न ह्यज्ञानस्य घटाश्रयत्वं ब्रह्माश्रयत्वं वाऽस्ति ..

अज्ञानस्य आत्माऽश्रितत्वाभावोपपादनेन पूर्वोक्तशङ्कानिरासः

श्रीमज्जयतीर्थटीका

तत्राऽह-

मूल

न ह्यज्ञानस्य घटाश्रयत्वं ब्रह्माश्रयत्वं वाऽस्ति ।

हिशब्दो हेत्वर्थे । वाशब्द उपमायाम् । यथा खलु न घटाज्ञानस्य घटाश्रयत्वं एवमज्ञानत्वान्न ब्रह्माज्ञानस्यापि तदाश्रयत्वमस्ति । अन्यथा घटाज्ञानस्यापि तदाश्रयत्वप्रसङ्गात् । यत एवं न ब्रह्माज्ञानं तदाश्रयं तस्मान्न तन्निवर्तयदपि ज्ञानं ब्रह्मज्ञानमिति ।

ननु घटाज्ञानमेव नास्ति । ज्ञानोत्पत्तेः प्राक् प्रमाणवैकल्यादेव ज्ञानाभावोपपत्तेः । उत्पन्ने तु ज्ञाने तत एव सुतरां अज्ञानकल्पकाभावात् । अतो यदज्ञानं न तद्विषयाश्रितमिति व्याप्तौ कथं घटाज्ञानं दृष्टान्तीक्रियते । कस्य वा घटाऽश्रयत्वमापाद्यते । ब्रह्मणि तु स्वयं प्रकाशमानेऽपि तत्स्वरूपानवभासस्यानन्यनिमित्तत्वाद्भावरूपमज्ञानं कल्प्यत इति । मैवम् । घटोऽपि यदाऽन्यात्मनाऽवभासते तदा इन्द्रियप्रवृत्तावपि घटत्वाग्रहणस्यानन्यनिमित्तत्वात् तत्राप्यज्ञानस्य परेणाङ्गीकार्यत्वात् । अन्यथा शुक्तिकाज्ञानमपि न स्यात् ।

श्रीविजयीन्द्रभिक्षु

उदाहृतश्रुतिगतयोस्तमोमायाशब्दयोः प्रकृतिपरत्वेन पराभिमताज्ञानपरत्वे मानाभावात् मायिनं तमसा गू•मिति शब्दाभ्यां मायाया आश्रयाश्रयिभावाप्रतीतेः गू•शब्दस्य छन्नार्थकत्वात् मायिनमित्यस्य सम्बन्धमात्रार्थकत्वाच्च नाज्ञानं मुमुक्षुज्ञेयब्रह्माश्रितमित्यभिप्रायेणाऽह- तत्राऽहेति ।। अज्ञानस्य घटाश्रितत्वस्य परैरप्यनङ्गीकारात् पक्षान्तरसूचकवाशब्दस्याऽनर्थक्यमाशङ्क्याऽह- वाशब्द इति ।। यथा खल्विति ।। तदयमत्र प्रयोगः । ब्रह्माज्ञानं न स्वविषयाश्रितम् अज्ञानत्वात् घटाज्ञानवदिति । ‘न ब्रह्माज्ञानस्यापि तदाश्रयत्वम्’ इति मूले विशिष्टसाध्यनिर्देशस्तु पक्षधर्मता-बललभ्यविशेषाभिप्रायक इति न विरोधः ।

ननु ब्रह्माज्ञानमिति यदि ज्ञेयब्रह्माऽश्रिताज्ञानमित्यर्थोऽभिमतस्तदा विरोधः । यदा तु ब्रह्मविषयकमज्ञानमिति तदा अज्ञानस्य ब्रह्माश्रितत्वाभावेऽपि तद्विषयकाज्ञाननिवर्तकत्वसम्बन्धेन वेदजनितविज्ञानस्य तज्ज्ञानत्वासम्भवेनाऽत्मनो दृक्कर्मत्वाभावेन न दृश्यत्वहेतोः व्यभिचारापत्ति-रिति चेन्न । ब्रह्मविषयकाज्ञानमित्येव तदर्थः । न चैवमात्मनो दृग्विषयत्वाभावप्रसङ्गः । ‘न जानामि’ इतिवत् ‘जानामि’ इत्यनुभवेन ज्ञानविषयत्वस्यापि दुर्वारत्वात् । यथा चैतत्तथोपपादितमधस्तात् । तन्निवर्तयदपीति ।। तदज्ञाननिवर्तकत्वेनापीत्यर्थः ।

