न चैकजीवाज्ञानपरिकल्पिताः ..
एकजीववादे साधकाभावस्य, मुक्तत्वानुमाने विपक्षे बाधकस्य च समर्थनम्
श्रीमज्जयतीर्थटीका
एवमनिष्टप्रसङ्गेनैकजीववादं निराकृत्य प्रमाणाभावेनापि निराचष्टे-
मूल
न चैकजीवाज्ञानपरिकल्पिताः समस्ता इत्यत्र किञ्चिन्मानम् ।
यद्यपि जीवाः स्वरूपेणाकल्पितास्तथापि जीवादिभावेन कल्पितत्वाङ्गीकारात् समस्तपदेन जीवा अपि गृह्यन्ते । तदेवमेकजीववादस्यातिप्रसङ्गेन प्रमाणाभावेन च दुष्टत्वे बहुजीववादे चाङ्गीकर्तव्ये तत्र चोक्तं बाधकमिति नाप्रयोजको हेतुरित्युक्तं भवति । अथवा मा भूदेक-जीववादिनं प्रत्युक्तं बाधकं बाधकान्तरं तु भविष्यति । यदि मुक्तो भिन्नो न स्यात् । यद्येक एव जीवस्तन्मुक्तौ कस्याप्यनवशेषः स्यादिति यावत् । तर्हि सम्प्रति मुक्तो नास्तीति स्यात् । तथा चोक्तविधयोत्तरत्रापि मुक्तो न स्यादिति ।
नन्वेतन्मुक्तामुक्तयोरित्यस्यानन्तरं भवितव्यम् । सत्यम् । तथापि प्रत्यक्षाद्युपन्यासस्य सङ्गतिसौकर्यान्मध्ये निवेशः । बहुजीववादैकजीववादविभागाद्वेति ।
श्रीविजयीन्द्रभिक्षु
एकजीववादे बाधकमुक्त्वा साधकाभावेनापि स न सिद्ध्यतीत्याह- एवमिति ।। समस्ता अज्ञानकल्पिता इति न पराङ्गीकारः । जीवानामकल्पितत्वात् । तथा च समस्ता इति मूलोक्तिरयुक्तेत्याशङ्क्य परिहरति- यद्यपीति ।। नन्वेतावताऽपि कथमेकजीववादेऽप्रयोजकत्व-शङ्कानिरास इत्याशङ्कामुपसंहारव्याजेन निरस्यति- तदेवमिति ।। यदि कश्चिदेकजीववाद एव विपक्षे बाधकं वक्तव्यमिति ब्रूयात्तं प्रति एकजीववादिपक्षे तन्निष्ठानामिति तस्य च तत्रैवाऽग्रहान्न कदाचिद्भेदनिवृत्तिरिति च वाक्यद्वयेनाभिप्रेतं बाधकान्तरमाह- अथवेति ।। कस्याप्यवशेषः स्यादित्यस्यानन्तरम् अस्त्यवशेष इति पूरणीयम् । उक्तविधयेति ।। भेदवासनादार्ढ्येनोत्तरत्रापि भेद एवाऽग्रहः स्यादित्युक्तविधयेत्यर्थः । नन्वेकजीववादादिनिराकरणपरमेतत् मुक्तामुक्तयोर्भेदाभाव इति वाक्यानन्तरमेव कर्तव्यम् । सङ्गतिसद्भावादिति शङ्कते- नन्वेतदिति ।। यदि कश्चिदुभयत्रापि सङ्गतिसौकर्यमविशिष्टमिति ब्रूयात्तं प्रत्याह- बहुजीवेति ।।
श्रीवेदेशतीर्थ
स्वरूपेणाकल्पिता इति ।। चैतन्यमात्रस्याकल्पितत्वादित्यर्थः । एकस्यैव जीवस्य शरीराणि बहूनीति बहुवचनमौपचारिकम् । एवमुत्तरत्रापि । जीवादिभावेनेत्यत्राऽदिपदेन कर्तृत्व-भोक्तृत्वादिपरिग्रहः ।
