न च निर्विशेषब्रह्मवादिनः ..

शून्यवादमायावादयोः परप्रमेये वैलक्षण्याभावोपपादनम्

श्रीमज्जयतीर्थटीका

एवमपरप्रमेये वैलक्षण्याभावमुपपाद्य परप्रमेयेऽपि तमुपपादयति -

मूल

न च निर्विशेषब्रह्मवादिनः शून्यात्कश्चिद्विशेषस्तस्य ।

यद्यपि मायावादी जगत्कारणं ब्रह्म वदति शून्यवादी च शून्यं तथाऽपि ब्रह्मवादिनस्तस्य ब्रह्मणः शून्यान्न कश्चिद्विशेषः । निर्विशेषत्वेनाङ्गीकृतत्वात् । निर्विशेषमपि ब्रह्म शून्याद्विशिष्यत इत्यङ्गीकारे स्वव्याघातात् ।

मा भूच्छून्याद् ब्रह्मणो निर्विशेषत्वाद्विशेषः । शून्यस्य तु ब्रह्मणो विशेषः किं न स्यादिति मन्दाशङ्कामपनुदन् ‘न केवलं स्वव्याघाताद् विशेषाभावो ब्रह्मशून्ययोः । किन्नाम । यादृशं शून्यवादिनः शून्यं मन्यन्ते तादृशमेव मायावादिनो ब्रह्माङ्गीकुर्वते अतोऽपि’ इत्यभिप्रायेण शून्यवादिवाक्यं तावत्पठति-

मूल

निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ।

शून्यं तत्वम् ........... ।।

शून्यमित्युक्ते निःस्वरूपत्वं प्राप्तम् । अत उक्तम्-तत्वमिति ।। तर्हि कथंशून्यमित्यत आह- निर्विशेषमिति ।। सविशेष एव वस्तुनि प्रमाणप्रवृत्तेः तदसिद्धिः स्यादित्यत उक्तम्- स्वयम्भातमिति ।। अनेनाऽत्मैव शून्यमित्युक्तम् । अन्यथा तस्य स्वयम्भातत्वेन जिज्ञासोः कथं तत्सिद्धिः स्यात् । तथा चाऽत्मनः पापादिलेपो जरामरणादिकश्च विशेषो  दृश्यत  इत्यतो  देहधर्मा एवैते नाऽत्मधर्मा इति भावेनोक्तम्- निर्लेपमजरामरमिति ।। तथाऽपि स्वयम्भातपदेन स्वविषयप्रकाशत्वं विशेष उक्त इत्यत आह -

मूल

............. अविज्ञेयम् ......... ।

तदेव विवृणोति-

मूल

........... मनोवाचामगोचरम् ।।

अपरप्रकाश्यत्वं स्वयम्भातत्त्वम् । न तु स्वविषयप्रकाशत्वमिति ।

श्रीविजयीन्द्रभिक्षु

नन्वेतावता प्रपञ्चरूपैकदेश एव मायावादिमतस्य तन्मतादविशेष उक्तः । न कार्त्स्न्येन । न हि तावता मतयोरविशेषो वक्तुं शक्यते । एकदेशेन साम्यस्य सर्वमतसाधारणत्वादित्याशङ्क्य तत्परिहाराय कार्त्स्न्येन साम्यमापादयितुं ‘न च निर्विशेषब्रह्मवादिनः शून्याद्विशेषस्तस्य’ इत्यु-क्तम् । तदवतारयति- एवमिति ।। ब्रह्मशब्दशून्यशब्दाभ्यामेव तदुभयमतयोरविशेषः । न तु प्रकारान्तरेणेति परिशेषयितुं शब्दप्रयुक्तं विशेषं शङ्कते- यद्यपीति ।। सत्यम् । तथाऽपि मायावादी ब्रह्मशब्देन शून्यमेव वदतीति गम्यते । न हि मायिमते ब्रह्मशब्दार्थः सविशेषः । निर्विशेषत्वाङ्गी-कारात् । तथाऽङ्गीकारेऽपसिद्धान्तात् । तथा च ब्रह्मवादित्वं तस्य शून्यवादित्वमेव पर्यवसितमिति परिहरन् व्याचष्टे- तथाऽपीति ।।

