बाध्यत्वानुमानस्य ईश्वरसाधककार्यत्वानुमानवैलक्षण्योपपादनम्

बाध्यत्वानुमानस्य ईश्वरसाधककार्यत्वानुमानवैलक्षण्योपपादनम्

न च धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति

श्रीमज्जयतीर्थटीका

ननु सर्वज्ञासर्वज्ञकर्त्रोः कर्तृत्वसामान्यस्य प्रागसिद्धेः कार्यत्वादिना क्षित्यादिकर्तृमात्र-सिद्धावीश्वरसिद्धिरेवं  सति  दुर्लभा  स्यात्    न स्यात् । न हि क्षित्यादिकर्तृताव्यतिरिक्तमीश्वरत्वं सिषाधयिषितम् । यदर्थं पुनरारम्भो भविष्यति । सर्वज्ञत्वादेरपि तदन्तर्भावात् । ये तु कार्यत्वादिना कर्तृमात्रसिद्धिमङ्गीकृत्य सार्वज्ञ्यादिसिद्धौ पुनः परिशेषेण प्रयतन्ते तेषां कथमिति चेन्न । यतोऽस्त्यत्र प्रमेयविशेषः । यन्मिथ्यात्वसाधने यथाऽसत्त्वस्यैव प्रतीतिर्न तथा कर्तृत्वसाधनेऽ-सार्वज्ञ्यादिप्रतीतिर्येन सत्प्रतिपक्षता स्यात् । यः कर्ता नासौ सर्वज्ञ इत्यस्त्येवेति चेन्न । प्रकृते मिथ्यात्वस्यैवासत्त्वेन तेन तदसाधनात् । अस्य चाऽश्रयासिद्ध्यादिना निराकरणात् ।

श्रीविजयीन्द्रभिक्षु

मिथ्येति ।। सद्विविक्तमित्यर्थः१ । उक्तानुमानेन सद्विविक्तत्वसिद्धावपि असद्विविक्त-त्वासिद्धेः सदसद्विविक्तत्वरूपानिर्वचनीयत्वासिद्धिरित्याशङ्क्य परिशेषात् तत्सिद्धिमभिप्रेत्याऽह- न चैवमिति ।। प्रतीतत्वादिति ।। अपरोक्षप्रतीतिविषयत्वादित्यर्थः । ननु ‘न च धूमत्ववत्’ इत्यत्र दूषणान्तरसमुच्चयार्थकचशब्दोऽनर्थकः । विवादपदं मिथ्येत्यनुमाने दूषणस्य प्रागनभिधानादित्या-शङ्क्याऽह- चशब्द इति ।। यद्वा ‘न च धूमत्ववत्’ इति वाक्यं कथमनुमानान्तरनिरासकत्वेन व्याख्यायते । पूर्वोक्तदूषणसमुच्चयार्थकचशब्दानुपपत्तेरित्यत आह- चशब्द इति ।। नन्वत्र किम् इतिशब्दः प्रकारार्थः किं वा हेत्वर्थः ।  नाऽद्यः ।  मिथ्यात्वे प्रकारत्वकीर्तनस्य व्यर्थत्वात् । न द्वितीयः । मिथ्यात्वस्य प्रकृते साध्यत्वेनाहेतुत्वात् । न चोभयसम्प्रतिपन्नं सामान्यमित्यनेन सम्बद्ध्यते । तथा चोभयसम्प्रतिपन्नं सामान्यरूपत्वाद्धेतोरिति वाक्यार्थसम्पत्तेः हेत्वर्थत्वे नानुपपत्तिरिति वाच्यम् । व्यवहितान्वयापत्तेरित्याशङ्क्याऽह- इतिशब्द इति ।। निर्देशार्थत्वमेव दर्शयति- मिथ्यात्वेति ।। मूले सामान्यम् असदनिर्वचनीयसाधारणमित्यर्थः।

व्याचष्टे-स्यादेतदेवमिति ।। प्रागित इति ।। मिथ्यात्वानुमानप्रवृत्तेः प्रागित्यर्थः । न चाश्रयेति ।। यद्यपि धर्मिसत्तानिरपेक्षज्ञेयत्वादिकमिव सद्विविक्तत्वमप्यसदनिर्वचनीययोः सामान्यं भवितुमर्हति तथाऽपि न चानिर्वचनीये किञ्चिन्मानम् इत्युक्तरीत्या अनिर्वचनीये मानाभावेन साध्यमानं सद्विविक्तत्वमसत्त्वमेव पर्यवस्यतीत्यत्र तात्पर्यमिति ध्येयम् । अत इति ।। यतो न मिथ्यात्व-मसदनिर्वचनीयसाधारणमत इत्यर्थः । प्रतीतौ सत्यामिति ।। प्रतीतिस्वरूपयोग्यतयेदमुदितमिति ध्येयम् । पुनस्तन्निषेध इति ।। पुनःशब्दस्त्वर्थः । तथा च बाध्यत्वानुमानस्य शुक्ति-रजतादेरसत्त्वमादायैव पर्यवसिततया तत्रैव शुक्तिरूप्यादौ ‘नेदमसत् प्रतीतत्वात्’ इति तन्निषेध-साधने तु तृतीयप्रकाराभावात् सत्त्वमादायैव पर्यवसानस्य वक्तव्यतया परस्परप्रतिरोधेन बाध्यत्व-प्रतीतत्वानुमानयोः द्वयोरपि प्रतीत्यजनकत्वेनाप्रामाण्यापत्तिरित्यर्थः । पूर्वं परस्परप्रतिरोधेन मिथ्यात्वप्रतीतिरेव दुर्लभेत्युक्तम् । सम्प्रति भवतु तत्प्रतीतिः । तथाऽपि नानिर्वचनीयसिद्धिः । प्रतीतत्वहेतुना असत्त्वप्रतिक्षेपानुपपत्तेरित्याह- असत्प्रतीतेरिति ।। असतोऽपरोक्षप्रतीतेरित्यर्थः ।

नन्वनिर्वचनीयाभावेनासदनिर्वचनीयसाधारणमिथ्यात्वाभाववत् सर्वज्ञेश्वररूपाश्रयाभावेन सर्वज्ञासर्वज्ञसाधारणं कर्तृत्वमेव नास्तीति कार्यत्वहेतुना क्षित्यादौ कर्तृमात्रसिद्ध्यनन्तरं तस्य परिशेषेणेश्वरत्वसार्वज्ञ्यादेः सिद्धिरिति न स्यादिति शङ्कते- ननु सर्वज्ञेति ।। सत्यम् । परिशेषेणेश्वरादिसिद्धिमिच्छतो दूषणमिदम् । न त्वस्माकम् । अस्माभिर्योग्यायोग्यसकलतदुपा-दानादिगोचरापरोक्षज्ञानादिमत्त्वस्यैव ईश्वररूपत्वाङ्गीकारेण तत्सिद्धेरेव तत्सिद्धित्वोपगमादि-त्याशयेन परिहरति- न स्यादिति ।। ये त्विति ।। एतन्मतेऽपि दृष्टान्तदार्ष्टान्तिकयोः वैषम्यान्नोक्तरीत्या प्रतिबन्द्यवतारः । अत्र हि दार्ष्टान्तिके प्रथमतो बाध्यत्वानुमानेन सिषाधयिषित-मिथ्यात्वस्योक्तरीत्या अनिर्वचनीये मानाभावेनासत्त्वरूपेणैव पर्यवसितस्य तस्य द्वितीयेन प्रतीतत्वानुमानेन निषेधे तन्निषेधस्य सत्त्व एव पर्यवसानाद् बाध्यत्वप्रतीतत्वहेत्वोः परस्पर-विरुद्धार्थज्ञापकत्वेन१ प्रतिपक्षतापर्यवसानवद् दृष्टान्ते कार्यत्वरूपप्रथमहेतुना क्षित्यादौ सिषा-धयिषितकर्तृमात्रस्य क्षित्यादिकर्तृत्वरूपद्वितीयहेतुना सिषाधयिषितसर्वज्ञत्वादेः तदविरुद्धार्थत्वेन कार्यत्वक्षित्यादिकर्तृत्वहेत्वोः प्रतिपक्षतया पर्यवसानाभावाद्वैषम्यमिति परिहारं वक्तुमाह- यतोऽस्त्यत्रेति ।।