नन्वेतावताऽप्येकजीववादे कथमप्रयोजकत्वशङ्कानिरास इत्याशङ्कामुपसंहारव्याजेन निरस्यति- तदेवमिति ।। यदि कश्चिदेकजीववादिमत एव विपक्षे बाधकं वक्तव्यमिति ब्रूयात्तर्हि तं प्रत्येक-जीववादिपक्षे तन्निष्ठानामिति तस्य च तत्रैवाऽग्रहादिति च वाक्यद्वयेनाभिप्रेतबाधकान्तरमाह- अथवेति ।। इति यावदिति ।। अनेनैकजीववादिपक्ष इत्येतदुक्ततात्पर्यम् । सम्प्रतीति ।। विश्व-भ्रमानुवृत्तिदर्शनादिति भावः । अनेन विश्वस्यानिवृत्तत्वाद्भेदनिष्ठ एवेत्याद्युक्तार्थम् । उक्तविध-येति ।। भेदवासनादार्ढ्येनोत्तरत्रापि भेद एवाग्रहः स्यादित्युक्तविधयेत्यर्थः । अनेन च तस्य च तत्रैवेति द्वितीयवाक्यस्य तात्पर्यमुक्तमिति ज्ञातव्यम् । प्रत्यक्षाद्युपन्यासस्येत्यत्राऽदिपदेनागमोप-न्यासपरिग्रहः ।
सङ्गतिसौकार्यादिति ।। प्रसङ्गसङ्गतिसौकार्यादित्यर्थः । अनुकूलतर्कोपपादकेन इत्यादि-नेश्वरेणापि भेदस्यैवानुभूयमानत्वाच्चेत्यनेन वाक्येन भेदविषयकेश्वरानुभवे प्रमाणेनोपपादिते स्मृतस्येश्वरीयभेदप्रत्यक्षस्योपेक्षानर्हत्वात्तत एवेति वाक्येन प्रत्यक्षमुपन्यस्तम् । प्रत्यक्षरूप-साधकोपन्यासेनाऽगमरूपसाधकान्तरस्यापि स्मृतावुपेक्षानर्हत्वादिदं ज्ञानमित्यादिना तदुक्तिरिति भावः । विभागाद्वेति ।। प्रत्यक्षाद्युपन्यासस्य मध्ये प्रवेश इति सम्बन्धः । अन्यथाऽयं विभागो मन्दैर्न ज्ञायेतेति भावः ।
श्रीराघवेन्द्रतीर्थ
उक्तं बाधकमिति ।। बद्धमुक्तव्यवस्थानुपपत्तिरूपं बाधकमित्यर्थः । १ननु एकजीवपक्षस्य दुष्टत्वोक्तावपि तं प्रति मुक्तत्वहेतोरप्रयोजकताशङ्का परिहृतैव विपक्षे तं प्रति बाधकानुक्तिरित्युक्त एकजीवपक्षे इत्यादिवाक्यद्वयं प्रति बाधकोक्तिपरतया तात्पर्यतो व्याचष्टे- अथवेति ।। बाधकान्तरमित्युक्तं व्यनक्ति- यदि मुक्त इति ।। १मुक्तामुक्तयोर्भेदाभाव इति प्रागुक्तमूलवाक्यांशस्य फलितार्थानुवादोऽयम् । तस्यापि निष्कृष्टार्थमाह- यद्येक एव जीव इत्यादि ।। उक्तविधयेति ।। २भेदवासनादार्ढ्येनोत्तरत्रापि भेद एवाग्रहानुवृत्त्याऽद्वैतसाक्षात्कारस्य कदाप्यभावेन निवर्तका-भावात् संसारनिवृत्तिरूपमुक्तिमान्न स्यादिति बाधकान्तरोक्तिपरतया मूलयोजनोक्ता भवति । एकजीववादपक्ष इत्यादिनोक्तमेकजीवनिराकरणं ३मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसारः संसारिणो वा मुक्तत्वं स्यादिति वाक्यानन्तरमेव सङ्गतम् । विपक्षे बाधकोक्त्या मुक्तत्वहेतोरप्रयोजकत्व-निरासपरत्वादिति शङ्कां निराह- नन्वेतदिति ।।
प्रत्यक्षादीति ।। ‘इत्यादिनेश्वरेणापि भेदस्यैवानुभूयमानत्वाच्च’ इति ‘तत एवाभ्रान्तत्वान्न मुक्तस्यापि भेदनिवृत्तिरिति’ ‘इदं ज्ञानमुपाश्रित्य’ इत्यादिवाक्यैर्मुक्तभेदे क्रमात्प्रत्यक्षानुमाना-गमानामुपन्यासस्य बहुजीवैकजीववादनिरासयोर्मध्ये प्रवेशः ‘किञ्चेश्वरवचनेनैतस्य संसारिभेद एवानुभूयते’ इत्यादिना प्राक् तत्रोक्तसङ्गतिसौकर्यादिति योजना । विभागाद्वेति ।। प्रागुक्तस्य बहुजीववादनिराससङ्गतत्वादत्रोक्तस्यैकजीववादनिराससङ्गतत्वादित्यर्थः । ननु समस्तशब्देन वियदादिप्रपञ्च एव न ग्राह्यः, किन्तु जीवा अपि गृह्यन्त इत्युच्यते तदयुक्तं, एकजीववादिमते जीवानां बहुत्वाभावात् । न च वाच्यं स एको जीवः एते सर्वे चेतना भवंत्विति बहून् चेतनान् कल्पयतीति वाच्यम् । चैतन्यस्याकल्पितत्वेन चैतन्यस्वरूपेण जीव-कल्पकत्वायोगादित्याशङ्क्य समाधत्ते- यद्यपीत्यादिना ।। जीवादिभावेनेति ।। आदिपदेन कर्तृत्वभोक्तृत्वग्रहणम् । शरीरविशिष्टत्वमेव जीवत्वम् । तथा च कर्तृत्वादिविशिष्टत्वेन अनेक-शरीरविशिष्टत्वेन च कल्पिताः (इत्यस्य) कोऽर्थः, स्वस्यैकस्य जीवस्य यत्कर्तृत्वादि यानि चानेकानि शरीराणि तानि कल्पितानीति यावत् । तथा च समस्ता जीवा इत्यस्य स्वेन कल्पित-स्वकीयानेक-शरीराणीत्यर्थस्तथा च तदपेक्षमेव बहुवचनं, न जीवस्वरूपापेक्षं तथा चौपचारिकं बहुवचनमित्युक्तंभवतीति ज्ञातव्यम् । अतिप्रसङ्गेनेति ।। तन्निष्ठानां मृत्यनन्तरमित्यनेनेत्यर्थः । उक्तं बाधकमिति ।। मुक्तामुक्तयोर्भेदाभाव इत्यादिनोक्तं बाधकमित्यर्थः । यदि कश्चिदेकजीववादिमत एव विपक्षे बाधकं वक्तव्यमिति ब्रूयात्तर्हि तं प्रति एकजीववादिपक्षे तस्य चेति वाक्यद्वयाभिप्रेतं बाधकान्तर-माह- अथवेति ।। उक्तं मुक्तामुक्तयोेरित्यादिनोक्तम् । सम्प्रति इदानीम् । उक्तविधयेति ।। भेदवासनादार्ढ्येनोत्तरत्रापि भेद एवाग्रहः स्यादित्युक्तविधयेत्यर्थः । एतदिति ।। एकजीववादिपक्ष इत्यादिना कृतमेकजीववादिनिराकरणमित्यर्थः । अनन्तरमिति ।। तथा च आदौ बहुजीववादे मुक्तामुक्तयोरिति विपक्षबाधकमुक्त्वाऽनन्तरमीश्वरीयप्रत्यक्षागमविरोधमभिधाय अन्ते एकजीववादि-निराकरणं व्यवधानेन कस्मात्कृतमित्यर्थः । प्रत्यक्षादीत्यादिपदेनागमग्रहणम् । सङ्गतिसौकर्या-दिति ।। प्रसङ्गसङ्गतिसौकर्यादित्यर्थः । स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः । प्रवेश इत्यत्र प्रत्यक्षाद्युपन्यास-स्येति वर्तते । तथा हि- मुक्तामुक्तयोर्भेदाभाव इत्यादिनाऽनुकूलतर्कमभिधाय, यद्यज्ञानकृत इत्यादिना तत्समर्थ्य, ईश्वरेणापि भेदस्यैवानुभूयमानत्वाच्च तत एवेत्यादिना ग्रन्थेन भेदेऽनुमानान्तरेण साधिते सति स्मृतस्येश्वरीयप्रत्यक्षस्योपेक्षानर्हत्वात् तत एवेति वाक्येन भेद ईश्वरीयं प्रत्यक्षमुपन्यस्तम् । तस्य वाक्यस्याथवेत्यादिना ईश्वरप्रत्यक्षकथनपरतया व्याख्यातत्वात् । प्रत्यक्षरूपसाधकोप-न्यासेनागमरूपसाधकस्मृतौ तस्याप्युपेक्षानर्हत्वादिदं ज्ञानमित्यादिना तस्याप्युपन्यास इत्येवं प्रसङ्गसङ्गतिसौकर्यात्प्रत्यक्षाद्युपन्यासस्य