न चान्नत्वे दुर्घटे ..

रागातिरेकेणापि बाधितेऽर्थे प्रवृत्त्यभावसमर्थनम्

श्रीमज्जयतीर्थटीका

ननु प्रत्यक्षेण दृष्टमन्नं तर्केण बाध्यत एवातो नायं प्रसङ्गः । ननूक्तं तर्हि नाद्यादिति । मैवम् । बाधितेऽप्यर्थे रागातिरेकेण प्रवृत्तिसम्भवादित्यत आह-

मूल

न चान्नत्वे दुर्घटे तस्यानन्नत्वं भवति ।

यद्यन्नत्वं तस्य बाधितं स्यात्तदा परमार्थतोऽनन्नत्वं स्यात् । रजतत्वे बाधिते सत्यरजतत्व-पारमार्थ्यवत् । न त्वेवम् । तथा सति नाद्यादित्युक्तम् । न हि रजते रागातिरेकवानपि निवृत्ते भ्रमे पुनस्तत्र प्रवर्तते । यदि पुनरुत्पन्नेऽपि बाधे रागातिरेकात् भ्रमसंस्कारात्(द्वा) प्रवृत्ति-रित्यभिप्रायः । तथाप्यर्थक्रिया न स्यादिति । ननूक्तमेवैतत्क्षुधित इति । सत्यम् । तस्यैव प्रपञ्चोऽयमित्यदोषः । यदानन्नमन्नत्वेन मन्यते तदा तर्कबाधितं भवत्येवानन्नमित्यत आह-

मूल

दृष्ट्यबाधितदृष्टस्य

पूर्वेणैव सम्बन्धः । तात्पर्यं पूर्ववत् ।

श्रीविजयीन्द्रभिक्षु

शङ्कोत्तरत्वेन मूलमवतार्य तस्य च ‘अन्नत्वे बाधितेऽनन्नत्वं भवति’ इत्यप्रतीते-रयुक्तत्वमाशङ्क्य ‘न चान्नत्वे दुर्घटे’ इत्यस्यानन्तरं परमार्थतोऽनन्नत्वं स्यादिति शेषपूरणं, न च तस्यानन्नत्वमित्यनेन सम्बन्धं च सूचयन् व्याचष्टे- यद्यन्नत्वमिति ।। निश्चितेऽप्यनन्नत्वे रागौत्कट्यात्प्रवृत्तिरित्याशङ्कामर्थान्तरन्यासेन परिहरति- न हीति ।। प्रवर्तकज्ञानाभावादिति भावः। निवृत्त इति ।। बाधकज्ञानेनेति शेषः । ननु भ्रमाभावेऽपि तज्जनितसंस्कारात्प्रवृत्तिरुपपन्नेति शङ्कते- यदीति ।। रागातिरेकात् उत्कटरागात् । भ्रमसंस्कारात् भ्रमव्यापारभूतादित्यर्थः । अत्र संस्कारशब्दप्रयोगः निश्चयस्य प्रवृत्तिप्रतिबन्धसामर्थ्यविघटनसामर्थ्यसूचनार्थः । अर्थक्रिया क्षुन्निवृत्तिरूपा । ‘न हि युक्तिपराजितोऽपि’ इति वाक्ये ‘क्षुधित’ इत्यनेनैवैतच्छङ्का-समाधानकरणात् ‘न चान्नत्वे दुर्घट’ इत्यस्यापि तदर्थत्वे पौनरुक्त्यमित्याशङ्कते- नन्विति ।। अर्धाङ्गीकारेण परिहरति- सत्यमिति ।। यद्यपि ‘न हि युक्तिपराजितोऽपि’ इति वाक्यैकदेशेन क्षुधित इत्यनेनैतच्छङ्कासमाधाने सूचिते । तथाऽपि शब्दतो न प्रपञ्चिते इति भावः ।

ननूक्तरीत्या क्षुन्निवृत्त्याद्यर्थक्रिया न स्यादित्यतिप्रसङ्गेन वस्तुतोऽन्न एवान्नत्वदृष्टेस्तर्केण न बाधः । यत्र त्वनन्न एवान्नत्वदृष्टिस्तत्र तर्केण बाधो भविष्यति । उक्तातिप्रसङ्गाभावादिति शङ्कते- यदेति ।। शङ्कोत्तरत्वेन मूलमवतार्याकाङ्क्षाशान्तयेऽन्वयं दर्शयति- अत आहेति ।। पूर्वेणैवेति ।। न चानन्नत्वे तर्केण दुर्घटेऽपि दृष्ट्यबाधितदृष्टस्यानन्नत्वं भवतीति पूर्वेण सम्बन्ध इत्यर्थः । ननु वस्तुगत्या तस्यानन्नत्वेन तर्केणापि तस्यान्नत्वबाधे न किञ्चिद्बाधकमित्यत आह- तात्पर्यं तु पूर्ववदिति ।। प्रत्यक्षेणैव तत्रान्नत्वबाधो न तर्केणेति भावः ।

नन्वयमर्थो बलवद्दृष्ट्यबाध इत्यनेनैव वर्णित इति चेत्सत्यम् । तस्यैवानेन प्रपञ्चनान्न दोष इति भावः ।

तदेतदभिप्रेत्याप्युक्तम्- पूर्ववदिति ।।

यद्वा इह प्रमाणसामान्यसिद्धस्य तर्केणाबाध उच्यते । पूर्वं तु प्रत्यक्षसिद्धस्य तर्केणाबाध उक्त इति न पौनरुक्त्यम् ।

श्रीवेदेशतीर्थ

न चान्नत्वे इत्यादि मूलोक्तविपर्ययपर्यवसानलब्धमुक्तशङ्कानिवर्तकं तर्कं दर्शयति- यद्यन्नत्वमित्यादिना ।। न त्वेवमिति ।। तस्यानन्नत्वं न हीत्यर्थः । ननु मूलं विपर्ययपर्यवसानपरं चेत्तस्यानन्नत्वं न च भवतीत्येव वक्तव्यं व्यर्थमधिकमिति चेत् । मैवम् । यद्यन्नत्वं तस्य बाधितं स्यादित्यापादकसूचकत्वेन सार्थकत्वात् । न हीति ।। प्रवर्तकज्ञानाभावादिति भावः ।

ननु भ्रमाभावेऽपि तज्जनितसंस्कारात्प्रवृत्तिरुपपन्नेति शङ्कते- यदीति ।। रागातिरेकादिति ।। उत्कटरागसंहितादित्यर्थः । प्रपञ्च इति ।। यद्यपि क्षुधितपदेनैतच्छङ्कासमाधाने सूचिते तथाऽपि शब्दतो न प्रपञ्चिते इति भावः ।

श्रीराघवेन्द्रतीर्थ

अर्थक्रिया न स्यादिति ।। क्षुन्निवृत्त्यादिप्रागुक्तार्थक्रिया न स्यादित्यर्थः । पूर्ववाक्ये ‘क्षुधित’ इति पदेन क्षुन्निवृत्त्याद्यर्थक्रियाभावरूपातिप्रसङ्गान्तरसूचनस्योक्तत्वात् ‘न चान्नत्वे दुर्घटः’ इत्याद्युक्तिः पुनरुक्तेत्याशङ्क्य निराह- ननूक्तमेतदिति ।। अर्थक्रियाभावरूपाति-प्रसङ्गान्तरमित्यर्थः ।

भ्रमस्थलेऽक्षसिद्धं तर्कबाधितमस्तीति शङ्कानिरासकत्वेन मूलमवतारयति- यदेति ।। पूर्वेणेति ।। दृष्ट्यबाधितदृष्टस्यान्नत्वे तर्केण दुर्घटेऽपि तस्यानन्नत्वं न च भवतीति योजनेति भावः । तात्पर्यं पूर्ववदिति ।। अन्नत्वेन दृष्टं यदाऽनन्नं भवति तदा बलवदनन्नत्वदृष्ट्याऽन्नत्वदृष्टेर्बाधे सत्येव न तु केवलतर्केण । अन्यथा दृष्ट्यबाधितदृष्टान्नस्थलेऽप्यनन्नत्वप्रसङ्गादित्येवं बलवद्दृष्ट्यबाध इति वाक्यतात्पर्यमिव तात्पर्यं ज्ञेयमित्यर्थः । दृष्टमन्नं वास्तवान्नम् । ‘रागातिरेकेण रागौत्कट्येन । यद्यन्नत्वमिति ।। प्रत्यक्षदृष्टस्य तस्य वस्तुतोऽन्नस्य अन्नत्वं यदि उक्ततर्केण बाधितं स्यादित्यर्थः । तथा सतीति ।। परमार्थतोऽ-नन्नत्वे सतीत्यर्थः  । भ्रमेति ।। वस्तुतोऽनन्नेऽन्नत्वभ्रमसंस्कारादित्यर्थः । अर्थक्रिया क्षुन्निवृत्ति-रूपा । अनन्नं वस्तुतोऽनन्नम् । तर्केति ।। यदीदमन्नं स्यादिति तर्केत्यर्थः ।

