विषयाऽश्रयं चेदज्ञानं ..

अज्ञानस्य विषयाश्रितत्वाभावसाधकानुमानस्य सत्प्रतिपक्षत्वशङ्का तन्निरासश्च

श्रीमज्जयतीर्थटीका

ननु यथा तमो विषयसम्बद्धमेव सत् ज्ञानप्रतिबन्धकमुपलभ्यते । प्रकाशस्थेनान्धकार-स्थितघटस्यानुपलभ्यमानत्वात् । अन्धकारस्थेनापि प्रकाशस्थितस्योपलब्धेः । तथा ज्ञानप्रति-बन्धकेन अज्ञानेनापि विषयाश्रितेन भवितुं युक्तमिति विषयाश्रितत्वेऽप्यज्ञानस्य प्रमाणमस्ति ।

न चैवमचेतनाश्रयाज्ञानमङ्गीकुर्वतो मायावादिनोऽपसिद्धान्तापत्तिः । शुक्त्याद्यवच्छिन्न-चैतन्याऽश्रयतोररीकरणात् ।

अवश्यञ्चैतदेवम् । शुक्त्याद्यवच्छिन्नचैतन्याश्रयं खल्वज्ञानं तद्रूपमाच्छाद्य रजतादि-रूपान्तरोपादानं भवितुं युक्तम् ।

एवं तर्हि ज्ञानस्यापि प्रकाशवद्विषयसन्निकर्षेणैवाज्ञाननिवर्तकत्वप्रसङ्ग इति चेत् । नेदमनिष्टम् । प्रकाशस्वभावं सावयवमन्तःकरणमदृष्टेन्द्रियादिसहकृतं ध्रुवादिविषयपर्यन्तं दीर्घप्रभाकारेण परिणमत इत्यङ्गीकारात् । अत एव न ह्यज्ञानस्य घटाश्रयत्वमिति दृष्टान्तोऽपि प्रत्यूढः । घटाज्ञान-स्यापि तदाऽश्रयत्वप्रसङ्गश्चेति ।

तदिदमसत् । अनुमानस्य तर्कपराहतत्वात् । तथा हि, यदेतद्घटे पाषाणत्वाद्यारोपनिमित्तमज्ञानं तद्घटयाथात्म्यज्ञानेन निवर्तते न वा । नेति पक्षे भ्रान्तेरनुच्छेदप्रसङ्गः । प्रथमपक्षेऽतिप्रसङ्गमाह-

मूल

विषयाऽश्रयं चेदज्ञानं निवर्तते तर्ह्येकेन ज्ञातस्य घटस्यान्यैरज्ञातत्वं न स्यात् ।

यद्यज्ञानं घटादिविषयाश्रयं तद्याथात्म्यज्ञानेन निवर्तत इत्यङ्गीक्रियते तर्ह्येकस्मिन् घटे बहूनां पाषाणत्वादिना विप्रतिपन्नानामेकेन ज्ञातस्य घटस्यान्यैरज्ञातत्वं न स्यात् । तज्ज्ञानेनाविद्याया निवृत्तत्वात् । इन्द्रियसन्निकर्षादिसामग्रीसद्भावाच्च । न ह्यालोकेन तमसि निवृत्ते समनस्केन्द्रिय-सन्निकृष्टोऽपि घटः केनचिद्दृश्यते केनचिन्नेति युज्यते ।

अज्ञानबहुत्वान्नैवमिति चेत् तर्ह्येकस्मिन्नज्ञाने निवृत्तेऽप्यज्ञानान्तरसद्भावान्न केनापि घटो विज्ञायेत । प्रतिपुरुषनियतानि तानीति चेन्न । अदृष्टकल्पनाप्रसङ्गात् । अज्ञानस्य विषयाश्रयत्वादेवं कल्पनेऽन्योन्याश्रयता स्यात् । विषयाच्छादनं तु नयनपटलादिवत् प्रतिपुरुषमाश्रितैरेवा-ज्ञानैर्युक्तम् । आरोप्यासत्त्वस्य प्रतिपादितत्वात् न तदुपादानापेक्षाऽस्ति । तदेवं न ज्ञातव्यपरब्रह्माश्रयमज्ञानं युक्तमिति नात्माऽश्रयाज्ञाननिवर्तकत्वेन वेदान्तवाक्यजनितविज्ञान-स्याऽत्मज्ञानत्वसिद्धिः ।