ननु क्षित्यादिकर्तृसाधककार्यत्वानुमानतत्कर्तृसार्वज्ञ्यादिसाधकक्षित्यादिकर्तृत्वानुमानयोः परस्परविरहरूपसाध्यासाधकत्वेऽपि तद्विरहव्याप्यसाध्यसाधकत्वेन परस्परप्रतिपक्षता भविष्यती-त्यभिप्रेत्य शङ्कते- यः कर्तेति ।। व्याप्तेः साधनाङ्गत्वेन तदुपन्यासेनापि साधनमुपन्यस्तप्रायं भवतीति तन्मात्रोपन्यासः । एवमपि तद्दृष्टान्तस्य दार्ष्टान्तिकानानुगुण्यशङ्काया दुष्परिहारत्व-मभिप्रेत्य तदननुगुणत्वमेवोपपादयितुं प्रकृते दार्ष्टान्तिके बाध्यत्वानुमानसिद्धमिथ्यात्वस्यैवासत्त्व-रूपतया पर्यवसितत्वेन तेन तथा पर्यवसितमिथ्यात्वेन स्वनिषेधस्यासत्त्वाभावस्य परेणासाधनात्, किन्तु प्रतीतत्वेनैव तत्साधनात् क्षित्यादौ कर्तृसाधककार्यत्वानुमानेन च दृष्टान्ते तत्सिद्धकर्तृत्वेनैव तत्सिद्धकर्तृसार्वज्ञ्यादिनिषेधसाधनादित्याह-  प्रकृत इति ।।  ननु भवतु दृष्टान्तदार्ष्टान्तिकयोर्वैष-म्यम् । न हि तावन्मात्रमुपाध्यादिवदनुमानस्याऽभासतासम्पादकम् । तथा चासर्वज्ञकर्तृसाधककार्य-त्वानुमानसार्वज्ञ्यसाधकक्षित्यादिकर्तृत्वहेत्वोः स्थितमेव प्रतिपक्षत्वमित्यत आह- अस्य चेति ।। सार्वज्ञ्यादिसाधकक्षित्यादिकर्तृत्वरूपहेतोश्च क्षित्यादिकर्तृसिद्धेः प्रागाश्रयासिद्ध्या क्षित्यादि-कर्तृत्वरूपहेत्वसिद्ध्या च दुष्टत्वेनातुल्यबलवत्तया न सत्प्रतिपक्षत्वम् । तत्सिद्ध्यनन्तरञ्च कार्यत्वा-नुमानफलस्य सिद्धतया तत्प्रतिबन्धकत्वाभावेन न प्रतिपक्षत्वमित्युभयथाऽपि सत्प्रतिपक्षत्व-शङ्कानवकाश इति भावः ।

श्रीवेदेशतीर्थ

असत्त्वप्रतिक्षेपानुपपत्तिश्चेति ।। तथा च परिशेषानुमानानुपपत्तावर्थान्तरमेवेति भावः । ननु ‘क्षित्यादिकं सकर्तृकं कार्यत्वात्’ इति कर्तृमात्रसिद्धौ ‘अयं कर्ता नासर्वज्ञः क्षित्यादिसर्वकर्तृत्वात् व्यतिरेकेण देवदत्तवत्’ इति परिशेषेणेश्वरसिद्धिरेष्टव्या । सा चायुक्ता । सर्वज्ञासर्वज्ञकर्त्रोः कर्तृत्व-सामान्यस्य प्रागीश्वरसिद्धेरसिद्धेः । तथा च क्षित्यादिकं सकर्तृकमित्युक्ते कर्तुरसर्वज्ञस्यैव प्रतीतेः नासर्वज्ञ इत्युक्ते सत्प्रतिपक्ष इत्यभिप्रेत्य शङ्कते- नन्विति ।। नन्वीश्वरसिद्ध्यर्थं पुनरनुमानान्तरा-रम्भाभावेऽपि तस्य सार्वज्ञ्यादिसिद्ध्यर्थमुक्तप्रकारेण पुनरारम्भः स्यादित्यत आह- सर्वज्ञत्वादे-रिति ।। तदन्तर्भावात् क्षित्यादिसर्वकर्तृत्वान्तर्भावात् । सर्वकर्ता ह्यनेनानुमानेन सिद्धः । क्षित्यादि-पदेन जन्यमात्रस्य पक्षत्वात् । न च सपक्षाभावप्रसङ्गः । घटस्यैव सपक्षत्वात् । जन्यत्वेन रूपेण पक्षस्यापि तस्य घटत्वेन रूपेण सपक्षत्वाविरोधात् । कर्तृत्वं च कार्यक्रियाकारकफलाभिज्ञान-तदिच्छाप्रयत्नपूर्वकस्पन्दः । ततश्च सर्वकर्तृत्वे सर्वज्ञः सत्यकामः सत्यसङ्कल्पः समस्तशक्तिसमन्वित एव सिद्ध्यतीति भावः । नन्वनेनानुमानेन सार्वज्ञ्यादिसिद्धेर्विष्णुतत्त्वनिर्णयादौ दूषितत्वेन कथं तेन तत्सिद्धिरिति चेन्न । आगमानपेक्षोक्तानुमानेनेश्वरादिसिद्धेस्तत्र दूषितत्वात् । तत्सापेक्षस्य तु तस्य तत्साधकत्वाविरोधादिति भावः । कर्तृमात्रसिद्धिमिति ।। अस्मिन् पक्षे ज्ञानप्रवेशं विना प्रयत्न-घटितमेव कर्तृत्वं विवक्षितमिति द्रष्टव्यम् । मिथ्यात्वसाधन इति ।। मिथ्यात्वसाधनेऽसत्त्वस्यैव प्रतीतौ नेदमसदित्युक्ते यथा सत्प्रतिपक्षः तथा न सकर्तृत्वसाधनेऽसार्वज्ञ्यादिप्रतीतिः । येन विमतो नासर्वज्ञ इति साधने सत्प्रतिपक्षः स्यादित्यर्थः । ननु सकर्तृत्वसाधनेऽसार्वज्ञ्यादिप्रतीत्यभावेऽ-प्यनेनानुमानेन कर्तृमात्रसिद्धावपि ‘विमतः कर्ता न सर्वज्ञः कर्तृत्वात् यः कर्ता नासौ सर्वज्ञः यथा कुलाल इत्यनुमानात्’  असार्वज्ञ्यप्रतीतौ  पश्चात्परिशेषानुमाने सत्प्रतिपक्ष एवेत्यभिप्रेत्य शङ्कते- यः कर्तेति ।। प्रकृत इति ।। यथा त्वया सामान्यतः कर्तृसिद्धौ कर्तृत्वेनासार्वज्ञ्यं साध्यते न तथाऽस्माभिः सामान्यतो मिथ्यात्वसिद्धौ मिथ्यात्वेनासत्त्वं साध्यते । मिथ्यात्वस्यैवासत्त्वेन साध्यावैशिष्ट्यापत्तेः । तथा च प्रमेयवैषम्यमेवेति भावः । ननु तर्हि कर्तृत्वेनासार्वज्ञ्यसाधने साध्या-वैशिष्ट्याभावात्तेन तत्प्रतीतौ परिशेषानुमाने सत्प्रतिपक्षता स्यादिति न सार्वज्ञ्यसिद्धिरित्यत आह- अस्य चेति ।। ‘विमतो न सर्वज्ञः कर्तृत्वात्’ इत्यनुमानस्येत्यर्थः । विमत ईश्वरः सिद्धो न वा । नेति पक्षे आश्रयासिद्धिः । सिद्धत्वे तस्य क्षित्यादिकर्तृत्वेनैव सिद्धौ सार्वज्ञ्यसाधकपरिशेषानुमानरूपस्य च तस्य सार्वज्ञ्याभावे क्षित्यादिकर्तृत्वमेव न स्यादित्यनुकूलतर्कोपेतत्वेन प्राबल्यात्तद्बाध इत्यर्थः । यद्यसर्वज्ञः स्यात्तर्हि क्षित्यादेः कर्ता न स्यादिति प्रतिकूलतर्कबाधः । सर्वकार्यक्रियाकारकफलाभि-ज्ञानाभावे चिकीर्षाऽसम्भवेन प्रयत्नानुपपत्तौ तद्घटितकर्तृत्वस्याप्यनुपपत्तेः । तथा चासार्वज्ञ्य-साधकानुमानस्योभयथाऽपि दुर्बलत्वेन सामान्यसिद्धिपरिशेषाभ्यां सार्वज्ञ्यसिद्धिरप्रत्यूहैवेति भावः ।

