दृष्टस्य वस्तुनो..
न च प्रत्यक्षेत्यनेन दृष्टस्य वस्तुन इत्यस्य पौनरुक्त्यशङ्का तत्परिहारश्च
दृष्टस्य वस्तुनो
श्रीमज्जयतीर्थटीका
ननु न च प्रत्यक्षसिद्धमित्यादिनैवास्यार्थस्यावगतत्वात् किमनेनेति । मैवम् । तत्र प्रत्यक्ष-स्यानुमानागमाबाध्यत्वं प्रतिपादितम् । इह तु प्रमाणसिद्धस्य तर्काबाध्यत्वमिति प्रमेयभेदात् । अत एव प्रमाणादङ्गीक्रियत एवेति सामान्येन वक्ष्यति । किञ्च प्राक्प्रत्यक्षस्यानुमानाद्य-बाध्यत्वोपपादने तात्पर्यम् । चन्द्रप्रादेशत्वादौ व्यभिचारपरिहारात् । इह तु तर्कस्य दृष्टि-बाधकत्वनिराकरणे । तत्रातिप्रसङ्गादेर्वक्ष्यमाणत्वादिति ।
श्रीविजयीन्द्रभिक्षु
न च प्रत्यक्षसिद्धमितीति ।। ‘न च प्रत्यक्षदृष्टमन्येन केनापि बाध्यं दृष्टम्’ इत्यादिनैवे-त्यर्थः । इह त्विति ।। ‘दृष्टस्य वस्तुनः’ इति वाक्ये दृष्टिपदस्य प्रमाणसामान्यपरत्वमिति भावः। किमत्र प्रमाणमित्यत आह- अत एवेति ।। सामान्यशब्दस्य विशेषपरत्ववद् विशेषशब्दस्य सामान्यपरत्वं प्रायिकमित्यत आह- किञ्चेति ।। ‘यत्प्रत्यक्षसिद्धं न तत्प्रमाणान्तरबाध्यम्’ इत्यस्य चन्द्रप्रादेशत्वादौ व्यभिचारमाशङ्क्यैतत्परिहारग्रन्थस्य ‘प्रत्यक्षस्यानुमानागमाबाध्यत्वम्’ इत्यर्थोपपादनपरतया चावगम्यत इत्यर्थः । तत्रेति ।। तर्कस्य प्रत्यक्षाबाधकत्वे ।
श्रीवेदेशतीर्थ
पूर्वं प्रत्यक्षसिद्धस्याबाध्यत्वमुक्तम् । इदानीं सामान्येन प्रमाणमात्रसिद्धस्याबाध्यत्वमुच्यत इति भेदो निरूपितः । इदानीं प्रागनुमानागमयोर्बाधकत्वं निराकृतम् । सम्प्रति च तर्कमात्रस्य बाधकत्वं निराक्रियते इत्यतोऽपि पूर्वोत्तरग्रन्थभेदोऽस्तीत्याह- किञ्चेत्यादिना ।।
ननु प्रागागमस्यापि बाधकत्वं न निराकृतम् । किन्त्वनुमानस्यैवेति किं न स्यादित्यत आह- चन्द्रेति ।। चन्द्रप्रादेशत्वादिप्रत्यक्षं त्वित्यादिवाक्येनेति शेषः । यद्यनुमानमात्रस्य बाधकत्वनिरा-करणं पूर्वमभिप्रेतं स्यात्तर्हि चन्द्रप्रादेशत्वादौ व्यभिचारपरिहारोऽसङ्गतः स्यात् । न हि तत्रानुमानेन बाधः प्रसक्तः । अथ आगमबाधकतानिराकरणमपि पूर्वमभिप्रेतमिति भावः । तत्रेति ।। तर्कस्य बाधकत्वेऽतिप्रसङ्गस्य ‘उभयविलक्षणत्वञ्चेत्’ इत्यादिना वक्ष्यमाणत्वादित्यर्थः । आदिपदेन ‘न हि दृष्टेर्बलवत्किञ्चित्प्रमाणमस्ति’ इत्यादिना वक्ष्यमाणबलवत्त्वाभावपरिग्रहः ।
द्वैतद्युमणि
प्रमेयभेदादिति ।। नन्विदमनुपपन्नम् । मूले ‘दृष्टस्य वस्तुनः’ इति प्रत्यक्षसिद्धस्यैव गृहीत-त्वादित्यत उत्तरमूले प्रमाणसामान्यस्यैव गृहीतत्वेन तदनुसारादत्रापि दृष्टपदं प्रमाणसामान्य-निश्चितपरमित्याशयेनाऽह- अत एवेति ।।