श्रीविजयीन्द्रभिक्षु

विमतमज्ञानं न विषयाऽश्रितं ज्ञानप्रतिबन्धकत्वात् तमोवत् इति अज्ञानस्य विषयाश्रित-त्वाभावसाधकानुमानस्य प्रतिपक्षं शङ्कते- नन्विति ।। युक्तमिति ।। विक्षेपस्याऽवरण-पूर्वकत्वादावरणस्य चाप्रसक्तप्रकाशे जडभूतशुक्त्यादावसम्भवात् तदवच्छिन्नचैतन्यावरणपूर्वक एव रजतादिविक्षेपो वाच्यः । न च चैतन्याऽश्रितत्वं विना तदावरकत्वमुपपद्यते । विषयावरकान्धकारादौ तथा दर्शनादिति भावः    अत एवेति ।। अज्ञानस्य घटाद्यवच्छिन्नचैतन्याश्रितत्वाङ्गीकारादेवे-त्यर्थः । तदाश्रयत्वप्रसङ्गश्चेति ।। प्रत्यूढ इत्यनुवर्तते । ज्ञातस्येति ।। यथावज्ज्ञातस्येत्यर्थः । ननु ज्ञानप्रतिबन्धकाविद्यानिवृत्तिमात्रेण कथं ज्ञानापादनम् । प्रतिबन्धकाभावमात्रेण कार्यादर्शनादित्यत आह- इन्द्रियसन्निकर्षादीति ।। गूढाभिसन्धिः शङ्कते- अज्ञानबहुत्वादिति ।। यावन्त्यज्ञानानि तावन्ति ज्ञानानि तन्निवर्तकानीति स्वीकारादेकेन ज्ञानेनैकस्याज्ञानस्य नाशेऽप्यज्ञानान्तरसत्त्वात् कञ्चित्प्रत्यज्ञातत्वमपि युज्यत इति यथाश्रुतं दूषयति- तर्हीति ।। आशयमुद्घाटयति- प्रतिपुरुष-नियतानीति ।। तथा च यदीयमज्ञानं तस्य तदीयज्ञानेनैव निवृत्तिरिति नोक्तातिप्रसङ्ग इति भावः। अदृष्टेति ।। विषयाश्रितावरकस्य प्रतिपुरुषनियतत्वादर्शनात् । न चान्यत्रादर्शनेऽपि उक्तानुभव-स्यैवाभावप्रसङ्गादिति भावः । अन्योन्याश्रयतेति ।। विषयाऽश्रितत्वे सिद्धे अतिप्रसङ्गनिरासाय प्रतिपुरुषनियतत्वसिद्धिः । प्रतिपुरुषनियतत्वसिद्धौ चातिप्रसङ्गाभावेन विषयाऽश्रितत्वसिद्धिः इत्यन्योन्याश्रयतेत्यर्थः । नन्वावरकत्वान्यथानुपपत्त्या विषयाश्रितत्वं सिद्ध्यतीत्याशङ्क्याऽह- विषयाच्छादनन्त्विति ।। ननु शुक्त्यादौ रजतादिविक्षेपान्यथानुपपत्त्या तदुपादानभूताज्ञानस्य विषयाश्रितत्वसिद्धिरित्यत आह- आरोप्येति ।। अज्ञानस्य ब्रह्माश्रितत्वाभावमुपसंहरंस्तदुप-पादनस्य फलमाह- तदेवमिति ।।

श्रीवेदेशतीर्थ

अज्ञानस्य विषयाश्रितत्वाभावसाधकानुमानस्य प्रतिपक्षमाशङ्कते- नन्विति ।। अज्ञानं विषयाश्रितं ज्ञानप्रतिबन्धकत्वात् । तमोवदिति प्रयोगोऽत्राभिप्रेतः । विषयसम्बद्धस्य तमसो ज्ञान-प्रतिबन्धकत्वमुपपादयति- प्रकाशस्थेनेति ।। ननु पुरुषसम्बद्धस्यापि तमसो ज्ञानप्रतिबन्धकत्व-मुपलब्धमित्यज्ञानमपि पुरुषसम्बद्धं किं न स्यादित्यत आह- अन्धकारस्थेनापीति ।। तद्रूप-माच्छाद्येति ।। अज्ञानस्य ज्ञातृगतत्वे व्यधिकरणत्वेन विषयाच्छादनासम्भवात् । रजताद्युपा-दानतासम्भवाच्चेति भावः ।

केचित्तु ‘विक्षेपस्याऽवरणपूर्वकत्वादावरणस्याप्रसक्तप्रकाशे जडभूतशुक्त्यादावसम्भवात्तदवच्छिन्न-चैतन्यावरणपूर्वक एव रजतादिविक्षेपो वाच्यः । न च चैतन्याश्रितत्वं विना तदावरकत्वमुपपद्यते विषयावरकान्धकारादौ तथा दर्शनादिति भावः’ इत्याहुः ।

