न च भावाभावविलक्षणं क्वचिदागमो वक्ति ..

सदसद्वैलक्षण्ये निरवकाशागमप्रमाणाभावनिरूपणम्

श्रीमज्जयतीर्थटीका

अस्त्वागमस्तर्ह्यनिर्वचनीयार्थे मानमिति चेत् । स किं सदसद्विलक्षणमेतदिति निरवकाशतया विवक्षितार्थस्य प्रतिपादको भवेत् । उतानिर्वचनीयमेतदित्यादिरूपः । नाऽद्योऽनुपलम्भादित्याह-

मूल

न च भावाभावविलक्षणं क्वचिदागमो वक्ति

चशब्दः प्रमाणान्तरनिराकरणसमुच्चये । क्वचित् प्रदेशे । निरवकाशागमपक्षनिराकरण-सूचनायानिर्वचनीयमिति लक्ष्यप्रक्रमं विहाय भावाभावाविलक्षणमिति १लक्षणानुवादः कृतः । तर्हि सदसद्विलक्षणमिति वक्तव्यम् । तस्यैवानिर्वचनीयलक्षणत्वेन परैरङ्गीकृतत्वात् । मैवम् । यतोऽत्र न भावाभावशब्दौ रूढ्या२ विधिनिषेधयोरभिधायकौ । किं तु योगेन सदसत्परौ । विधिनिषेधपरत्वेऽपि केनापि प्रकारेण निर्वक्तुमशक्यमनिर्वचनीयम् । सदसद्विलक्षणत्वं तूपलक्षणत्वेनोच्यत इति परैरङ्गीकृतत्वाददोषः । अत एव ‘उभयविलक्षणं चेदनिर्वचनीयत्वं ब्रह्मण एवाऽपतितम्’ इति भिन्नाभिन्नविलक्षणत्वेनानिर्वचनीयत्वं वक्ष्यति । प्रसिद्धातिक्रमस्तूत्तरार्थः । तच्च दर्शयिष्यामः ।

श्रीविजयीन्द्रभिक्षु

क्वचिच्छब्दागमशब्दसामानाधिकरण्यानुपपत्तिमाह- क्वचिदिति ।। वेदवेदानुसारिसदागम इत्यर्थः । ननु प्रस्तुतसदसद्विलक्षणार्थरूपलक्ष्यवाचकानिर्वचनीयपदे विद्यमाने लक्षणतोऽनुवादः प्रयोजनाभावादनुपपन्न इत्याशङ्क्याऽह- निरवकाशेति ।। भावाभावशब्दयोः विधिनिषेधार्थपरत्वं मन्वानः शङ्कते- तर्हीति ।। रूढयोः समुदायशक्तिविषययोरित्यर्थः । विधिनिषेधयोरिति ।। अस्तीति प्रथमप्रतीतिविषयो विधिः, नास्तीति प्रथमप्रतीतिविषयो निषेधः, तयोरित्यर्थः । योगेनेति ‘भवतेर्णस्य उपसङ्ख्यानम्’ इति कर्तरि णप्रत्यये भवतीति भावः सन्, न भावः असन्निति योगेने-त्यर्थः । यद्वा सत्तावाचिनो भवतेर्ण्यन्तात् कर्मणि घञि भाव्यते यः स भावः, न भाव्यते यः सोऽभाव इति व्युत्पत्तेरित्यर्थः । ननु रूढिप्राबल्याद्भावाभावशब्दौ विधिनिषेधपरावेवेति यदि कश्चिद् ब्रूयात् तदाऽपि न दोष इत्याह- विधिनिषेधपरत्वेऽपीति ।। अदोष इत्यनेन सम्बद्ध्यते । ननु भावाभावशब्दयोः विधिनिषेधपरत्वे लक्षणतोऽनुवाद इत्युक्तमयुक्तं स्यात् । परैः सदसद्विलक्षणत्वस्यैव तल्लक्षणत्वाङ्गीकारादित्याशङ्क्याऽह- केनापीति ।। तथा च सद-सद्विलक्षणत्ववद्विधिनिषेधविलक्षणत्वमपि तल्लक्षणमिति लक्षणतोऽनुवादो नायुक्त इति भावः । अत एवेति ।। सदसद्विलक्षणत्वमनिर्वचनीयलक्षणमित्यस्योभयविलक्षणत्वाद्युपलक्षणत्वादेवे-त्यर्थः । ननूभयविलक्षणत्वमात्रस्य तल्लक्षणत्वेऽपि प्रसिद्धसदसद्विलक्षणत्वरूपलक्षणातिक्रमे किं कारणमित्याशङ्क्य वक्ष्यमाणप्रयोजनानुरोधात् तदतिक्रम इत्याह- प्रसिद्धेति ।।

