न च प्रत्यक्षसिद्धमन्येन ..

प्रत्यक्षस्यानुमानादिभ्यः प्राबल्यसमर्थनम्

मूल

न च प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टम्

श्रीमज्जयतीर्थटीका

स्यादेतदेवम् । यदि प्रत्यक्षमात्रसिद्धमपि प्रत्यक्षादन्येन केनाप्यनुमानेनाऽगमेन वा बाध्यं दृष्टं स्यात् । न चैतदस्ति । दूरे तूपजीव्यप्रत्यक्षसिद्धम् ।

सर्पभ्रमादेरपि बलवता प्रत्यक्षेणैव विषयापहारः । नानुमानागमाभ्याम् । अनुमानेनैव प्रत्यक्षबाधने कालातीतस्य दोषता वा त्याज्या । व्यवस्था वा वक्तव्या । आप्तवाक्यान्निवर्तनेऽपि तन्मूलप्रत्यक्षेणैव बाधः ।

अत एव  ‘नायं सर्पः’  इत्युक्ताः प्रतिवक्तारो भवन्ति    किं भवानेवं पश्यत्येवमेव वा वक्तीति    अन्यथा ‘यजमानः प्रस्तरः’ इत्यादिवाक्यानां प्रत्यक्षविरोधेन स्वार्थप्रच्यावनं त्याज्यम् । व्यवस्था वा कल्प्या । प्रत्यक्षन्तु परीक्षितमपरीक्षितस्य बाधकं भविष्यति । तदिदमुक्तमन्येनेति ।

श्रीविजयीन्द्रभिक्षु

ननु प्रत्यक्षस्योपजीव्यत्वेन प्राबल्यं प्रागभिहितम् । ‘न च प्रत्यक्षसिद्धम्’ इति मूले तु सामान्यनिर्देशेन प्रत्यक्षत्वजात्यैव प्राबल्यं न तु प्रकारान्तरेणेति । अतः कथं न तद्विरोध इत्याशङ्क्य कैमुत्यन्यायप्रदर्शनपरतया सामान्यनिर्देशोपपत्तेर्न तद्विरोध इति व्याचष्टे- स्यादेतदिति ।। बल-वतेति ।। विशेषदर्शनानन्तरभाविपरीक्षितप्रत्यक्षेणेत्यर्थः । प्रत्यक्षस्य प्रमाणान्तराबाध्यत्वे साधकमुक्त्वा तद्बाध्यत्वे बाधकमप्याह- अनुमानेनैवेति ।। व्यवस्थेति ।। प्रत्यक्षमग्न्यनौष्ण्यानु-मानस्थल एव बाधकं न त्वन्यत्रेत्यत्र नियामकं वा वक्तव्यमित्यर्थः । ननु स्वस्य ‘नायं सर्पः’ इति प्रत्यक्षाभावेऽपि तादृशाप्तवाक्याद्बाधोऽनुभवसिद्ध इति कथं प्रत्यक्षस्य मानान्तराबाध्यत्व-मित्यत आह- आप्तेति ।। तन्मूलप्रत्यक्षेणैवेति ।। यद्यप्याप्तवाक्यमूलभूतप्रत्यक्षस्य निवर्त्यभ्रमव्यधि-करणत्वाद्व्यवजिहीर्षादिना नष्टत्वाच्च न तस्य भ्रमनिवर्तकत्वं सम्भवति तथाऽपि भ्रमसमानाधि-करणज्ञानजनकवाक्यप्रयोगहेतुत्वसम्बन्धेन सामानाधिकरण्यसत्त्वात् व्यवजिहीर्षादिरूपव्यापार-द्वारा भ्रमनिवृत्तिकाले सत्त्वोपपत्तेश्चैतादृशस्यापि प्रत्यक्षस्य भ्रमबाधकत्वमुपपन्नम् । न च व्यवजिहीर्षादीनां व्यापारत्वे शाब्दप्रतीतेरपि व्यापारत्वापत्त्या अवधारणानुपपत्तिरिति वाच्यम् । तद्गतबाधकत्वस्यापि तादृशप्रत्यक्षाधीनत्वेन तदुपपत्तेः । दृश्यते हि भृत्यपीडितेऽप्यमात्ये राज्ञैवायं पीडित इत्युक्तिरिति भावः । अन्यथेति ।। प्रत्यक्षस्य शब्दबाध्यत्व इत्यर्थः । तन्मूलभूतप्रत्यक्षेणैव भ्रमस्य बाध इत्ययुक्तम् । प्रत्यक्षत्वाविशेषेण वैपरीत्यापत्तेः । न च मूलभूतप्रत्यक्षमेव परत्वाद् बाधकमिति वाच्यम् । क्वचित्पूर्वस्यापि बाधकत्वदर्शनादित्यत आह- प्रत्यक्षन्त्विति ।।

