सदिति प्रतीयमानत्वात् ..
प्रत्यक्षस्यानुमानादिबाध्यत्वशङ्का
सदिति प्रतीयमानत्वात्
श्रीमज्जयतीर्थटीका
नन्वस्तु प्रत्यक्षं प्रपञ्चसत्तागोचरम् । तथाप्यनुमानागमाभ्यामेव बाध्यताम् । तयोर्निरव-काशत्वात् । न हि व्याप्तिपक्षधर्मतावदनुमानं शक्यते स्वविषयात् प्रच्यावयितुम् । नाप्यागमोऽ-पौरुषेयत्वात् । उपक्रमादिभिरेवावगततात्पर्यत्वाच्च । प्रत्यक्षं तु सम्भावितदोषमप्रमाणमपि भवितुं युक्तम् ।
न चोपजीव्योपजीवकत्वन्यायविरोधः । अभिसर्पणाद्यभावलिङ्गेन ‘नायं सर्पः’ इत्याद्याप्त-वाक्येन चोपजीवकेनापि निरवकाशेन सावकाशस्योपजीव्यस्यापि सर्पभ्रमस्य बाधदर्शनात् । तत्रेदन्तामात्रमुपजीव्यप्रवर्तनाददोष इति चेत् तर्हि प्रकृतेऽपि तथाऽस्त्वित्यत आह -
श्रीविजयीन्द्रभिक्षु
ननु भवतु प्रत्यक्षमुपजीव्यम् । तथाऽपि न प्रबलम् । सावकाशत्वात् । अनुमानागमौ तूपजीवकत्वेऽपि प्रबलौ । निरवकाशत्वात् । किञ्चोपजीवकत्वं न बाधकत्वे तन्त्रम् । उपजीव्यस्यापि रज्जुसर्पादिज्ञानस्यानुमानाप्तवाक्यबाध्यत्वदर्शनादिति शङ्कते- अस्त्विति ।। निरवकाशत्वं क्रमेणोपपादयति- न हीत्यादिना ।। स्वार्थात्प्रच्यावनम् अन्यविषयत्वकल्पनम् । न च तदनुमाने आगमे च सम्भवति । व्याप्तिपक्षधर्मतावत्त्वात् अपौरुषेयत्वेन भ्रमप्रमादादिदोषाजन्यत्वात्प्रमित-तात्पर्यकत्वाच्चेत्यर्थः । ननु रज्जुसर्पभ्रमस्योपजीव्यत्वेऽपि अनुमानाप्तवाक्याभ्यां बाध इत्ययुक्तम् । यद्विषयत्वेन तस्योपजीव्यत्वं तदंशे बाधाभावात् । पक्षज्ञानतया अनुवाद्यविषयतया वा इदमंश-विषयत्वावच्छेदेनैव तस्योपजीव्यत्वादिति शङ्कते- तत्रेति ।। प्रकृतेऽपीति ।। ‘नान्योऽतोऽस्ति द्रष्टा’ इति भेदनिषेधकश्रुतावपि ‘नाहमीश्वरः’ इत्यादिप्रत्यक्षस्यानुवाद्याहमर्थविषयत्वावच्छेदेनैवोप-जीव्यत्वम् । न भेदविषयत्वेनेति श्रुतेर्भेदनिषेधकत्वमुपपन्नमिति भावः । यद्यपि निषेध्यरज्जु-सर्पजीवपरभेदविषयत्वेनाप्युपजीव्यत्वं प्रत्यक्षस्याविशिष्टम् । निषेध्याज्ञाने निषेधज्ञानासम्भवात् । तथाऽपि निषेध्यज्ञानं प्रमाणान्तरेणापि सम्भवतीति शङ्कितुर्हृदयम् ।
श्रीवेदेशतीर्थ
निरवकाशत्वं क्रमेणोपपादयति- न हीत्यादिना ।। बाधदर्शनादिति ।। तथा च प्राबल्ये बाधकत्वे चोपजीव्यत्वं न प्रयोजकम् । अपि तु निरवकाशत्वमेवेति भावः । ननु यदंशे उपजीव्यत्वं न तस्य बाध्यत्वम् । यदंशे च बाध्यत्वं न तस्योपजीव्यत्वम् । धर्मिरूपेदमंशविषयकमेव प्रत्यक्षमुप-जीव्यानुमानागमप्रवृत्तेरित्याशयेन शङ्कते- तत्रेति ।। प्रकृतेऽपीति ।। ‘सन् घटः’ इत्यादिप्रत्यक्षेऽपि धर्म्यंशविषयकत्वावच्छेदेनैव मिथ्यात्वानुमानाऽगमोपजीव्यत्वम् । न तन्निषेध्यसत्तांशविषयत्वाव-च्छेदेनापीति भावः । यद्यपि निषेध्यज्ञाने निषेधज्ञाना-योगादिति निषेध्यांशेऽप्युपजीव्यता । तथापि निषेधमात्रोच्छेदापत्त्या निषेध्यसमर्पकतयोपजीव्यत्वं न बाधकत्वे प्रयोजकम् । अपि तु सति विरोधे धर्म्याद्यंशग्राहकतयोपजीव्यत्वमेव । प्रकृते तु धर्म्यंशप्रत्यक्षस्योपजीव्यत्वेऽप्यविरोधान्न बाधकत्व-मिति भावः ।
द्वैतद्युमणि
निरवकाशत्वात् अप्रामाण्यप्रयोजकदोषशून्यत्वेन प्रमाणतया निश्चितत्वादित्यर्थः । न्यायविरोध इति ।। तद्रूपयुक्तिविरोधः । प्रत्यक्षप्रामाण्यस्यानुमानागमप्रामाण्यस्य चेत्यर्थः । उपजीव्यविरुद्धार्थे उपजीवकमप्रमाणमिति व्याप्तेरपि बलवत्त्वादिति भावः । व्यभिचाराद् व्याप्तिरेव नास्तीत्याह- अभिसर्पणाद्यभावलिङ्गेनेति ।। उपजीवकेनापीति ।। सर्पभेदरूपसाध्योपस्थितिं प्रति प्रतियोगिज्ञानसमर्पकतयेदंपदार्थरूपोद्देश्यसमर्पकतया चानुमानागमौ प्रति प्रत्यक्षमुपजीव्यम् । एतावुपजीवकाविति भावः । अनुमाने निरवकाशत्वं व्याप्तिपक्षधर्मतोपेतत्वम् । आगमे त्वाप्तवाक्य-त्वादिना दोषशून्यत्वम् । उभयत्राप्रामाण्यप्रयोजकदोषशून्यत्वेन निश्चितत्वं निरवकाशत्वम् । तेन रूपेणानिश्चितत्वं सावकाशत्वं बोध्यम् ।
श्रीराघवेन्द्रतीर्थ
उपजीव्यस्यापि निरवकाशेनोपजीवकेन बाधदर्शनात् प्रत्यक्षानुमानयोरपि विपरीत एवास्तु बाध्यबाधकभाव इति निरवकाशतामनुमानादेरुपपादयन्नाह- नन्वस्त्वित्यादिना ।। बाध-शब्दार्थमाह - स्वविषयात्प्रच्यावयितुमिति ।। बाधितुमित्यर्थः । अस्य वाक्यस्याग्रेऽप्यन्वयः । अभिसर्पणेति ।। रज्जौ सर्पभ्रमे सति पश्चात् नायं सर्पः अभिसर्पणदंशनफणोन्नयनादिशून्यत्वादिति लिङ्गेन बाधदर्शनादित्यन्वयः । उपजीवकेनेति ।। भ्रमार्पितविषयोपजीवनादिति भावः। सावकाशस्येति ।। अप्रमाणतयेति भावः । उपजीव्यस्येति ।। निषेध्यविषयार्पकतयेति योज्यम् । नन्विदं रजतमित्यत्र द्वावंशौ । तत्र यदंशे उपजीव्यता न तदंशेऽनुमानादिबाधः । यद्रूप्यांशे बाधः तदंशे च नोपजीव्यता । अत उक्तन्यायस्य न व्यभिचार इति भावेन सिद्धान्ती शङ्कते-तत्रेदन्तामात्रमिति ।। पूर्वपक्षी उत्तरमाह- तर्हि प्रकृतेति ।। घटपटादिधर्म्यंशमात्रमुपजीव्य मिथ्यात्वानुमानादेः प्रवृत्तिरस्तु, न सत्त्वांशमुपजीव्येत्यर्थः ।
गुरुराजीया