ननु विशेषरहितत्वमात्रेण ब्रह्मशून्ययोरविशेषेऽपि ब्रह्मशब्दार्थः शून्यशब्दार्थाद्विशिष्यत इत्यङ्गीकारे को दोष इत्यत आह- निर्विशेषमपीति ।। विशिष्यत इति कोऽर्थः । किं ततो भिद्यत इति किं वा विशेषवदिति । आद्येऽपि किं भेदः पारमार्थिकः किं वाऽपारमार्थिकः । आद्येऽद्वैतवादित्वक्षतेः । द्वितीये ब्रह्मशून्ययोः वास्तवाभेदप्रसङ्गादिति बहिरेवाऽद्यं पक्षं निरस्य द्वितीयं निराह- स्वव्याघातादिति ।। निर्विशेषं विशेषवदित्युक्ते निर्वह्निर्वह्निमानितिवत्स्वाङ्गी-कारविरोधप्रसङ्गादित्यर्थः ।

ब्रह्मणो निर्विशेषत्वेन शून्यादविशिष्टत्वेऽपि शून्यस्य तु ब्रह्मणो विशेषः किं न स्यात् । लोके सर्वेषु पदार्थेषु मध्ये कस्यचित्पदार्थस्य कुतश्चित्पदार्थात्केनचिद्रूपेणाविशेषेऽपि केनचिद्रूपेण विशेषदर्शनादिति शङ्कामनूद्य तन्निराकरणार्थं शून्यवादिना यादृशं निर्विशेषत्वेनाङ्गीकृतं तादृशमेव मायावादिनाऽपि ब्रह्म निर्विशेषत्वेनाङ्गीकृतमिति प्रतिपादयितुं शून्यवादिवाक्यमेव पठतीत्याह- मा भूदिति ।। म्लेच्छार्ययोः स्वस्वाभिमतार्थे यववराहशब्दानुगमवत् शून्यवादिमायावादिनोरपि स्वस्वाभिमतार्थे निर्विशेषादिशब्दानुगमेऽपि नार्थानुगम इति शङ्कां वारयितुं मायावादिभिः निर्विशेषादिशब्दानां येऽर्थाः स्वीकृताः यच्च तद्विशेषणव्यावर्त्यं तत्सर्वमपि शून्यवादि-मताविशिष्टमिति प्रतिपादयति ‘शून्यं तत्वम्’ इत्यादिना । तत्वमिति ।। स्वरूपेणानारोपित-मित्यर्थः । तर्हीति ।। लोके तत्वमिति व्यवह्रियमाणं किमपि शून्यमिति न व्यवह्रियते इति शङ्कितु-रभिप्रायः । सविशेष एवेति ।। प्रत्यक्षस्य स्वसन्निकृष्टे उद्भूतरूपादिविशेषवत्येव प्रवृत्तिदर्शनाद् अनुमानस्यापि स्वविषयेण व्याप्त्यादिरूपविशेषं विना तदबोधकत्वात् शब्दस्यापि प्रवृत्तिनिमित्त-रूपविशेषपुरस्कारं विना प्रत्यायकत्वादर्शनाद् वाक्यार्थस्य पदार्थनिरूपितसंसर्गरूपतया सविशेषत्वावश्यम्भावाच्चेत्यर्थः । अनेनेति ।। शून्यं निर्विशेषं स्वयं भातमिति प्रतिपादनेन आत्मैव शून्यशब्दितजिज्ञासुरात्मैव शून्यं तज्जिज्ञास्यं शून्यं तत्वम् । नान्यदित्युक्तं भवतीत्यर्थः ।