श्रीवेदेशतीर्थ

मूले प्रत्यक्षसिद्धमपीत्यपिशब्दसम्बन्धमभिप्रेत्य व्याचष्टे- स्यादेतदित्यादिना ।। दूरे तूपजीव्यप्रत्यक्षसिद्धमिति ।। ननूपजीव्यप्रत्यक्षसिद्धं धर्मिमात्रम् । न सत्ताऽपीत्युक्तमिति कथमेत-दिति चेद् विधिनिषेधाववधूय धर्मिणो बुद्धावनारोहेण सत्तावच्छिन्नधर्मिविषयकत्वेनैव धर्मिप्रत्यक्ष-स्योपजीव्यतया सत्ताऽप्युपजीव्यप्रत्यक्षसिद्धेत्यभिप्रायात् । बलवतेति ।। परीक्षितेनेत्यर्थः । ननु तत्रानुमानेनैव प्रत्यक्षसिद्धसर्पबाधः किं न स्यादित्यत आह- अनुमानेनैवेति ।। तथात्वे कालात्ययापदिष्टोच्छेद इति भावः । नन्वग्न्यनौष्ण्यानुमानस्थले प्रत्यक्षस्यानुमानबाधकत्वमेव । सदिदमित्यादिप्रत्यक्षमेवानुमानबाध्यम् ।  अतो न कालात्ययापदिष्टोच्छेद इत्यत आह- व्यवस्था वेति ।। अत्र नियामकं नास्तीति भावः । ननु स्वस्य ‘नायं सर्पः’ इति प्रत्यक्षाभावेऽपि तादृशाप्तवाक्याद्बाधोऽनुभवसिद्ध इति कथं प्रत्यक्षसिद्धस्य मानान्तराबाध्यत्वमित्यत आह- आप्तेति ।। तन्मूलप्रत्यक्षेणैवेति ।। मूलप्रत्यक्षे गौरवेणैवेत्यर्थः । तथा च राजगौरवेण राजभृत्यैरमात्य इव मूलप्रत्यक्षगौरवादेवाऽप्तवाक्यजज्ञानेन सर्पप्रत्यक्षं बाध्यते । न तु केवलेनाऽगमजज्ञानेन । अप्रामाण्यशङ्काकलङ्कितत्वात् । एवं च प्रत्यक्षसिद्धं केवलेनान्येन न बाध्यत इति मूलार्थो विवक्षित इति भावः ।

एतेन ‘आप्तवाक्यमूलप्रत्यक्षस्य निवर्त्यभ्रमव्यधिकरणत्वाद्व्यवजिहीर्षादिना नष्टत्वाच्च न तस्य भ्रमनिवर्तकत्वं सम्भवति’ इति दूषणमलग्नकं वेदितव्यम् । मूलप्रत्यक्षाश्रयेण निश्चितप्रामाण्यकभ्रम-समानाधिकरणाप्तवाक्यजज्ञानस्यैव बाधकत्वाङ्गीकारात् ।

अन्ये तु ‘भ्रमसमानाधिकरणज्ञानजनकवाक्यप्रयोगहेतुत्वसम्बन्धेन सामानाधिकरण्यसत्त्वाद् व्यवजिहीर्षादिरूपव्यापारद्वारा भ्रमनिवृत्तिकाले सत्त्वोपपत्तेश्च भ्रमव्यधिकरणस्यापि मूलप्रत्यक्षस्य भ्रमबाधकत्वमुपपन्नम्’ इत्याहुः- तत्तुच्छम् । असाम्प्रदायिकत्वात् । न्यायामृतादौ ह्यस्मदुक्त-प्रकारोऽतिस्फुटमवगम्यते न त्वयमिति । अन्यथेति ।। प्रत्यक्षस्य केवलशब्दबाध्यत्व इत्यर्थः । ननु तन्मूलप्रत्यक्षगौरवेणैव सर्पप्रत्यक्षबाध इत्ययुक्तम् । प्रत्यक्षत्वाविशेषेण वैपरीत्यापत्तेरित्यत आह- प्रत्यक्षं त्विति ।। अन्येनेतीति ।। प्रत्यक्षादन्येन न बाध्यमित्युक्त्या प्रत्यक्षबाध्यमिति सूचितमिति भावः ।

