यथा सोम्येत्याद्यपि सादृश्यकथनम् ..
यथा सोम्यैकेनेत्यादेः स्वाभिमतार्थसङ्कीर्तनम्
श्रीमज्जयतीर्थटीका
ननूपादानादुपादेयस्य पृथगसत्त्वे न चेन्मृत्पिण्डादिदृष्टान्तस्तर्हि व्यर्थ एव स्यात् । तात्पर्यान्तराप्रतीतेरित्यत आह-
मूल
यथा सोम्येत्याद्यपि सादृश्यकथनम् ।
सादृश्यप्राधान्याभ्यां हि ब्रह्मज्ञानेन जगज्ज्ञानमभिमतम् । तत्र यथा सोम्येत्यादिवाक्यं सादृश्यादेकविज्ञानेन सर्वविज्ञानोपपादनाय दृष्टान्तकथनपरमिति कथं तस्य वैयर्थ्यमिति । न केवलं सदेव सोम्येत्याद्यस्मन्मते न व्यर्थम् । अपि तु यथा सोम्येत्याद्यपीति सम्बन्धः ।
श्रीविजयीन्द्रभिक्षु
सादृश्यकथनरूपत्वेऽपि प्रकृतानुपयोगाद्वैयर्थ्यमित्याशङ्क्य प्रकृतोपयोगं दर्शयितुमाह- सादृश्यप्राधान्याभ्यामिति ।। यथा सोम्येत्याद्यपीत्यपिशब्दघटनायापेक्षिताध्याहारपूर्वकं योजना-माह- न केवलमिति ।।
श्रीवेदेशतीर्थ
सादृश्यकथनरूपत्वेऽपि प्रकृतानुपयोगाद्वैयर्थ्यतादवस्थ्यमित्याशङ्कायां प्रकृतोपयोगं दर्शयितुमाह- सादृश्यप्राधान्याभ्यां हीति ।। मूलेऽपिशब्दघटनायापेक्षिताध्याहारपूर्वकं योजनामाह-न केवलमिति ।।
द्वैतद्युमणि
नन्विति ।। ‘पृथगसत्त्वे’ इति सप्तम्यन्ततया छेदः । मूले आदिपदेनैव लोहमण्यादिवाक्ययोः सङ्गृहीतत्वात्, अपिपदस्य तत्समुच्चायकत्वायोगः । वाचारम्भणवाक्यसमुच्चायकत्वे तस्य सादृश्या-भिप्रायेणाप्रसक्तत्वादसङ्गतिरत आह- न केवलमिति ।। सदेवेत्यादिवाक्यसमुच्चायकत्वमपि न । तद्वाक्यस्य सादृश्यपरत्वाभावात् । अतः पूर्वमूलतात्पर्यविषयीभूतवैयर्थ्याभावांशे समुच्चायकत्व-मित्याशयेनाऽह- न व्यर्थमिति ।।
श्रीराघवेन्द्रतीर्थ
अपिपदसमुच्चेयं दुर्गमत्वाद्व्यनक्ति - न केवलमिति ।।
गुरुराजीया
सादृश्यकथनरूपत्वेऽपि प्रकृतानुपयोगाद् वैयर्थ्यतादवस्थ्यमित्यतोऽत्र प्रकृतोपयोगं दर्शयितुमाह- सादृश्यप्राधान्याभ्यां हीति ।। मूले ‘यथा सोम्येत्यादि’ इत्येतावता पूर्तेरपिशब्द-वैयर्थ्यमित्यतः तत्समुच्चेयप्रदर्शनेन तत्परिहरति- न केवलमिति ।।
गोविन्दीया
नन्विति ।। ब्रह्माधिष्ठिताज्ञानरूपोपादानादुपादेयस्य जगतः पृथगसत्त्वं न चेत् कार्यस्य पृथगसत्त्वं वदतां मृत्तिकादिदृष्टान्तानां वैयर्थ्यमेव स्यात् । तात्पर्यभूतार्थान्तरस्य पृथक् कार्यसत्त्व-स्याप्रतीतिरित्यर्थः । न केवलमिति ।। सदेव सोम्येत्यादिवाक्यं ब्रह्मणो निमित्तकारणत्वादिना प्राधान्यज्ञापकत्वात् केवलं न व्यर्थं न, अपि तु यथा सोम्येत्यादिवाक्यमिति ब्रह्मजगतोः सादृश्योपपादनाय दृष्टान्तपरत्वान्न व्यर्थमित्यर्थः ।