श्रीवेदेशतीर्थ

क्वचित्प्रदेश इति ।। शाखादावित्यर्थः । ननु न चानिर्वचनीयं क्वचिदागमो वक्तीति वक्तव्यम् । न चानिर्वचनीये किञ्चिन्मानमिति तस्यैव प्रक्रान्तत्वात् । न च भावाभावविलक्षणत्व-स्यानिर्वचनीयलक्षणत्वात्तदुक्तिरिति वाच्यम् । लक्ष्यप्रक्रमं विहाय लक्षणानुवादे प्रयोजनाभावादि-त्यत आह- निरवकाशेति ।। तस्यैवेति ।।

प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् ।

गाहते तदनिर्वाच्यमाहुर्वेदान्तवादिनः ।।

इति तदुक्तेरिति भावः । विधिनिषेधयोरिति ।। नञर्थानुल्लिखिततदुल्लिखितधीविषययोः प्रसिद्ध-भावाभावयोरित्यर्थः ।। योगेनेति ।। भवतीति भावः सन्, न भवतीत्यभावोऽसन्नित्यर्थः । केनापि प्रकारेणेति ।। तथा च भावाभावविलक्षणत्वमप्यनिर्वचनीयलक्षणमिति भावः । ननु ‘प्रत्येकं सदसत्त्वाभ्याम्’ इत्यादितदुक्तेः का गतिरित्यत आह- सदसद्विलक्षणत्वं त्विति ।। अत एवेति ।। सदसद्विलक्षणत्वमनिर्वचनीयलक्षणमित्यस्योभयविलक्षणत्वाद्युपलक्षणत्वादेवेत्यर्थः । ननु प्रसिद्ध-लक्षणातिक्रमेणाप्रसिद्धलक्षणानुवादेन किं प्रयोजनमित्यत आह- प्रसिद्धेति ।। उत्तरार्थः उत्तरग्रन्थोपक्षेपार्थः ।

द्वैतद्युमणि

ननु विधिनिषेधपरत्वे भावरूपाभावरूपतत्त्वद्वयविलक्षणत्वमेवोक्तं स्यात् । तच्चासत्यति-व्याप्तत्वात् कथमनिर्वचनीयलक्षणत्वेनाभिमतम् । किञ्चास्यापि लक्षणस्य पूर्वमेव प्रक्रान्ततायाः पूर्वोक्तरीत्याऽवश्यकत्वे तस्यासत्येव सत्त्वेन न तस्याप्रसिद्धविशेषणत्वव्याहत्यादीति । मैवम् । निषेधदपदस्य प्रकृते भावभिन्नपरत्वेन भावतद्भिन्नोभयवैलक्षण्यस्यासत्यप्ययोगेन पूर्वोक्ताप्रसिद्ध-विशेषणत्वादिसङ्गतेः । न च ‘भावाभावशब्दौ रूढ्या न विधिनिषेधपरौ’ इति पूर्वनिषिद्धार्थ-स्यैवैतद्वाक्यार्थत्वे नाङ्गीकारः सूच्यते । न हीदं निषेधपदस्य भावभिन्नार्थत्वे युज्यते । मौलाभावपदस्य योगेन भावभिन्नपरत्वेऽपि तत्र रूढेरभावादिति वाच्यम् । अत्रानुवादे रूढ्येत्यंशं विहाय विधिनिषेधपरत्वेऽपीत्युक्तिस्वारस्यादेवाव्यहितपूर्ववाक्यप्रक्रान्ताङ्गीकारपूर्वकं रूढेरविव-क्षितत्वलाभेनोक्तबाधकानवकाशात् ।

श्रीराघवेन्द्रतीर्थ

प्रमाणान्तरेति ।। प्राक्प्रत्यक्षानुमानयोः निरासात् प्रमाणान्तरेत्युक्तम् । लक्ष्यप्रक्रममिति ।। लक्षणधर्मितया अनिर्वचनीयासिद्धेरेवेत्युपक्रमेऽभिहितं विहायेत्यर्थः । योगेनेति । भवतीति भावः  सन्निति,  स नेत्यभावोऽसन्निति योगेनेत्यर्थः । दर्शयिष्याम इति ।। अनुपदमेवेति भावः ।

गुरुराजीया

क्वचित्प्रदेश इति ।। शाखोपशाखारूप इत्यर्थः । ननु न चानिर्वचनीयं क्वचिदागमो वक्ति इत्येव वक्तव्यम् । न चार्निवचनीये किञ्चिन्मानम् इति लक्ष्यप्रक्रमानुसारात् । भावाभाव-विलक्षणं न वक्ति इति तु कथम् । न चायं तल्लक्षणानुवादः । लक्ष्यानुवादं विहाय लक्षणानुवाद-स्यासति प्रयोजनेऽयुक्तत्वादित्यतः प्रयोजनसद्भावाल्लक्षणानुवादो युक्त इत्याह- निरवकाशेति ।। तस्येति ।।

