न चार्थापत्त्या अनिर्वचनीयत्वसिद्धिः..
अनिर्वचनीयत्वसाधकत्वेनाभिमतार्थापत्तेर्व्याप्त्यभावोपपादनम्
न चार्थापत्त्या अनिर्वचनीयत्वसिद्धिः
श्रीमज्जयतीर्थटीका
अथ वाऽत्यन्तासतो नरविषाणादेरपि तत्पदात्प्रतीतिसम्भवेनासन्न प्रतीयत इति व्याप्त्यभावाच्छुक्तिरजतादेरत्यन्तासत्त्वेनैवोपपत्तेः । तथा अन्यथाविज्ञातस्य सम्यग्विज्ञान-गोचरत्वस्य बाध्यत्वस्य सतश्चिदानन्दात्मनोऽपि सम्भवेन सन्न बाध्यत इति व्याप्त्यभावा-दम्बरादेस्सत्त्वेनैवोपपत्तेर्नार्थापत्त्याऽनिर्वचनीयतासिद्धिरिति व्याख्येयम् ।
श्रीविजयीन्द्रभिक्षु
अस्तु वाऽर्थापत्तिर्मानान्तरम् । तथाऽपि बाध्यत्वप्रतीतत्वयोरन्यथाऽप्युपपत्त्या न तदवतारसम्भव इत्याह- अथ वेति ।। अयमाशयः । कल्पनीयत्वाभिमतव्यतिरेकप्रयुक्त-व्यतिरेकप्रतियोगित्वेन प्रमा ह्यर्थापत्तिः । न हि सा प्रकृते सम्भवति । कल्पनीयत्वाभिमत-सदसद्विलक्षणत्वरूपानिर्वचनीयत्वं विनाऽपि बाधप्रतीत्योरुपपत्तेः । प्रमितिविषयत्वरूपबाध्यत्वस्य सदात्मन्यसम्भवोऽस्ति । न च नरविषणादिशब्दजन्यप्रतीतिविषयत्वस्यात्यन्तासति नरविषाणादा-वसम्भवः । ततश्च सच्चेन्न बाध्येत असच्चेन्न प्रतीयेतेत्यापादने व्याप्त्यभावाच्छुक्तिरजतादेरम्बरादेश्च सत्वासत्वयोरन्यतरेणैवोपपत्तेर्बाध्यत्वप्रतीतत्वयोर्न सदसद्वैलक्षण्यकल्पकत्वं युक्तम् । न च बाध्यत्वमिह ज्ञाननिवर्त्यत्वं प्रतिपन्नोपाधिस्थनिषेधप्रतियोगित्वं वा विवक्षितम् । अतो न बाध्यत्वस्य सत्त्वेनाप्युपपत्तिरिति वाच्यम् । निरसिष्यमाणत्वादिति भावः ।
श्रीवेदेशतीर्थ
एवं वस्तुगतिमभिधायार्थापत्तेः पृथक्प्रामाण्यपक्षेऽप्याह- अथ वेति ।। अत्यन्ता-सत्त्वेनैवेति ।। तथा चार्थापत्तेरन्यथैवोपपत्तिर्दूषणमित्यर्थः । सतश्चिदात्मनोऽपीति ।। सत्योऽप्यात्मा देहाद्यात्मना विज्ञातो वेदान्तजनितविज्ञानविषय इति परेणाप्यङ्गीकार्यम् । अन्यथाऽविद्याया निवृत्त्यनुपपत्तेरिति भावः ।
श्रीराघवेन्द्रतीर्थ
अर्थापत्त्याभासोऽयमिति भावेनाऽभासतां व्यनक्ति- अथ वेति ।। एतेनार्थापत्तेर्मानान्तर-त्वान्न प्रागुक्तदोष इति परास्तम् ।
‘विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ।’१
इत्यनुव्याख्यानोक्तबाध्यत्वनिर्वचनं हृदि कृत्वाऽऽह- अन्यथा विज्ञातस्येति ।। ज्ञानचिकीर्षा-कृतिमत्त्वादिना विज्ञातस्य निर्गुणत्वादिना २सम्यग्विज्ञातत्वस्य परमतेऽपि सत्त्वादिति भावः ।
गुरुराजीया
अर्थापत्तेः पृथक्प्रामाण्यमङ्गीकृत्याप्याह- अथ वेति ।।
जनार्दनभट्टीया
तत्पदादिति ।। नरविषाणादिपदादित्यर्थः । अत्यन्तासत्वेनेति ।। अन्यथाऽप्युपपत्तिः अन्यथैवोपपत्तिरित्यर्थापत्तेः दोषद्वयम् । तत्र अन्यथोपपत्तिरित्यर्थः । ३सतश्चिदानन्दात्मनोऽ-पीति ।। अत्यन्तसतोऽपीत्यर्थः । ब्रह्मणोऽपि समयान्तररीत्या क्षणिकत्वेन ज्ञातस्य अक्षणिकत्वेन प्रतीतेः परैरपि अङ्गीकारादिति ।