प्रकाशस्वभावमिति ।। यथा तटाकोदकं कुल्यात्मना छिद्रान्निर्गत्य केदारान् प्रविश्य तद्वदेव चतुष्कोणत्वाद्याकारं भवति तथेत्यर्थः । नन्वन्तःकरणरूपमनसो निरवयवत्वात्कथं तस्य बहिर्निःसरणमित्यत आह- सावयवमिति ।। ननु तस्य द्रव्यान्तरत्वात्कथं दीर्घप्रभाकारेण परिणाम इत्यत आह- प्रकाशस्वभावमिति । नन्वेवमन्तःकरणस्य बहिर्निःसरणाङ्गीकारे व्यवहितपदार्थ-ज्ञानमपि स्यादित्यत उक्तम्- अदृष्टेन्द्रियादिसहकृतमिति ।। तदनन्तरमिन्द्रियादिद्वारा बहिर्निर्गत-मित्यपि ग्राह्यम् । तेनान्तःपदार्थस्य कथं बाह्यविषयाकारेण परिणाम इति शङ्कानवकाशः । ननु नानेनानुमानेनाज्ञानस्य विषयाश्रितत्वसिद्धिः । अज्ञानं न विषयाश्रितमज्ञानत्वात् । घटाज्ञानवत् इति प्रागुक्तानुमानविरेधादित्यत आह- अत एवेति ।। यतः शुक्त्याद्यज्ञानस्य तदवच्छिन्न-चैतन्याश्रितत्वमङ्गीक्रियते । अतो घटाज्ञानस्यापि तदवच्छिन्नचैतन्याश्रितत्वाद्दृष्टान्तस्य साध्य-विकलत्वादिति भावः । तदाश्रयत्वप्रसङ्गश्चेति ।। प्रत्यूढ इति सम्बन्धः । इष्टापत्तेरिति भावः । तथा चानुकूलतर्काभावेनाप्रयोजकं पूर्वोक्तानुमानमिति तात्पर्यम् । ज्ञातस्येति ।। यथावज्ज्ञातस्येत्यर्थः । ननु ज्ञानप्रतिबन्धकाविद्यानिवृत्तिमात्रेण कथं ज्ञानापादनम् । प्रतिबन्धकाभावमात्रेण कार्यादर्श-नादित्यत आह- इन्द्रियसन्निकर्षादीति ।। अन्यथा पाषाणत्वाद्यारोपोऽपि न स्यादिति भावः । न केनापीति ।। यथा आच्छादकबहुजवनिकासद्भावे तत्रैकजवनिकापसरणे तदन्तस्थपदार्थानुपलब्धि-स्तथेत्यर्थः । प्रतिपुरुषेति ।। तथा चैकज्ञानेन तदज्ञाननिवृत्तावप्यन्येषामज्ञानसत्त्वादन्यैरज्ञातत्वं घटस्योपपन्नमिति भावः । अदृष्टेति ।। न हि प्रतिपुरुषनियतं तमोऽस्ति । येन तद्वदत्रापि कल्प्येतेति भावः । न चान्यत्रादर्शनेऽप्यज्ञाने तत्स्वीकार्यम् । ‘अत्र ममैवाज्ञानं नान्यस्य’ इत्याद्यनुभवादिति वाच्यम् । विषयाश्रितत्वे उक्तानुभवस्यैवाभावप्रसङ्गादिति भावः । ननूक्तप्रमाणेनाज्ञानस्य विषयाश्रितत्वे सिद्धे तदन्यथानुपपत्त्या अज्ञानस्य प्रतिपुरुषनियतत्वं कल्प्यत इति चेत् तर्ह्यज्ञानस्य विषयाऽश्रितत्वसिद्धौ तदन्यथानुपपत्त्या तस्य प्रतिपुरुषनियतत्वसिद्धिः । तत्सिद्धौ च तर्कपराहत्य-भावेनानुमानाद् विषयाऽश्रितत्वसिद्धिरित्यन्योन्याश्रय इत्याह- अज्ञानस्येति ।। नन्वावरकत्वा-न्यथानुपपत्त्या विषयाश्रितत्वं सिद्ध्यतीत्याशङ्क्याऽह- विषयाच्छादनं त्विति ।। ननु शुक्त्यादौ रजतादिविक्षेपान्यथानुपपत्त्या तदुपादानभूताज्ञानस्य विषयाश्रितत्वसिद्धिरित्याह- आरोप्येति ।।