द्वैतद्युमणि

ननु प्रत्यक्षस्य स्वतः प्राबल्ये कथं ‘नायं सर्पः’ इत्यनुमितिशाब्दाभ्यां प्रत्यक्षबाध इत्यत आह- सर्पभ्रमादावपीति ।। बलवतेति ।। निश्चितप्रामाण्यकप्रत्यक्षेणेत्यर्थः । विषयापहारः अप्रमाण्यबुद्धिः । कालातीतस्य भावप्रधानमिदम् । व्यवस्था वेति ।। प्रत्यक्षत्वाविशेषेऽपि क्वचिदनुमानबाध्यत्वं क्वचित् तद्बाधकत्वमित्यस्य नियामकं प्रत्यक्षत्वव्याप्यधर्मद्वयमनतिप्रसक्तं वक्तव्यमित्यर्थः । अनुमानागमापेक्षया प्रत्यक्षस्य जात्या प्राबल्याभावे वह्नौ शीतस्पर्शसाधक-वह्निजलान्यतरत्वहेतोर्व्यभिचारासिद्ध्याद्यभावाद् बाधेनैव दुष्टत्वं वाच्यम् । प्रत्यक्षस्यानुमानापेक्षया प्रबलत्वाभावात् प्रबलप्रमाणबाधरूपदोषभावाददुष्टत्वमेव स्यादिति भावः ।

श्रीराघवेन्द्रतीर्थ

प्रत्यक्षमात्र इति ।। उपजीव्यत्वादिहीनप्रत्यक्ष इत्यर्थः । सिद्धमिति । बाध्यं स्यादित्यनु-कर्षः । ननूक्तं भ्रमसिद्धः सर्पादिर्बाध्यो दृष्ट इति तत्राह - सर्पेति ।। बलवत्प्रत्यक्षेणेति । नेदं रूप्यमिति प्रत्यक्षं सयुक्तिकत्वेन बलवदिति योज्यम् । विपक्षे बाधकेनानुमानाबाध्यत्वमाह- अनु-मानेनैवेति ।। व्यवस्था वेति ।।  प्रत्यक्षमात्रं नानुमानादिबाध्यम् । उपजीव्यं तु सुतरां न बाध्यम् । प्रत्युत बाधकमेवेत्येवं व्यवस्थेत्यर्थः । प्रतिज्ञातामागमाऽबाध्यतां च व्यनक्ति-आप्तवाक्यादिति ।। सर्पभ्रमादेरित्यनुकर्षः । ननु भ्रान्तेर्निवर्तमानो न मूलप्रत्यक्षं ज्ञात्वा निवर्तत इत्याह-अत एवेति ।। मूलप्रत्यक्षेण निवर्तनादेवेत्यर्थः एवमेवेति ।। अदृष्ट्वैवेत्यर्थः । अन्यथेति ।। प्रत्यक्षस्यागमबाध इत्यर्थः । जैमिनीये तत्सिद्धिसूत्रे यजमानकार्यकरत्वगुणयोगेन प्रस्तरे यजमानशब्दो गौण इत्युक्त्वा प्रतीतमुख्याभेदरूपार्थप्रच्यावनं कृतम् । तत्त्याज्यं स्यादित्यर्थः    मुख्यार्थ  एवाभ्युपेयः  स्यात् । व्यवस्था वेति ।। प्रत्यक्षं नागमबाध्यमिति व्यवस्था वेत्यर्थः । ननु प्रत्यक्षत्वाविशेषात् कथं प्रत्यक्षं प्रत्यक्षस्य बाधकमिति तत्राह- प्रत्यक्षमिति ।। परीक्षितमपवादशून्यं निर्दोषत्वेनावधारितमिति वा निश्चितप्रामाण्यकमिति वाऽर्थः । अन्येनेतीति ।। अनुमानादिनेत्यर्थः । तदिदमित्यनेन च यदि प्रत्यक्षमात्रमित्यादिनोक्तं परामृश्यते ।