ननु घटाज्ञानदृष्टान्तेन ब्रह्माज्ञानस्य तदाश्रितत्वनिराकरणमयुक्तम् । घटाज्ञानस्यैवाभावात् । तथा हि, न ह्यज्ञानं कुलधर्मतयेष्यते । किं तु प्रसक्तप्रकाशप्रतिबन्धार्थमेव । एवञ्च घटाज्ञान-मङ्गीकुर्वन् प्रष्टव्यः । घटज्ञानोत्पत्तेः प्राक्प्रसक्तप्रकाशप्रतिबन्धार्थं तदभ्युपगम्यते ज्ञानोत्पत्त्यनन्तरं तत्प्रतिबन्धार्थं वा । नाऽद्यः । घटस्य जडत्वेन स्वतः प्रकाशप्रसक्त्यसम्भवेन प्रमाणत एव प्रसक्तिर्वाच्या । एवञ्च प्रमाणप्रवृत्त्यभावदशायां सामग्य्रभावादेव तदप्रकाशोपपत्त्या प्रतिबन्धका-ज्ञानकल्पनानुपपत्तेः । न द्वितीयः । ज्ञानोत्पत्त्यनन्तरं तस्य प्रकाशमानत्वेनाज्ञानकल्पक-विषयानवभासाभावेनाज्ञानकल्पनस्यैवायोगात् । ब्रह्मणस्तु स्वप्रकाशत्वेन तदभिन्नाऽनन्दादि-प्रकाशप्रसक्तौ तत्प्रतिबन्धार्थं भावरूपाज्ञानकल्पनमावश्यकमिति शङ्कते- नन्विति ।। अस्ति घटादीनां प्रमाणप्रवृत्त्यधीनैव प्रकाशप्रसक्तिः । तथाऽपि तदज्ञानं दुर्निरसम् । भ्रमस्थले सत्यामपि प्रमाणप्रवृत्तौ यथावदनवभासस्यानन्यनिमित्तत्वादिति परिहरति- मैवमिति ।। न च दोषादेव तत्रानवभासो नाज्ञानादिति वाच्यम् । ज्ञानप्रतिबन्धकाज्ञानातिरिक्तदोषस्य त्वया अनभ्युपगमात् । अभ्युपगमे च तेनैव ब्रह्मप्रकाशप्रतिबन्धसम्भवेन तदज्ञानस्याप्यसिद्धिप्रसङ्गात् । शुक्ति-रजताद्युपादानतया अज्ञानस्य परेणाङ्गीकाराच्चेति भावः । अन्यथेति ।। यद्यपि शुक्ति-विषयकमप्यज्ञानं परेण नाङ्गीक्रियते । जडत्वेन घटतुल्यत्वात् । किन्तु शुक्त्यवच्छिन्नचैतन्यविषय-मेव । तथाऽपि ‘शास्त्रार्थं न जानामि’ इत्यनुभवेन ब्रह्मविषयकाज्ञानवत् ‘शुक्तिं न जानामि’ इत्यनुभवेन तद्विषयकमप्यज्ञानं दुर्वारम् । न च प्रकाशप्रतिबन्धरूपप्रयोजनाभावात् न तद्विषयका-ज्ञानं स्वीकार्यमिति वाच्यम् । प्रयोजनाभावमात्रेण प्रमाणसिद्धवस्तुनः त्यागानर्हत्वादिति भावः ।