केचित्तु- ननु क्षित्यादिकर्तृसाधककार्यत्वानुमानतत्कर्तृसार्वज्ञ्यादिसाधकक्षित्यादिकर्तृत्वा-नुमानयोः परस्परविरहरूपसाध्यासाधकत्वेऽपि तद्विरहव्याप्यसाध्यसाधकत्वेन परस्परप्रतिपक्षता सम्भवतीत्यभिप्रेत्य शङ्कते- यः कर्तेति ।। एवमपि प्रमेयवैषम्यमेवेत्युपपादयितुं प्रकृते बाध्यत्वानु-मानसिद्धस्य मिथ्यात्वस्यैवासत्त्वरूपतया तेन तथा पर्यवसितमिथ्यात्वेन स्वनिषेधस्य परेणा-साधनात् प्रतीतत्वेनैव तत्साधनात् क्षित्यादौ कर्तृसाधककार्यत्वानुमाने च तत्सिद्धकर्तृत्वेनैव सार्वज्ञ्यनिषेधसाधनादित्याह- प्रकृत इति ।। ननु भवतु प्रमेयवैषम्यम् । न हीदं हेत्वाभासतापादक-मुपाध्यादिवत् । तथा चासर्वज्ञकर्तृसाधककार्यत्वानुमाने सार्वज्ञ्यसाधकक्षित्यादिकर्तृत्वहेतोः स्थितमेव सत्प्रतिपक्षत्वमित्यत आह- अस्य चेति ।। सार्वज्ञ्यसाधकक्षित्यादिकर्तृत्वहेतोश्च क्षित्यादिकर्तृसिद्धेः प्रागाश्रयासिद्ध्या क्षित्यादिकर्तृत्वरूपहेत्वसिद्ध्या च दुष्टत्वेनातुल्यबलतया न सत्प्रतिपक्षत्वम् । तत्सिद्ध्यनन्तरं च कार्यत्वानुमानफलस्य सिद्धतया तत्प्रतिबन्धकत्वाभावेन न सत्प्रतिपक्षत्वमित्युभयथापि सत्प्रतिपक्षत्वशङ्कानवकाश इति भाव इत्याहुः ।

अत्र बाधवत्सत्प्रतिपक्षस्यापि साक्षात्प्रतिबन्धकत्वेन ग्राह्याभावावगाहित्वस्यैव सर्वैरङ्गी-कृतत्वेन ग्राह्यविरहव्याप्यावगाहित्वेन सत्प्रतिपक्षत्वशङ्कैव कथमिति चिन्त्यम् ।

द्वैतद्युमणि

अस्तु तर्हीति ।। विवादपदमिति ।। असत्त्वानिर्वचनीयत्वाभ्यां विप्रतिपत्तिविषयीभूतं शुक्तिरजतादिकमित्यर्थः ।

अनिर्वचनीयत्वे मानमिति ।। पूर्वोक्तरीत्या परम्परया मानमित्यर्थः । अन्यथैतदनुमानेन सद्विविक्तत्वस्यैव सिद्ध्याऽनिर्वचनीयत्वे मानत्वोक्त्यसङ्गतेः ।

परम्परयाऽनिर्वचनीयत्वसाधकत्वरूपस्वाभिप्रायमाविष्करोति- समानमिति ।। निर्विशेषस्येति ।। विशेषधर्मप्रकारकज्ञानासहितस्य केवलसामान्यधर्मप्रकारकज्ञानस्य विशेषार्थिप्रवृत्त्याद्यनुपयुक्त-त्वेनेति पर्यवसितार्थः । इदं च विशेषजिज्ञासाद्वारा वक्ष्यमाणविशेषसिद्ध्यनुकूलतयाऽभिहितम् ।

