न च धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति..

मूलोक्तस्य धूमत्वदृष्टान्तस्यायुक्तत्वशङ्कापरिहारौ

न च धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति

श्रीमज्जयतीर्थटीका

नन्वसदनिर्वचनीये द्वे अपि न स्तः । ततो नरखरविषाणयोर्विषाणत्ववदिति निदर्शनी-यम् । धूमस्तु  बाष्पारोपित एव नास्ति । न त्वितरः । तत्कथं धूमत्ववदित्युदाहृतम् । मैवम् । असदिति निर्देशस्य प्रतियोगिप्रधानत्वे व्यक्त्यभावमात्रे दृष्टान्तत्वोपपत्तेः । निषेधप्रधानत्वे तु तस्य सत्त्वेन सुतरां युक्तत्वात् । बाष्पधूलीमशकमालाद्यारोपितधूमेषु धूमत्ववदिति वा व्याख्येयम् ।