गुरुराजीया

स्यादेतदिति ।। अनेन प्रत्यक्षसिद्धमपीति मूलयोजनोक्ता भवति । ननु ‘नायं सर्पः’ इति प्रत्यक्षेण सर्पभ्रमादेर्विषयापहारः कुतः । ‘अयं सर्पः’ इति प्रत्यक्षेणैव ‘नायं सर्पः’ इति प्रत्यक्षस्याविशेषेण विषयापहारापाताद् इत्यतः परीक्षितत्वापरीक्षितत्वाभ्यां विशेषादविशेषा-सिद्ध्या न वैपरीत्यमित्याशयेनोक्तम्- बलवतेति ।। न च व्याप्तिपक्षधर्मतावत्त्वेन निरवकाशत्वा-दनुमानस्य न प्रत्यक्षबाध्यतेत्यतः तथा सत्युक्तरीत्या तत्प्राबल्यस्यानौष्ण्यानुमानेऽपि वक्तुं शक्य-त्वात् कालात्ययापदिष्टोच्छेदप्रसङ्ग इत्याशयेनाऽह- अनुमानेनैवेति ।। नन्वनौष्ण्यानुमानस्थले प्रत्यक्षस्य बाधकत्वमेव । मिथ्यात्वानुमानस्थले तु ‘सन् घटः’ इत्यादिप्रत्यक्षमनुमानबाध्यमेवेति व्यवस्थाऽङ्गीकारान्न कालात्ययापदिष्टोच्छेदापत्तिरित्यतः उक्तव्यवस्थाकल्पकाभावान्नेयं व्यवस्था युक्तेति तदुच्छेदो दुर्वार एवेत्याशयेनाह- व्यवस्था वेति ।। एतच्च खण्डनोक्तं व्यवस्थापकमाशङ्क्य तन्निराकरणेन न्यायामृते एव प्रपञ्चितम् । तत एव प्रतिपत्तव्यम् । ननु ‘नायं सर्पः’ इति १स्वयं प्रत्यक्षाभावेऽपि ‘अयं सर्पः’ इति प्रत्यक्षस्य ‘नायं सर्पः’ इत्याप्तवाक्येन निवृत्तिदर्शनात् कथं प्रत्यक्षसिद्धस्य मानान्तरेणाबाध्यत्वमित्यतो दूरस्थस्य ‘अयं सर्पः’ इत्याद्यपि प्रत्यक्षं न ‘नायं सर्पः’ इत्यादिशब्दमात्रेण बाध्यम् । किं तु ‘नायं सर्पः’ इति मूलप्रत्यक्षेणैव । तथा हि, अमात्यापेक्षया दुर्बलस्यापि भृत्यस्य राजगौरवेण प्रबलामात्यबाधकत्वं, यथा च लिङ्गापेक्षया दुर्बलेनापि प्रकरणादिना२ स्वापेक्षया प्रबलस्य लिङ्गादेः३ श्रुतिगौरवेण बाधः तथा मूलभूतप्रत्यक्षगौरवादेवाप्त-वाक्यजन्यज्ञाने सर्पप्रत्यक्षस्य बाध इत्यर्थः । न चैवमपि प्रत्यक्षप्राप्तस्य शब्देन बाधापत्त्या ‘न केनापि बाध्यम्’ इति नियमभङ्गः४ एवेति वाच्यम् । शुष्कस्य मानान्तरस्यैव प्रत्यक्षप्राप्त-बाधकत्वाभावस्य नियमफलतयाऽभिप्रेतत्वेन स्वमूलकमानान्तरस्य तद्बाधकत्वाभावस्य नियमफल-तयाऽनभिप्रेतत्वेन तदप्रसङ्गात् । ततश्च ‘अन्येन केनापि’ इत्येतन्निर्मूलेन केनापि न बाध्य-मित्येवम्परतया मूलयोजना सूचिता भवति ।