आश्रयासिद्धाविति ।। यादृशरूपविशिष्टधर्मिणमन्तरा यादृशधर्मस्य तत्साधारण्यादिना सामान्यता न सम्भवति तादृशधर्माश्रयधर्मिग्रहाभाव इत्यर्थः । सामान्यं तत्साधारण्यादि-सामान्यत्वविशिष्टम् । सिद्धं ज्ञातं भवतीत्यर्थः । यथाश्रुतं तु न सङ्गच्छते । शशविषाणनरविषाण-रूपाश्रययोः स्वरूपाभावरूपासिद्धिसम्भवेऽपि सत्यविवेकलक्षणसामान्यस्य तत्र सत्त्वात् असद्रूपा-श्रयाभावेऽप्यसति १सति च ज्ञेयत्वशशविषाणत्वादिरूपसामान्यस्याङ्गीकृतत्वाच्च । उक्तव्याख्यायां तु न दोषः । धूमत्वादेर्धर्मस्य कालसम्बन्धित्वादिधर्मविशिष्टधर्मिमात्रसापेक्षत्वात् पर्वतीयधूम-बाष्पारोपितधूमादिनिष्ठतत्तद्व्यक्तित्वादीन् प्रति सामान्यधर्मत्वज्ञानं प्रति तत्तद्धूमेषु काल-सम्बन्धित्वज्ञानमपेक्षितम् । बाष्पारोपितधूमे कालसम्बन्धित्वादिसत्त्वग्रहाभावान्न तस्य तान् प्रति सामान्यधर्मत्वग्रहः । ज्ञेयत्वाभावप्रभृतीनां तु स्वस्वाश्रयीभूतधर्मिमात्रसापेक्षत्वनियमात् धर्मि-स्वरूपमात्रग्रहे तत्र सदात्मके असदात्मके चाभावज्ञेयत्वादीनां वृत्तित्वग्रहेण तस्य सामान्यरूपत्व-ग्रहः । प्रकृते च सद्विवेकस्यासत्त्वतद्व्यावृत्तानिर्वचनीयत्वोभयं प्रति सामान्यधर्मत्वज्ञानं प्रति असत्त्वाश्रयीभूतधर्मिणो असत्वेन ज्ञानस्य अनिर्वचनीयत्वाश्रयधर्मिणस्तु असद्व्यावर्तककाल-सम्बन्धित्वादिरूपेण ज्ञानस्यावश्यकतयैतदनुमानात् प्राक् केषामपि तादृशग्रहाभावेन सदसदुभय-ज्ञानस्यैव सत्त्वेन तस्य सामान्यरूपत्वज्ञानं दुर्घटमित्यभिप्रायस्य लाभात् ।

दुर्लभेति ।। सर्वज्ञकर्तृरनुपस्थित्या जायमानानुमितिः सकर्तृकत्वत्वेनासर्वज्ञकर्तृकत्वमेव क्षित्यादाववगाहते । परिशेषे प्रवृत्तस्य पुनस्तन्निषेधे उभयाप्रामाण्यमेव स्यादित्यर्थः । दृष्टान्ता-सम्मत्योक्तिं तावत् खण्डयति- न हीति ।। पुनरारम्भः परिशेषाय प्रसक्तप्रतिषेधावसरः । तर्हि क्षित्यादिकर्तुः सर्वज्ञत्वासिद्ध्या कथमीश्वरसिद्धिरित्यत आह- सर्वज्ञत्वादेरपीति ।। उपादान-गोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वस्यैव प्रथमानुमानसाध्यतया तेनैवेश्वरस्य सिद्धत्वादिति भावः । उदाहरणान्तरसम्भवान्न प्रमेयखण्डनं भवतीत्याशयेन शङ्कते- ये त्विति ।। हविरादि-जन्यादृष्टद्वारा जीवकर्तृकत्वमादाय सिद्धसाधनतावारणायाननुगमभिया स्वोपादानेतिक्रमं विहाया-दृष्टद्वारा कृतिमत्पुरुषजन्यत्वं प्रसाध्येश्वरसिद्धयेऽसर्वज्ञकर्तृकत्वं निषेधयतामित्यर्थः । भवदुक्तस्थले सामान्यविशेषरूपद्वयसत्वादुक्तन्यायसम्भवेऽपि प्रकृते असत्वसद्विविक्तत्वयोरैक्यमेव । न सामान्यविशेषाभावः । इत्याशयेनोक्तदोषं निराह- नेत्यादिना ।। मिथ्यात्वेति ।। सर्वैर्लौकिकैस्त्वदितरवैदिकैः प्रेक्षावद्भिश्च मिथ्यालीकानृतासदादिशब्दानां पर्यायेणैव प्रयोगेणा-सदादिपदमिथ्यापदार्थतावच्छेदकैक्यस्यैव सर्वैर्गृहीतत्वान्मिथ्येत्युक्तेऽसत्त्वस्यैव प्रतीतिः । तयोः सामान्यविशेषभावे ‘यत्किञ्चित् पृथिवी न घटः’ इतिवत् ‘यत्किञ्चिन्मिथ्या नासत् नालीकम्’ इत्यादिव्यवहारस्य क्वचिदपि लोके अभियुक्तशास्त्रे चाऽपत्तेः । सत्त्वासत्वातिरिक्ततृतीय-प्रकारमिथ्यात्वरूपसामान्यधर्माश्रयस्य लोकानुभवसिद्धत्वे तदव्यवहारे बीजाभाव इति भावः । न तथेति ।। कर्तृत्वस्यैतन्मते ज्ञानाद्यघटिततया कृत्याश्रयत्वमात्रेणैव कर्तृरनुमानेन प्रतीतिः । तथा च कृत्याश्रयजन्यक्षित्यादावसर्वज्ञजन्यत्वाभावसाधने तादृशकर्तरि असर्वज्ञभेदसाधने वा प्रथमानुमानसाध्याभावसाधनाभावान्न सत्प्रतिपक्षत्वमिति भावः ।

इत्यस्येवेति ।। व्याप्तिसदसद्भावकृत एवासत्वोपस्थितिनियमोऽसर्वज्ञकर्तृकत्वोपस्थित्यभावश्चेति वैषम्यमनुमानद्वये सिद्धान्त्यभिप्रेतमित्यभिमानः शङ्ककस्य वर्तत इत्येवमर्थं अत्रैव इत्येवकारो ध्वनयति, अत्राप्यस्त्येव तत्र को विशेष इति रीत्या । पराभिमानं निराकृत्य समाधत्ते-प्रकृत इति ।। मिथ्यात्वस्यैवासत्त्वेनेति ।। पूर्वोक्तरीत्या असत्पदार्थतावच्छेदकत्वेनासत्त्वरूपत्वेनेति वाऽर्थः । तेन सद्विविक्तत्वरूपमिथ्यात्वेन । तदसाधानात् व्याप्तिबलेनासत्त्वग्रहस्यानङ्गीकारात् । तथा च सद्विविक्तत्वसाधनमेवासत्त्वसाधनरूपमिति पुनस्तन्निषेधे सत्प्रतिपक्षतैव स्यादिति भावः । ननूक्तपरोक्तदूषणायासत्त्वमिथ्यात्वयोरैक्यस्येदानीमभिप्रेतत्वे मूले तथैव वक्तव्यम् । किमर्थं तस्य सामान्यरूपतानिराकरणम् । अनुपयुक्तत्वादित्यत आह- अस्य चेति ।। मिथ्यात्वस्यैवासत्त्वेनेति पूर्ववाक्ये एवकारेणासत्त्वे १मिथ्यात्वसामान्यरूपत्वावच्छिन्नान्यस्य तादात्म्यं व्यवच्छिद्यते । प्रथमान्तातिरिक्तविशेषणसङ्गतैवकारेणान्ययोगव्यवच्छेदात् । मिथ्यात्वान्यस्मिन्नसत्पदार्थताव-च्छेदकत्वस्य वाऽसत्त्वरूपत्वस्य वा निराकरणेऽसत्तदन्यसाधारणसामान्यरूपे मिथ्यात्वतादात्म्य-स्यार्थतो व्यवच्छिन्नत्वात् । एवञ्च पूर्ववाक्ये तस्य प्रक्रान्तत्वेन वा एतन्मूलव्याख्यावसरे तस्य बुद्धिस्थत्वेन वा अस्येति मिथ्यात्वस्यासत्त्वान्यसामान्यधर्मतादात्म्यं परामृशति । तथा च मिथ्यात्वस्य सामान्यरूपतयाऽसत्त्वान्यतादात्म्यस्य, आश्रयासिद्ध्यादिना असदन्यानिर्वचनीय-रूपाश्रयस्यासदन्यत्वेनासिद्ध्या, आदिपदोपात्तेन च तत्प्रयुक्तसामान्यरूपत्वनिराकरणेन च निराकरणादित्यर्थः । सामान्यरूपतानिराकरणं विना मिथ्यात्वस्यासत्त्वरूपताया व्यवस्थापयितु-मशक्यत्वात् तदर्थं सामान्यरूपतानिराकरणं मूलकृतो युक्तमिति भावः । एतत्पक्षे ‘मूलं नानुपयुक्तम्’ इति पञ्चम्यर्थं प्रति साध्यसमर्पकत्वेनाध्याहर्तव्यम् ।