शून्यजिज्ञासोरात्मनः शून्याभेदाभावेऽनिष्टमाह- अन्यथेति ।। शून्यस्य स्वयम्भातत्वेऽपि तज्जिज्ञासोरहमिति प्रतीयमानस्वात्मनः शून्याभेदं विना कथं शून्यसिद्धिः स्यात् । न कथमपि । निर्विशेषे शून्ये प्रमाणप्रवृत्त्यसम्भवेन ततस्तत्सिद्ध्यसम्भवादित्यर्थः । नन्वात्मनः पापादिलेपरूप-विशेषयुक्तत्वाज्जरामरणादिरूपविशेषवत्त्वाच्च कथं तस्य निर्विशेषशून्याभेद इत्याशङ्क्य आत्मनि तद्दर्शनं शुक्तिरूप्यदर्शनवत्प्रतीतिमात्रम् । न यथार्थमित्यतो देहधर्मा एवैते पापलेपादयो न त्वात्मधर्मा इति न तस्य शून्याभेदोऽसम्भवीति परिहारमभिप्रेत्य शून्यवादिना ‘निर्लेपमजरामरम्’ इति शून्यं विशेषितमित्याह- तथा चेति ।। ननु स्वप्रकाशत्वे निर्विशेषत्वं विरुद्धम् । स्वविषय-प्रकाशत्वरूपविशेषवत्त्वादित्याशङ्कते- तथाऽपीति ।। ‘मनोवाचामगोचरम्’ इत्येतत्प्रतिपाद्यस्य अविज्ञेयमित्यनेनैव लाभाद्वैयर्थ्यमित्यत आह- तदेवेति ।। अविज्ञेयमित्यनेन स्वविषयप्रकाशत्व-प्रयुक्तसविशेषत्वशङ्कावारणमुपपादयति- अपरेति ।। परप्रकाश्यत्वराहित्यमित्यर्थः । स्वयम्भातत्वं पर-प्रकाश्यत्वाभावरूपमेव विवक्षितम् । न तूक्तमित्यर्थः ।

श्रीवेदेशतीर्थ

परप्रमेयेऽपीति ।। एवं च मूले चशब्दोऽप्यर्थस्तस्येत्यनेन सम्बद्ध्यत इत्युक्तं भवति । ब्रह्मवादिनस्तस्येति व्यधिकरणे षष्ठ्यौ । ‘न कश्चिद्विशेषः’ इत्यत्र विशेषो वैलक्षण्यं विवक्षितम् । अत्र निर्विशेषब्रह्मवादिपदेनोक्तं हेतुमाह- निर्विशेषत्वेनेति ।। अयमत्र प्रयोगः । ब्रह्म न शून्यविलक्षणं न तत्राविद्यमानलक्षणवदिति यावत् । निर्धर्मकत्वेनाङ्गीकृतत्वात्  शून्यवदिति  । अत्रानुकूलतर्कमाह- निर्विशेषमपीति ।। निर्धर्मकमपीत्यर्थः । विशिष्यते विरुद्धलक्षणेन लक्ष्यते । यद्वा, न कश्चिद्विशेष इत्यत्र व्यावृत्त्यादिरूपो विशेषः कोऽपि नास्तीति प्रतिज्ञार्थः । तत्र निर्विशेषत्वेनाङ्गीकृते व्यावृत्त्यादिविशेषाङ्गीकारे स्वव्याघातप्रसङ्ग एव साधकत्वेन विवक्षितः । अतः प्राग् व्याघातेन इत्यादिवक्ष्यमाणः पुनरुक्तिपरिहारः सङ्गच्छत इति ध्येयम् ।

