अतो विशिष्टादिनिराकरणयुक्तीनामपि ..

दृष्टस्य वस्तुन इत्यादिनोक्तस्योपसंहारः

श्रीमज्जयतीर्थटीका

दृष्टस्य वस्तुन इत्यादिनोक्तमुपसंहरति-

मूल

अतो विशिष्टादिनिराकरणयुक्तीनामपि विशिष्टाद्यपेक्षत्वाज्जात्युत्तरमिति न युक्तिबाधाऽपि ।

यतो विशिष्टादिनिराकरणतर्क उक्तविधया तर्काङ्गपञ्चकविकलोऽतोऽसौ जात्युत्तरम् । तस्मान्न श्रुतीनां विशिष्टार्थप्रतिपादकत्वस्य तर्कबाधेति । ‘प्रकृष्टप्रकाशश्चन्द्रः’ इत्यादिनान्तरङ्गानुपपत्ति-बाधा परिहृता । दृष्टस्येत्यादिना बाह्यतर्कबाधा । अतः समुच्चयार्थोऽपिशब्दः ।

ननु सिद्धमपि दूषणासमर्थमुत्तरं जातिरित्युच्यते । असामर्थ्यं च द्विविधम् । साधारणमसाधारणं च । तत्र साधारणं स्वव्याहतिः । असाधारणं तु युक्ताङ्गहानिरयुक्ताङ्गाधिकत्वमविषयवृत्तित्वं चेति त्रिविधम् । तत्र साधारणेनासामर्थ्येन विना कथं युक्ताङ्गहीनतामात्रेण तर्कस्य जातित्व-मित्यत उक्तम्– विशिष्टादीति ।। विशिष्टादिनिराकरणतर्को हि विशिष्टादिकमपेक्ष्योत्पद्यते । भिन्ना(न्या)दिविशिष्टाज्ञाने विशिष्टस्य विशेषणादिभ्यो भिन्नत्वे दण्ड्यानयननियोगेऽन्यानयन-प्रसङ्गः’ इत्याद्यापादनायोगात् । एवं विशेषणाद्यपेक्षाऽपि द्रष्टव्या । तथा च स्वापेक्षणीयमेव विशिष्टादिकं निराकुर्वन्नयं स्वात्मानं व्याहन्तीति कथं न जात्युत्तरम् । परसिद्धमेव भिन्नादिक-मङ्गीकृत्य तर्कप्रवृत्तेर्नैवमिति चेन्न । परसिद्धिमात्रेण विपर्ययपर्यवसानाद्यनुपपत्तेः । तत्र च विशिष्टाद्यपेक्षानियम इति सङ्क्षेपः । नित्यसमा चेयं जातिः- (यथोक्तं) ‘विवक्षितधर्मस्य तदतद्रूपविकल्पानुपपत्त्या धर्मिणस्तद्विशिष्टत्वखण्डनं नित्यसमा’ इति ।

श्रीविजयीन्द्रभिक्षु

समुच्चयान्तरानुपलम्भादपिशब्दानर्थक्यमित्याशङ्क्याऽह- प्रकृष्टेति ।। अन्तरङ्गानुप-पत्तीति ।। ‘सत्यं ज्ञानम्, तत्त्वमसि’ इत्यादिवाक्यस्य विशिष्टार्थपरत्वे स्वरूपमात्रप्रश्नोत्तरत्वादि-रूपान्तरङ्गानुपपत्तीत्यर्थः । बाह्यतर्केति ।। ‘विशिष्टं भिन्नमभिन्नं भिन्नाभिन्नं वा’ इत्यादि-विकल्पासहत्वाद्विशिष्टमनिर्वाच्येत्येवंरूपा या तर्कबाधा सेत्यर्थः । विशिष्टाद्यपेक्षत्वादित्यस्या-नर्थक्यमाशङ्क्य तन्निवार्याशङ्कां दर्शयति- नन्विति ।। असाधारणमिति ।। युक्ताङ्गहान्यादीनां सकलजातिसाधारणत्वाभावादिति भावः । तत्रेति ।। जातिमात्रसाधारणस्वव्याहतिरूपासामर्थ्यं विना जातित्वमेव न स्यादिति भावः    तर्कस्य विशिष्टाद्यपेक्षा क्वेत्याशङ्कायामाह- विशिष्टा-दीति ।। तर्कोत्पत्तौ विशिष्टाद्यपेक्षामुपपादयति- भिन्नेति ।। भिन्नान्यादिशब्दैः यद्व्यवह्रियमाणं विशिष्टं तस्याज्ञान इत्यर्थः । एवमिति ।। विशेषणादिनिराकरणतर्कोऽपि स्वोत्पत्तौ विशेषणादिक-मपेक्षते । विशेषणादेरज्ञाने यदि विशिष्टविशेषणं विशेष्याद् भिन्नं स्यात्तदा मेरुमन्दरयोरिव स्वातन्त्र्यापत्त्या विशेषणत्वमेव न स्यादित्याद्यापादनायोगादित्यर्थः । तावता स्वव्याघातकत्वं कथमित्यत आह- तथा चेति ।। परसिद्धिमात्रेणेति ।। ‘यदि विशिष्टं विशेषणादिभ्यो भिन्नं स्यादन्यस्यैवाऽनयनं स्यात् । न चान्यदानीयते’ इति विपर्यये पर्यवसानं वाच्यम् । न चैतत् सम्भ-वति । वस्तुतो विशिष्टादिभिन्नस्य विशेषणस्य सत्त्वापेक्षत्वादित्यर्थः । सामान्येन विना विशेषापर्यवसानात् । कुत्र जातावन्तर्भवतीत्यत आह- नित्यसमा चेयमिति ।।

