मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च..
मिथ्याशब्देन अनिर्वचनीयावाचकेनाप्यनिर्वचनीयव्यवहार इति शङ्कानिरासः
मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च..
श्रीमज्जयतीर्थटीका
द्वितीयपक्षेऽपि मिथ्याशब्द इत्येवोत्तरम् । न हि तीरपुरुषादेरवाचकेनापि नदीसिंहादिशब्देन देवदत्तस्तद्वदतीति विना प्रमाणेन कल्प्यते । अपि तु वक्तुराप्तत्वनिश्चये सति वाच्यार्थानु-पपत्त्यादिदर्शनेनैव । न च तथा मिथ्येतिशब्दो यस्यासौ मिथ्याशब्दो भ्रान्तेरुत्थितोऽनिर्वचनीयं तेन वदतीत्यत्र किञ्चिन्मानमस्ति । अनिर्वचनीयत्वाद्रजतस्य मुख्यार्थानुपपत्तावमुख्या वृत्तिराश्रीयत इति चेन्न । परस्पराश्रयप्रसङ्गात् । सिद्धे शुक्तिरजतादेरनिर्वचनीयत्वे मिथ्याशब्दस्य तत्परत्वकल्पनं तेनैव चानिर्वचनीयत्वकल्पनमिति । प्रमाणान्तरेणानिर्वचनीयताप्रतिपत्तौ तु किमनेन । तच्च निरसिष्यते ।
श्रीविजयीन्द्रभिक्षु
वदतिरिति ।। ‘इक्श्तिपौ धातुनिर्देशे’१ इति वचनात् ‘वद- व्यक्तायां वाचि’ इति धातुरित्यर्थः । अत्रेति ।। मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च इति वाक्य इत्यर्थः । कर्मतेति ।। तथा च मिथ्याशब्दं वदतीति प्रयोगः स्यात् । अनभिहिते ‘कर्मणि द्वितीया’२ इति द्वितीयाया अनुशासनादिति भावः । शाब्दप्रतीतिवाचीति ।। वदतिरित्यनुषङ्गः । करणतैवेति ।। तथा च मिथ्याशब्देनानिर्वचनीयं वदतीति प्रसङ्गः । ‘कर्तृकरणयोस्तृतीया’३ इति करणे तृतीयाया अनुशासनादिति भावः । अन्यथेति ।। व्यापाररहितकारणमात्रस्यापि करणत्वे व्यापारस्यापि करणत्वापत्तेरित्यर्थः । नन्वस्तु व्यापारवत एव कारणस्य करणत्वम् । तावतोक्तदोषोद्धारः कथमित्यत आह- तत्रेति ।। एवं सति स्वव्यापाररूपक्रियां प्रति कारकमात्रस्य स्वातन्त्र्येण कर्तृत्वादित्यर्थः । ‘स्वतन्त्रः कर्ता’४ इति पाणिनिस्मरणादिति भावः । करणेऽपीति ।। शाब्दप्रतीतिरूपफलापेक्षया करणस्यापि सतः शब्दस्य स्वव्यापाररूपक्रियाकर्तृत्वविवक्षयेत्यर्थः । प्रधानक्रियां प्रतीति ।। उद्देश्यत्वेन शाब्दप्रतीतिरूपप्रधानक्रियां प्रतीत्यर्थः । अवान्तरव्यापार इति विषयसप्तमी । प्राधान्येन निर्देश इति ।। वदतीति प्राधान्येन निर्देश इत्यर्थः । ननु मिथ्याशब्देन देवदत्तोऽनिर्वचनीयं वदतीत्यप्राधान्येन निर्देशेऽपि वाचकत्वपक्षकक्षीकरणस्य सूचितत्वसिद्धेस्तथा निर्देशः कुतो न कृत इत्यत आह- मिथ्याशब्देनेति ।। शाब्दप्रतीतिमात्रेऽपीति ।। देवदत्तो गङ्गाशब्देन तीरं वदतीत्यादौ लक्ष्येऽपि वदतिशब्दप्रयोगदर्शनादित्यर्थः ।
नन्ववाचकेनापि मिथ्याशब्देन भ्रान्त्युत्थितोऽनिर्वचनीयं व्यवहरतीति कृत्वेति द्वितीयपक्षे आकरे दूषणोक्त्यदर्शनात् न्यूनत्वमित्याशङ्क्याऽह- द्वितीयपक्षेऽपीति ।। तस्यैवोत्तरत्वमुपपाद-यितुमाह-न हीति ।। अत्र ‘नद्यां घोषः, पुरुषोऽयं सिंहः’ इत्यादिवाक्येष्विति शेषः । तद्वदतीति ।। तीरपुरुषादिकमित्यर्थः । अन्यत्र क्लृप्तलक्षणाकल्पनमेव वक्तुमाकाङ्क्षामुत्थापयति- अपि त्विति ।। वाच्यार्थानुपपत्त्यादीत्यादिपदेन तात्पर्यानुपपत्तिपरिग्रहः । ननु प्रकृतेऽपि तत्सत्त्वात्किं लक्षणा न कल्प्यत इत्यत आह- न च तथेति ।। नन्ववाचकेनापि मिथ्याशब्देन भ्रान्त्युत्थितोऽनिर्वचनीयं व्यवहरतीति द्वितीयपक्षोत्तरत्वं कथं १मिथ्याशब्दस्येत्याशङ्क्य