श्रीराघवेन्द्रतीर्थ
न च प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टमित्यनेन पौनरुक्त्यमाशङ्क्य विशेषसामान्य-विषयतया निराह- न च प्रत्यक्षेत्यादिना ।। ज्ञापकमाह- तत्रेति ।। प्रत्यक्षस्य (तर्कस्य) दृष्टि-बाधकत्वनिराकरणे । न हि दृष्टेर्बलवत्किञ्चित्प्रमाणमित्यादिनाऽतिप्रसङ्गव्याघातयोः वक्ष्यमाण-त्वादित्यर्थः । प्रमाणसिद्धस्येति ।। सामान्यतः प्रमाणमात्रसिद्धस्येत्यर्थः । ननु प्रत्यक्षस्यानुमाना-बाध्यत्वोपपादनं कृतमित्यस्तु आगमाबाध्यत्वोपपादने तात्पर्यमित्यादिपदेनोक्तं तत्र किं ज्ञापक-मित्यत आह- चन्द्रेति ।। प्रत्यक्षसिद्धमन्येन केनाप्यागमेन न बाध्यमित्युक्तनियमस्य प्रादेश-परिमितश्चन्द्रमा इति प्रत्यक्षमागमबाधितमुपलब्धमिति व्यभिचारमाशङ्क्य चन्द्रप्रादेशविषयं त्वित्यादिना वाक्येन परिहारादित्यर्थः । वक्ष्यमाणत्वादिति ।। प्रत्यक्षसिद्धस्य तर्क १बाध्यत्वे ‘न हि युक्तिपराजितोऽपि क्षुधित’ इत्यादिनाऽतिप्रङ्गस्य वक्ष्यमाणत्वादित्यर्थः ।
गुरुराजीया
चन्द्रेति ।। ‘चन्द्रप्रादेशविषयं तु’२ इत्यादिनेति शेषः । तत्र तर्कबाधकत्वे । अतिप्रसङ्गादेरित्यादिपदेन प्राबल्याभावपरिग्रहः । वक्ष्यमाणत्वादिति ।। ‘जगतो भिन्नमभिन्नं भिन्नाभिन्नं वेत्यादिविकल्पस्तत्रापि युज्यते’ इत्यादिनेति शेषः ।
गोविन्दीया
तत्रेति ।। प्रत्यक्षस्य प्रत्यक्षसिद्धस्येत्यर्थः । किञ्चेति ।। प्रागुक्तस्य वाक्यस्येत्यर्थः । इहेति ।। दृष्टस्य वस्तुन इत्यस्य वाक्यस्य तर्कस्य दृष्टिबाधकत्वनिराकरणे तात्पर्यम् । तत्र तर्कस्य बाधकत्वेऽतिप्रसङ्गस्योभयविलक्षणत्वं चेत्यादिना वक्ष्यमाणत्वादित्यर्थः । आदिपदेन दृष्टेर्बाध्यत्वाभावः परिगृहीतस्तस्य च न हि दृष्टेरित्यादिना वाक्येन वक्ष्यमाणत्वादिति भावः ।
जनार्दनभट्टीया
प्रमेयभेदेन पौनरुक्त्यं परिहृत्य तात्पर्यभेदेनापि तत्परिहरति– किञ्चेत्यादिना ।। दृष्टिबाधकत्वेति ।। प्रमाणबाधकत्वे इत्यर्थः । अतिप्रसङ्गादेरिति ।। ब्रह्मणोऽपि अनिर्वचनीयत्वं स्यादित्याद्यतिप्रसङ्गादेरित्यर्थः । यद्यपि प्रमाणज्ञानस्य तर्काबाध्यत्वे प्रतिपादिततर्कस्य प्रमाणबाधकत्वमपि निरस्तप्रायमेवेति परिहारैक्यात् परिहारभेदाधीनः तात्पर्यभेदोऽपि दुर्वचः । तथाऽपि उद्देश्यविधेयभेदात् तात्पर्यभेद इति मन्तव्यम् । तथा हि प्राक् प्रत्यक्षमुद्दिश्य ‘अन्येन केनापि न बाध्यत्वम्’ इति अबाध्यत्वं तावत् विवक्षितम् । इह तु ‘अन्यत्’ इति तर्कमुद्दिश्य न बाधकमिति बाधकत्वाभावो विधीयत इति ।।