श्रीराघवेन्द्रतीर्थ

असति प्रसिद्धत्वेनेति ।। प्रतिवादिमत इति योज्यम् । यद्वा सद्विविक्तत्वरूपमिथ्यात्वा-भिप्रायेणैवमुक्तिः । तस्मिन्निति ।। सत्यविवेकरूपे मिथ्यात्व इत्यर्थः । अनुमानान्तरेति ।। अनिर्वचनीयत्वसाध्यकानुमानान्मिथ्यात्वसाध्यकानुमानान्तरेत्यर्थः । निर्देशार्थ इत्युक्तं व्यनक्ति - मिथ्यात्वाख्यमिति ।। मूलं व्याचष्टे- स्यादेतदिति ।। प्रागित इति । त्वदनुमानात्प्रागित्यर्थः । पुनस्तन्निषेध इति ।। ‘नेदमसत् प्रतीतत्वात्’ इति प्रागुक्तानुमानेनेत्यर्थः । असत्त्वप्रतिक्षेपेति ।। प्रतीतत्वहेतुनेति योज्यम् । प्रागिति । ईश्वरसिद्धेः प्रागित्यर्थः । कार्यत्वादिनेति । आदिपदेन-

कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः ।’२

इत्यादिना उदयनोक्तहेत्वन्तरग्रहः । एवं सतीति ।। कर्तृत्वसामान्यस्य ३सर्वज्ञासर्वज्ञयोरसिद्धत्वे सतीत्यर्थः । निराह - न स्यादिति ।। तदन्तर्भावात् कर्तृतान्तर्भावादित्यर्थः । उपादानादिगोचरा-परोक्षज्ञानादिमत्त्वरूपत्वात् कर्तृत्वस्येति भावः । परिशेषेणेति । ‘क्षित्यादिकर्ता न देवदत्तादिः, अल्पज्ञत्वाल्पशक्तित्वादेः । अतोऽन्यः कश्चित्सार्वज्ञ्यादिमान्’ इति परिशेषेणेत्यर्थः । सत्प्रति-पक्षतेति ।। कार्यत्वहेतोः परिशेषप्रमाणेन सहेत्यर्थः । कर्तृत्वसाधनेऽसार्वज्ञ्यस्य तदन्तर्गतत्वेना-प्रतीतावपि तदविनाभूततयाऽस्ति प्रतीतिः । अतः प्रतिपक्षता परिशेषेण सार्वज्ञ्यादिसाधकेनेति भावेन शङ्कते -  यः कर्तेति ।। तर्हि कार्यत्वानुमाने प्रतिपक्षतानिरासः कथमित्यत आह- अस्य चेति ।। १कार्यत्वहेतुसिद्धः कर्ता न सर्वज्ञः कर्तृत्वात् यः कर्ता नासौ सर्वज्ञ इत्यस्येत्यर्थः । कर्तुरसिद्धावाश्रयासिद्धिः । सिद्धौ च परिशेषादिसहकृतं सर्वज्ञमेव कर्तारं कार्यत्वं गमयतीति बाधेन च निराकरणादित्यर्थः ।निर्विशेषस्य धर्मिविशेषे पर्यवसानरहितस्य । प्रतिबन्दीमाशङ्कते- नन्विति ।। प्रागीश्वर-सिद्धेरिति । एतदनुमानात्प्राक् सर्वज्ञकर्तरीश्वरे सिद्धे सति तत्र कर्तृत्वसामान्यं सिद्धं स्यात् । न चैवम् । एतदनुमानात्प्राक् सर्वज्ञकर्तुरीश्वरस्यासिद्धत्वेन तत्र कर्तृत्वसामान्यमप्यसिद्धमित्यर्थः । अयं भावः । क्षित्यादिकं सकर्तृकं कार्यत्वादित्यनुमानेन कर्तृमात्रे सिद्धे सति निर्विशेषस्य सामान्यस्य प्रत्येतुमशक्यत्वादसर्वज्ञकर्तरि पर्यवसानशङ्कायामयं कर्ता नासर्वज्ञः क्षित्यादिकर्तृत्वाद्व्यतिरेकेण देवदत्तवदित्यनुमानेन२ कर्तुरसर्वज्ञत्वे प्रतिक्षिप्तेे सति सर्वज्ञः कर्तेश्वरः सिद्ध्यतीति वक्तव्यम् । तदयुक्तम् । स्यादेतदेवम् । यदि कर्तृत्वं नाम सामान्यं सर्वज्ञासर्वज्ञकर्त्रोरुभयवादिसम्प्रतिपन्नं स्यात् । नैतदस्ति । एतदनुमानात्प्राक् सर्वज्ञकर्तुरेवाप्रसिद्धत्वात् । न चाश्रयासिद्धौ सामान्यं सिद्धं भवति । तथा च क्षित्यादिकं सकर्तृकमित्युक्ते कर्तुरसार्वज्ञ्यस्यैव प्रतिपत्तौ सत्यामयं कर्ता नासर्वज्ञ इति पुनस्तन्निषेधे परस्परं सत्प्रतिपक्षतया द्वयोरप्यनुमानयोरप्रामाण्यापत्त्येश्वरसिद्धिर्दुर्लभा स्यादिति । प्रमेय-साम्ये हि प्रतिबन्दीग्रहणं कर्तव्यं न चात्र तदस्तीत्यभिप्रेत्य प्रमेयवैषम्यमुपपादयति- न स्यादिति ।। दुर्लभेति वर्तते । नहीति । पुनरारम्भः परिशेषानुमानरूपः । यदि क्षित्यादिकर्तृताव्यतिरिक्तमीश्वरत्वं सिषाधयिषितं स्यात्तर्ह्येव तत्साधनाय पुनरनुमानान्तरारम्भः स्यान्न चैवं क्षित्यादिकर्तृत्वस्यैवेश्वर-त्वात् तस्य च कार्यत्वानुमानेनैव सिद्धत्वादित्यर्थः । विमतं मिथ्येत्यत्र त्वसत्त्वातिरिक्तमनिर्वच-नीयत्वं सिषाधयिषितमिति तदर्थं नेदमसदिति परिशेषानुमानरूपः पुनरारम्भो युक्त इति वैषम्यमिति भावः । नन्वीश्वरसिद्ध्यर्थं पुनरनुमानान्तरारम्भाभावेऽपि कार्यत्वानुमानेन कर्तृमात्रसिद्धौ तस्यासर्वज्ञत्वेन पर्यवसानशङ्कायां तस्य सार्वज्ञसिद्ध्यर्थं विमतः कर्ता१ नासर्वज्ञ इति पुनरारम्भो भविष्यति । तथा च सत्प्रतिपक्षतया द्वयोरप्यप्रमाण्यमित्यत आह- सार्वज्ञादेरिति ।। सर्वज्ञत्वा-देरपीति ।। उपादानादिगोचरज्ञानादिमत एव कर्तृत्वात् । तथा च क्षित्यादिकर्तुरसार्वज्ञशङ्काया एवानुपपत्त्या सार्वज्ञसिद्ध्यर्थमपि पुनरारम्भानुपपत्तेः सत्प्रतिपक्षाभावेन सार्वज्ञादिविशिष्टेश्वरसिद्धिः सुलभैवेति भावः । तदन्तर्भावादिति ।। क्षित्यादिकर्तृत्वान्तर्भावादित्यर्थः । पुनरीश्वर-सिद्धिर्दुर्लभेत्याशयेन शङ्कते- ये त्विति ।। कर्तृमात्रेति । अस्मिन् पक्षे ज्ञानप्रवेशं विना प्रयत्नवत्त्वमेव कर्तृत्वमभिप्रेतमिति द्रष्टव्यम् । अभिप्रेत्येत्यनन्तरं तस्यासार्वज्ञेन पर्यवसानशङ्कायामिति शेषः । परिशेषेण विमतः कर्ता नासर्वज्ञ इति परिशेषानुमानेन । तथा च सत्प्रतिपक्षतयेश्वरसिद्धिर्दुर्लभेति भावः । प्रमेयविशेषः प्रमेयवैषम्यम् । मिथ्यात्वेति । मिथ्यात्वसाधनेऽसत्त्वस्यैव प्रतीतौ सत्यां नेदमसदित्युक्ते यथा प्रतिपक्षस्तथा च द्वयोरप्यप्रामाण्यम् । तथा कर्तृत्वसाधने नासर्वज्ञप्रतीतिः । येन विमतो नासर्वज्ञ इति साधने सत्प्रतिपक्षशङ्का स्यात् । कर्तृत्वस्य प्रयत्नमात्रघटितत्वेन प्रयत्नवत्त्वमात्रस्यैव प्रतीत्याऽसार्वज्ञाप्रतीतेः । तथा च सत्प्रतिपक्षशङ्काया अभावेन सुलभैवेश्वर-सिद्धिरित्याशयः । ननु पुनरपीश्वरसिद्धिर्दुर्लभा । कार्यत्वेन प्रयत्नमात्रघटितकर्तृत्वसाधनेऽ-सार्वज्ञप्रतीत्यभावेऽपि कार्यत्वानुमानेन कर्तृत्वमात्रसिद्धावपि, विमतः कर्ता न सर्वज्ञः कर्तृत्वात् यः कर्ता नासौ सर्वज्ञः यथा कुलाल इत्यनुमानान्तरेणासार्वज्ञप्रतीतौ पश्चाद्विमतो नासर्वज्ञ इति परिशेषानुमाने कृते सत्प्रतिपक्षतया द्वयोरप्रामाण्यापत्तौ पुनरीश्वरसिद्धिर्दुर्लभैव स्यादित्याशयेन शङ्कते- यः कर्तेति ।। तथापि पुनः प्रमेयवैषम्यमेव । तथा चेश्वरसिद्धिः सुलभैवेत्याह- प्रकृत इति ।। यथा त्वया कार्यत्वानुमानेन सामान्यतः कर्तृमात्रसिद्धौ एतदनुमानसिद्धं यत्कर्तृत्वं तदेव हेतूकृत्या-सार्वज्ञं साध्यते न तथाऽस्माभिर्बाध्यत्वेन सामान्यतो मिथ्यात्वसिद्धावेतदनुमानसिद्धं मिथ्यात्वमेव हेतूकृत्य नासत्त्वं साध्यते मिथ्यात्वस्यैवासत्त्वेन तेन तत्साधने साध्यावैशिष्ट्यापत्तेः । तथा च प्रमेयवैषम्यादीश्वरसिद्धिस्सुलभैवेति भावः । ननु विमतः कर्ता न सर्वज्ञः कर्तृत्वात् । यः कर्ता नासौ सर्वज्ञो यथा कुलाल इत्येवं कर्तृत्वेनासार्वज्ञसाधने साध्यावैशिष्ट्याभावादनेनानुमानेनासार्वज्ञ-प्रतीतौ, विमतः कर्ता नासर्वज्ञ इति परिशेषानुमाने सत्प्रतिपक्षता स्यात् । तथा च द्वयोरप्यप्रामा-ण्यापत्त्या सार्वज्ञादिविशिष्टेश्वरसिद्धिर्दुर्लभैवेत्यत आह । विमतो न सर्वज्ञः कर्तृत्वादि-त्यनुमानस्येत्यर्थः । आश्रयासिद्धि्यादिनेत्यत्र धर्मिग्राहकमानबाध आदिशब्दार्थः । तथाहि । पक्षभूतो विमत ईश्वरः सिद्धो न वा । नेति पक्षे आश्रयासिद्धिः । आद्ये यः सर्वज्ञ इत्यादिना येन प्रमाणेन सिद्धस्तेन सार्वज्ञादिविशिष्टत्वेनैव सिद्ध इति प्रमाणसिद्धसार्वज्ञादिविशिष्टमीश्वरं पक्षीकृत्य पुनस्तस्यासार्वज्ञसाधने धर्मिग्राहकमानबाध इत्यर्थः । तथा चास्यानुमानस्य दुष्टतया कार्यत्वानुमानेनेश्वरसिद्धिः सुलभैवेति भावः ।

गुरुराजीया

नन्वप्रसिद्धविशषणत्वेनानुमानं प्रागेव दूषितमिति कथं तच्छङ्कापरिहार इत्यतः पूर्वानुमानदोषस्यात्राप्रसक्तिं दर्शयति- मिथ्यात्वस्येति ।। उपपादयिष्यमाणत्वेनेति ।। ‘असतः प्रतीतिं विना असद्वैलक्षण्यज्ञानानुपपत्तेः’ इत्यादिनेति शेषः । ततश्चेह सामान्यसिद्धेरसत्त्वमादायैव पर्यवसानसम्भवेनानिर्वचनीयमादाय पर्यवसानस्याकल्पनीयत्वान्नानेनाप्यनुमानेनानिर्वचनीयसिद्धि-रिति भावः ।