श्रीवेदेशतीर्थ

विशिष्टापेक्षत्वादित्यंशं व्याख्यातुं तन्निवर्त्याशङ्कां दर्शयति- नन्विति ।। छलव्यावृत्त्यर्थं सिद्धमपीति विशेषणम् । पक्षे सिद्धमित्यर्थः। पक्षधर्मत्वोपेतमिति यावत् । छलोत्तरे तु न पक्षधर्म-त्वम् । ‘आढ्योऽयं नवकम्बलवत्त्वात्’ इति नूतनत्वाभिप्रायेण वादिना प्रयुक्ते प्रतिवादी सङ्ख्यार्थत्वमारोप्य वदति । त्वदीयो हेतुः स्वरूपासिद्धः । एकस्यैव कम्बलस्योपलम्भाद् इति । तथा च नवकम्बलवत्त्वादिति हेतुर्न स्वसाध्यसाधकः । स्वरूपासिद्धत्वादिति छलवादिनाऽसाधकता साधनीया । तत्र च हेतुर्न पक्षेऽस्ति । नवकम्बलवत्त्वस्य वस्तुगत्या स्वरूपासिद्ध्यभावात् । अतो न तत्पक्षधर्मतोपेतमिति सिद्धमपीत्यनेन तद्व्यावृत्तिः । जात्युत्तरे तु धूमवत्त्वादिति हेतौ वादिनोक्ते प्रतिवादी व्याप्तिमनङ्गीकृत्य वदति । यदि महानससाधर्म्याद्धूमात् पर्वतोऽग्निमान् स्यात्तर्हि ह्रद-साधर्म्याद्द्रव्यत्वान्निरग्निः किं न स्यात्तथा च त्वदनुमानस्य सत्प्रतिपक्षत्वमिति । तदा त्वदीयोऽयं धूमवत्त्वादिति हेतुर्न स्वसाध्यसाधकः । युक्ताङ्गहीनप्रतिप्रमाणेन प्रतिपक्षितत्वादित्युत्तरं व्याप्ति-हीनमपि पक्षधर्मतोपेतं भवतीति न लक्षणाननुगम इति भावः ।

साधारणम् सर्वजातिसाधारणम् । असाधारणम् न सर्वजातिसाधारणम् । विशिष्टादिक-मपेक्ष्येति ।। विशिष्टादिकप्रतीतिमपेक्ष्येत्यर्थः। एतदेवोपपादयति- भिन्नान्यादीति ।। विशेषणाद्य-पेक्षाऽपीति ।। विशेषणादिप्रतीत्यपेक्षाऽपीत्यर्थः । आदिपदेन भेदादिग्रहणम् । स्वापेक्षणीयम् स्वोप-जीव्यप्रतिपत्तिकम् ।  तर्कप्रवृत्तेरिति ।।  दण्ड्यानयनप्रयोगेऽन्यानयनप्रसङ्ग इत्यादितर्कप्रवृत्तेरि-त्यर्थः । विपर्ययपर्यवसानाद्यनुपपत्तेरिति ।। अत्रादिपदेन पक्षनिर्देशः । व्याप्तिज्ञानं च ग्राह्यम् । न चान्यदानीयते । अपि तु दण्डविशिष्टो देवदत्त एवेति विपर्ययपर्यवसानं वाच्यम् । न चैतत्स्वस्य विशिष्टान्यादिपदार्थज्ञानाभावे परज्ञानमात्रेण सम्भवति । अनुभवविरोधात् । एवं पक्षनिर्देशव्याप्ति-ज्ञानान्यथानुपपत्त्याऽपि परस्य विशिष्टज्ञानमस्तीत्युपपादनीयम् । अतः स्वकीयविशिष्टादि-प्रतीतिरपि तर्कोपजीव्येति तन्निरासकत्वे तर्कस्य स्वव्याहतिरिति भावः ।