यद्वा ननूक्तानुमानेन विषयाश्रितत्वाङ्गीकारे अन्योन्याऽश्रयः स्यात् । न चैवम् । किं नाम । अज्ञानस्य शुक्त्यादिविषयाच्छादकत्वान्यथानुपपत्त्या रजताद्युपादानत्वान्यथानुपपत्त्या वा विषयाऽश्रितत्वसिद्धौ तस्य प्रतिपुरुषनियतत्वाङ्गीकारादित्यत आह- विषयाच्छादनमिति ।। विज्ञानस्येति ।। आत्माऽश्रिताज्ञाननिवर्तकत्वेनेति शेषः ।

द्वैतद्युमणि

प्रकाशस्वभावमिति ।। वृत्तेरज्ञाननिवर्तकत्वसामर्थ्यबोधनायेदम् । सावयवमिति परिणाम-विशेषसम्भवोपपादनाय ।

तथा च देहस्थान्तःकरणभागोऽहङ्काराख्यः कर्तेत्युच्यते । तत्प्रतिबिम्बितं तदवच्छिन्नं वा जीवचैतन्यं प्रमातृ । देहविषयमध्यभागस्थपरिणामो वृत्तिर्दण्डाकारा ज्ञानरूपक्रिया । तत्प्रतिबिम्बितं तदवच्छिन्नं वा चैतन्यं प्रमाणम् । विषयव्यापकस्तद्भागो विषयस्य ज्ञानकर्मत्वसम्पादकमभि-व्यक्तियोग्यत्वमित्युच्यते । तत्प्रतिबिम्बितं तदवच्छिदन्नं वा चैतन्यं प्रमितिः । प्रमेयं त्वज्ञानं ब्रह्मचैतन्यं विषयगतम् । तदेव ज्ञातं सत्फलम् । फलं नाम भग्नावरणा चित्, तत्सम्बन्धश्च ।

श्रीराघवेन्द्रतीर्थ

प्रमाणमस्तीति ।। प्रकाशनिवर्त्यतमोवद्विरोधिज्ञाननिवर्त्यत्वरूपं प्रमाणमित्यर्थः ।  शुक्त्याद्यवच्छिन्नेति । चैतन्यं ह्यपरिच्छिन्नं सत्सर्वपदार्थाधिष्ठानतया वर्तत इति १शुक्तिरज्ज्वादि-वृत्तिभिरवच्छिन्नं तदाक्रान्तमस्तीति तदाश्रितत्वाङ्गीकारादित्यर्थः  । तस्योपयोगमाह- अवश्य-ञ्चेति ।। तद्रूपमिति । शुक्तिरज्ज्वादिरूपमित्यर्थः । नेदमिति । इदमापादनमित्यर्थः । बहिर्निर्गमे हेतुः प्रकाशस्वभावमिति । परिणामे हेतुः सावयवमिति ।। इन्द्रियादीति ।। सन्निकर्षदेश-कालादिरादिपदार्थः । यथा तटाकोदकं छिद्रान्निर्गत्य कुल्याद्वारा केदारान् प्रविश्य चतुष्कोणा-द्याकारं भवति, तथाऽन्तःकरणमपि चक्षुरादिगोलकाद् बहिर्निर्गत्य रश्मिद्वारा ध्रुवादिविषयपर्यन्तं दीर्घप्रभाकारेण परिणतं सत् विषयो यदाकारस्तदाकारतया तं सर्वतोऽभिव्याप्य परिणमते । सेयमन्तःकरणवृत्तिरित्युच्यते । १तदा तदवच्छिन्नचैतन्यगताज्ञाननिवृत्तेरित्यर्थः । अत एवेति ।। अज्ञानस्य घटादिविषयाविच्छन्नाश्रयत्वाङ्गीकारादेवेत्यर्थः । प्रसङ्गश्चेति ।। ‘अन्यथा २घटाकार-स्यापि’ इत्यादिना प्रागुक्तप्रसङ्गश्चात एव प्रत्यूढ इत्यर्थः । तदिदमिति ।। विषयावच्छिन्न-चैतन्याऽश्रितमज्ञानं, तत् विषयसन्निकृष्टज्ञानेन निवर्तत इत्येतदुभयमित्यर्थः । अनुमानस्येति ।। अज्ञानं विषयाऽश्रितं ज्ञानरूपप्रकाशनिवर्त्यत्वादालोकरूपप्रकाशनिवर्त्यतमोवदिति ‘ननु यथा’ इत्यादिना प्रागभिप्रेतानुमानस्येत्यर्थः । सामग्य्रभावाद्युक्तमज्ञातत्वमित्यत आह- इन्द्रियेति ।। सामग्रीमतामप्यपूर्ववस्तुस्वरूपं न ज्ञायते । तन्न स्यादित्यर्थः । अन्योन्याऽश्रयतेति ।। सिद्धे च विषयाश्रयत्वे ज्ञातत्वाज्ञातत्वनिर्वाहकप्रतिपुरुषनियताज्ञानकल्पनम् । सिद्धे च तस्मिन् बाधका-भावाद् विषयाऽश्रयत्वकल्पनमित्यन्योन्याऽश्रयतेत्यर्थः । विषयस्य सर्वैरज्ञातत्वान्यथानुपपत्त्या किञ्चिद्विषयाच्छादनं कल्पयता विषयाऽश्रितमज्ञानमवश्यम् उपेयमित्यत आह- विषयेति ।। आरोप्योपादानतया कल्प्यमज्ञानमित्युक्तमित्यत आह- आरोप्येति ।। ‘मिथ्याशब्दोऽनिर्वचनीयं वदति’ इत्येतद्व्याख्यानावसरे उपपादितत्वादित्यर्थः । तद्रूपम् शुक्त्यादिस्वरूपम् । विषयसन्निकर्षेणैवेति ।। विषयसम्बद्धस्यैवेति यावत् । अज्ञानसमानाश्रयस्यैव ज्ञानस्य तन्निवर्तकत्वेन । व्यधिकरणस्य तदभावादिति भावः । घटाज्ञानस्येति ।। अनुमानेऽप्रयोजकताशङ्कायामुक्तो यो ३विपक्षबाधकतर्कः सोऽपि प्रत्यूढो निराकृत इत्यर्थः । इष्टापत्तेरिति भावः ।

