अतो निखिलगुणगणाढ्यमेव ब्रह्म ..
तर्कविरोधपरिहारादिलब्धब्रह्मगुणगणाढ्यत्वस्योपसंहारः
श्रीमज्जयतीर्थटीका
यदर्थमयं तर्कविरोधपरिहारादिप्रपञ्चस्तदुपसंहरति
मूल
अतो निखिलगुणगणाढ्यमेव ब्रह्म श्रुत्यभिप्रेतम् ।
यतः ‘पराऽस्य’ इत्यादिषु श्रुतिषु विशिष्टप्रतिपादनं प्रतीयते । यतश्चान्तरानुपपत्तेः १बाह्यतर्कस्य च बाधा नास्ति । एवं च न सूत्रकारस्य श्रुतिविरोध इति सिद्धम् ।
श्रीविजयीन्द्रभिक्षु
बाह्यतर्कस्येति ।। बाह्यानुपपत्तिरूपतर्कस्येत्यर्थः । अन्तरानुपपत्तेरिति ।। कर्तरि षष्ठी । तथा चान्तरानुपपत्तिकृता च बाधा यतश्च नास्ति अत इति सम्बन्धः । श्रुतिविरोध इति ।। ‘अशब्दमस्पर्शम्’ इत्यादिप्रागुद्भावितश्रुतिविरोध इत्यर्थः ।
श्रीवेदेशतीर्थ
यत इति यतश्चेति यच्छब्दद्वयस्यात इति मूलेनान्वयः । गुणगणाढ्यस्य ब्रह्मणः श्रुत्यभिप्रेतत्वे किं सिद्धमित्यपेक्षायामाह- एवं चेति ।।
श्रीराघवेन्द्रतीर्थ
तर्कविरोधपरिहारादीति ।। सत्यज्ञानादिवाक्यानां विशिष्टार्थकत्वप्रपञ्चनं प्रकृष्ट-प्रकाशश्चन्द्र इत्यादिष्वित्यादिनोक्तमादिपदार्थः । अतःपदपरामृष्टं द्वेधा दर्शयति- यत इति ।। अन्तरङ्गेति ।। सत्यज्ञानादिवाक्यस्य विशिष्टपरत्वे स्वरूपमात्रप्रश्नोत्तरत्वरूपानुपपत्तेः बाधा भिन्नत्वादिविकल्पासहत्वरूपबाह्यतर्कस्य च बाधेत्यर्थः । अत इति योज्यम् ।
यदुक्तं पूर्वत्र शून्यवादिनिरासपराणां नासत इत्यादिसूत्राणां शून्यमिवाखण्डं ब्रह्मेति वदतो मायिनोऽपि मतस्य निरासकत्वे अखण्डब्रह्मबोधकश्रुतिविरोधः सूत्रकारस्येति । तन्निरासोप-संहारोऽपि सिद्ध इत्याह - एवं चेति ।। गुणगणाढ्यस्यैव श्रुत्यभिप्रेतत्वे सतीत्यर्थः ।आन्तरानुपपत्तेर्बाधेत्यन्वयः । अनुपपत्तिनिरूपिता बाधा अनुपपत्तिप्रयुक्ता बाधेत्यर्थः । बाह्यतर्कस्येत्येतदप्येवमेव व्याख्येयम् । नास्तीति ।। तथा च प्रकृष्टप्रकाशश्चन्द्र इत्यादिष्वित्यादि, नान्तरङ्गबाधा परिहृता । दृष्टस्य वस्तुन इत्यादिना बाह्यतर्कबाधा च परिहृतेति यावदित्यर्थः ।
गुरुराजीया
अस्तु गुणगणाढ्यस्य श्रुत्यभिप्रेतत्वम् । ततोऽपि किं प्रकृते सिद्धमित्यत आह- एवं चेति ।।
गोविन्दीया
यदर्थमिति ।। अयं तर्कविरोधपरिहारप्रपञ्चः आदिशब्देन सङ्गृहीतः । आन्तरानुपपत्ति-परिहारप्रपञ्चश्च कृतः । तद्विशिष्टं ब्रह्मोपसंहरतीत्यर्थः । एवं चेति ।। विशिष्टार्थं वक्तुः सूत्रकारस्य श्रुतिविरोधो नास्ति । श्रुतीनामपि विशिष्टार्थप्रतिपादकत्वादिति सिद्धमित्यर्थः ।
जनार्दनभट्टीया
श्रुतिविरोध इति ।। ‘अशब्दमस्पर्शम्’ इत्यादिनिर्गुणत्वप्रतिपादकश्रुतिविरोध इत्यर्थः ।