् ।

ननु ‘अभिन्नं चेन्मिथ्यारूपेण जगता’ इत्युत्तरवाक्ये जगतो भिन्नम् अभिन्नं वा ? इति पूर्ववाक्यस्याभेदादिनिरासेऽपि ‘भिन्नं चेद् भेदादिविशिष्टात् शुद्धम्’ इत्येतद्वाक्यस्थाभेदादिपक्षो न दूषित इत्यपूर्णता मूलस्येत्यत आह – अभेदादिपक्षस्त्विति ।। भिन्नं चेत् ‘भेदादिविशिष्टात्’ इति वाक्यस्थोऽभेदादिपक्ष इत्यर्थः । उत्तरन्यायेनेति ।। जगदपेक्षया ब्रह्मणो भेदपक्षनिराकरण-न्यायसाम्येनेत्यर्थः । द्वितीयमिति ।। जगतो भिन्नमिति वाक्यस्थद्वितीयमित्यर्थः । तच्चेति ।। तद् ब्रह्मणो मिथ्यात्वापादनम् उत्तरवाक्यव्याख्यानावसरे ‘इदमनेन उक्तं भवति’ इत्यादिना स्फुटीकरिष्याम इत्यर्थः । ‘ब्रह्मण एव’ इति एवकारस्वारस्यमाह – सत्यत्वेनाङ्गीकृतस्येति ।।