अनन्नम् अनन्नत्वप्रत्यक्षम् । पूर्वेणैवसम्बन्ध इति ।। बलवद्दृष्ट्यबाधितदृष्टस्य अन्नत्वे दुर्घट इत्यादिना सम्बन्ध इत्यर्थः । तात्पर्यमिति । दृष्ट्यबाधितदृष्टस्य वस्तुतोऽन्नस्य यदीदमन्नं स्यादित्युक्ततर्केणान्नत्वे दुर्घटे तस्यानन्नत्वं न हि भवति अन्नमेव भवति, दृष्टिबाधितदृष्टस्य त्वनन्नत्वमेव भवतीति यावदिति पूर्ववत्तात्पर्यं द्रष्टव्यमित्यर्थः ।

गुरुराजीया

प्रत्यक्षदृष्टस्य तर्कविरोधेन दुर्घटत्वे प्रागुक्तदोषं परिहर्तुं तर्कविरोधेन दुर्घटत्वस्येष्टापत्ति-शङ्कामेवोत्थापयति- नन्विति ।। प्रत्यक्षदृष्टस्य तर्केण दुर्घटत्वे परित्यागप्रसङ्गेनोपादानं न स्यादिति तत्रोक्तदोषमुद्भावयति- नन्विति ।। प्रत्यक्षदृष्टस्य तर्कबाध्यत्वेऽप्युत्कटरागेणोपादानोपपत्तेर्न तदन्यथानुपपत्त्या तस्य तर्केणाबाध्यत्वसिद्धिरित्याशयेन परिहरति- मैवम् । रागातिरेकेणेति ।। उपलक्षणं चैतत् । भ्रमजन्यसंस्कारेणेत्यपि द्रष्टव्यम् । अत एव रागातिरेकाद्भ्रम-संस्काराद्वेत्युत्तरत्रोभयग्रहणमिति भावः । अन्नत्वस्य बाधितत्वेऽपि परमार्थतोऽनन्नत्वं कुत इत्यतः ‘यत्र यद्बाधितं तत्र तदभावः पारमार्थिकः’ इति व्याप्तेरिति भावेन दृष्टान्तोपदर्शनेन तामुपपादयति- रजतत्वे बाधित इति ।। शुक्तिकाया इति शेषः । अस्तु परमार्थतोऽनन्नत्वमपि तस्येत्यत आह- न त्वेवमिति ।। परमार्थतोऽनन्नत्वं तस्य नैवेत्यर्थः । कुतोऽवधारणमित्यतः परमार्थतोऽनन्नत्वे बाधकमाह- तथा सतीति ।। परित्यागप्रसङ्गेनोपादानं न स्यादित्युक्तमित्यर्थः । रागातिरेकेण प्रवृत्तेरन्यथोपपन्नत्वान्न तत्र प्रवृत्त्यभावापादनं युक्तमित्यत आह- न हीति ।। अन्यथा रजत-भ्रमनिवृत्त्यनन्तरमपि रजतरागातिरेकेणारजतेऽपि रजतार्थी प्रवर्तेतेति१ भावः । अर्थक्रियेति ।। क्षुन्निवृत्तिरित्यर्थः । अन्यथाऽरजतेऽपि रजतोचितार्थक्रियाप्रसङ्गादिति भावः ।

पूर्वेणेति ।। दृष्ट्यबाधितदृष्टस्य तर्केणान्नत्वे दुर्घटेऽनन्नत्वं नेति पूर्वेणान्वय इत्यर्थः । न केवलमस्य ‘न चान्नत्व’ इत्यादिपूर्वेणान्वयमात्रम् । किन्तु यदि पुनस्तस्यान्नत्वं बाधितं स्यादित्यादिरूप-तत्तात्पर्यवदेतत्तात्पर्यमपि द्रष्टव्यमित्याह- तात्पर्यमिति ।।