न हि यद्यद्विलक्षणं न भवति तत्तद्विलक्षणमिति क्वचिद्दृष्टम् । अतः कथमियं शङ्का स्यादित्यत आह- मन्देति ।। विशेषाभावः वैलक्षण्याभावः । तत्वमितीति ।। तत्वपदेनानारोपितस्वरूपमुच्यत इति भावः । सविशेष एव वस्तुनीति ।। इन्द्रियसन्निकर्षादिरूपविशेषवत्येवेन्द्रियप्रवृत्तेर्व्यापकता-वच्छेदकरूपविशेषवत्येवानुमानप्रवृत्तेः शक्यतावच्छेदकरूपधर्मवति शक्यसम्बन्धरूपविशेषवति वा शक्यार्थगुणसदृशगुणयोगवति वा शब्दप्रवृत्तेरिति भावः । अनेनेति ।। अधिकारिणः कथं शून्यसिद्धिः तत्र प्रमाणाप्रवृत्तेः इत्याशङ्कायां ‘स्वयं भातम्’ इत्युत्तरदानेनेत्यर्थः । नन्वेवमुत्तर-दानेऽपि कथमात्मैव शून्यमिति प्राप्तमित्यत आह- अन्यथेति ।। अधिकारिणः शून्यत्वाभावे । अधिकारिणः शून्याभेदे तु स्वस्वरूपं स्वेन ज्ञायत इति तदभिन्नं शून्यमपि विज्ञातं भवतीति भावः ।

श्रीराघवेन्द्रतीर्थ

‘शून्यमेव ब्रह्मेत्याह मायी’ इति वाच्ये निर्विशेषेत्यादिवाक्यविन्याससूचितशङ्कामनूद्य तदङ्गीकृत्य प्रकारान्तरेण साम्योक्तिपरतया मूलं योजयति - यद्यपीति ।। विशिष्यत इति ।। विशेष-वदातिष्ठत इत्यर्थः । मन्दाशङ्केति ।। ब्रह्मणः शून्याद्विशेषो नेत्युक्त्या शून्यस्यापि  ब्रह्मतो  विशेषो  नेत्यर्थाल्लब्धत्वादिति  भावः । अतोऽपीति ।। वादिद्वयेन शून्यब्रह्मणोरेकरूपत्वाङ्गीकारादपि ब्रह्मशून्ययोः विशेषाभाव इत्यनुषङ्गः । अन्यथेति ।। शून्यस्याऽत्मनोऽन्यत्व इत्यर्थः। जिज्ञासो-रिति ।। शून्यज्ञानेच्छोः शून्यसिद्धिः कथं स्यात् । तत्र प्रमाणाप्रवृत्तेरित्यर्थः । तथा चेति ।। आत्मन एव शून्यस्वरूपत्वे सतीत्यर्थः । अविज्ञेयमित्याद्युक्त्या चोद्यस्य किमुत्तरमित्यत आह-अपरेति ।। परप्रकाश्यत्वाभाव इत्यर्थः । आत्मैवेति । तथा च अहमिति अधिकारिणो जीवस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् तदभेदेन शून्यस्यापि स्वप्रकाशत्वेन सिद्धिर्युक्तेति भावः । तथा चेति ।। शून्यात्मनोरभेदे सति ।

