अनुमानस्य चाप्रसिद्धविशेषणः पक्षः..

अप्रसिद्धविशेषणत्वस्यासाधकत्वहेतुत्वसमर्थनम्

अनुमानस्य चाप्रसिद्धविशेषणः पक्षः

श्रीमज्जयतीर्थटीका

अथ कथमप्रसिद्धविशेषणत्वमसाधकत्वे हेतुः । व्याप्तिपक्षधर्मताविरहात् । न ह्यप्रतीतेन कस्यापि व्याप्तिश्शक्यग्रहा । सन्दिग्धसाध्यधर्मवांश्च पक्षः । न चाप्रसिद्धविशेषणोल्लेखी सन्देहो युज्यते ।