स्वविषयत्वं हि ..

पररीत्या आत्मनः कर्तृकर्मभावविरोधेन स्वविषयप्रकाशत्वाभावसमर्थनम्

श्रीमज्जयतीर्थटीका

ननु कथमात्मनः स्वविषयप्रकाशत्वाभावः । यावता वादिप्रतिवादिभ्यां स्वप्रकाशज्ञानरूप आत्मेत्यङ्गीकृतमित्यत आह-

मूल

स्वविषयत्वं हि कर्तृकर्मविरोधात्तैर्नाङ्गीक्रियते ।

आत्मप्रकाशस्येति शेषः । सत्यमस्माभिः स्वविषयप्रकाशत्वमात्मनोऽङ्गीक्रियते । परैस्तु नाङ्गीक्रियते । एकस्यां क्रियायां हि कर्तृकर्मणोरेकत्वं विरुद्धम् । परसमवेतक्रियाफलशालित्वस्य कर्मलक्षणत्वात् । अतो न स्वविषयमात्मज्ञानम् । स्वप्रकाशत्वं तु परप्रकाश्यताभावमात्रमिति परेषां प्रवादः । तदभिप्रायेण च ‘आत्मनः स्वविषयप्रकाशत्वाभावात्’ इत्युक्तमित्यदोषः ।२

श्रीविजयीन्द्रभिक्षु

स्वविषयत्वमेव स्वप्रकाशत्वमिति सिद्धान्तवासनया शिष्यः पृच्छति- नन्विति ।। सत्य-मेवमस्मन्मते । परस्य तु न तथा । पराप्रकाश्यत्वस्यैव स्वप्रकाशत्वरूपताऽङ्गीकारादिति परिहरति- अत आहेति ।। परसमवेतेति ।। कर्मान्यसमवेतेत्यर्थः ।

श्रीवेदेशतीर्थ

स्वविषयत्वमेव स्वप्रकाशत्वमिति सिद्धान्तवासनया शिष्यः पृच्छति- नन्विति ।। परसम-वेतेति ।। स्वभिन्नकर्तृसमवेतेत्यर्थः । न चैवमात्माश्रयत्वम् । कर्तुरन्यत्वे सति क्रियाजन्यफलशालित्व-मित्यत्र तात्पर्यात् । नन्वस्माभिरात्मज्ञानस्य स्वविषयत्वाङ्गीकारात् कथं प्राक् स्वविषयत्वा-भावादित्युक्तमित्यत आह- तदभिप्रायेणेति ।। परकीयस्वविषयत्वानङ्गीकाराभिप्रायेणेत्यर्थः ।

द्वैतद्युमणि

नन्विति ।। मूले कर्तृकर्मपदे भावप्रधाने ।

श्रीराघवेन्द्रतीर्थ

पराभिप्रेतमेव लक्षणमाह - परसमवेतेति ।।

गुरुराजीया

शिष्यः शङ्कते- नन्विति ।। परसमवेतेति ।। यदत्र वक्तव्यं तत् कर्तुरन्यत्वे सतीत्यादि-पूर्वग्रन्थव्याख्यानावसर एवोक्तमिति तत एव प्रतिपत्तव्यम् । ननु यदि स्वविषयप्रकाशत्वं नाङ्गी-क्रियते तर्हि कथं तन्मते स्वप्रकाशत्वनिर्वाह इत्यत आह- स्वप्रकाशत्वं त्विति ।। तथा सति पराप्रकाश्यतया शशविषाणादेरपि स्वप्रकाशताप्रसङ्गादिति भावेन परेषां प्रवाद इत्युक्तम् । यद्यस्माभिः स्वविषयप्रकाशत्वमङ्गीक्रियते तर्हि कथं ग्रन्थकारीया तदनङ्गीकारोक्तिरित्यत आह- तदभिप्रायेणेति ।। परकीयस्वविषयत्वानङ्गीकाराभिप्रायेणेत्यर्थः । उक्ताभिप्रायकत्वं ग्रन्थकृत्-सम्मतञ्चेत्याह- अत इति ।। अन्यथा नाङ्गीक्रियत इत्येतावतैव पूर्णत्वेन तैरित्यस्य व्यर्थत्वादिति१ भावः ।

गोविन्दीया

यावतेति ।। समस्तवादिप्रतिवादिभ्यामित्यर्थः । परसमवेतेति ।। कर्मणः सकाशात् यः परः कर्ता तत्र समवेतक्रिया तस्याः यत्फलं तच्छालित्वं तत्स्वरूपत्वं तस्यैव कर्मलक्षणत्वादित्यर्थः। तदभिप्रायेणेति ।। अस्मन्मते एकस्यैवाऽत्मनः विशेषबलात् कर्तृत्वं कर्मत्वं नित्यत्वं चाङ्गीक्रियत एव, पराभिप्रायेण चाऽत्मनः स्वविषयप्रकाशत्वाभावादित्युक्तम् इति अदोषः अपसिद्धान्तादिदोषो नास्तीत्यर्थः ।

जनार्दनभट्टीया

अत एव आचार्य उत्तरवाक्ये ‘प्रकाश एव’ इति एवकारेण स्फुटदूषणतां सूचयिष्यति – तैरिति ।। पदव्यावर्त्यमाह- सत्यमित्यादिना ।। कुतो नाङ्गीक्रियते? इत्यत आह – एकस्यामिति ।। विरोधमेव स्पष्टयति – परेति ।। २ननु आत्मज्ञानस्य स्वविषयत्वाभावे कथं तस्य परमते स्वप्रकाशत्वम्? इत्यत आह – स्वप्रकाशत्वमिति ।। परेषामिति ।। नत्वस्माकमिति भावः । तस्य तदुपहितलक्षणत्वा-दिति ।। तस्य कर्मणः, तदुपहितलक्षणत्वात् कर्तृघटितलक्षणत्वादित्यर्थः । ‘कर्तुरीप्सिततमं कर्म’१ कर्तुः क्रियया यदाप्तुम् इष्टतमं तत्कर्मसञ्ज्ञं स्यादिति पाणिनिना अनुशासनादिति भावः ।