नन्वस्त्येव परस्य विशिष्टप्रतीतिर्भ्रमरूपा । तर्केण च विशिष्टादिसत्ता निराक्रियते । अतो न व्याहतिरिति चेन्न । प्रतीतस्योत्सर्गतः सत्त्वनियमात् । तर्कस्यान्योन्याश्रयतयाऽबाधकत्वादन्यस्य च बाधकस्यानुपलम्भात् । तदिदमुक्तम्- इति सङ्क्षेप इति ।। इतीत्यनन्तरं लक्षणादिति शेषः । क्वचिन्नित्यसमा चेयं जातिरित्यनन्तरं यथोक्तमिति पाठः । तदा नायं शेष इति ज्ञातव्यम् ।

द्वैतद्युमणि

तत्र च विशिष्टाद्यपेक्षानियमादिति ।। आपाद्यव्यतिरेकविशिष्टे पक्ष आपादकव्यतिरेक-सिद्धेस्तर्कफलत्वेन तद्विषयीभूतविशिष्टस्याप्युक्तरीत्याऽभावप्राप्त्या तस्य स्वव्याहतिरिति भावः ।

ननु विशिष्टाद्यपेक्षा नाम तज्ज्ञानमात्रस्य तर्ककारणत्वाभ्युपगमः । न तु विशिष्टादीनां सत्त्वेन ज्ञानस्य कारणत्वाभ्युपगमः । इत्थं चापाद्यव्यतिरेकनिर्णयादिविषयाणामनिर्वचनीयानामेव प्रतीत्याऽनिर्वचनीयार्थावगाहिन आपादकविपर्ययनिर्णस्योत्पत्त्यङ्गीकारात् । ब्रह्मातिरिक्तस्य कस्यापि सत्त्वानङ्गीकारेण सत्यत्वेन तदसिद्धेरस्माकं क्षतिहेतुत्वाभावान्न कोऽपि दोष इत्यत आह- सङ्क्षेप इति ।। एतद्दोषपरिहारस्य स्फुटत्वात् सङ्क्षेपः क्रियत इति भावः । तथा हि विशिष्टादिकं यदि पारमार्थिकं स्यात् तदा भिन्नत्वाद्यन्यतमप्रकारोपेतं स्यात् । तथा चानवस्थादिकं स्यान्न चैवम् । तस्मान्न सत्यमिति तर्केण सत्यत्वाभावो विषयीक्रियते । स यदि सत्त्वेन विषयीक्रियते तर्हि तद्विशिष्टस्य सत्त्वप्राप्त्या विशिष्टस्य सत्त्वापत्तिः । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतर-विधिनान्तरीयकत्वादित्यादिपूर्वदर्शितदिशाऽवसेयमिति । नित्यसमा चेयं जातिरिति ।। विवक्षित-धर्मस्येत्यादि ।। भेदरूपधर्मस्य भेदवत्त्वतदभावरूपधर्मानुपपत्त्या धर्मिणो भिन्नत्वादिखण्डनात् नित्यसमजातित्वं ज्ञेयम् । उपपादितमेतत् सामान्यतो मिथ्यात्वनिराकरणावसरे ।