गुरुराजीया

अज्ञानस्य ४ज्ञातृपुरुषगतत्वाभावसाधकानुमानस्य प्रतिपक्षमाशङ्कते- नन्विति ।। अज्ञानं ज्ञातव्याश्रितं ज्ञानप्रतिबन्धकत्वात् तमोवदित्यनुमानमनेनोक्तं भवति । विषयसम्बद्धस्य तमसो ज्ञानप्रतिबन्धकत्वासिद्धेः कथमत्र दृष्टान्तत्वमित्यतस्तदुपपादयति- प्रकाशस्थेनेति ।। एवमन्वय-मुपपाद्य व्यतिरेकं चोपपादयति- अन्धकारस्थितेनापीति ।। तद्रूपमाच्छाद्येति ।। अज्ञानस्य विषय-गतत्वाभावे तद्रूपाच्छादकत्वायोगात् रजतादिरूपान्तरोपादानत्वासम्भवाच्च विषयगतत्व-मावश्यकमिति भावः । अन्तःकरणस्य क्षणमात्रेण व्यवहितध्रुवाद्याकारेण परिणामः कथ-मित्यतस्तदुपपादनार्थं प्रकाशस्वभावमित्यादिको ग्रन्थः । अन्तःकरणे ध्रुवादिपर्यन्तम् अविच्छिन्न-प्रभाऽऽकारेण परिणमत इति सम्बन्धः । तत्र को हेतुरित्यत आखण्डलाधिष्ठितकाष्ठायां सहस्रांशूदयमात्रेण तत्किरणानां मन्दिरे व्याप्तिदर्शनात् तेजसोऽतिदूरगमनशक्तिमत्त्वात् तदुपपत्तिरिति भावेन तेजसोऽतिदूरगमने अन्तःकरणस्य किमायातमित्यतस्तस्य तैजसतां दर्शयति- प्रकाशस्वभावमिति ।। अत एव चक्षुरादिसूक्ष्मद्वारा बहिर्निःसरणं तस्येति द्रष्टव्यम् । प्रकाश-स्वभावत्वेऽप्यात्मनो न परिणामो दृष्टः । तत्कथमस्य परिणाम इत्यत उक्तम्- सावयवमिति ।। कदाचिदेव कस्मिंश्चिदेव विषयेऽन्तःकरणस्य परिणामे को हेतुरित्यत उक्तम्- अदृष्टेति ।। आलोक आदिशब्दार्थः । प्रतिपादनफलमाह- परिणमत इति ।। ननु नानेनानुमानेनाज्ञानस्य विषयाश्रितत्व-सिद्धिः । अज्ञानं न विषयाश्रितमज्ञानत्वाद् घटाज्ञानवदिति  प्रागुक्तानुमानविरोधादित्यत आह- अत एवेति ।। शुक्त्यज्ञानस्य शुक्त्यवच्छिन्नचैतन्याश्रितत्ववत् घटाज्ञानस्यापि तदवच्छिन्नचैतन्या-श्रितत्वाङ्गीकारेण दृष्टान्तस्य साध्यविकलत्वादेवेत्यर्थः । तदाश्रयत्वप्रसङ्गश्चेति ।। प्रत्यूढ इति सम्बन्धः । इष्टापत्तेरिति भावः । तथा चानुकूलतर्काभावेऽप्रयोजकमनुमानमिति भावः । तर्कपराहति-भावाभावाभ्यां वैषम्येणासमानबलत्वान्नायं प्रतिपक्ष इत्यभिप्रेत्य तमाह- तदिदमसदित्यादिना ।। एकेन ज्ञातस्येति ।। याथात्म्येन ज्ञातस्येत्यर्थः । नन्वसत्यां सामाग्र्यां प्रतिबन्धकाभावमात्रेणान्यत्र कार्यादर्शनेन ज्ञानप्रतिबन्धकाविद्यानिरासेऽपि ज्ञानसामग्रीविरहान्न प्रतिबन्धकाभावमात्रेण