यद्येवमपि..

प्रसङ्गस्य विपर्यये पर्यवसानम्

श्रीमज्जयतीर्थटीका

एवं प्रसङ्गमुक्त्वा विपर्यये पर्यवसानमाह-

मूल

यद्येवमपि नानिर्वचनीयत्वं ब्रह्मणस्तर्हि जगतोऽपि न स्यात् ।

एवं भिन्नत्वादिविकल्पानुपपत्त्या प्रसक्तमपि नानिर्वचनीयत्वं ब्रह्मणोऽङ्गीक्रियते चेत्तर्हि विशिष्टादेर्जगतोऽपि न भवत्यविशेषात् ।