श्रीराघवेन्द्रतीर्थ

मूलं योजयति- यत इति ।। भिन्नत्वादिविकल्पासहत्वरूपस्तर्क इत्यर्थः । इतिशब्दो हेत्वर्थ इत्यभ्युपेत्य इति न युक्तिबाधाऽपि इति शेषार्थमाह- तस्मादिति ।। ‘सत्यं ज्ञानम्’ इत्यादि-श्रुतीनामित्यर्थः । अपिपदार्थं दुर्बोधत्वाद्व्यनक्ति- प्रकृष्टेति ।। प्रकृष्टप्रकाशश्चन्द्रः इत्यादौ प्रकृष्टत्वादिविशेषणानि सन्त्येवेत्यादिना सत्यज्ञानादिवाक्यानां विशिष्टार्थपरत्वे स्वरूपमात्रप्रश्नं प्रत्युत्तरत्वायोगरूपान्तरङ्गानुपपत्तिबाधा परिहृता । दृष्टस्य वस्तुनो बलवद्दृष्टिं विना इत्यादिना च विशिष्टं विशेषणादितो भिन्नमभिन्नं वेत्यादिविकल्पासहत्वादनिर्वाच्यमेवेत्येवंरूपबाह्यतर्कबाधा परिहृतेत्यर्थः । न केवलमन्तरङ्गानुपपत्तिबाधा । किन्तु बाह्यतर्कबाधाऽपि नेति समुच्चयेऽपिशब्द इत्यर्थः ।

विशिष्टेत्याद्यंशस्य व्यावर्त्यमाह- ननु सिद्धमपीति ।। छलोत्तरेऽनतिव्याप्त्यर्थमेतद्विशेषणम् । साधारणमिति ।। साधर्म्यवैधर्म्यादिसर्वजातिष्वनुगतमित्यर्थः । अपेक्ष्योत्पद्यत इत्येतद्व्यनक्ति - भिन्नादिविशिष्टाज्ञान इति ।। एवं विशेषणादीति ।। विशेषणादेरज्ञाने विशेषणं विशेष्याद्भिन्नं चेन्मेरुमन्दरयोरिव  विशेषणत्वायोग  इत्याद्यापादनायोगादिति तर्कस्य विशेषणाद्यपेक्षा ज्ञेया इत्यर्थः । विपर्यय इति ।। तस्माद्विशिष्टं विशेषणादिभ्यो भिन्नं नेत्यभिन्नं नेति भिन्नाभिन्नं नेति वा विपर्यये पर्यवसानं विशिष्टस्य विशेषणादिभेदादिना व्याप्त्यादिकं वा परसिद्धमात्रेण न युक्त-मित्यर्थः । सामान्यस्य विना विशेषमपर्यवसानात्केयं जातिरित्यत आह- नित्येति ।। यथोक्त-मिति ।। तार्किकैः –

धर्मस्य तदतद्रूपविकल्पानुपपत्तितः ।

धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो मतः ।।’

इति कारिकार्थमनुवदति- विवक्षितेति ।। शब्दोऽनित्य इत्युक्तेऽनित्यत्वमनित्यं नित्यं वा । आद्ये धर्मिणः शब्दस्य नानित्यत्वम् । किन्तु नित्यत्वमेव स्यात् । द्वितीये नित्यधर्माश्रयस्य नानित्यत्वमित्येवं विवक्षितधर्मवैशिष्ट्यखण्डनं धर्मिण इत्यर्थः ।जात्युत्तरम् असदुत्तरम् । अपिशब्दसमुच्चेयमाह- प्रकृष्टेति ।। कश्चन्द्र इत्यादिप्रश्नस्य कैर्लक्षणैर्विशिष्ट इत्यर्थकत्वेन प्रश्नोत्तरयोर्वैयधिकरण्यरूपान्तरानुपपत्तिबाधा परिहृतेत्यर्थः । बाह्येति ।। विशिष्टं विशेषणादिभ्यो भिन्नमभिन्नं वेत्यादिरूपा बाह्यानुपपत्तीत्यर्थः । तथा च न केवल-मान्तरानुपपत्तिबाधा नास्ति, किन्तु बाह्यतर्कबाधाऽपि नास्तीति मूलार्थो द्रष्टव्यः । युक्ताङ्गेति ।। व्याप्त्यादिरूपेत्यर्थः । जातित्वमिति ।। सामान्यलक्षणाभावादिति भावः । तदुपपादयति- भिन्नान्यादीति ।। विशिष्टं विशेषणादिभ्यः भिन्नम् इत्यत्र भिन्नमिति विशिष्टम् । अन्यानयनादि-प्रसङ्ग इत्यत्र अन्येति विशिष्टमिति विवेकः । यदि विशिष्टं तत्त्वं स्यात्तर्हि भिन्नत्वाद्यन्यतमप्रकारोपेतं स्यात् । न च भवत्यन्यतमप्रकारोपेतम् । तस्मान्न तत्त्वमिति विपर्ययपर्यवसानं परप्रसिद्ध्याऽनुप-पन्नमित्यर्थः । विपर्ययपर्यवसानं स्वरीत्यैव कार्यम् १अस्मद्रीत्यनुसारेण विपर्ययपर्यवसानमेव न सम्भवतीति भावः । तत्र चेति ।। विशिष्टादिनिराकरणतर्क इत्यर्थः । विवक्षितधर्मस्येति ।। शब्दोऽनित्य इत्यत्रानित्यत्वं नित्यमनित्यं वेति विकल्प्याऽद्ये नित्यधर्माश्रयत्वेन नित्यत्वापत्त्या, शब्दोऽनित्य इत्यनुपपत्तिः । द्वितीयेऽनित्यत्वस्यानित्यत्वे शब्दस्य नित्यत्वापत्त्या शब्दोऽनित्य इत्यनुपपत्तिरित्युदाहरणम् । एवं प्रकृते २विशेषणादिभ्यो भेदाङ्गीकारे भेदरूपधर्मस्य भिन्नाभिन्नत्व-विकल्पानुपपत्त्या धर्मिभूतविशिष्टादेस्तद्विशिष्टत्वस्य भेदविशिष्टत्वस्याखण्डनान्नित्यसमा जाति-रियमित्यर्थः ।