गोविन्दीया

नन्विति ।। तर्हि नाद्यादित्यनिष्टमुक्तं न तु निश्चयः, इति शङ्कायामेवावान्तर उच्यत इत्यर्थः । नायमिति ।। यदि तर्को बलवान् तर्ह्यन्नदृष्टिं बाधेतेत्ययं प्रसङ्गो नानिष्टः, बाध्यत इत्यङ्गीकारादिष्टापादनरूपत्वादित्यर्थः । मैवमिति ।। इदमपि शङ्कागर्भितमेव न तु सिद्धान्त्युक्त-मित्यर्थः    बाधितेऽपीति ।। रागातिरेकेणोत्कटरागेणादनप्रवृत्तिसम्भवादित्यर्थः । न (च) त्वेव-मिति ।। प्रकृते देशविशेषस्थपुरुषदृष्टान्नेऽन्नत्वं न च बाधितमित्यर्थः । तथा सतीति ।। यदि तत्रापि बाधितम्, तर्हि नाद्यादित्यनिष्टमुक्तमित्यर्थः । तथापीति ।। प्रवृत्तावपि क्षुन्निवृत्तिरूपार्थक्रिया न स्यादित्यर्थः । नन्विति ।। क्षुधितपदेनैतत् सर्वमुक्तं पुनःकथने पौनरुक्त्यं स्यादित्यर्थः । तस्यै-वेति ।। पूर्वोक्तस्यैव प्रपञ्चोऽयमित्यदोष इत्यर्थः । यदेति ।। वस्तुतोऽन्नेऽन्नत्वं बाधितं न चेत् यदानन्नमन्नत्वेन मन्यते तदान्नत्वं बाधितं भवत्येवेत्यर्थः ।

पूर्वेणैव सम्बन्ध इति ।। बलवदन्नत्वदृष्ट्याऽबाधितस्य दृष्टस्यान्नस्य भ्रमविषयत्वाभावेनान्नत्वे दुर्घटे सति तस्यानन्नत्वमेव भवतीत्यर्थः । तात्पर्यं पूर्ववदिति ।। यदा तर्केणान्नत्वदृष्टेर्बाधः तदा बलवदनन्नत्वदृष्ट्या बाधे सत्येव न तु केवलेनेति तात्पर्यं पूर्ववदित्यर्थः ।

जनार्दनभट्टीया

रागातिरेकेणेति ।। इच्छोत्कर्षेणेत्यर्थः । मूले ‘भवति’ इति वर्तमाननिर्देशेन तर्कस्य अप्रतीतेस्तर्कपरतया मूलं योजयति – यदीत्यादिना ।। अर्थक्रिया न स्यादिति ।।१ अनेन क्षुधितपदेन  प्रसङ्गान्तरसूचनस्य उपयोगो वेदितव्यः । अत एव तथैव शङ्कते – ननूक्तमिति ।। तस्यैवेति ।। ‘युक्तिपराजितः’ इति पूर्ववाक्ये क्षुधितपदेन प्रसङ्गान्तरसूचनमात्रं कृतम् । अत्र तु तादृशप्रसङ्गान्तरव्यावृत्त्या ‘यदि पुनः’ इत्यादिशङ्कां उत्थाप्येति तस्यैव अयं विस्तार इत्यर्थः । तथा च प्रपञ्चनार्थत्वात् पौनरुक्त्यं न दोषाय । ‘सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः’ इति भावः ।

पूर्वेणैवेति ।। दृष्ट्यबाधितदृष्टस्य तर्केण अन्नत्वदुर्घटे सति तस्य अनन्नत्वं न भवतीति पूर्वेण सम्बन्धः ।  ननु एवमपि दृष्टिबाधितस्थले तर्केण प्रत्यक्षबाधोऽस्तु इत्यत आह – तात्पर्यमिति ।। बाधस्थलेऽपि न केवलतर्केण बाधः । किन्तु बलवद्दृष्ट्यैवेति तात्पर्यं पूर्ववदेवेत्यर्थः ।