गुरुराजीया

अपरप्रमेये जगतीत्यर्थः । परप्रमेयेऽपीति । कारणांशेऽपीत्यर्थः । एवञ्च मूले चशब्दोऽ-प्यर्थः । स च तस्येत्यनेन सम्बद्ध्यत इत्युक्तं भवति । ब्रह्मवादिनस्तस्येति व्यधिकरणे षष्ठ्यौ । विशेषो वैलक्षण्यम् । अत्र निर्विशेषेति हेतुगर्भं विशेषणमिति भावेन तस्यासिद्धिं परिहरति- निर्विशेषत्वेनेति ।। अयमत्र प्रयोगः । ब्रह्म शून्यविलक्षणं न । तत्राविद्यमानलक्षणवन्नेति यावत् । निर्धर्मकत्वेनाङ्गीकृतत्वाच्छून्यवदिति । अत्राप्रयोजकत्वमाशङ्क्य व्याहतत्वेन तच्छङ्काया एवानुदयान्न विपक्षे बाधकस्य वक्तव्यतेति भावेनाऽह- निर्विशेषमपीति ।। ब्रह्मणः शून्याद् विलक्षणत्वाभावेऽपि शून्यस्य ब्रह्मणः सकाशाद्वैलक्षण्यं किं न स्यादिति शङ्का न भवितुमर्हति । ययोर्द्वयोर्मध्ये एकस्य यद्वैलक्षण्यं नास्ति तत्रापरस्यापि तद्वैलक्षण्यादर्शनेन निर्मूलत्वादित्यत उक्तम्- मन्दानामिति ।। विशेषाभावः वैलक्षण्याभावः । तत्त्वमितीति ।। ततश्चानारोपित-रूपत्वान्न निःस्वरूपत्वमिति भावः । सविशेष एवेति ।। सधर्मक एवेत्यर्थः । रूपादिमत्येव चक्षुरादेः व्याप्त्या व्यापकतावच्छेदकधर्मविशिष्टत्वेन पक्षधर्मतया च पक्षसंसृष्टत्वेन पक्षे साध्यस्य सिद्ध्योक्तधर्मवत्येवानुमानस्य, शब्दप्रवृत्तिनिमित्तादिमत्येव च शब्दस्य प्रवृत्तिदर्शनादिति भावः। अनेनेति ।। अधिकारिणः कथं शून्यसिद्धिः । तत्र प्रमाणाप्रवृत्तेरित्याशङ्कायां स्वयं भातमित्युत्तर-दानेनेत्यर्थः । स्वयं भातमित्युक्तेरुक्ताभिप्रायकत्वं विपक्षे बाधककथनेनोपदर्शयति- अन्यथेति ।। अस्त्वेवमुक्ताभिप्रायकत्वं स्वयम्भातमित्युक्तेः । ततः किमित्यत आह- तथा चेति ।। तथा सतीत्यर्थः । विशेषो दृश्यत इतीति ।। १विशेषो न दृश्यत इत्यर्थः । तस्य निर्विशेषत्वात् । अन्यथा तद्भङ्गप्रसङ्गादिति भावः । अपरप्रकाश्यत्वमिति ।। पराप्रकाश्यत्वमित्यर्थः 

गोविन्दीया

निर्विशेषमिति ।। निर्विशेषमपि ब्रह्म शून्याद्विशिष्टमित्यङ्गीकारे एकस्यैव ब्रह्मणः निर्विशेषत्वसविशेषत्वाङ्गीकारेण स्वव्याघातात् विरोधादित्यर्थः । अतोऽपीति ।। अस्मादपि निमित्तादित्यर्थः । तत्त्वमिति ।। अनारोपितरूपमित्यर्थः । तर्हीति ।। यद्यनारोपितस्वरूपं तर्हि कथं शून्यशब्देन व्यवह्रियत इत्यत आहेत्यर्थः । निर्विशेषमिति ।। विशेषरहितत्वाच्छून्यशब्देन व्यवह्रियते न तु निःस्वरूपत्वेनेत्यर्थः । सविशेष एवेति ।। सविशेष एव वस्तुनि प्रमाणप्रवृत्तेः निर्विशेषत्वेनात्र प्रमाणप्रवृत्तेरभावात् तस्य तत्वस्यासिद्धिरित्यर्थः । अनेनेति ।। स्वप्रकाशत्वकथनेन जीवात्मैव शून्यमित्युक्तमित्यर्थः । अन्यथेति ।। शून्यस्याऽत्मत्वाभावे तस्य शून्यतत्वस्य स्वयम्भातत्वेन परप्रकाशविषयत्वाभावात् । तद्भिन्नस्य जिज्ञासोः मोक्षार्थं कथं तत्वसिद्धिः स्यादि-त्यर्थः । तत्वात्मनोऽनेकत्वे हि तत्वस्य स्वयम्भातत्वेऽपि जिज्ञासोः तत्सिद्धिः स्यादिति भावः । तथा चेति ।। शून्यात्मनोऽनेकत्वेनाऽत्मनः पापादिलेपो जरामरणादिकश्च प्रथमादिपदेन पुण्यलेपः द्वितीयादिपदेन वृद्धिह्रासश्च विशेषो दृश्यत इति तदभिन्नस्य शून्यस्यापि विशेषसद्भावात् कथं निर्विशेषत्वमित्यत इत्यर्थः । तथाऽपीति ।। पापादिलेपजरामरणादिकानां देहधर्मत्वेन शून्यस्य निर्विशेषत्वेऽपीत्यर्थः । अपरप्रकाश्यत्वमिति ।। परप्रकाश्यत्वाभाव एव स्वयम्भातत्वं न तु स्वविषयप्रकाशत्वमित्यर्थः ।