एतेन ‘आप्तवाक्यमूलप्रत्यक्षस्य निवर्त्यभ्रमव्यधिकरणत्वाद् व्यवजिहीर्षादिना नष्टत्वाच्च न तस्य भ्रमनिवर्तकत्वं सम्भवति’ इति दूषणमलग्नकं वेदितव्यम् । मूलप्रत्यक्षाश्रयणेन निश्चितप्रामाण्यक-भ्रमसमानाधिकरणाप्तवाक्यजज्ञानस्यैव बाधकत्वाङ्गीकारात् ।

यत्तु ‘भ्रमसमानाधिकरणज्ञानजनकाप्तवाक्यप्रयोगहेतुत्वसम्बन्धेन सामानाधिकरण्यसत्त्वाद् व्यवजिहीर्षादिरूपव्यापारद्वारा भ्रमनिवृत्तिकाले सत्त्वोपपत्तेश्च भ्रमव्यधिकरणस्याप्याप्तवाक्य-मूलभूतस्य प्रत्यक्षस्य भ्रमबाधकत्वमुपपन्नम्’ इत्यभिप्रायकल्पनम्, तत्तु एतद्ग्रन्थाभिप्रायकथन-रूपोदाहृतन्यायामृतग्रन्थादर्शनमूलकमेवेत्ययुक्तत्वादुपेक्ष्यम् ।

शब्दमात्रं न बाधकम् । किन्तु तन्मूलभूतप्रत्यक्षमेवेत्यत्रोपष्टम्भकमाह- अत एवेति ।। न चैतत् पितृवाक्ये नास्तीति शब्दस्यैव तत्र बाधकत्वम् । अन्यथा ‘नायं सर्पः’ इति पितृवाक्यस्थलेऽपि ‘किं भवानेवं पश्यति, एवमेव वा वक्ति’ इति प्रतिवचनप्रसङ्गादिति वाच्यम् । पितृवाक्यस्य प्रत्यक्षमूलकताया निश्चितत्वेन तथा प्रतिवचनाभावोपपत्त्या वाक्यमूलभूतप्रत्यक्षगौरवेण शब्दस्य बाधकत्वोपपत्त्या विरोधाभावात् । शब्दमात्रस्य प्रत्यक्षबाधकत्वे बाधकञ्चाऽह- अन्यथेति ।। श्रुतिविरोधेन प्रत्यक्षस्यैवाप्रामाण्यसम्भवात्  । एतच्च तत्सिद्धिरित्यादितत्सिद्धिपेटिकायां प्रपञ्चि-तम् । तत एव प्रतिपत्तव्यम् ।

ननु सर्पभ्रमादिस्थले ‘नायं सर्पः’ इत्यादिप्रत्यक्षेणैव१ बाध इत्युक्तम् । तथा सति जात्या प्राबल्यस्योभयत्राप्यविशिष्टत्वेन सर्पभ्रमेणैव ‘नायं सर्पः’ इति प्रत्यक्षस्यैव बाध्यताया वक्तुं शक्यत्वाद् इत्यतः परीक्षितत्वापरीक्षितत्वाभ्यां विशेषेण वैपरीत्याप्रसङ्गादुक्तं युक्तमित्या-शयेनाऽह- प्रत्यक्षं त्विति ।। तदिदमुक्तमिति ।। प्रत्यक्षसिद्धं प्रत्यक्षादन्येन बाध्यं नेत्युक्त्या प्रत्यक्षबाध्यतायाः सूचितत्वादिति भावः ।