कार्यापादनं युक्तमित्यत आह- इन्द्रियेति ।। अन्यथाऽधिष्ठानज्ञानविरहात् तत्र पाषाणत्वा-द्यारोपोऽपि न स्यादिति भावः । ननु प्रतिबन्धकाभावसहकृतज्ञानसामग्रीसद्भावेऽपि ज्ञानानुत्पादः किं न स्यात् । विपक्षे बाधकाभावेनाप्रयोजकत्वादित्यतो बाधकमाह- न हीति ।। अन्यथा तदपि स्यादिति भावः । ननु विषयाश्रिताज्ञानबहुत्वाङ्गीकाराद् एकेन पुरुषेण याथात्म्येन ज्ञात-स्यान्यैरज्ञातत्वं युज्यत एव । तज्ज्ञानेन विषयाश्रितैकाज्ञाननिवृत्तावप्यज्ञानान्तरस्य सद्भावेन तद्बलेनाज्ञातत्वाविरोधादित्यतो विषयाश्रिताज्ञानबहुत्वं वदन् प्रष्टव्यः, किं तानि सर्वाणि सर्वान् प्रति ज्ञानप्रतिबन्धकतयाऽङ्गीक्रियते, उत प्रतिपुरुषनियतानीति विकल्पं मनसि निधायाऽद्यं दूषयति- तर्हीति ।। विषयाच्छादकबहुयवनिकासत्त्वस्थले एकयवनिकापगमेऽपि यवनिकान्तरेण विषयाच्छादनस्यैव दृष्टत्वेन विषयाश्रिताज्ञानबहुत्वपक्षे एकस्याज्ञानस्य नष्टत्वेऽप्यज्ञानान्तरसत्त्वेन तेनैव विषयाच्छादनस्य प्राप्तत्वात् येनापि घटो ज्ञायते तस्यापि घटज्ञानाभावप्रसङ्गादिति भावः । द्वितीयं शङ्कते- प्रतिपुरुषनियतानीति ।। तथा च पुरुषान्तरनियताज्ञानसत्त्वेऽपि तत्पुरुषनियता-ज्ञानस्य निवृत्तत्वान्न तं प्रत्यज्ञातत्वप्रसङ्ग इति भावः । अदृष्टेति ।। प्रतिपुरुषनियत-तमसोऽदर्शनादिति भावः । अज्ञानस्य विषयाश्रितत्वसिद्धिमूलकत्वादुक्तकल्पनाया न तत्कल्पनेऽ-दृष्टकल्पनाप्रसङ्ग इत्यत आह- परस्परेति ।। अज्ञानस्य विषयाश्रितत्वसिद्धौ तदन्यथानुपपत्त्या तस्य प्रतिपुरुषनियतत्वसिद्धिः । तत्सिद्धौ च तर्कपराहत्यभावेनानुमानविषयाच्छादकत्वसिद्धिरिति परस्पराश्रयत्वप्रसङ्गादित्यर्थः । ननु विषयानाश्रितत्वे तदाच्छादकत्वानुपपत्त्या तदाच्छादकत्वयुक्त्यैव तदाश्रितत्वसिद्धेः परस्परसिद्ध्यनपेक्षत्वान्न परस्पराश्रयत्वप्रसङ्ग इत्यत आह - विषयाच्छादनं त्विति ।। विवक्षितार्थेऽनुगुणदृष्टान्तकथनम्- नयनपटलैरिवेति ।। अन्यथा विषयाच्छादकत्वयुक्त्या नयनपटलानामपि विषयाश्रितत्वापत्त्या द्रष्टृपुरुषगतत्वाभावप्रसङ्गादिति भावः । अस्तु तर्हि शुक्त्यादौ रजताद्यारोपानुपपत्त्या तदुपादानभूताज्ञानस्य विषयाश्रितत्वसिद्धिरित्यत आह- आरोप्येति ।। उक्तमर्थं निगमयति- तदेवमिति ।।