नन्वेवं परिशेषात् प्राक् क्वाप्यप्रसिद्धविशेषस्याप्रसिद्ध्या असदाश्रयसामान्याभावेन सामान्य-सिद्धेः सामान्यविषयकत्वासम्भवेन प्रसिद्धविशेषमात्रविषयकत्वापत्तौ तद्विशेषप्रतिषेधकपरिशेषस्य सामान्यसिद्धिविरोधित्वेन परस्परप्रतिबन्धकत्वात् सामान्यसिद्धिपरिशेषाभ्यामपूर्वविशेषसिद्धिः क्वापि न स्यादित्यवश्यमसदाश्रयसामान्येऽङ्गीकर्तव्ये तत्रत्यदूषणाभावे वा गवेषणीये स एव न्यायोऽनिर्वचनीयत्वसाधनेऽपीत्याशयवानुदाहरणविशेषमाश्रित्य शङ्कते- नन्विति ।। स्वमते साधनद्वयाभावेन सामान्यविशेषयोः नेदमुदाहरणमित्यभिप्रेत्य समाधत्ते- न स्यादिति ।। यन्मते साधनद्वयं तन्मतीयैतद्दूषणपरिहारोपायो ममापि सम इत्यभिप्रेत्य पुनः शङ्कते- ये त्विति ।। मिथ्यात्वसाधननिराकरणे ईश्वरसाधननिराकरणमपि स्यादित्यापादयता ह्यापाद्यापादकयोः विशेषव्याप्तेः वक्तुमशक्यत्वेन यदविशिष्टस्यैकस्य यद्भवति तदविशिष्टस्यापरस्यापि तद्भवतीति सामान्यव्याप्तेरेव वक्तव्यतया प्रकृते च विशेषान्नेदमापादनं तन्मतेऽपि सङ्गच्छत इत्याह- न यत इति ।। अविशेषवादिना हि कर्तृत्वस्यैवासार्वज्ञ्यरूपत्वेन तत्साधनस्यैव तत्साधनत्वात् सामान्य-सिद्धित्वाभिमतस्यासार्वज्ञ्यप्रतिषेधसाधकेन प्रतिपक्ष इत्येवंरूपेणाविशेष इत्यभिप्रेतम् आहोस्वित् सामान्यसिद्ध्या कर्तृसिद्धिमङ्गीकृत्य कर्तृत्वस्यासार्वज्ञ्यव्याप्तत्वात् तत्सिद्धक्षित्यादिकर्तृपक्षक-तत्सिद्धकर्तृत्वहेतुकासार्वज्ञ्यसाधकानुमानस्य असार्वज्ञ्यप्रतिषेधसाधकेन प्रतिपक्ष इत्येवंरूपेण वा । आद्ये अविशेषव्याप्तावपि मया त्रैकालिकनिषेधप्रतियोगित्वरूपपराभिप्रेतमिथ्यात्वातिरिक्ता-सत्त्वानङ्गीकारेण, लोके असांव्यावहारिकत्वेन च मिथ्यात्वसाधनेऽसत्त्वस्यैव प्रतीत्या तत्साधक-स्यैव तत्साधकत्वाद् असत्त्वप्रतिषेधसाधकेन तत्प्रतिरोधस्य वक्तुं शक्यत्वेऽपि बुद्धिपूर्वप्रवृत्ति-रूपकर्तृत्वस्य सर्वविषयकज्ञानाभावरूपेण वा सर्वविषयकाज्ञानरूपेण वाऽसार्वज्ञ्येनाभेदस्य वादि-प्रतिवादिभ्यामनङ्गीकाराद् असांव्यावहारिकत्वाच्च अनुमितेः व्यापकतावच्छेदकप्रकारतानैयत्येन च कर्तृसाधने तत्प्रतीतेरसम्भवेन तत्साधकस्य तत्साधकत्वाभावेन सामान्यसिद्धेरसार्वज्ञ्यप्रतिषेध-साधकेन प्रतिपक्षायोगेन तत्पक्षस्यैवायोग इत्याह- यन्मिथ्यात्वेति ।। द्वितीयं शङ्कते- यः कर्तेति ।। तर्ह्युक्तरीत्या मिथ्यात्वस्यैवासत्त्वरूपत्वेन मिथ्यात्वेनासत्त्वासाधनेन सामान्यसिद्ध्युपजीवनेन प्रवृत्तस्य प्रतिरोधादिनाऽनिराकरणात् । सामान्यसिद्धत्वेन पराभिमतमिथ्यात्वसाधनस्यैव चाश्रया-सिद्धौ सामान्याभावेनासत्त्वमात्रविषयकत्वापत्तावसत्त्वप्रतिषेधकप्रतिरोधादिना निराकरणान्न साम्यलेशोऽपीति भावेन समाधत्ते- न प्रकृत इति ।।

न चैवं न्यायसाम्याभावेऽपि कर्तृसामान्यसिद्ध्युपजीवनप्रवृत्तासार्वज्ञ्यानुमानस्य तत्प्रतिषेधकानु-मानविरोधः कथं वस्तुतः समाधेय इति वाच्यम् । वैषम्योपपादनमात्रेण प्रकृततर्करूपबाधकपरिहारे तत्समाधिकथनस्यानवसरग्रस्तत्वादिति भावः ।

अन्ये तु क्षित्यादिकर्तृपक्षकासार्वज्ञ्यानुमाने कर्ता यदि सिद्धस्तर्हि धर्मिग्राहकमानेन सर्वज्ञत्वेनैव सिद्धत्वादसार्वज्ञ्यसाधने धर्मिग्राहकप्रमाणबाधः । असिद्धत्वे चाऽश्रयासिद्धिरित्याहुः ।

तत्र क्रमः । यत्तावदुक्तं क्षित्यादिकर्ता किं सिद्ध इत्यादि तत्र सिद्ध इत्येवोत्तरम् । न चैवं धर्मिग्राहकमानविरोधः । ‘कार्यत्वेन कर्तृमात्रसिद्धिमङ्गीकृत्य सार्वज्ञ्यादिसिद्धौ परिशेषेण प्रयतन्ते’ इत्यादिपूर्वग्रन्थपर्यालोचनया स्वरूपमात्रस्यैव तेन सिद्धत्वे सार्वज्ञ्यस्य धर्मिग्राहकमानासिद्धत्वात् । अन्यथा क्षित्यादिकर्तृत्वादसर्वज्ञो नेति परिशेषानुमानेऽपि कर्तुः सिद्धत्वे धर्मिग्राहकमानेन तस्यासर्वज्ञतयैव सिद्धत्वाद्धर्मिग्राहकमानविरोधः, असिद्धत्वे चाऽश्रयासिद्धिरिति साम्येनेश्वरसिद्धेः दौर्लभ्यं तदवस्थमेव स्यात् ।

न च धर्मिग्राहकमानं नासर्वज्ञविषयकम् । प्रकृतेऽपि तुल्यमित्युक्तत्वादित्यास्तां तावत् ।

नारोपन्तीया

निर्विशेषितस्येति१ । असद्विविक्तत्वरूपविशेषविशेषितमेव मिथ्यात्वमनिर्वचनीय-पदवाच्यमित्यर्थः । इतिशब्दो निर्देशार्थ इति । निर्देशस्तद्वाचकशब्दस्तदर्थः । इतिशब्दस्य पदार्थविपर्यासकारितायाः ‘न वेति विभाषा’२ इत्यत्र स्थितत्वादिति भावः । तदेवाभिनीय दर्शयति- मिथ्यात्वाख्यमितीति ।। सर्वज्ञत्वादेरपि तदन्तर्भावादिति ।। उपादानगोचरापरोक्षज्ञान-चिकीर्षाकृतिमज्जन्यत्वं हि सकर्तृकत्वम् । तस्मिंश्च महीमहीधरमहोदध्यादौ साध्यमाने पक्षधर्मताबलात्सार्वज्ञ्यसिद्धिरपि तेनैवानुमानेन भविष्यतीति भावः । तेन तदसाधनादिति । विमतं मिथ्या बाध्यत्वादित्युक्तानुमाने सिषाधयिषितस्य मिथ्यात्वस्यैवासत्त्वेन तेन प्रतीयमानत्वहेतुना तस्यासत्त्वाभावस्य व्याघातेन साधनासम्भवादित्यर्थः ।  अस्य चाश्रयासिद्ध्यादिनेति । ईश्वरस्यासार्वज्ञतासाधकानुमानस्य पक्षीभूतेश्वरासिद्धावाश्रयासिद्धिः । तत्सिद्धौ च धर्ग्रिग्राहक-प्रमाणबाधेनेत्यर्थः ।