मध्ये प्रवेश इत्यर्थः । प्रत्यक्षाद्युपन्यासस्य मध्ये प्रवेशे प्रयोजनान्तरमाह - बहुजीववादेति ।। विभागाद् विभागज्ञापनार्थत्वाद् वा मध्ये प्रवेश इति सम्बन्धः । तथा हि । यदि मुक्तामुक्तयोरित्येतदनन्तरमेव एकजीवपक्ष इत्यादिग्रन्थोऽभिधीयेत तदैतद्वाक्योक्तं दूषणमपि बहुजीववादिनामेवेति विज्ञायेत । विज्ञायत को दोष इति चेत् । न । तन्निष्ठानां मृत्यनन्तरमित्युक्तदूषणस्य बहुजीववादेऽत्यन्तासम्बद्धत्वात् । तथा च शिष्याणां मनःखेदः स्यात् । अतो मायावादिमते बहुजीववादमतैकजीववादिमतविभागोऽस्तीति ज्ञापनाय मुक्तामुक्तयोरित्यादिना बहुजीववादमतं निराकृत्य मध्ये प्रत्यक्षादिकमुपन्यस्य पश्चादेकजीववाद-मतमेकजीववादपक्ष इत्यादिना निराकृतम् इत्यर्थः ।
गुरुराजीया
स्वरूपेणेति ।। चित्त्वरूपेणेत्यर्थः । जीवादिभावेनेति ।। जीवत्वादिनेत्यर्थः । आदिपदेन कर्तृत्वभोक्तृत्वादिपरिग्रहः । ननु तावताऽपि नाप्रयोजकताशङ्कापरिहारः विपक्षे बाधकानुक्तेरित्या-शङ्कामुपसंहारव्याजेन परिहरति- तदेवमिति ।। उक्तमिति ।। मुक्तामुक्तयोर्भेदाभाव इत्यादिनेति शेषः । इदन्तु अङ्गीकृत्योक्तम् । वस्तुतस्तु एकजीववादिमतेऽपि तन्निष्ठानामिति तस्य च तत्रैवाऽग्रहादिति वाक्यद्वयोक्तस्यैव बाधकस्य सम्भवान्नाप्रयोजकत्वमित्यभिप्रेत्य पक्षान्तरमाह- अथवेति ।। सम्प्रतीति ।। विश्वभ्रमस्येदानीमपि सत्त्वादिति भावः । उक्तविधयेति ।। भेदवासना-दार्ढ्येनोत्तरत्रापि भेद एवाऽग्रहः स्यादित्युक्तविधयेत्यर्थः ।
प्रत्यक्षादीत्यादिपदेन आगमपरिग्रहः । भवितव्यमिति ।। बाधकद्वयस्य पौर्वापर्येणोक्तेः सङ्गततया व्यवधानेनोक्तावसङ्गतत्वापातादिति भावः । सङ्गतिसौकर्यादिति ।। प्रसङ्गसङ्गति-सौकर्यादित्यर्थः । अनुकूलतर्कोपपादकेन ‘ईश्वरेणापि भेदस्यैवानुभूयमानत्वाच्च’ इत्यनेन वाक्येन भेदविषयकेश्वरानुभवे प्रमाणेन प्रतिपादिते स्मृतस्य ईश्वरीयभेदप्रत्यक्षस्योपेक्षानर्हत्वात्तत एवेति वाक्येन प्रत्यक्षमुपन्यस्तम् । प्रत्यक्षरूपबाधकोपन्यासेनागमरूपसाधकान्तरस्यापि स्मृततया उपेक्षानर्हत्वादिदं ज्ञानमित्यादिना तदुक्तिरिति भावः । विभागाद्वेति ।। प्रत्यक्षाद्युपन्यासस्य मध्ये प्रवेश इति सम्बन्धः । अन्यथा अयं विभागो मन्दैर्न विज्ञायेतेति भावः ।
गोविन्दीया