गोविन्दीया

यथेति ।। प्रकाशेन समान एवाऽश्रयो यस्य तत् तमः, तेन प्रकाशेन निवर्तते, न तु विरुद्धाश्रयमित्यर्थः । तथेति ।। प्रतिबन्धकत्वाविशेषात् तमोवत् ज्ञानप्रतिबन्धकेन अज्ञानेनापि विषयाश्रयेण भवितुं युक्तमिति विषयाश्रयत्वेऽपि अज्ञानस्य, अज्ञानं विषयाश्रितं ज्ञान-प्रतिबन्धकत्वात् तमोवत् इत्यनुमानप्रमाणमस्तीत्यर्थः । अवश्यमिति ।। एतच्छुक्त्याद्यवच्छिन्न-चैतन्याश्रयत्वोररीकरणम् अवश्यमेव । एवं सति शुक्त्याद्यवच्छिन्नचैतन्याश्रयं खल्वज्ञानं तद्रूपं शुक्तिरूपम् आच्छाद्य रजतादिरूपान्तरोपादानकारणं भवितुं युक्तमित्यर्थः । एवमिति ।। यद्येवं तमोवत् विषयाश्रितस्यैव अज्ञानस्य ज्ञानप्रतिबन्धकत्वे तर्हि तमोनिवर्तकप्रकाशवत् ज्ञानस्यापि विषयसम्बन्धेनैवाज्ञाननिवर्तकत्वप्रसङ्ग इति चेदित्यर्थः । नेदमिति ।। प्रकाशदृष्टान्तेन विषयसन्निकृष्टस्यैव ज्ञानस्याज्ञाननिवर्तकत्वापादानम् अनिष्टमुभयोर्विशेषादित्यर्थः । विशेषमेवोप-पादयति- प्रकाशस्वभावमिति ।। प्रकाशस्वभावं सावयवम् अन्तःकरणम् अदृष्टेन्द्रियादिसहकृतं सत् ध्रुवादिविषयपर्यन्तं दीर्घप्रभाकारेण परिणमत इत्यङ्गीकारात् प्रकाशस्य अन्तर्बहिर्व्याप्तत्वेन विषयमाश्रित्यैव तमोनिवर्तकत्वोपपत्तेः । ज्ञानस्य तु अन्तर्व्याप्तत्वेन बहिर्व्याप्तत्वाभावाद् विषयं व्याप्यैव अज्ञाननिवर्तकत्वं नोपपद्यत इत्यर्थः । अत एवेति ।। अज्ञानस्य शुक्त्यवच्छिन्न-चैतन्याश्रितत्वादेव जडत्वाविशेषात् तस्य च घटावच्छिन्नचैतन्याश्रितत्वमङ्गीकर्तव्यम् । तथा च न हि अज्ञानस्य घटाश्रयत्वम् इति वाक्येन अज्ञानस्य घटाश्रयत्वाभावरूपः योऽयं दृष्टान्त उपपादितः सः प्रत्युत्तरासमर्थ इत्यर्थः । घटेति ।। शुक्त्यज्ञानस्यापि शुक्त्याश्रितत्वे घटाज्ञानस्यापि घटाश्रयत्वप्रसङ्गश्च प्रत्यूढः । शुक्त्यादिस्थिताज्ञानस्य तत्रस्थचैतन्याश्रितत्वाङ्गीकारादिष्टापादन-त्वाद् असमर्थ इत्यर्थः । तदिति ।। तदिदम् अज्ञानविषयाश्रयत्वोपपादनमसदित्यर्थः । अनुमान-स्येति  ।।  अज्ञानं विषयाश्रितं ज्ञानप्रतिबन्धकत्वात् तमोवत् इत्यनुमानस्य तर्कपराहतत्वादि-त्यर्थः । तर्कपराहतत्वमेवोपपादयति - तथा हीति ।। घटयाथात्म्यज्ञानेन घटयथास्वरूपज्ञानेने-त्यर्थः । इन्द्रियेति ।। अन्येषामिन्द्रियसन्निकर्षादिसामग्रीसद्भावाच्चेत्यर्थः । अज्ञानेति ।। विषयाश्रिताज्ञानानां बहुत्वाद् एवमन्यैः दर्शनं नेति चेदित्यर्थः । प्रतिपुरुषमिति ।। तानि विषयाश्रितानि अज्ञानानि प्रतिपुरुषं प्रतिनियतानि नियमेन आस्थितानि, इति चेदित्यर्थः । अज्ञानस्येति  ।। अज्ञानस्य विषयाश्रितत्वाद् एवं कल्पने प्रतिपुरुषनियतत्वकल्पने अन्योन्या-श्रयता । तथा हि अज्ञानस्य विषयाश्रितत्वसिद्धौ प्रतिपुरुषनियतत्वसिद्धिः, तत्सिद्धौ तत्सिद्धिः, इन्यन्योन्याश्रयता स्यादित्यर्थः । विषयाच्छादकत्वान्यथानुपपत्त्या अज्ञानस्य विषयाश्रितत्वसिद्धौ प्रतिपुरुषनियतत्वमङ्गीक्रियत इत्याशङ्क्योत्तरमाह- विषयाच्छादनं त्विति ।। विषयाश्रितत्वा-भावोऽपि पुरुषाश्रितैरेव अज्ञानैः नयनपटलादिवत् विषयाच्छादनं युक्तमित्यर्थः । रजताद्युपादान-त्वान्यथानुपपत्त्या ज्ञानस्य विषयाश्रितत्वमङ्गीक्रियत इत्याशङ्क्य परिहारमाह- आरोप्येति ।। आरोप्यरजताद्यसत्त्वस्य प्रतिपादितत्वात् तस्य रजतादेः उपादानकारणापेक्षा नास्ति । सत एव कार्यस्योपादानकारणापेक्षेत्यर्थः । तदेवमिति ।। तत् तस्मात् एवम् उक्तरीत्येत्यर्थः ।