जनार्दनभट्टीया

विवादपदं मिथ्येति ।। सत्यविविक्तमित्यर्थः । निर्देशार्थ इति ।। हेत्वाद्यर्थस्य बाधितत्वादिति भावः । निर्देशार्थकत्वमेव स्पष्टयति – मिथ्यात्वाख्यमितीति ।।  ‘इति निर्देशार्थः’ इति पूर्वेणा-न्वयः । न च धूमवत्ववदिति मूले धूमवत्वं कयोः सामान्यधर्मो न भवतीत्यप्रतीतेः आह – स्यादेतदेव-मिति ।। सामान्यमिति ।। तत्वेनानुगतमिति शेषः । ननु मिथ्यात्वसामान्याभावे प्रकृतानुमानस्य किं दूषणमित्यत आह – अत इति ।। ‘असत्वस्येवेति मिथ्याशब्दस्य असन्मात्रार्थकत्वस्य असदिति ब्रूमः’ इत्यादिना प्राक्प्रतिपादितत्वादिति भावः । द्वयोरिति ।। असत्वस्य असत्वाभावघटित-अनिर्वचनीयत्वस्य चेत्यर्थः । असत्वप्रतिक्षेपानुपपत्तेश्चेति ।। एवञ्च ‘विवादपदं मिथ्या’ इत्यनुमानस्य असत्वमादाय अर्थान्तरत्वमिति भावः ।३

नन्वसतः प्रतीत्यविषयत्वात् नासत्वमादायानुमानपर्यवसानमित्यत उक्तम्–असत्प्रतीतेरिति ।। उपपादयिष्यमाणत्वादिति ।। असतः प्रतीतिं विना असद्वैलक्षण्यज्ञानानुपपत्तेरित्युत्तरत्र उपपादयिष्यमाणत्वादित्यर्थः । तदन्तर्भावादिति ।। अस्मन्मते ईश्वरस्य सर्वकर्तृत्वेन सर्वकारणगोचरापरोक्षज्ञानवत एव सर्वकर्तृशब्दार्थत्वादिति भावः । ननु अस्तु भवतां ज्ञानं कर्तृत्वान्तर्भूतमितीश्वरसार्वज्ञसिद्धिः । नैय्यायिकमते तु कथं तत्सिद्धिरिति शङ्कते – ये त्विति ।। सर्वोपादानगोचरकृतिमत्वमेव सर्वकर्तृशब्दार्थ इति वदन्तो नैय्यायिका इत्यर्थः । तेषां मते कथमिति । न कथञ्चिदपि ईश्वरसार्वज्ञसिद्धिरित्यर्थः । भूभूधरादिकर्तृसिद्धिदशायाम् एव असर्वज्ञत्वोपस्थित्या सत्प्रतिपक्षितत्वादित्यभिमानः ।  न तथेति ।।

असार्वज्ञस्य कर्तृपदार्थत्वाभावादिति भावः । असार्वज्ञस्य कर्तृपदार्थत्वाभावेऽपि कर्तृत्वव्यापकत्वेन कुलालादौ उपलब्धत्वात् व्याप्यकर्तृत्वोपस्थितौ व्यापकासार्वज्ञत्वोपस्थित्या सत्प्रतिपक्षता स्यादेवेति शङ्कते – यः कर्तेति ।। ‘यः कर्ता नासौ सर्वज्ञः’ इति साहचर्यं कुलालादावस्त्येवेत्यर्थः । ‘यः कर्ता नासौ सर्वज्ञः’ इत्यादिवदतः कोऽभिप्रायः? यदि मिथ्यात्वप्रतीतेरसत्वप्रतीत्या सत्प्रतिपक्षता स्यात्, तदा क्षित्यादिकर्तृत्वप्रतीतेरपि असर्वज्ञत्वप्रतीत्या सत्प्रतिपक्षितत्वं स्यादिति प्रतिबन्दीति । अथवा ये तु कार्यत्वेत्यादिना मया आक्षिप्ते यतोऽस्त्यत्र प्रमेयविशेष इत्यादिना तत्ववादिभिः भवद्भिः निरूप्यमाणे नैय्यायिकमते ‘यः कर्ता नासौ सर्वज्ञः’ इति प्रतिपक्षग्रस्तत्वात् कार्यत्वानुमानेन सर्वज्ञेश्वरसिद्धिः न स्यादिति । आद्यं निराकरोति – प्रकृत इति ।। ‘विवादपदं मिथ्या’ इत्यनुमाने इत्यर्थः । मिथ्यात्वस्यैवेति ।। यन्मिथ्यात्वं त्वदभिमतमनिर्वचनीयत्वमादाय पर्यवसायिषितं तस्यैव मिथ्यात्वस्य त्वदनिष्टासत्वरूपत्वेनेत्यर्थः । त्वत्पितैव तव पितुरितिवत् इष्टत्वेन अभिमतस्य अनिष्टत्वमेवशब्दार्थः । कर्तृत्वेन असर्वज्ञत्वम्, मिथ्यात्वेन अनिष्टं वस्त्वन्तरं नोपस्थाप्यत इति एवकारार्थः । तेन मिथ्यात्वेन, तदसाधनात् तस्य असत्वस्य असाधनादित्यर्थः । अयमाशयः– स्यादियं प्रतिबन्दी । यदि त्वया कर्तृत्वेन असर्वज्ञत्ववत् मया मिथ्यात्वेन असत्वं साध्येत । यतो मिथ्यात्वमेव असत्वरूपम् । अतो विषमन्यायत्वात् न प्रतिबन्दी युक्ता – इति । द्वितीयं पराकरोति–  अस्य चेति ।। असार्वज्ञानुमानस्येत्यर्थः । अयमाशयः– यः कर्तेति व्याप्तिमात्रस्य असाधकत्वादेतद्-व्याप्तिमूलकं ‘क्षित्यादिकर्ता, न सर्वज्ञः कर्तृत्वात्, कुलालवत्’ इत्यनुमानं प्रतिपक्षतया वाच्यम् । अस्य च आश्रयः क्षित्यादिकर्ता सिद्धो न वा? यदि सिद्धः तदा असर्वज्ञस्य क्षित्यादिकर्तृत्वायोगेन क्षित्यादिकर्तृत्वरूपपक्षतावच्छेदकेन विरोधात् न असर्वज्ञत्वसाधनम् । यदि न सिद्धः तदा आश्रयासिद्धिरिति प्रतिपक्षानुमानस्य नैय्यायिकैः निराकरणात् – इति ।  ‘आदि’पदेन पक्षतावच्छेदकसाध्ययोः विरोधो ग्राह्यः ।