न चानिर्वचनीये किञ्चिन्मानम्..
प्रमाणाभावे अनिर्वचनीयज्ञानसामान्याभावसमर्थनम्
न चानिर्वचनीये किञ्चिन्मानम्..
श्रीमज्जयतीर्थटीका
चशब्दो यस्मादित्यर्थे ।
ननु प्रमितिः प्रमाणमपेक्षते न प्रसिद्धिमात्रम् । न च संशयस्य प्रमितिसापेक्षता । १प्रतीति-मात्रेणापि स्मरणोपपत्त्या संशयोपपत्तेः । यथा खलु विप्रलम्भकवाक्याच्छशविषाणसद्भावं मन्यमानस्य विषाणमित्युक्ते भवति सन्देहः । अतोऽनिर्वचनीयप्रसिद्ध्यभावोपपादनाय तत्कारणाभावे वक्तव्ये कथं प्रमितिकारणाभावाभिधानमिति । सत्यम् । प्रतीतिरेव सन्देहोपयोगिनीति वस्तुगतिः । तथापि प्रमाणविषयतयोपक्षिप्ते भेदेऽनिर्वचनीयो वेत्यादि-सन्दिहानेन प्रतिवादिनाऽऽत्मनोऽनिर्वचनीयादिविषया प्रमितिरेव सन्देहकारणतया वक्तव्या । तत्प्रतीतेरप्रमात्वाङ्गीकारे स्वयमेव विलीनं संशयेन । अतः प्रमाणाभावेन प्रमाभावे साधितेऽप्रमायाश्च स्वयमेवानङ्गीकारे प्रतीत्यभाव एव साधितो भवतीति न कश्चिद्दोषः ।
श्रीविजयीन्द्रभिक्षु
नन्वनिर्वचनीयत्वस्य सर्वत्राप्रसिद्धत्वं कथमिति शङ्कायां मानाभावादिति वक्तव्ये न चानिर्वचनीये किञ्चिन्मानम् इत्युक्तिर्न घटत इत्याशङ्क्य तद्घटनाय चशब्दं हेत्वर्थत्वेन व्याचष्टे- चशब्द इति ।। ननु भेदः किमनिर्वचनीयः पारमार्थिको वेति संशयायोगे अनिर्वचनीय-रूपकोटिप्रसिद्धेरभाव एव हेतुत्वेनोपपादनीयः । न तु तस्याः प्रमाणजन्यत्वाभावः । प्रमितेः प्रमाण-सापेक्षत्वनियमेऽपि संशयस्याप्रमितिरूपस्य भ्रमप्रमासाधारणकोटिप्रतीतिमात्रसाध्यत्वात् । विप्रलम्भकवाक्याच्छशविषाणसद्भावं मन्यमानस्य विशेषादर्शिनो विषाणमस्तीति वाक्यश्रवण-समनन्तरं तत्किं शशविषाणं गोविषाणं वेति संशयदर्शनादिति शङ्कते- ननु प्रमितिरिति ।। प्रतीति-मात्रेणापीति ।। लाघवेन संशयस्य स्मृत्यन्यज्ञानमात्रेणापि संस्कारोद्बोधद्वारा कोटि-स्मरणोपपत्तेरित्यर्थः । तत्कारणेति ।। अनिर्वचनीयप्रसिद्धिकारणाभाव एवोपपादनीय इत्यर्थः । सर्वत्र भ्रमप्रमासाधारणकोटिप्रसिद्धिमात्रेण संशय इत्यस्तु । तथाऽपि प्रमारूपाया अनिर्वचनीय-कोटिप्रसिद्धेः ‘भेदः किमनिर्वचनीयः’ इत्यादिसन्दिहानेनाङ्गीकार्यत्वात् । अन्यथा तत्र भ्रमत्व-निश्चयस्य तदप्रामाणिकत्वनिश्चयपर्यवसन्नतया विमतो भिन्नो मुक्तत्वादिति प्रमाणविषय-तयोपक्षिप्तभेदधर्मिकानिर्वचनीयत्वादिकोटिकसंशयस्यैवायोगात् प्रमारूपैव कोटिप्रसिद्धिर्वाच्या । सा च प्रमाणाभावेनासाधितैवेति कोटिप्रतीतिमात्राभावान्नोक्तसंशयो युज्यत इत्यभिप्रेत्य परिहरति- सत्यमिति ।। आत्मनः स्वस्य ।
श्रीवेदेशतीर्थ
