विषयवर्जितः..
आत्मप्रकाशस्य निर्विषयत्वाभावसमर्थनम्
श्रीमज्जयतीर्थटीका
ननु मा भूदात्मप्रकाशः स्वविषयः । मा च भूत्परविषयः । निर्विषय एवायं किन्न स्यादिति तृतीयं पक्षं निराकरोति
मूल
विषयवर्जितः प्रकाश एव न भवति घटवत् ।
आत्मा न प्रकाशः प्रकाश्यशून्यत्वात्, घटवत् । अन्यथा घटोऽपि प्रकाशः स्याद् इति जडत्वासिद्धिः । ननु विषयशून्यस्य घटस्य प्रकाशत्वाभावेऽप्यात्मा विषयवर्जितः प्रकाशोऽस्तु को दोषः । न हि सर्वैर्भावैरेकविधैर्भाव्यमिति नियमोऽस्ति । यथा अन्यो ज्ञाता अन्यश्च ज्ञेय इत्यन्यत्र दर्शनेऽप्यात्मन्यैक्यं गृह्यते तथेति चेत् । स्यादप्येवं यद्येवं प्रमाणं स्यात् । न चैतदस्तीत्याह-
मूल
तत्प्रमाणाभावात् ।
प्रकाशत्वस्यैवानुपपत्तावात्मनः स्वप्रकाशत्वं सुतरां परेषामशक्योपपादनमिति मन्वानो भगवानाचार्यः अस्वप्रकाशत्वं जडत्वमिति परोक्तमपि निराकर्तुं न पृथक्प्रक्रान्तवानिति ।
श्रीविजयीन्द्रभिक्षु
प्रकाश्यशून्यत्वादिति ।। इदमुपलक्षणम् । ज्ञातृशून्यत्वादित्यपि ज्ञेयम् । अन्यथेति ।। इदमुपलक्षणम् । अन्यथा भोक्तृहीना भुजिक्रियाऽपि स्यादित्यपि द्रष्टव्यम् । ननु विषयशून्यत्वेऽ-प्यात्मनो ज्ञानस्वरूपत्वमुपपन्नम् । ‘सत्यं ज्ञानमनन्तम्’ इत्यादिश्रुतेरित्याशयेन शङ्कते- नन्विति ।। यद्येवमिति ।। उदाहृतश्रुतिश्चाऽत्मनो ज्ञानरूपत्वमात्रप्रतिपादनपरा । न तु निर्विषयत्वेऽपि ज्ञानरूपत्वप्रतिपादनपरेति श्रुतिप्रतिपन्नज्ञानरूपत्वनिर्वाहायैव सविषयत्वमङ्गीकार्यम् । ज्ञानस्य सविषयत्वादिति भावः । तत् तत्र निर्विषयत्वेऽप्यात्मनो ज्ञानरूपत्वमित्यत्र प्रमाणाभावादिति मूलार्थः । नन्वस्वप्रकाशत्वं जडत्वमित्यपि पराङ्गीकारात्तत्किमिति न दूषितम्? सत्यम् । अप्रकाशत्वपक्षदूषणेनैव दूषितप्रायत्वादुपेक्षितमित्याह- प्रकाशत्वस्येति ।।
श्रीवेदेशतीर्थ
जडत्वासिद्धिरिति ।। प्रकाश्यशून्यस्यापि प्रकाशत्वे घटस्यापि प्रकाशत्वापत्त्याऽ-प्रकाशत्वरूपजडत्वस्य पक्षीकृते घटेऽसिद्धिरित्यर्थः । भावैः पदार्थैः । अन्यत्र घटादौ । ऐक्यं ज्ञातृज्ञेययोरिति शेषः । तत् तत्र । आत्मनो निर्विषयत्वेऽपि ज्ञानत्वमित्यत्र प्रमाणाभावादिति मूलार्थः । श्रुत्यादौ ज्ञानरूपतोक्तिश्च न निर्विषयत्वेऽपि ज्ञानरूपताभिप्रायेति भावः । नन्वस्व-प्रकाशत्वं जडत्वमित्यपि पराङ्गीकारात् तत् किमिति न दूषितमित्याशङ्क्याप्रकाशत्वदूषणेनैव दूषितप्रायत्वादुपेक्षितमित्याह- प्रकाशत्वस्यैवेति ।। अशक्योपपादनमिति ।। अवेद्यत्वं स्वप्रकाशत्व-मित्यङ्गीकारे तदभावो वेद्यत्वमस्वप्रकाशत्वमित्यायातम् । तच्च दृश्यत्वरूपं दूषितमिति भावः ।