गोविन्दीया

स्यादिति ।। तर्हि एतत्समाधानमेवं भवदुक्तरीत्या स्यादित्यर्थः । न चेति ।। एतदन्येन केनाप्यबाध्यं प्रत्यक्षसिद्धं न चास्तीत्यर्थः । दूर इति ।। उपजीव्यप्रत्यक्षसिद्धं बाध्यमिति दूरे निरस्तमित्यर्थः । कालातीतस्येति ।। प्रत्यक्षबाधितमनुमानं कालातीतदोषग्रस्तम् । अनुमानेनैव प्रत्यक्षबाधने कालातीतस्य दोषता वा त्याज्या तदत्यागेऽस्यामवस्थायां प्रत्यक्षेणानुमानबाध्यम् अस्यामवस्थायाम् अनुमानेन प्रत्यक्षं बाध्यमिति ‘व्यवस्था’ मर्यादा वा कल्प्येत्यर्थः । तन्मूलप्रत्यक्षेणेति ।। तस्याप्तवाक्यस्य यन्मूलं कारणं तेन प्रत्यक्षेणैव बाधः । आप्तवाक्येनैव बाधः किन्न स्यात् ? किमर्थं मूलप्रत्यक्षपर्यन्तधावनम् ? इत्याशङ्क्याह- अत इति ।। अत एव मूलप्रत्यक्षेणैव बाधाङ्गीकारात् । किं भवानेव पश्यति ? एवमेव वा वक्तीति संशयालवः सन्त एव प्रतिवक्तारो भवन्ति । अन्यथा तन्न स्यादित्यर्थः । अन्यथेति ।। आगमेनैव प्रत्यक्षबाधनमित्यर्थः । व्यवस्थेति ।। अस्यामवस्थायाम् आगमेन प्रत्यक्षस्य बाधः, अस्यामवस्थायां प्रत्यक्षेणागमस्य बाध इति मर्यादा वा परिकल्प्येत्यर्थः । तदिदमिति ।। नेति विशेषनिर्देश इत्यर्थः ।

जनार्दनभट्टीया

‘न च’ इत्यादिमूले अन्यशब्दस्य प्रत्यक्षदृष्टबाधक कुड्यादावपि प्रवृत्तेः अवधिसापेक्षत्वाच्च अवधिकथनपूर्वकं विवक्षितमर्थं वदन् मूलं तर्कपरतया योजयति – स्यादेतदित्यादिना ।।

ननु प्रत्यक्षस्य जात्या प्राबल्याङ्गीकारे ‘तथा च उपजीव्यत्वेन बलवत् प्रत्यक्षम्’ इति पूर्वग्रन्थे उपजीव्यत्वग्रहणं निरर्थकं स्यादित्यत आह – दूर इति ।।  तथा च कैमुत्यन्यायसूचनार्थमुपजीव्यत्व-ग्रहणम् । न तु प्रत्यक्षस्य बाधकत्वोपपादनार्थम् इति भावः । ‘अपसर्पणाद्यभावलिङ्गेन’ इत्याद्युक्तं दूषयति – सर्पभ्रमेति ।। प्रत्यक्षबाधन इति ।। ‘अङ्गीक्रियमाणे’ इति शेषः । दोषता वेति ।। अनुमानसाधारणदोषता इत्यर्थः । प्रत्यक्षे कालातीतायाः दोषत्वस्य वक्तुं शक्यत्वादिति भावः । व्यवस्था वेति ।। एतादृशस्थल एव अनुमानेन प्रत्यक्षबाधो नान्यत्रेति व्यवस्था वक्तव्येत्यर्थः । ‘सा च दुर्निरूपा’ इति शेषः ।

ननु ‘प्रत्यक्षसिद्धस्य न क्वापि अनुमानागमाभ्यां बाधः’ इत्युक्तम् । तदयुक्तम् । दुष्टप्रत्यक्षसिद्धस्य सर्पस्य ‘नायं सर्पः’ इत्याप्तवाक्येन बाधदर्शनात् । अन्यथा निवृत्यनुपपत्तेरित्यत आह– आप्तवाक्या-दिति ।। एवमेवेति ।। अदृष्ट्वैवेत्यर्थः । आगमस्य प्रत्यक्षबाधाङ्गीकारे बाधकमाह– अन्यथेति ।। प्रस्तरः दर्भमुष्टिः । प्रत्यक्षविरोधेनेति ।। ‘यजमानः प्रस्तरः’ इति पदद्वयसामानाधिकरण्यलब्धस्य प्रस्तरयजमानयोरभेदस्य ‘प्रस्तरो न यजमानः’ इति प्रत्यक्षविरोधेनेत्यर्थः ।

ननु प्रत्यक्षस्य जात्या प्राबल्येन अनुमानादिबाधकत्वाङ्गीकारे ‘इदं रजतम्’ इति भ्रमरूपप्रत्यक्षस्य ‘नेदं रजतम्’ इति प्रत्यक्षबाधो न स्यात् । उभयोरपि प्रत्यक्षत्वाविशेषादित्याशङ्क्य प्रत्यक्षस्य प्रत्यक्षबाधकत्वे अन्यदेव नियामकमित्याह – प्रत्यक्षं त्विति ।।