प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् ।

गाहते तदनिर्वाच्यमाहुर्वेदान्तवेदिनः ।।’१

इति तदुक्तेरिति भावः । योगेनेति ।। भवतीति भावः सन् । न भवतीत्यभावोऽसन्निति योगेनेत्यर्थः। केनापि प्रकारेणेति ।। तथा च भावाभावविलक्षणत्वमप्यनिर्वाच्यलक्षणमेवेति भावः । तर्हि ‘प्रत्येकं सदसत्त्वाभ्याम्’ इति तदुक्तेः का गतिरित्यत आह- सदसद्विलक्षणन्त्विति ।। अत एवेति ।। सदसद्विलक्षणत्वस्य केनापि प्रकारेण निर्वक्तुमशक्यत्वोपलक्षणत्वादेवेत्यर्थः । अन्यथा भिन्ना-भिन्नत्वादिना ब्रह्मणो निर्वक्तुमशक्यत्वेऽपि सत्त्वासत्त्वाभ्यां तदभावेन ब्रह्मणोऽनिर्वचनीय-त्वापादनस्यानुपपत्तिप्रसङ्गादिति भावः ।

ननु तथापि प्रसिद्धलक्षणस्यैव मूलकारेणानुवदनीयत्वात्तत्परित्यागेनाप्रसिद्धलक्षणानुवादे किं निमित्तमित्यत आह- प्रसिद्धेति ।। उत्तरार्थः उत्तरशङ्काग्रन्थोपपादनार्थ इत्यर्थः । तच्चेति ।। उत्तरार्थत्वं तु शङ्काग्रन्थ एव वक्ष्याम इत्यर्थः ।

गोविन्दीया

न भवतीत्यभाव इति योगेन सदसत्परेत्यर्थः । भावाभावविलक्षणत्वस्यापि अनिर्वचनीयत्वलक्षणत्वेनोभयविधलक्षणसङ्ग्रहार्थं भावाभावविलक्षणमित्युक्तम् इति भावः । परैरपि भावाभावविलक्षणपदेन जहल्लक्षणयोभयविधलक्षणस्याङ्गीकृतत्वाददोष इति तद्वाक्यं पठति- विधिनिषेधेति ।। अत एवेति ।। उपलक्षणत्वादेव भावाभावविलक्षणत्वं सदसद्विलक्षणत्वं चेत्युभयविलक्षणत्वं ब्रह्मण एवाऽपतितमिति भावाभावविलक्षणपदेन भिन्नाभिन्नविलक्षणत्वेन अनिर्वचनीयत्वं वक्ष्यतीत्यर्थः । तथा चानिर्वचनीयत्वस्य लक्षणत्रितयमुक्तं भवतीति भावः । प्रसिद्धेति ।। प्रसिद्धसदसद्विलक्षणत्वरूपलक्षणम् अतिक्रम्याप्रसिद्धभावाभावविलक्षणत्वरूप-लक्षणकथनमुत्तरग्रन्थोपक्षेपार्थमित्यर्थः । तच्चेति ।। प्रयोजनमित्यर्थः ।

नारोपन्तीया

निरवकाशागमपक्ष इति । अनिर्वचनीयमित्युक्तिस्तु ‘नेह नानास्ति’ इत्यादि-सावकाशोक्तिसाधारणी१ ।

जनार्दनभट्टीया

२अपौरुषेयतया निर्दोषत्वेन प्रसिद्ध इत्यर्थः । ‘क्वचित्’ इत्यस्य ‘न क्वाप्यनीदृशं विश्वम्’ इत्यादाविव कालपरत्वं निराकरोति – क्वचित् प्रदेश इति ।। बृहदारण्यकाद्युपनिषद्भाष्ये इत्यर्थः । तर्हीति ।। लक्षणक्रमानुसरणपक्षेऽपीत्यर्थः ।

ननु भावाभावसदसच्छब्दानां पर्यायत्वे प्रसिद्धपरित्यागे हेत्वभावात् सदसद्विलक्षणमित्येव किमिति न निरदिक्षदाचार्य इत्यत आह – प्रसिद्धेति ।। उत्तरार्थ इति ।।  ‘नासदासीत्’ इति श्रुतौ असतः सत्वप्रसक्त्यभावेन तन्निषेधपरत्वे श्रुतेः अनुपपन्नार्थकत्वापातेन नेमौ सदसच्छब्दौ तुच्छातुच्छपरौ किं नाम भावाभावपरौ । भावाभावविलक्षणत्वेनापि अनिर्वचनीयत्वसिद्धेः । अतः ‘कथं भावाभावविलक्षणं क्वचिदागमो वक्ति?’ इति उत्तरवाक्यनिरसनीयशङ्कोत्थापनार्थः । तच्चेति ।। तदुत्तरं चोद्यम् ‘अत्र सदसच्छब्दयोः भावाभावपरत्वेनाङ्गीकृतत्वात्’ इति उत्तरत्र दर्शयिष्याम इत्यर्थः ।