नारोपन्तीया

अदृष्टकल्पनाप्रसङ्गादिति ।। अन्धकाराद्यावरणस्य प्रतिपुरुषनियतत्वादर्शनादिति भावः ।

जनार्दनभट्टीया

प्रमाणमस्तीति ।। ‘अज्ञानं विषयगतं विषयज्ञानप्रतिबन्धकत्वात् । यद् यदज्ञानप्रतिबन्धकं तत् तद्गतम् । यथा घटज्ञानप्रतिबन्धकं तमः’ इत्यनुमानरूपप्रमाणमित्यर्थः । एतदेवमिति ।। एतत् = अज्ञानम्, एवं = विषयावच्छिन्नचैतन्याश्रितमित्यर्थः । भवितुं युक्तमिति ।। भिन्नदेशस्थितस्य देशान्तरीयकार्यं प्रति उपादानत्वायोगादिति भावः । अन्तःकरणस्य ध्रुवादिदेशपर्यन्तं परिणामे सामर्थ्यमुपपादयति – प्रकाशस्वभावमिति ।। दृष्टो हि वाय्वतिशयेन तेजसो वेगातिशयः । यदुदयाचलशिखरावलम्बिन्येव मयूखमालिनि भुवनोदरेषु आलोकः प्रसरतीति भावः । निरवयवत्वे परिणामानुपपत्तेः । सावयवमिति ।। 

ननु सर्वेषां अन्तःकरणस्य ध्रुवादिदेशपर्यन्तं परिणामाङ्गीकारे सर्वेषामपि दूरदर्शित्वापत्तिरित्यत आह – अदृष्टेन्द्रियादीति ।। पुरुषविशेषाणां तु अदृष्टेन्द्रियाभावात् न दूरदर्शित्वमिति भावः । अत एवेति ।। अज्ञानस्य विषयावच्छिन्नचैतन्याश्रयत्वस्य अङ्गीकारादेवेत्यर्थः । प्रत्यूढः=निरस्त इत्यर्थः । तदाश्रयत्वप्रसङ्गश्चेति ।। ‘प्रत्युत’ इति पूर्वेणान्वयः । अनुमानस्येति ।। ‘अज्ञानं विषयगतं विषयज्ञानप्रतिबन्धकत्वात्, तमोवत्’ इत्यनुमानस्येत्यर्थः । अनुच्छेदप्रसङ्ग इति ।। अधिष्ठानयाथात्म्यज्ञानातिरिक्तस्य अज्ञाननिवर्तकत्वस्य अभावादिति भावः । ‘विषयाश्रयं चेदज्ञानम्’ इति मूले अज्ञाननिवर्तकस्य अनुक्तेः तत्कथनपूर्वकं मूलं तर्कपरतया योजयति – यदीत्यादिना ।। अन्योन्याश्रयतेति ।। अज्ञानस्य प्रतिपुरुषनियतत्वसिद्धौ विषयाश्रितत्वसिद्धिः । विषयाश्रितत्वसिद्धौ प्रतिपुरुषनियतत्वसिद्धिरिति अन्योन्याश्रयतेति भावः । ‘यथा तमो विषयसम्बद्धम्’ इत्याद्युक्तं दूषयति– विषयाच्छादनं त्विति ।। ‘अवश्यं चैतदेवम्’ इत्याद्युक्तं दूषयति – आरोप्यासत्वस्येति ।।