निरवकाशत्वमनुमानागमयोः क्रमेणोपपादयति- न हीत्यादिना ।। प्रत्यक्षस्याप्रमाणत्वे हेतुमाह- सम्भावितदोषमिति ।। पौरुषेयत्वादिति भावः । बाधदर्शनादिति ।। तथा चोपजीव्यत्वं न प्राबल्ये प्रयोजकमिति न तेनानुमानागमबाध इति भावः । ननु यदंशे उपजीव्यत्वं न तदंशे बाध्यत्वं, यदंशे च बाध्यत्वं न तदंशे उपजीव्यत्वम् । प्रत्यक्षसिद्धेदन्तामात्रोपजीवनेनानुमानादेः प्रवृत्तत्वाद् अनुमानादिकं प्रत्युक्तप्रत्यक्षस्य तत्प्राप्तेदन्तामात्रांशे उपजीव्यत्वेऽपि तदंशे बाध्यत्वा-भावाद् तत्प्राप्तरजतत्वांशे बाध्यत्वेऽपि उपजीव्यत्वाभावात् वैषम्येण नैतत्प्रतिबन्दीग्रहणमत्र युक्तमिति शङ्कते- तत्रेदन्तामात्रेति ।। एवमपि ‘सन् घटः’ इत्यादिप्रत्यक्षस्य धर्मिग्राहकतया तन्मिथ्यात्वानुमानादिकं प्रति धर्म्यंशे उपजीव्यत्वेऽपि तदंशे बाध्यत्वाभावात् सत्तांश एव बाध्यत्वेऽपि तदंशे उक्तप्रत्यक्षस्यानुपजीव्यत्वाद् अवैषम्येण युक्तं प्रतिबन्दीग्रहणमित्याशयेन परिहरति- प्रकृतेऽपीति ।। यद्यपि निषेध्यांश अस्त्येवोपजीव्यत्वं तथाऽपि निषेधमात्रोच्छेदापत्त्या तन्न बाधकत्वे प्रयोजकम् । किन्तु सति विरोधे धर्मिग्राहकतया१ उपजीव्यत्वमेव तथेत्यभिप्रायेणेद-मुक्तम् ।
गोविन्दीया
तत्रेति ।। सर्पभ्रमे रजतभ्रमे च ‘अयं सर्पः’ ‘इदं रजतम्’ इत्यंशद्वयम्, तत्रेदंतामात्रादि-ग्राहि उपजीव्यप्रत्यक्षं रजतादिग्राहिभ्रमरूपसाधारण्यप्रत्यक्षमुभयोर्मध्ये उपजीवकेनापसर्पणाद्यभाव-लिङ्गेन नायं सर्प इत्याद्याप्तवाक्येन च उपजीव्यप्रत्यक्षं न बाध्यते । भ्रमरूपसाधारणप्रत्यक्षं बाध्यते । अतो उपजीवकेन उपजीव्यस्य बाधकाभावाद् अदोष इति चेदित्यर्थः । प्रकृत इति ।। ‘अयं प्रपञ्चः’ इत्यत्रापि इदंतांशः प्रपञ्चांशश्चेत्यंशद्वयम् । द्वयोर्मध्ये पूर्वांशग्राहिप्रत्यक्षमुपजीव्यम् । परांशग्राहिभ्रमरूपप्रत्यक्षं साधारणम् । तत्रोपजीव्यमुपजीवकेन मिथ्यात्वसाधकानुमानेन ‘वाचारम्भणम्’ इत्यादिश्रुत्या च न बाध्यते । भ्रमरूपं साधारणं तु बाध्यते । अत उपजीव्येनोपजीवकस्य बाध इति नियमलिङ्गाभावात् । तथाऽस्तु अदोषोऽस्त्वित्येवाहेत्यर्थः ।
जनार्दनभट्टीया
प्रच्यावयितुमिति ।। स्वविषयं त्याजयित्वा अन्यविषयत्वेन कल्पयितुमित्यर्थः । ‘न शक्यते’ इति पूर्वेणान्वयः । अपौरुषेयस्यापि ‘मृदब्रवीत्’ इत्यादेः स्वविषयात् प्रच्यावनदर्शनादाह – उपक्रमेति ।। सम्भावितदोषमिति ।। शङ्खे पीतत्वारोपादौ२ दोषजन्यत्वदर्शनादिति भावः ।
न चोपजीव्येति ।। ‘उपजीव्येन उपजीवकस्य बाधः’ इति न्यायविरोध इति भावः । बाधदर्शना-दिति ।। तथा च ‘उपजीव्येन’ इत्यादिन्यायेन निरवकाशेन उपजीव्येन सावकाशस्य उपजीवकस्य बाध इत्येवम्परतया नेय इति भावः ।