यस्मादित्यर्थ इति ।। यस्मान्मानाभावस्तस्मान्नानिर्वचनीयं प्रसिद्धमिति पूर्वेणान्वयः । ननु न प्रमाणाभावेन प्रतीत्यभावः साधयितुं शक्यते । प्रमाणाभावेऽपि प्रतीतिदर्शनेन व्यभिचारादि-त्यभिप्रेत्य शङ्कते- नन्विति ।। ननु प्रमाणभावेनानिर्वचनीयप्रमित्यभाव एव साध्यत इति नोक्तदोष इत्यत आह- न च संशयस्येति ।। संशयाभावोपपादनार्थं ह्यनिर्वचनीयप्रमित्यभावः साध्यः । स चायुक्तः । संशयस्य कोटिप्रतीतिमात्रसापेक्षत्वेन तत्प्रमितिसापेक्षत्वाभावात् । तथा चार्थान्तर-मिति भावः । प्रतीतिमात्रेण कोटिप्रतीतिमात्रेणेत्यर्थः । स्मरणेति ।। कोटिस्मरणेत्यर्थः । मध्यस्थस्य यस्य कस्यचिदनिर्वचनीयादिविषयकज्ञानमात्रेण शशविषाणादिसंशयवत्संशयोपपत्तावपि प्रति-वादिनस्तावत् तज्ज्ञानस्य प्रमात्वनिश्चयो वक्तव्य इति भावेनोक्तम् । प्रतिवादिनाऽऽत्मन इति ।। तत्प्रतीतेरिति ।। अप्रमात्वनिश्चयाङ्गीकार इत्यर्थः । अनिर्वचनीयादिविषयकप्रतीतेरप्रमात्व-निश्चयाङ्गीकारेऽनिर्वचनीयरूपार्थाभावनिश्चयेन तस्य संशय एव न स्यात् । न हि शशविषाण-मस्तीति ज्ञानं भ्रम इति निश्चयवतोऽपि विषाणमस्तीत्युक्ते भवति सन्देह इत्यर्थः ।
द्वैतद्युमणि
स्वयमेव विलीनं संशयकारणीभूतं ज्ञानजातमिति शेषः । प्रतीतिपदस्यैव विभक्ति-विपरिणामेन सम्बन्धे नपुंसकलिङ्गानुपपत्तेः । संशयमनुत्पाद्य नष्टं स्यादित्यर्थः । न संशयेन स्वफलीभूतसंशयेन नष्टं न स्यादित्यर्थः । स्वयमेव विलीनं संशयेन इति नञघटितपाठे तु स्वोत्पत्तिप्रतिबन्धकासमवधानेऽपि स्वकारणाभावादेवानुत्पन्नः सन्देह इत्यर्थः । इत्थं च पाठद्वयेऽपि अप्रमात्वग्रहानास्कन्दितस्य वा प्रमात्वेन गृह्यमाणस्य वा कोटिप्रतिपत्त्यादेः संशयकारणत्वेन तदभावात् संशयो न स्यादिति भावः ।
श्रीराघवेन्द्रतीर्थ
उपक्षिप्त इति ।। प्रतिज्ञात इत्यर्थः । स्वयमेवेति । अन्यापेक्षां विनैव संशयेन विलीनं विलयः प्राप्तः, संशयो गत इति यावत् । कथमित्यत उपसंहारव्याजेन व्यनक्ति - अत इति ।। प्रतीत्यभाव एवेति ।। अनिर्वचनीयस्येति योज्यम् ।
गुरुराजीया
कोटिप्रतीततामात्रेणेति ।। आरोप्यमाणकोटिप्रतीततामात्रेणेत्यर्थः ।
गोविन्दीया
न प्रसिद्धिमात्रमिति ।। ज्ञानमात्रमित्यर्थः । अत इति ।। अनिर्वचनीयज्ञानमात्राभावोप-पादनायेत्यर्थः । सत्यमिति ।। अनिर्वचनीयसिद्ध्युत्पादककारणाभावो वक्तव्य इत्यङ्गीकारपक्षे प्रमितकारणाभावाभिधानं कथमित्याक्षेपानङ्गीकार इत्यर्थः । प्रतिवादिनेति ।। यस्य कस्यापि अनिर्वचनीयादिविषयप्रतीतिमात्रस्य सन्देहकारणत्वेऽपि प्रतिवादिना स्वस्य तत्प्रमितिरेव सन्देहकारणतया वक्तव्येत्यर्थः । तत्प्रतीतेरिति ।। अनिर्वचनीयप्रतीतेः भ्रमत्वाङ्गीकारे तदभावनिश्चयेन कोटित्वानुपपत्त्या संशयेन स्वयमेव विलीनम्, संशय एव न स्यादित्यर्थः । अत एव भ्रमत्वं नाङ्गीकार्यमिति भावः । अप्रमायाश्चेति ।। संशयनाशप्रसङ्गात् । अप्रमायाश्च स्वयमेवानङ्गीकारे प्रमाऽप्रमाविषयत्वाभावाद् अनिर्वचनीयप्रतीत्यभाव एव साधितो भवतीति न कश्चिद्दोष इत्यर्थः ।