गुरुराजीया

उक्तमिति ।। विपर्ययपर्यवसानाभावादिकमित्यर्थः । ननु विशिष्टादिनिराकरण-तर्कस्याऽभासत्वे अत इत्युक्तो हेतुः क इत्यतोऽङ्गपञ्चकवैकल्यमेवेति भावेन सिद्धे तस्मिन् तेन तत्सिद्ध्येत् । तदेव तु कथं सिद्धमित्यतः तदसिद्धिं परिहरन् वाक्यं योजयति- यत इति ।। उक्तविधयेति ।। ‘दृष्टस्य वस्तुनः’ इत्याद्युक्तविधयेत्यर्थः ।

ननु श्रुतीनां विशिष्टार्थत्वे बाधान्तरस्यापरिहृतत्वेन तत्समुच्चायकत्वासम्भवान्न तर्क-बाधेत्येतावता पूर्णत्वान्न बाधाऽपीति समुच्चयार्थकापिशब्दवैयर्थ्यमित्यतः प्रकृष्टप्रकाशश्चन्द्र इत्यादिना पूर्वत्र परिहृतबाधया परिहरिष्यमाणबाधायाः समुच्चयार्थकत्वेन न वैयर्थ्यमिति भावेन  बाधद्वयोपदर्शनपूर्वकं तत्समुच्चायकतयाऽपिशब्दं योजयति-प्रकृष्टेत्यादिना ।। अन्तरङ्गबाधेति ।। स्वरूपमात्रप्रश्नोत्तरत्वान्यथानुपपत्त्या प्रकृष्टादिवाक्यवत् सत्यज्ञानादिवाक्यानां स्वरूपमात्रपरत्वे न विशिष्टपरत्वमिति पूर्वत्र परिहृताया अनुपपत्तेः श्रुतिमूलकत्वेन तदमूलकविशिष्टादिनिरासतर्क-बाधापेक्षयाऽन्तरङ्गत्वेन प्रबलतया तामेव प्रथममाशंक्य स्वरूपमात्रस्य सिद्धत्वेन प्रश्नस्य तद्विषयकत्वानुपपत्त्या विशिष्टार्थविषयकत्वस्यैव सत्त्वेन प्रकृष्टादिवाक्यानामखण्डार्थनिष्ठताभाववद् विशिष्टविषयकप्रश्नोत्तराणां सत्यज्ञानादिवाक्यानां विशिष्टार्थमात्रनिष्ठत्वस्यैव सम्भवान्न तदनुपपत्तिप्रसक्तिरित्येवं परिहृतेत्यर्थः । बाधेति ।। विशिष्टं विशेषणविशेष्यतत्सम्बन्धेभ्यो भिन्नमभिन्नं वेत्यादिविकल्पमूलकानुपपत्तेः श्रुत्यमूलकत्वेन बहिरङ्गतया दुर्बलत्वेन पश्चात् ‘दृष्टस्य’ इत्यादिना परिहृतेत्यर्थः ।