श्रीवेदेशतीर्थ

अज्ञानस्य घटाश्रितत्वस्य परैरप्यनङ्गीकृतत्वात्पक्षान्तरसूचकवाशब्दस्याऽनर्थक्य-माशङ्क्याऽह- वाशब्द इति ।। ननु घटाज्ञानदृष्टान्तेन ब्रह्माज्ञानस्य तदाश्रितत्वनिराकरणमयुक्तम् । घटाज्ञानस्यैवाभावात् । तथा हि, न ह्यज्ञानं कुलधर्मतयेष्यते । किन्तु प्राप्तप्रकाशप्रतिबन्धार्थमेव । एवञ्च घटाज्ञानमङ्गीकुर्वन् प्रष्टव्यः । घट-ज्ञानोत्पत्तेः प्राक् प्रसक्तप्रकाशप्रतिबन्धार्थमभ्युपगम्यते । ज्ञानोत्पत्त्यनन्तरं प्रतिबन्धार्थं वा । नाऽद्यः । घटस्य जडत्वेन स्वतः प्रकाशप्रसक्त्यभावेन प्रमाणत एव तत्प्रसक्तिर्वाच्या । एवञ्च प्रमाणप्रवृत्त्यभावदशायां सामग््रयभावादेव तदप्रकाशोपपत्त्या प्रति-बन्धकाज्ञानकल्पनानुपपत्तेः । न द्वितीयः । ज्ञानोत्पत्त्यनन्तरं तस्य प्रकाशमानत्वेन अज्ञानकल्पक-विषयानवभासाभावेनाज्ञानकल्पनस्यैवायोगात् । ब्रह्मणस्तु स्वप्रकाशत्वेन तदभिन्नाऽनन्दादि-प्रकाशप्रसक्तौ तत्प्रतिबन्धार्थं भावरूपाज्ञानकल्पनमावश्यकमिति शङ्कते-नन्विति ।। तत एवेति ।। ज्ञानस्योत्पन्नत्वादेवेत्यर्थः । सुतरां घटाज्ञानं नास्तीति सम्बन्धः । माऽस्तु घटादीनां प्राप्तप्रकाश-प्रतिबन्धार्थमज्ञानम् । अतदाकारप्रतिभासरूपविक्षेपार्थं तु भविष्यति । सत्यामपि प्रमाणप्रसक्तौ यथावदनवभासस्यानन्यनिमित्तत्वादित्याशयेन परिहरति- मैवमिति ।। ननु घटत्वाग्रहणस्य दोषादेवोपपत्तेर्नाज्ञानं तत्र कल्प्यत इत्यत आह- अन्यथेति ।। यद्यपि शुक्तिविषयकमप्यज्ञानं परेण नाभ्युपगम्यते । जडत्वेन घटतुल्यत्वात् । किं तु शुक्त्यवच्छिन्नचैतन्यविषयमेव । तथाऽपि ‘शास्त्रार्थं न जानामि’ इत्यनुभवेन ब्रह्मविषयकाज्ञानवत् ‘शुक्तिं न जानामि, घटं न जानामि’ इत्यनुभवेन तद्विषयमप्यज्ञानं दुर्वारम् । न चाऽवरणादिप्रयोजनाभावान्न तत्राज्ञानमिति  वाच्यम्    प्रयोजना-भावे प्रमाणसिद्धवस्तुनस्त्यागायोगादिति भावः । उपलक्षणञ्चैतत् । ज्ञानप्रतिबन्धकाज्ञानातिरेकेण दोषस्य त्वया अनभ्युपगमात् । अभ्युपगमे च तेनैव ब्रह्मप्रकाशप्रतिबन्धसम्भवेन तदज्ञानस्या-प्यसिद्धिप्रसङ्गादित्यपि द्रष्टव्यम् ।

श्रीराघवेन्द्रतीर्थ

उक्तेहेतोरनुकूलतर्कमाह- अन्यथेति ।। हिशब्दो हेत्वर्थ इत्युक्तं व्यनक्ति- यत एवमिति ।। तत एवेति ।। ज्ञानस्योत्पन्नत्वादेव । सुतरां निःसन्देहम् । ज्ञानप्रतिबन्धकत्वेनैवाज्ञानस्य कल्प्यत्वात् तस्यैवोत्पत्तौ कल्पकाभाव इति भावः । कल्प्यत इति ।। तदावरणतयेति योज्यम्    अन्या-त्मनेति  ।।  वल्मीकस्थूलमृत्पिण्डपाषाणाद्यात्मनेत्यर्थः । शुक्तिकाज्ञानमिति । तत्रापि शुक्तित्त्वा-ग्रहणाद्यर्थमेवाज्ञानस्याङ्गीकारादिति भावः । यथाखल्वित्यादि । तथा चाज्ञानं न ब्रह्माश्रितं अज्ञानत्वात् घटाज्ञानवदित्यनुमानमुक्तं भवतीति द्रष्टव्यम् । अप्रयोजकतां परिहरति-अन्यथेति ।। तदाश्रयं ब्रह्माश्रयम् । उपपत्तेरिति ।। तथा च नाज्ञानं कल्पनीयमित्यर्थः ।