श्रीराघवेन्द्रतीर्थ
इति तृतीयमिति ।। यदि जडत्वं नामेति वाक्यव्याख्याने विकल्पितमित्यर्थः । जडत्वासिद्धिरिति ।। अप्रकाशत्वरूपेति योज्यम् । तदिति ।। तत्र निर्विषयत्वेऽप्यात्मनः प्रकाशरूपत्वे प्रमाणाभावादित्यर्थः । नन्वस्वप्रकाशत्वं जडत्वमित्येतत्कुतो नाऽशङ्कितमित्यत आह- प्रकाशत्वस्यैवेति ।। ननु विषयशून्यस्य घटस्य प्रकाशत्वाभावादात्मनोऽपि विषयवर्जितस्य प्रकाशत्वाभाव एव युक्तः । दृष्टानुसारिणी हि कल्पनेति न्यायादिति चेत् तत्राऽह- न हि सर्वैरिति ।। भावैः पदार्थैः । गृह्यत इति । मामहं जानामीत्यत्रेत्यर्थः ।
गुरुराजीया
जडत्वासिद्धिरिति ।। प्रकाश्यशून्यस्यापि प्रकाशत्वे घटस्यापि प्रकाशत्वापत्त्याऽ-प्रकाशत्वरूपजडत्वस्य पक्षीकृते घटेऽसिद्धिः स्यादित्यर्थः । अन्यत्र घटादौ । अप्रमातृत्वादिवद् अस्वप्रकाशत्वस्यापि जडत्वनिर्वचनतयाऽङ्गीकारात् तस्याप्यवश्यं विकल्प्य निरसनीयत्वेन मूले तदनिरासप्रयुक्तन्यूनतामाशङ्क्य परिहरति- प्रकाशत्वस्यैवेति ।। अशक्योपपादनमिति ।। तस्य तद्घटितमूर्तिकत्वादिति भावः ।
गोविन्दीया
प्रकाशशून्यत्वादिति ।। विषयशून्यत्वादित्यर्थः । अन्यथेति ।। विषयशून्यस्याप्यात्मनः प्रकाशशून्यत्वं स्यात्, घटोऽपि प्रकाशः स्यात् । तथा च पक्षीकृतप्रपञ्चे जडत्वहेतोरसिद्धिः स्यात् । अथवा जडरूपघटस्यापि प्रकाशत्वे समस्तजडरूपपदार्थे जडत्वासिद्धिरित्यर्थः । यथेति ।। अन्यो ज्ञाताऽन्यो ज्ञेय इत्यात्मातिरिक्तान्यज्ञातृज्ञेयत्वधर्मयोर्भिन्नाधिकरणत्वेन दर्शनेऽपि तयोर्धर्मयो-रात्मन्यैक्यं गृह्यते यथा तथा विषयवर्जितघटस्यापि प्रकाशत्वाभावेऽप्यात्मविषयवर्जितः प्रकाशोऽस्तु को दोष इत्यर्थः । स्यादपीति ।। ज्ञातृत्वज्ञेयत्वयोरात्मन्यैक्ये यथा प्रमाणमस्ति, एवं तद्वद्निर्विषयस्याऽत्मनः प्रकाशत्वे न प्रमाणं स्यात् । तर्हि एवमपि भवदुक्तरीत्या चोद्यं स्यात् प्रमाणाभावात् । नैवं निर्विषयोऽप्यात्मा न प्रकाश इत्याहेत्यर्थः । तदिति ।। सप्तसु प्रथमेति तदिति तस्मान्निर्विषयात्मप्रकाशत्वे प्रमाणाभावादित्यर्थः । प्रक्रान्तवानिति ।। उपक्रान्तवानित्यर्थः ।
जनार्दनभट्टीया
‘विषयवर्जित’ इति मूले विषयवर्जितमात्रस्य परत्वप्रतीतेः घटादेरपि पक्षत्वापत्तौ अर्थान्त-रता । घटवदिति दृष्टान्तानुपपत्तिश्चेत्यत आह – आत्मेति ।।
जडत्वासिद्धिरिति ।। ‘मिथ्यात्वानुमाने पक्षीभूते घटादौ’ इति शेषः । अन्यत्र दर्शनेऽपीति ।। घटदेवदत्तादिस्थल इत्यर्थः । आत्मनि अहमिति ज्ञाने ऐक्यं ज्ञातृज्ञेययोः । मामहं जानामीति व्यवहारानुरोधादिति भावः । यद्येवमिति ।। निर्विषयस्य प्रकाशत्व इत्यर्थः ।