न हि युक्तिपराजितोऽपि ..
दृष्टेस्तर्कस्य प्राबल्याभावसमर्थनम्
श्रीमज्जयतीर्थटीका
कुतो न तर्को दृष्टेर्बलवानित्यत आह-
मूल
न हि युक्तिपराजितोऽपि क्षुधितो नान्नमत्ति ।
यदा हि देशविशेषस्थेन पुरुषेणान्ने दृष्टे देशान्तरस्थोऽन्यस्तु स्वानुभूतान्नरसादिकं तत्रानुप-लभमानो यदीदमन्नं स्यात्तदा(सं)प्रतिपन्नरसाद्युपपन्नं स्यात्, न चैवमतो नान्नमेतदिति यदि तर्कयेत्तदा कथम् । यदि तर्को दृष्टेरपि बलवान् स्यात् । तदाऽयमपि तर्को बलवत्त्वादन्नदृष्टिं बाधेत । ततश्च दृष्टान्नोऽपि तर्केणानन्नत्वं प्रतिपन्नो दृष्टिमनादृत्य नाद्यात् । न चैतदस्ति । तेन ज्ञायते न तर्को दृष्टेर्बलवानिति । अत्र युक्तिपराजित इति गुडजिह्विकैव । न तु पराजित एव । पराजितत्वं हि तद्विषयत्वाभ्युपगमः । सति च तस्मिन्न हि नात्तीति न स्यात् । उपादीयमानं च तत्क्षुन्निवृत्त्याद्यर्थक्रियाक्षमं च न स्यादित्यतिप्रसङ्गान्तरसूचनाय क्षुधित इत्युक्तम् ।
श्रीविजयीन्द्रभिक्षु
अस्तूक्तरीत्या बाधकत्वे विरोधित्वे सति बलवत्त्वं तन्त्रम् । तथाऽपि दृष्ट्यपेक्षया तर्कः किमिति बलवान्न । तस्य प्रमाणानुग्राहकत्वेन प्राबल्यावश्यम्भावात् इति पृच्छति- कुत इति ।। तर्कस्य दृष्ट्यपेक्षया बलवत्त्वं कुतो नेति पृष्टवन्तं प्रति युक्तिपराजितस्य क्षुधितस्यान्नाऽऽदान-प्रतिपादनमसङ्गतमित्याशङ्क्य तर्कस्य बलराहित्यप्रतिपादनोपयोगिकारणप्रतिपादनपरतया व्याचष्टे- यदा हीति ।। देशविशेषस्थेन इति पुरुषाविशेषणं उभयोरप्येकदेशस्थत्वे सम्प्रतिपन्न-विषयत्वेन विवादाभावप्रसङ्गात्तत्सिद्ध्यर्थं विजातीयरसोपेतान्नभोक्तृत्वज्ञापनाय । तदा कथमिति ।। अन्नभक्षणे प्रवर्तेतेति शेषः । तत्कुत इत्यत आह- यदीति ।। बाध एवेत्यत आह-ततश्चेति ।। दृष्टिमनादृत्येति ।। दृष्टिं बाधितार्थत्वेन निश्चित्य क्षुन्निवृत्त्यर्थं तददनविमुखः स्यादित्यर्थः ।
तत्र स्यादित्यत्रेष्टापत्तिमाशङ्क्याऽह- न चैतदस्तीति ।। तथा च तर्कस्य प्रमाणानुग्राहकत्वेऽपि कार्यमेव तस्य दृष्ट्यपेक्षया प्राबल्याभावज्ञापकमित्याह- तेनेति ।। ननु तर्को यदि दुर्बलः कथं तर्ह्युच्यते युक्तिपराजित इति तत्राऽह- अत्रेति ।। न हीति वाक्य इत्यर्थः । तद्विषयेति ।। युक्तेर्यो विषयः अनन्नत्वं तदभ्युपगम इत्यर्थः । गुडजिह्विकेत्यत्र ज्ञापकमाह- सति चेति ।। तर्कविषयी-भूतानन्नत्वाभ्युपगमे च सतीत्यर्थः । न हि युक्तिपराजित इत्यनेनैव तर्कस्य दौर्बल्यप्रतिपादनात् क्षुधित इत्यधिकमित्याशङ्क्य ‘ननु प्रत्यक्षं तद्बाधितमेवास्तु । न च प्रवृत्त्यनुपपत्तिः । रागौत्कट्यात् तदुपपत्तेः’ इत्याशङ्कानिरासकातिप्रसङ्गान्तरसूचकत्वान्नाऽधिक्यमित्याह- उपादीयमानं चेति ।। तत् प्रत्यक्षदृष्टमन्नम् ।
श्रीवेदेशतीर्थ
तदा कथमिति ।। तर्को दृष्टेर्बलवानिति शेषः । ननु का कथन्ता । तर्को दृष्टेर्बलवानेवेति ब्रूम इत्याशङ्कायां ‘न हि युक्तिपराजितोऽपि’ इत्यादिमूलोक्तविपर्ययपर्यवसानलब्धतर्कस्वरूपं दर्शयति- यदीत्यादिना ।। नचैतदस्तीति ।। न हि युक्तिपराजितोऽपि क्षुधितो नान्नमत्ती-त्यस्तीत्यर्थः । ननु युक्तेर्दौर्बल्ये कथं तत्पराजितत्वं युक्तिपराजित इत्यनेनोच्यत इत्यत आह- अत्रेति ।। ननु क्षुधितपदं व्यर्थमित्याशङ्कायां रागातिरेकाद्भ्रमसंस्काराद्वाऽदने प्रवृत्तिरित्याशङ्का-निवर्तकतर्कान्तरसूचकत्वान्न व्यर्थमित्याह- उपादीयमानं चेति ।।