जनार्दनभट्टीया
चशब्दो यस्मादित्यर्थ इति ।। ‘यस्मादनिर्वचनीये न किञ्चिन्मानं तस्मात् न च भेदे विकल्पो युज्यते’ इति योजना सूचिता भवति । कोटिप्रतीतिमात्रस्यैव संशयकारणत्वात् तस्याश्च प्रमाणेन विनाप्युपपत्तेः ‘न चानिर्वचनीयम्’ इति मूले प्रमितकारणाभावाभिधानमसङ्गतमित्याशयेन शङ्कते – नन्विति ।। न प्रसिद्धिमात्रमिति ।। न प्रतीतिमात्रमित्यर्थः । प्रमाणमपेक्षत इति भ्राम्यतः शङ्कां निराकरोति – न चेत्यादिना ।। प्रमितिसापेक्षता ।। स्वहेतुभूतकोटिस्मरणकारण-संस्कारोत्पादनार्थमिति शेषः । प्रतीतिमात्रेणापीति ।। अयथार्थकोटिस्मरणेनापीति भावः । विप्रलम्भकवाक्यादिति ।। ‘शशविषाणमस्तीत्येवंरूपात्’ इति शेषः । भवति सन्देह इति ।। ‘शशविषाणं गोविषाणं वा’ इति शेषः । उपसंहारव्याजेन प्रमितिकारणाभावाभिधानस्य असङ्गतिं दृढयति – अत इति ।। कोटिप्रमितेरेव संशयहेतुत्वमिति नियमाभावादित्यर्थः । तत्कारणाभाव इति ।। अनिर्वचनीयप्रतीतिकारणाभाव इत्यर्थः । अनिर्वचनीयप्रतीतिकारणाभावाभिधानं च न सम्भवति । शुक्तिरजतादि अनिर्वचनीयम् इति मायावादिसमयश्रवणस्यैव तद्धेतुत्वादिति भावः । प्रमितिकारणाभावाभिधानमिति ।। ‘किञ्चिन्मानम्’ इति मूले, ‘मीयते अनेन’ इति करणव्युत्पत्या मानशब्दस्य कारणसाधनत्वादिति भावः । प्रतिवादिनेति ।। प्रतिवादिनां मायिनां मतमवलम्ब्य वादे प्रवर्तमानेन शिष्येणेत्यर्थः । ‘ग्रन्थोऽयं वादप्रक्रियया प्रवर्तते । शिष्यानुकम्पया प्रवर्तमानात्’ इति प्रागुक्तेः । प्रमितिरेवेति ।। प्रमितित्वेन निश्चितैवेत्यर्थः । विपक्षे बाधकमाह– तत्प्रतीतेरिति ।। अनिर्वचनीयत्वरूपकोटिप्रतीतेरित्यर्थः । अप्रमात्वाङ्गीकारे= अप्रमात्वेन निश्चयाङ्गीकार इत्यर्थः । अप्रमितित्वेन निश्चितायाः कोटिस्मृतेः प्रमितिविषयतयोपक्षिप्ते भेदे अनिर्वचनीयत्वकोटि-संशयजनकत्वानुपपत्तेरिति भावः । शशविषाणमस्तीति विप्रलम्भकवाक्यात् शशविषाणसद्भावं मन्यमानस्य पुंसः पुरुषान्तरेण विषाणमस्तीत्युक्ते तच्छ्रवणानन्तरं पूर्वोत्पन्नयथार्थशश-विषाणत्वरूपकोटिस्मृत्या शशविषाणं गोविषाणं वेति संशयदर्शनात् इत्थं व्याख्यात-मस्माभिरित्यवगन्तव्यम् । तत्र धर्मिणः प्रमाणविषयतया उपक्षिप्तत्वाभावात् । स्वयमेवेति ।। अनिर्वचनीयत्वरूपकोटिस्मृतेर्भेदरूपधर्मिग्राहकप्रमाणेन कुण्ठितशक्तित्वेन संशयजनने विमुखत्वादिति भावः । मूले प्रमितिकारणाभावाभिधानस्य असङ्गतिं परिहरति – अत इति ।। अनिर्वचनीयादि-विषयप्रमितेरेव संशयकारणतया वक्तव्यत्वादित्यर्थः । प्रतीत्यभाव एवेति ।। भ्रमप्रमातिरिक्त-प्रतीतेरभावादित्यर्थः । कश्चिदिति ।। असङ्गत्यादिरूप इत्यर्थः ।