ननु पञ्चाङ्गवैकल्येनाऽभासतया जात्युत्तरतायाः ‘विशिष्टापेक्षितत्वात्’ इति विशेषणेन विनाऽपि निर्वाहाद् विशिष्टादिनिरासकतर्कस्य विशिष्टापेक्षितत्ववर्णनमनर्थकमित्याशङ्क्य असाधारणासामर्थ्यस्य तत्प्रयोजकस्य तन्निरपेक्षैतद्वाक्येन सिद्धावपि स्वव्याहतिरूपसाधारणा-सामर्थ्यस्य तेनासिद्ध्या तत्समर्पकत्वात् तस्य न वैयर्थ्यमिति भावेन तत्समर्पकतया योजयितुं तदभावेन जात्युत्तरत्वाभावशङ्कामुत्थापयति- नन्विति ।। सिद्धमपीति ।। अत्रासामर्थ्यं व्याप्ति-पक्षधर्मतयोरन्यतरवैकल्ये भवति । तत्र पक्षधर्मताविधुरः ‘कल्पितदूष्योऽकल्पितदूष्यश्च’ इति द्विविधः । तत्राऽद्यं छलम् । तथा हि, ‘आढ्योऽयं नवकम्बलत्वात्’ इति प्रतिवादिनं प्रत्युक्ते ‘कुतोऽस्य नवकम्बला’ इत्यत्र नवकम्बलत्वादित्ययं हेतुराढ्यत्वसाधको न भवति असिद्धत्वादिति प्रतिवादिनोऽभिप्रायः । अत्र यदसिद्धं तदसाधकमिति व्याप्तिरस्ति । नूतनार्थे प्रयुक्तहेतोः प्रतिवाद्यभिमतसङ्ख्याविशेषपरत्वाभावात् पक्षधर्मताया एव केवलमभावः । अकल्पितदूष्यस्तु केवलं निरनुयोज्यानुयोगः । तत्र वादिना निर्दोषहेतौ प्रयुक्ते सति अनैकान्तिकत्वादित्यादि-मिथ्यादूषणोद्भावनं निरनुयोज्यानुयोगः । अत्र वाद्युक्तो हेतुः साध्यसाधको न भवति अनैकान्तिकत्वादित्यादिकं प्रतिवादिनो विवक्षितम् । अत्र व्याप्तौ सत्यामेतत्केवलं पक्षधर्मतावैधुर्यमेव । तथा च पक्षधर्मतावैधुर्यनिमित्तासामर्थ्यस्य छलनिरनुयोज्यानुयोगयोरतिप्रसङ्गः स्यात् । तदर्थं सिद्धमित्युक्तम् । तच्च पक्षधर्मत्वमित्यर्थः । तथा च पक्षधर्मत्वमात्रं सदनुमानसाधारणमित्यतोऽसमर्थमित्युक्तम् ।

असामर्थ्यं चात्र व्याप्तिवैधुर्यमेव । न तु शक्तिवैकल्यम् । तेन भवद्दर्शनेऽतिरिक्तस्य शक्तिपदार्थस्याभावादप्रसिद्धिरित्यपास्तम् । यद्यपि व्याप्तिपक्षधर्मतान्यतरवैधुर्यादेव सर्वत्र हेतोराभासत्वं भवति । तथाऽपि प्रकृतस्य हेतोः व्याप्तिमात्रवैधुर्यादेवाऽभासत्वमिति तस्यैवोपादानं युक्तम् । ततश्च सत्यां व्याप्तौ पक्षधर्मतावैधुर्याद्दूषणासमर्थं कल्पितदूष्यं छलम् । सत्यां व्याप्तौ पक्षधर्मतावैधुर्यादपकृष्टम् अकल्पितदूष्यं निरनुयोज्यानुयोगः । सति पक्षधर्मत्वे व्याप्तिवैधुर्यादपकृष्टमुत्तरं जातिरिति विवेकोऽत्र बोध्यः ।

मूलाख्यमङ्गं द्वेधा१ विभजते- असामर्थ्यमिति ।। विशिष्टादिकमपेक्ष्येति ।। तत्प्रतीति-मपेक्ष्येत्यर्थः । एतस्यैवोपपादनम्- भिन्नादीति ।। विशेषणादीत्यादिपदेन भेदपरिग्रहः । स्वापेक्षणीयं स्वोपजीव्यप्रतिपत्तिकम् । तर्कप्रवृत्तेरिति ।। दण्ड्यानयननियोगेऽन्यानयनप्रसङ्गः- इत्यादि-तर्कप्रवृत्तेरित्यर्थः । विपर्ययपर्यवसानानुपपत्तेरित्येतदेव दर्शयति- तत्रेति ।। तत्र विपर्ययपर्यवसाने पराभ्युपगतस्याभावः पक्षे स्वीकार्यः । अन्यथा परोक्तदूषणस्यैवाभावप्रसङ्गात् । तथा हि । न चान्यदानीयते । अपि तु दण्डविशिष्टो देवदत्त इत्येव ह्यत्र विपर्ययपर्यवसानं वाच्यम् । न चैतत् स्वस्य विशिष्टान्यादिपदार्थज्ञानाभावे परज्ञानमात्रेण सम्भवति । अनुभवविरोधात् । अतः स्वकीयविशिष्टादिप्रतीतिरपि तर्कोपजीव्येति तन्निरासकत्वात् तर्कस्य स्वव्याहतिरिति भावः ।

