अविषयत्वादेव तस्य..

शशविषाणादिज्ञानस्य सविषयत्वोक्तिपुरःसरं दृश्यत्वहेतुदूषणोपसंहारः

अविषयत्वादेव तस्य

श्रीमज्जयतीर्थटीका

ननु कथमेतत् । यावता शशविषाणादिपदश्रवणादविषयमेव ज्ञानमुत्पद्यते । न हि शश-विषणादिकमस्ति । न चास्यान्यो विषयः सम्भवति । मैवम् । न ह्यत्रासद्विषयत्वमविषयत्व-मित्यभिमतम् । किन्नाम निरालम्बनत्वम् । न हि तथा शशविषाणादिज्ञानम् । तथात्वे शशविषाणादिज्ञानमित्येव न स्यात् ।

तदेवं कयाऽपि विधया आत्मनो दृक्कर्मत्वाभावेन वेदान्तवाक्यजनितविज्ञानमात्मज्ञानं भवतीति तत्सिद्धयेऽवश्यमात्मनो दृक्कर्मत्वेऽङ्गीकार्ये तस्यानैकान्तिकत्वं सिद्धम् ।

श्रीविजयीन्द्रभिक्षु

अविषयत्वादित्यस्यासद्विषयत्वादित्यर्थं मत्वा शङ्कते- नन्विति ।। एतदिति ।। निर्विषयत्वे ज्ञानमेव न स्यादित्येतदित्यर्थः । निरालम्बनत्वं विषयानुल्लेखित्वम् । परमप्रकृतमात्मनि दृश्यत्वहेतोरनैकान्तिकत्वं सहेतुकमुपसंहरति- तदेवमिति ।। फलव्याप्यत्वादिदूषणं तु न्यायामृते अस्मत्कृतटीकायां विस्तृतमिति सङ्ग्रहे आधिक्यान्नेह लिख्यते ।

श्रीवेदेशतीर्थ

अविषयत्वादित्यस्यासद्विषयत्वादित्यर्थं मत्वा शङ्कते- नन्विति ।। एतदिति ।। निर्विषयत्वे ज्ञानत्वमेव न स्यादित्येतदित्यर्थः। निरालम्बनत्वं विषयानुल्लेखित्वम् ।

द्वैतद्युमणि

कयाऽपि विधयेति ।। इदं न भवतीत्युत्तरान्वयि । दृक्कर्मत्वाभावेन । दृक्कर्मत्वाभावे इति छेदः । नञो भवतीत्यनेनान्वयः ।

गुरुराजीया

अविषयत्वं नामासद्विषयत्वमिति सम्भ्रान्तश्चोदयति- नन्विति ।। एतदिति ।। निर्विषयत्वेन ज्ञानत्वाभावापादनमित्यर्थः । तथा सति तज्ज्ञानस्याप्यसद्विषयकत्वेन ज्ञानत्वाभावा-पातादिति भावः । निरालम्बनत्वमिति । विषयानुल्लेखित्वमित्यर्थः । कयाऽपि विधयेति ।। तदाकारत्वतदज्ञाननिवर्तकत्वादिशङ्कितप्रकारेणेत्यर्थः ।

गोविन्दीया

कथमेतदिति ।। अविषयत्वे ज्ञानत्वाभावः कथमित्यर्थः । यावतेति ।। विभक्ति-परिणामेन श्रवणादिति पञ्चम्यन्तं तत्पदस्य विशेषणम् । अत्रेति ।। अविषयत्वादिति वाक्ये इत्यर्थः। न हीति ।। शशविषाणादिज्ञानं तथा न हि निरालम्बनम् न हि । किन्तु सालम्बनमेवेत्यर्थः । तथात्व इति ।। निरालम्बनत्वे इत्यर्थः । तदेवमिति ।। तत् तस्मात् विपक्षस्याऽत्मनो दृश्यत्वात् तस्य दृश्यत्वस्य हेतोः एवम् उक्तरीत्याऽनैकान्त्यं सिद्धमित्यर्थः ।

जनार्दनभट्टीया

अविषयमेवेति ।। विषयरहितमित्यर्थः । किन्नाम निरालम्बनत्वमिति ।। निरूपक-शून्यत्वमित्यर्थः । शशविषाणादिज्ञानमित्येवेति ।। निरूपकशून्यत्वे शशविषाणस्य ज्ञानमिति षष्ठीघटितव्यवहारो न स्यादित्यर्थः । ‘एव’ इत्यनेन आपाद्यस्य अनिष्टतां सूचयति ।