श्रीराघवेन्द्रतीर्थ
प्रतिपन्न इति । मन्यमान इत्यर्थः । नाद्यादिति ।। न भक्षयेदित्यर्थः । न चैतदस्तीति ।। नाद्यादित्येतन्नास्तीति विपर्यये पर्यवसानम् । ननु तर्को दुर्बलः तत्कथं युक्तिपराजित इत्युक्तिरित्यत आह- अत्र युक्तिपराजित इति ।। गुडयुक्ता जिह्वा गुडजिह्विका । धात्वर्थे वुन् वक्तव्य इति वुनीकादेशे टापि सति रूपम् । बालस्य कट्वाद्यौषधदानाय मुखं व्यादातुं गुडे जिह्वायां दत्ते तात्कालिकसन्तोषो बालस्य यथा जायते । तथा तर्कप्राबल्यवादिनः किञ्चित्सन्तोषाय पराजितमित्युक्तमित्यर्थः ।
कुत एवम् । मुख्यपराजय एवास्त्वित्यत आह- पराजितत्वं हीति ।। तद्विषयाभ्युपगमः तर्क-विषयानन्नत्वाभ्युपगमः । सोऽप्यस्त्वित्यत आह- सति च तस्मिन्निति ।। अनन्नत्वाभ्युपगमे सति न हि नान्नमत्तीति मूलकृदुक्तं विपर्यये पर्यवसानं न स्यादित्याह- न हि नात्तीति ।। न स्यादिति ।। नास्त्येवेति स्यादित्यर्थः । तदिति । अन्नम् । अतिप्रसङ्गान्तरेति ।। क्षुन्निवृत्तितज्जन्यदुःखाभाव-सुखानुभवमुखप्रसादादि न स्यादित्यतिप्रसङ्गान्तरेत्यर्थः । अन्ने यावनालान्ने । ननु युक्तेर्दौर्बल्ये कथं तत्पराजितत्वोक्तिरित्यत आह- अत्रेति ।। गुडेति ।। औषधदाता भिषक् आदौ जिह्वायां गुडं स्थापयति सोऽयं गुडजिह्विकान्यायस्तद्वदित्यर्थः। तद्विषयेति ।। तर्कविषयानन्नत्वाभ्युपगम इत्यर्थः । सति चेति । अनन्नत्वेऽङ्गीकृते सतीत्यर्थः । न हीति ।। अन्नं नात्तीति न हि, अत्तीति यावत् । ‘न स्यात्’ तथा च नाद्यादित्यर्थः ।
गुरुराजीया
तदा कथमित्युक्तस्यैवाभिप्रायमाह- यदीति ।। इष्टापत्तिं परिहरति- न चैतदस्तीति ।। युक्तिपराजितोऽपि क्षुधितो नान्नमत्तीति न चास्तीत्यर्थः । ननु युक्तेर्द्दृष्ट्यपेक्षया दौर्बल्येन तया पराजितत्वाभावात् कथं युक्तिपराजित इति तत्पराजितत्वोक्तिरित्यत आह- अत्रेति ।। ननु च न हि युक्तिपराजितोऽपि नान्नमत्तीत्येतावतैव विवक्षितप्रसङ्गाभिधानसिद्धेः क्षुधित इत्यनर्थकमित्यत आह- उपादीयमानं चेति ।। अर्थक्रियाक्षमं न स्यादिति ।। अन्यथा वस्तुतोऽनन्नस्य मृत्तिकादेरपि अन्नोचितार्थक्रियाक्षमत्वप्रसङ्गादिति भावः ।
गोविन्दीया
तदा कथमिति ।। तदा तर्कः प्रबलवानेव किं नेत्यर्थः । अयमपीति ।। अनन्नत्वतर्क इत्यर्थः । न चैतदस्तीति ।। अन्नं नात्तीत्येतन्नास्ति किन्त्वत्त्येवेत्यर्थः । अत्रेति ।। गुडस्पृष्ट-जिह्विकावदेव युक्त्या पराजितः, अन्नत्वाभ्युपगमात् । न तु सर्वात्मना पराजित एवेत्यर्थः । तद्विषयत्वभ्युपगम इति ।। तर्कविषयानन्नत्वाङ्गीकार इत्यर्थः । सतीति ।। तस्मिन् साक्षात् पराजितत्वे सति मूलवाक्येन हि नात्तीति शब्दप्रयोगो न स्यादित्यर्थः । प्रसङ्गान्तरेति ।। तर्कान्तरसुवचनायेत्यर्थः ।
जनार्दनभट्टीया
देशान्तरस्थोऽन्य इति ।। नारिकेलद्वीपवासीत्यर्थः । प्रतिपन्नरसादीति१ ।। स्वानुभूत-निर्हारि२रसादीत्यर्थः । तद्विषयाभ्युपगम इति ।। तर्केण आपादनीयानन्नत्वाभ्युपगम इत्यर्थः । अतिप्रसङ्गान्तरसूचनायेति ।। अतिप्रसङ्गान्तरसूचनस्य उपयोगं स्वयमेव वक्ष्यति ।