नन्वस्त्वेवं परस्य विशिष्टप्रतीतिः भ्रमरूपा तर्केण च विशिष्टादिसत्ता निराक्रियतेऽतो न व्याहतिरिति चेन्न । प्रतीतस्योत्सर्गतः सत्त्वनियमात् । प्रकृते च तर्कस्यान्योन्याश्रयत्वप्रसक्त्या बाधकत्वानुपपत्त्या तदभावे सत्त्वनियमभङ्गानुपपत्तेः । तदेतदभिप्रेत्योक्तम्- इति सङ्क्षेप इति ।।

ननु परिगणितयावद्विशेषबहिर्भूतत्वात् कथमियं जातिरिति चेन्न । उक्तरीत्या जातिसामान्यलक्षणाक्रान्तताया उपपादितत्वेन जातित्वस्य सिद्धत्वात् । अन्यथा अतिव्याप्ततया तस्य सामान्यलक्षणत्वाभावप्रसङ्गात् । ततश्च तदनुरोधेन विशेषान्तरस्यापि परिकल्पनीयत्वेन तद्घटितयावद्विशेषबहिर्भूतत्वासिद्धेः जातित्वमनाकुलमेव । अङ्गीकृत्य चैतदुक्तम् । वस्तुतस्तु नित्यसमायामेवान्तर्भूतत्वात् परिगणितयावद्विशेषबहिर्भूतत्वमेवासिद्धमित्याशयेनाऽह- नित्यसमा चेयमिति ।। नित्यसमैवेयं जातिरित्यर्थः । तत् कथमित्यतस्तल्लक्षणाक्रान्ततामेवोपदर्शयति- विवक्षितस्येत्यादि ।। यथा चोक्तनित्यसमालक्षणाक्रान्तत्वं तथा शेषवाक्यार्थचन्द्रिकायाम् अस्माभिः प्रपञ्चितम् । तत एव प्रतिपत्तव्यम् ।

गोविन्दीया

अतोऽसाविति  ।।  युक्ताङ्गहीनत्वं नामासाधारणं सामर्थ्यविधुरं नाम जात्युत्तरमि-त्यर्थः । प्रकृष्टेति ।। सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्र सत्यादिपदानां ब्रह्मस्वरूपमात्रवाचकत्वे पर्यायत्वेन व्यर्थत्वापत्त्या वाच्यार्थानुपपत्तेर्लक्षणाश्रयणमिति परेणान्तरङ्गानुपपत्तिरूपा बाधाऽभिहिता, सा च प्रकृष्टप्रकाशश्चन्द्र इत्यादिना परिहृतेत्यर्थः । नन्विति ।। सिद्धमपि, पक्षे सिद्धमपि व्याप्त्यभावाद् युक्तहेतुदूषणासमर्थं ह्रदसाधर्म्याद् द्रव्यत्वान्निरग्निकः किं न स्यात् ? इत्यत्र द्रव्यत्वादिति हेतुवचनं जात्युत्तरमित्युच्यत इत्यर्थः । तत्रेति ।। तत्र तर्करूपवाक्ये स्वव्याहतिरूपसाधारणेनासामर्थ्येने-त्यर्थः । इत्यादीति ।। विशिष्टज्ञानाभावे इत्याद्यापादनरूपतर्कान्तरप्रवृत्तिरेव न स्यादित्यर्थः । एवमिति ।। यथा विशिष्टादिकमपेक्षितं तथा विशेषणं भेदश्चापेक्षित इत्यर्थः । तथा चेति ।। तर्कान्तरे विपर्यये पर्यवसानत्वेन स्वापेक्षणीयमेव विशिष्टादिकं तर्कं निराकुर्वन्नयं प्रतिवादी ‘स्वोत्थानं१ स्वरचिततर्कोत्थानमेव व्याहन्तीति कथं न जात्युत्तरमित्यर्थः । परसिद्धमिति ।। परसिद्धमेव भिन्नादिकमङ्गीकृत्य तर्कान्तरप्रवृत्तेर्नैवं, न व्याहतत्वमिति, चेदित्यर्थः । परसिद्धमात्रेणेति ।। तत्र तर्कान्तरे । न चान्यमानीयते, अपि तु दण्डविशिष्टमेवेति विपर्यये पर्यवसानाद्यनुपपत्तेरित्यर्थः । आदिपदेन पक्षनिर्देशव्याप्त्यादिज्ञानं ग्राह्यमिति भावः । तत्रेति ।। विपर्यये पर्यवसाने नियमेन विशेषाद्यपेक्षा वर्तत इत्यर्थः । इति सङ्क्षेप इति ।। व्याहतित्वपरिहाररूपशङ्कास्तदुपपादकरूपपरिहारा अपि बहवस्तिष्ठन्ति ग्रन्थविस्तारभयादिति सङ्क्षेप इत्यर्थः ।