गुरुराजीया

अज्ञानस्य घटाश्रितत्वस्य परैरप्यनङ्गीकारात् पक्षान्तरसूचकवाशब्दानुपपत्तिरित्यतस्तं व्याचष्टे- वाशब्द उपमायामिति ।। ननु घटाज्ञानदृष्टान्तेन ब्रह्माज्ञानस्य तदाश्रितत्वनिराकरण-मयुक्तम् । घटाज्ञानस्यैवाभावात् । १तथा हि, न हि घटाज्ञानं व्यसनतयाऽङ्गीक्रियते । किन्तु प्राप्तप्रकाशप्रतिबन्धार्थमेव । न चात्र स सम्भवति । तथा हि, घटज्ञानोत्पत्तेः प्राक् प्रसक्तप्रकाशप्रतिबन्धार्थं वाऽभ्युपेयं ज्ञानोत्पत्तिप्रतिबन्धार्थं वा । नाऽद्यः । घटस्य जडत्वेन स्वतः प्रकाशप्रसक्त्यसम्भवेन प्रमाणत एव तत्प्रसक्तिर्वाच्या । एवञ्च प्रमाणप्रवृत्त्यभावदशायां प्रमाणाभावादेव तदप्रकाशोपपत्त्या प्रतिबन्धकाज्ञानकल्पनस्यैव वैयर्थ्यात् । न द्वितीयः । ज्ञानोत्प-त्त्यनन्तरं घटस्य प्रकाशमानत्वेनाज्ञानकल्पकविषयानवभासस्यैवाभावेन तत्कल्पनवैयर्थ्यात् । न चैवं ब्रह्मण्यप्यज्ञानस्य नाङ्गीकर्तव्यत्वप्रसङ्गः । तत्कल्पकभावाभावाभ्यां विशेषेणाऽविशेषाऽसिद्ध्या तदप्रसङ्गादित्याशयेन शङ्कते- नन्विति ।। तत एवेति ।। ज्ञानस्योत्पन्नत्वादेवेत्यर्थः । सुतरां घटज्ञानं नास्तीति सम्बन्धः । माऽस्तु घटादीनां प्राप्तप्रकाशप्रतिबन्धार्थमज्ञानम् । अतदाकारप्रतिभास-रूपविक्षेपार्थं तु भविष्यति । सत्यामपि प्रमाणप्रसक्तौ यथावदनवभासस्यानन्यनिमित्तत्वादि-त्याशयेन परिहरति- मैवमिति ।। ननु घटादेरतदाकारप्रतिभासस्य दोषादेवोपपत्तेर्न तस्यानन्य-निमित्तत्वमित्यत आह- अन्यथेति ।। यद्यपि परेण तत्राज्ञानं नाङ्गीक्रियत इति नेदमनिष्टं तथाऽपि शास्त्रार्थं न जानामीत्यनुभवबलाद् ब्रह्माज्ञानवत् शुक्तिं न जानामीत्यनुभवबलायातस्य शुक्त्य-ज्ञानस्यानङ्गीकारानुपपत्तेः । न चाऽवरणरूपप्रयोजनाभावो२ दोषः । प्रयोजनाभावे प्रमाणसिद्ध-वस्तुनस्त्यागायोगात्    अन्यथा कण्टकशौक्ल्यस्यापि३ प्रयोजनाभावयुक्त्या त्यागप्रसङ्गादिति भावः । उपलक्षणं चैतत् । ज्ञानप्रतिबन्धकाज्ञानातिरिक्तदोषस्य त्वयाऽनभ्युपगमात् । अभ्युपगमे च तेनैव ब्रह्मप्रकाशप्रतिबन्धसम्भवेन तदज्ञानस्याप्यसिद्धिप्रसङ्गादित्यपि द्रष्टव्यम् ।

गोविन्दीया

अन्यथेति ।। ब्रह्माज्ञानस्य तदाश्रयत्वे इत्यर्थः । यत एवमिति ।। यतः घटाज्ञानं घटाश्रयं न भवति, एवं ब्रह्माज्ञानं तदाश्रयं न भवतीत्यर्थः । तस्मादिति ।। ब्रह्माज्ञानस्य तदाश्रयत्वाभावा-दित्यर्थः । ब्रह्मव्यतिरिक्ताश्रयाज्ञानं निवर्तयद् ज्ञानं ब्रह्मज्ञानं कथं स्यादिति भावः । नन्विति ।। स्वप्रकाशस्यैव भावरूपाज्ञानमावरकं वाच्यम्, घटस्य जडत्वेन स्वप्रकाशत्वाभावाद् आवरकं भावरूपाज्ञानं नास्ति प्रमाणाभावात् । अपि तु ज्ञानोत्पत्तेः प्राक् ज्ञानाभावरूपाज्ञानस्योपपत्ते-रित्यर्थः । उत्पन्नेति ।। ज्ञाने उत्पन्ने सति तत एव उत्पन्नज्ञानत्वात् प्रकाशमाने घटे सुतराम् अज्ञानकल्पकप्रमाणाभावादित्यर्थः । अत इति ।। अतः कारणात् ब्रह्माज्ञानं तदाश्रितं न, अज्ञानत्वात् यदज्ञानं न तद्विषयम् इति सामान्यव्याप्तावित्यर्थः । तत्स्वरूपेति ।। तत्स्वरूपस्याऽ-नन्दादेरनवभासस्य अनन्यनिमित्तत्वाद् अज्ञानव्यतिरिक्तनिमित्तत्वाभावाद् भावरूपमज्ञानं कल्प्यत इत्यर्थः । घटोऽपीति ।। यदा अन्यात्मना पटात्मनेत्यर्थः । अन्यथेति ।। घटाज्ञानानङ्गीकारे शुक्तिकाज्ञानमपि न स्यादित्यर्थः ।