जनार्दनभट्टीया

तथाऽपीति ।। स्वयम्भातत्वस्य अभावरूपत्वेऽपीत्यर्थः । सत्यज्ञानादिविशेषास्तु भावरूपा एवेति निर्विशेषत्वभङ्ग इति भावः ।

ननु ‘सत्यं ज्ञानम्’ इति वाक्ये त्रयो धर्मा उपात्ताः । ‘जाड्यसंवृति’ इत्यत्र तु चत्वारः । एवञ्च विरोधिप्रतिरोधिनां तु विषमसङ्ख्याकत्वं प्राप्तमित्यत आह – जाड्यविरोधित्वमिति ।। तथा च ‘सत्यं ज्ञानम्’ इत्यत्र उपात्तस्यैकस्यैव ज्ञानस्य जाड्यं संवृतिश्चेति प्रतिविरोधिद्वयम् । सत्यत्वानन्तत्वयोस्तु बाध्यसंवृतीति वक्ष्यमाणप्रतिविरोधिद्वयम् ।

एवं सति विरोधिप्रतिविरोधिनां सङ्ख्यासाम्यं सिद्धमिति भावः । ननु निर्विकारस्य शून्यस्य कथं विकारापरपर्याय उपचयः ? इत्यरुच्या स्वमतावष्टम्भेन परिहारान्तरमाह – किञ्चेति ।। घटादीनां जन्यत्वं नाम ज्ञानतादात्म्यविरोधित्वम् । एवं ज्ञानत्वं नाम शून्यस्य संवृतितादात्म्यविरोधित्वमित्यर्थः ।

ननु एवं सति ‘इदं ज्ञानं संवृतिविरोधिज्ञानत्वात्’ इत्यनुमानम् उच्छिद्येत । हेतोः साध्या-विशेषादित्याशङ्क्य अयं दोषः शून्यवादिमत एव न तत्ववादिन इत्याह – अत्र विवक्षित इति ।। अत्र = शून्यवादिमते इत्यर्थः । तेषाम् अन्यापोहवादित्वादिति भावः । अदोष इति ।। सदा संवृत्यभावः स्यादिति दोषो नास्तीत्यर्थः । नहि संवृतिविरोधित्वं नाम संवृतिनिवर्तकत्वम् । येनोक्तदोषः स्यात् । किन्तु संवृतितादात्म्यविरोधित्वम् । तच्च शून्यस्य सर्वदाऽस्त्येवेति भावः । सत्तासामान्येति ।। परसामान्येत्यर्थः । सामान्यं द्विविधम् । परमपरं चेति । परं सत्ता बहुविषयत्वात्१ । अपरं द्रव्यत्वादी-त्यादिना नैय्यायिकैः कथ्यमानं द्रव्यत्वाद्यपेक्षयाऽधिकदेशवृत्तित्वमेव सामान्यस्य च परत्वम् । तदेव च महत्वम् । न तु महापरिमाणत्वमिति द्रष्टव्यम् । अप्रच्युतेति ।। अपरिच्छिन्नेत्यर्थः । कुतो ज्ञेय-मिति ।। किं फलमुद्दिश्य ज्ञेयमित्यर्थः । शब्दादिना परोक्षतो भानस्य संसारदशायामपि सत्वात् साक्षात्कारात् प्रागपि तद्भावं नयेत् इत्यत आह – आरोपितेति ।। अतद्भावो जरामरणादिः ।

Load More