विमतो भिन्नो मुक्तत्वात्..
पूर्वोक्तानुमाने परमात्मनः पक्षत्वेऽनुपपत्तिनिरासः
विमतो भिन्नो मुक्तत्वात्..
श्रीमज्जयतीर्थटीका
ननु चात्र परमात्मा पक्षः सपक्षो विपक्षो वा । नाऽद्यः । परेण मुक्तपरमात्मभेदस्या-नङ्गीकृतत्वेन द्वयोः पक्षीकरणासम्भवात् । अङ्गीकृतत्वे चानुमानवैयर्थ्यात् । न द्वितीयः । तत्र परस्य साध्यासम्मतेः । न तृतीयः । भेदाभावस्य वादिना क्वाप्यनभ्युपगतत्वात् । मैवम् । पक्षत्वेऽपि परमात्मनः मुक्तपरमात्मानौ भिन्नावित्यपक्षीकरणात् । अत एव च विमतो भिन्न इति विमतिविषयो यावानिति सामान्येनोक्तम् ।
श्रीविजयीन्द्रभिक्षु
ननु विमतो भिन्न इत्यनुमाने परमात्मनः सपक्षत्वस्य प्रतिवाद्यसम्मतत्वाद् विपक्षत्वस्य च वाद्यसम्मतत्वात् पक्षत्वमेव वाच्यम् । चतुर्थप्रकारासम्भवात् । एवञ्च मुक्तपरमात्मानावित्येव पक्षो निर्देष्टुमुचितः । न च तथा निर्देश उपपद्यते । तस्य नियम्यनियामकभावोपयुक्तपरमात्मभेद-सिद्ध्यधीनत्वात् । तादृशभेदसिद्धेश्चैतदनुमानप्रवृत्तेः पूर्वमभावात् । भावे३ चैतदनुमानवैयर्थ्यप्रसङ्ग इत्यभिप्रेत्य शिष्यः पृच्छति- ननु चेति ।। परेणेति ।। औतिनेत्यर्थः । तत्र परमात्मनि । भेदाभावस्येति । वादिना स्थापनावादिना । अविवक्षितप्रतियोगिविशेषस्य भेदमात्रस्य ४सर्वत्राप्युप-गमादिति भावः । मुक्तवत् परमात्माऽपि पक्ष एव । न चोक्तानुपपत्तिः । संसारान्मुक्तत्वरूपानति-प्रसक्तधर्मनियतविमतेः मुक्तपरमात्मोभयसाधारणायाः पक्षतावच्छेदकत्वेन विमत इति पक्ष-निर्देशस्य तथाविधभेदसिद्धिनिरपेक्षत्वादित्यभिप्रेत्य समाधत्ते- मैवमिति ।।
यद्यपि बन्धनिवृत्तिमान् परमात्मनो भिन्न इति वा ‘अथ वा प्रागवस्थायां येन भेदेन विशिष्टस्तेनैव मोक्षेऽपि’ इति टीकोक्तरीत्या वा भेदसाधने परमात्मा विपक्ष इत्युत्तरयितुं शक्यं तथाऽपि संसारा-भावलक्षणमुक्तत्वमेव यथाश्रुतं विमतिविषयतावच्छेदकमादाय परमात्मनः पक्षान्तर्गतत्वमङ्गीकृत्य तथोत्तरमभिहितम् । अत एव पक्षत्वेऽपीत्यपिशब्दः पक्षान्तराङ्गीकारसूचकः सङ्गच्छत इति ध्येयम् । अपक्षीकरणादिति ।। अप्रतिज्ञानादित्यर्थः । अत एवेति ।। यत एव मुक्तः परमात्मा चेति विशिष्यापक्षीकरणम् अत एवेत्यर्थः ।
श्रीवेदेशतीर्थ
तटस्थः शङ्कते । नन्विति ।। द्वयोरिति ।। परमात्मनः पक्षत्वे मुक्तपरमात्मानौ भिन्नाविति पक्षीकरणीयम् । तत्र द्विवचनार्थभेदासिद्धौ तथा पक्षीकरणासम्भवः । तत्सिद्धौ सिद्धसाधनत्वा-पत्त्याऽनुमानवैयर्थ्यमिति भावः । परस्येति ।। परेणेश्वरे व्यावहारिकभेदाङ्गीकारेऽपि मोक्षपर्यवसायि-भेदानङ्गीकारादिति भावः । भेदाभावस्येति ।। परमात्मनि तदभावासम्मतेरिति वाक्यशेषः । पक्षत्वेऽपि परमात्मन इति ।। नन्वीश्वरे प्रागवस्थाया अप्रसिद्धत्वेन प्रागवस्थायां येन भेदेन विशिष्टस्तेनैव मोक्षेऽपीत्येतत्तत्र बाधितम् । प्रागवस्था च संसारावस्थेति दृष्टान्तः साध्यविकल इति चेन्न । यतो बन्धदशायां येन भेदेन विशिष्ट इत्येव विवक्षितम् । न तु स्वबन्धदशायामिति । तथा च नाप्रसिद्धिर्न वा दृष्टान्तः साध्यविकल इति भावः ।
श्रीराघवेन्द्रतीर्थ
विमत इति निर्देशस्य कृत्यान्तरं वक्तुमाक्षिपति- नन्विति ।। अनुमानवैयर्थ्यादिति ।। तद्भेदस्यैव नियम्यनियामकभावसिद्ध्यर्थं सिषाधयिषितत्वादिति भावः । वादिनेति ।। भेद-वादिनेत्यर्थः ।
द्वयोः द्वित्वावच्छिन्नयोः । पक्षीकरणेति ।। मुक्तपरमात्मानौ भिन्नाविति पक्षीकरणा-सम्भवादित्यर्थः । द्वित्वस्य भेदव्याप्तत्वादिति भावः ।
गोविन्दीया
परेणेति ।। द्वयोः पक्षीकरणासम्भवात् परमात्मा पक्षो न भवतीत्यर्थः । अङ्गीकृतत्वे चेति ।। भेदस्याङ्गीकृतत्वे सिद्धसाधनत्वेनानुमानवैयर्थ्यादित्यर्थः । भेदाभावस्येति ।। निर्धर्मिके परमात्मनि भेदाभावस्य क्वापि ग्रन्थेऽनभ्युपगमात् । अथवा क्वापि= कुत्रापि वस्तुनि भेदाभावस्या-नभ्युपगमादित्यर्थः । पक्षत्वेऽपीति ।। मुक्तः परमात्मा च उभौ इति निर्देशेनैव द्विवचनार्थभेदसिद्धौ पुनः भिन्नाविति निर्देशे सिद्धसाधनत्वेनानुमानवैयर्थ्यं स्यादिति तथा पक्षीकरणं न कृतमित्यर्थः । अत एवेति ।। अनुमानवैयर्थ्यपरिहारायेत्यर्थः ।
जनार्दनभट्टीया
तस्मिन् सति किं स्यात्? इत्यत आह – द्वयोः पक्षीकरणासम्भवादिति ।। द्वित्वस्य भेदव्याप्तत्वादिति भावः । भेदाभावस्येति ।। मायावादिभिः भेदाभावाभ्युपगमेऽपि वादिना भेदसाधयित्रा त्वया तस्य केवलान्वयित्वाभ्युपगमेन भेदसामान्याभावस्य क्वापि अनभ्युपगमादित्यर्थः । अत एवेति ।। निगडमुक्ते साधनवैकल्यादेवेत्यर्थः ।