नारोपन्तीया

अन्यथा शुक्तिकाज्ञानमपीति ।। ननु तत्रापीष्टापादनमेव । परेणाज्ञानस्य शुक्त्यवच्छिन्न-चैतन्याश्रिततयाऽङ्गीकारात् । तथा घटाज्ञानमपि घटावच्छिन्नचैतन्यावरकीभूताज्ञानमेव । तथैव हि परकीयाज्ञाने  सति  प्रक्रिया    विषयेन्द्रियसंयोगानन्तरं हि अन्तर्घटादिविषयाकारान्तःकरण-वृत्तिर्जायते । सा च दीर्घप्रभाकारेण बहिरिन्द्रियद्वारा बहिर्निःसरति विषयपर्यन्तं व्याप्नोति । तथा च विषयावच्छिन्नचैतन्यावरकीभूताज्ञाने निवृत्ते ब्रह्मचैतन्यं स्फुरति । एवं च विषयावच्छिन्नपराक्चैतन्य-रूपात्मनोऽन्तःकरणावच्छिन्नरूपप्रत्यक्चैतन्यस्य चैक्यं भवति । उभयोरप्यन्तःकरणावच्छिन्नत्वेन प्रत्यक्त्वलाभात् । स एव हि परैरेकलोलीभाव इति व्यवह्रियते । तथा चाऽवरणनिवृत्तौ आत्मनि स्फुरमाणे तत्राध्यस्तघटादिविषयोऽपि स्फुरति । तथा च श्रुतिः- ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।’ इति । तस्मात्कथमेतदापादनमिति चेदित्थम्- श्रुत्यर्थस्यान्यथैवोपन्नत्वेन परकीयप्रक्रियाया निर्मूलत्वात् । अनुमित्यादिस्थले परेणैव वृत्तेर्बहिर्निःसरणस्य एकलोलीभावस्य चानङ्गीकारेऽपि वह्न्यादीनां परोक्षवृत्तिविषयत्ववत् घटादीनामप्यपरोक्षवृत्तिविषयताङ्गीकृतौ बाधका-भावाच्च । यदि च चैतन्यस्य स्वप्रकाशस्य सर्वदा स्फुरणप्रसक्तेस्तत्राज्ञानं स्वीकार्यं, तर्हि जडेऽपीन्द्रियसन्निकृष्टे शुक्त्यादौ रजततया भासमाने शुक्तित्वभानस्य प्रसक्तस्याऽवरणार्थं तुल्यन्यायतया तत्राप्यज्ञानाङ्गीकारस्याऽवश्यकत्वात् । तदिदमाह- तत्राप्यज्ञानस्य परेणाङ्गीकार्यत्वादिति ।। तथा च परन्यायेनैव परोऽङ्गीकारयितव्यः । तथा चेदं दूषणं सुस्थमिति न कश्चिद्दोष इति भावः ।

जनार्दनभट्टीया

प्रकृतत्वात् अज्ञानस्य ब्रह्माश्रयत्वे निराकरणीये ‘न हि अज्ञानस्य’ इति मूले घटाश्रयत्व-निषेधस्य प्रकृतासङ्गतिरित्याशङ्क्य सङ्गततया योजयति – हिशब्द इत्यादिना ।। घटाज्ञानमेवेति ।। ‘भावरूपम्’ इति शेषः । स्वमतानुरोधेन आह – ब्रह्मणि त्विति ।। अनन्यनिमित्तत्वादिति ।। अज्ञानातिरिक्तनिमित्तशून्यत्वादित्यर्थः । ब्रह्माज्ञानप्रतिबन्धं घटाज्ञानं साधयति– घटोऽपीत्या-दिना ।।