नारोपन्तीया

अन्तरङ्गानुपपत्तिबाधेति । स्वरूपमात्रप्रश्नत्वान्यथानुपपत्त्या प्रकृष्टप्रकाशश्चन्द्र इति वाक्यस्याखण्डार्थतेति अन्तरङ्गानुपपत्तिः परस्याभिप्रेता । सिद्धान्तिना च प्रश्नस्यैव विशिष्टार्थ-विषयतायाः समर्थितत्वात्, तादृशानुपपत्तिलक्षणबाधा परिहृतेत्यर्थः । बाह्यतर्कबाधेति ।। विशेषणविशेष्यसम्बन्धात्मके वा तदतिरिक्ते वा विशिष्टेऽङ्गीक्रियमाणेऽतिप्रसङ्गोऽनवस्था चेत्यादिप्रसञ्जनरूपतर्कबाधा पूर्वोक्तवदन्तरङ्गत्वाभावाद्वा बहिरङ्गानुपपत्तिरिति यावत् । साऽपि परिहृतेत्यर्थः । तत्र च विशिष्टाद्यपेक्षानियम इति ।। तत्र विपर्यये पर्यवसाने पराभ्युपगत-स्यार्थस्याभावः पक्षे स्वीकार्यः । अन्यथा परोक्तदूषणस्यैव सङ्गततापातात् । तथा च- पक्षत्वाभि-मतस्य तादृशाभाववैशिष्ट्यमन्ततोऽभ्युपगतम् । परेण च प्रतियोगिवैशिष्ट्यमित्युभयोरपि विशिष्टाङ्गीकारित्वात् तद्दूषणे पुनर्व्याघात इति भावः ।

जनार्दनभट्टीया

ननु विशिष्टादिनिराकरणतर्कस्य ब्रह्मण्यपि सञ्चारोपपादनेनैव तद्बाधस्य परिहृतत्वात् ‘अतो विशिष्टात्’ इति मूलस्य पौनरुक्त्यमित्यत आह – उपसंहरतीति ।। एवञ्च उपसंहाररूपत्वात् न पौनरुक्त्यमिति भावः । अथ अन्नत्वनिराकरणतर्कस्य निरासस्य प्रकृतत्वात् तन्निरासपरत्वभ्रान्तिं वारयन् अवतारयति – दृष्टस्य वस्तुन इत्यादिनेति ।। विशिष्टनिराकरणतर्कस्य जात्युत्तरत्वसिद्धये स्वव्याहत्याख्यमसामर्थ्यमस्तीति उपपादयति –  विशिष्टादिनिराकरणेति ।। युक्ताङ्गहीनतामात्रे-णेति ।। उचिताङ्गपञ्चकवैकल्यमात्रेणेत्यर्थः । विशिष्टादिकमपेक्ष्येति ।। विशिष्टं निर्दिश्य, तद्विशिष्टं विशेषणाद्यपेक्षया भिन्नमभिन्नं वा इत्यादिरूपेण तर्कप्रवृत्तेरिति भावः । एतदेव व्यतिरेकमुखेन दृढयति–  भिन्नादिविशिष्टेत्यादिना ।। तत्र चेति ।। परसिद्धविशिष्टादिकमादाय विपर्ययपर्यवसानाद्यनुपपत्तौ सिद्धायामित्यर्थः ।