यद्यपीति ।। जीवाः चैतन्यस्वरूपेण न कल्पितास्तथापि जीवभावेन कर्तृत्वभोक्तृत्व-भावेन च कल्पितत्वाङ्गीकारात् समस्तपदेन जीवा अपि गृह्यन्त इत्यर्थः । तत्रेति ।। बहुजीववादे संसारिणो मुक्तत्वम्, मुक्तस्य संसारित्वं चेति बाधकमुक्तमिति हेतोर्मुक्तत्वहेतुर्न प्रयोजक इति सिद्धं भवतीत्यर्थः । तन्मुक्ताविति ।। एकस्यापि तस्य जीवस्य मुक्तौ सत्यां ब्रह्मभावापन्नत्वेन कस्याप्यनवशेषः स्यादित्यर्थः । नन्विति ।। एतद् एकजीववादनिराकरणवाक्यं मुक्तामुक्तयोरित्य-स्यानन्तरं भवितव्यमित्यर्थः । तथापीति ।। अनन्तरवक्तव्यत्वेऽपि अनुकूलतर्कोपपादकत्वेनेश्वरेणा-नुभूयमानत्वादित्युक्तम्, स्मृतस्योपेक्षणानर्हत्वेन तस्य च प्रत्यक्षाद्युपन्यासस्य सङ्गतिसौकर्यान्मध्ये बहुजीववादैकजीववादयोर्निराकरणग्रन्थयोर्मध्ये प्रवेश इत्यर्थः । बहुजीवेति ।। उभयविधजीव-वादयोर्विभागप्रदर्शनार्थं मध्ये प्रवेश इति वार्थः ।
नारोपन्तीया
नन्वेतन्मुक्तामुक्तयोरिति ।। ‘मुक्तामुक्तयोर्भेदाभावे संसारिणो वा मुक्तत्वं स्यात्, मुक्तस्य वा संसारित्वं स्यात्’ इति पूर्वोक्तग्रन्थानन्तरमेतत् ‘न चैकजीवाज्ञानपरिकल्पिताः समस्ता इत्यत्र किञ्चिन्मानम्’ इति मूलं वक्तुमुचितम् । अनेकजीवाङ्गीकारपक्षे प्राप्तस्य दूषणस्य अनुपदमेवैक-जीवपक्षमङ्गीकृत्य परिहारसामञ्जस्यात् । तथा च मध्ये-
‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।’१
‘यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।’१
इत्यादीनि ईश्वरीयभेदप्रत्यक्षोपन्यासग्रन्थे सन्दर्भशुद्धिर्नास्तीति पूर्वपक्षाशयः । अनेकजीवाङ्गी-कारपक्षेऽपीश्वरप्रत्यक्षादिविरोधो दातव्य एव । पूर्वपक्ष्युक्तरीत्या तस्य चेद् एतन्मूलानन्तरसमावेशः तर्हि स ईश्वरप्रत्यक्षविरोधोऽसङ्गत एव स्यात् । एतदित्येतन्मूलस्यैकजीववादाश्रयणेन प्रवृत्तत्वादिति पुनः सिंहावलोकनन्यायेन, मुक्तामुक्तयोरिति प्रथमं मूलं परामृश्य, तत्र तान्यहमित्यादीनीति योज्यानीति कुसृष्टिकल्पना समायाति । अतो यथान्यासमेव साधु । तथापि सङ्गतिसौकर्यं निष्प्रत्यूहमिति यावत् ।
जनार्दनभट्टीया
‘न चैकजीव’ इत्युत्तरवाक्ये एकजीववादस्य निराकरिष्यमाणत्वात् पूर्ववाक्येऽपि तस्यैव निरस्तत्वात् पौनरुक्त्यम् आशङ्क्य तन्निराकुर्वन्नेव ‘न चैके’त्यादिमूलमवतारयति – एवमित्या-दिना ।। प्रमाणाभावेनापीति ।। तथा च प्रमाणाभावस्य पूर्ववाक्येऽनुक्तत्वात् न गतार्थतेति भावः ।
ननु प्रकृतत्वात् जीवानाम्२ एकजीवाज्ञानकल्पितत्वाभावे अभिधातव्ये समस्तानां तत्कथम् असङ्गतम्? इत्यत आह – समस्तपदेनेति ।। तत्र चेति ।। बहुजीववादे इत्यर्थः । उक्तमिति ।। ‘मुक्तामुक्तयोः भेदाभावः’ इत्यादिनोक्तमित्यर्थः । हेतुरिति ।। मुक्तत्वहेतुरित्यर्थः । सङ्गतिसौकर्या-दिति ।। भेदे विप्रतिपन्नं प्रति अनुमानं प्रमाणमुपन्यस्य तत्र अप्रयोजकत्वशङ्कायां ‘मुक्तामुक्तयोः’ इत्यादिना तदुद्धारानन्तरं वैभवेन प्रत्यक्षाद्युपन्यासस्य सङ्गतत्वादिति भावः ।