तदुपपादयितुमाह- मिथ्येति शब्दो यस्यासाविति ।। भ्रान्तेरुत्थितः सञ्जातबाधः । तेन मिथ्याशब्देन । नन्वस्तु मिथ्याशब्दस्यासदेव वाच्योऽर्थः । तथाऽपि शुक्तिरजतादेरनिर्वचनीयत्वेन तत्र भ्रान्त्युत्थितेन प्रयुज्यमानमिथ्याशब्दस्य वाच्यार्थानुपपत्त्यैव लक्षणाऽश्रयणमित्यभिप्रेत्य शङ्कते- अनिर्वचनीयत्वादिति ।। तत्परत्व-कल्पनमिति ।। अनिर्वचनीयरजतादिपरत्वकल्पनमित्यर्थः । ननु न शुक्तिरजतादेः मिथ्याशब्द-व्यवहारविषयत्वान्यथानुपपत्त्याऽनिर्वचनीयत्वं ब्रूमः । येन परस्पराश्रयः स्यात् । किं तु मानान्तरेणेत्यत आह- मानान्तरेणेति ।। किमनेनेति ।। शुक्तिरूप्याद्यनिर्वचनीयत्वे मिथ्याशब्द-व्यवहारविषयत्वस्यासाधकत्वेन किं तदुपन्यासेनेत्यर्थः । तथा च प्रतिज्ञाहानिरिति भावः । तर्ह्यनिर्वचनीये तदेव मानान्तरं मयोपन्यसनीयमित्यत आह- तच्चेति ।।
श्रीवेदेशतीर्थ
तदा शब्दस्य कर्मतैवेति ।। तथा च चैत्रो मिथ्याशब्दमनिर्वचनीयपरत्वेन वदतीति प्रयोगापत्तिरित्यर्थः ।। अथ शाब्दप्रतीतिवाचीति ।। देवदत्तो घटशब्देन घटं बोधयतीत्यर्थे घटं वदतीति प्रयोगादिति भावः । तदा करणतैवेति ।। तथा च मिथ्याशब्देनानिर्वचनीयं वदतीति प्रयोगः स्यादिति भावः । शाब्दप्रतीतिवाचित्वमभ्युपेत्य परिहर्तुमाह- अवान्तरेति ।। अन्यथेति ।। दार्वसंयुक्तकुठारादेश्छिदिक्रियाजनकत्वप्रसङ्गादित्यर्थः । तत्र स्वक्रियां प्रतीति ।। यथा कुठारस्य छिदिक्रियां प्रति करणत्वेऽपि दारुसंयोगलक्षणावान्तरव्यापाररूपस्वजन्यक्रियां प्रति कर्तृत्वम् । कुठारो दारुणा संयुज्यत इति व्यवहारात् । अत एव ‘हन्ता रामशरः’ इत्यादिकमुपपद्यते । तद्वच्छाब्दप्रतीतिं प्रति करणत्वेऽपि शब्दस्यावान्तरव्यापारं प्रति कर्तृत्वापेक्षयाऽयं व्यपदेश इत्यर्थः । प्राधान्यनिर्देशेनेति ।। कर्तृत्वनिर्देशेनेत्यर्थः । मिथ्याशब्दस्य वदतीति कर्तृत्वनिर्देशेन कथमनिर्वचनीयवाचकत्वपक्षकक्षीकरणसूचनमित्यत आह- मिथ्याशब्देनेति ।। देवदत्तो घट-शब्देन घटं वदति गङ्गाशब्देन तीरं वदति सिंहशब्देन क्रूरं वदतीत्यादिप्रयोगादस्य व्यवहारस्य वाचकावाचकपक्षसाधारण्यात् तथा प्रयोगे मिथ्याशब्दस्यानिर्वचनीयवाचकत्वं न ज्ञायेत । तदभावेऽपि तस्य सम्भवात् । मिथ्याशब्द इति प्रयोगे तु तद्वाचकत्वमेव ज्ञायते । अन्यथा करणस्य शब्दस्य कर्तृतया प्राधान्येन निर्देशवैयर्थ्यप्रसङ्ग इति भावः । ननु मिथ्याशब्देनानिर्वचनीयं वदतीत्युक्तेऽपि मिथ्याशब्दोऽनिर्वचनीयवाचक इति ज्ञातुं शक्यत एव । घटशब्देन घटं वदतीति वदतेर्वाचकत्वेऽपि प्रयोगादित्यभिप्रेत्य शङ्कते- वदतिरिति ।। कुतो न नियम इत्यत आह- शाब्द-प्रतीतिमात्रेऽपीति ।। तथा च मिथ्याशब्देनानिर्वचनीयं वदतीत्यस्य मिथ्याशब्दस्यानिर्वचनीया-वाचकत्वेऽपि सम्भवान्न वाचकत्वपक्षज्ञापनमित्यर्थः । वाच्यार्थानुपपत्त्यादिदर्शनस्य वाक्याप्रामा-ण्येनाप्युपपत्त्याऽमुख्यार्थप्रत्यायकत्वं न सम्भवतीत्यत उक्तम् । वक्तुराप्तत्वनिश्चये सतीति ।। यथोक्तं कर्मनिर्णये ‘विरोधादमुख्यवृत्तिर्वाऽऽप्तत्वनिश्चये । आप्तत्वानिश्चये प्रामाण्यमेव न सम्भवति’१ इति । वाच्यार्थानुपपत्त्यादीत्यादिशब्देन तात्पर्यानुपपत्तिपरिग्रहः । प्राक् मिथ्याशब्दपदं शब्दपरतया व्याख्यातम् । इदानीं लक्षकत्वपक्षकक्षीकरणसूचकत्वसिद्ध्यै बहुव्रीहिणा पुरुषपर-मित्याह- मिथ्येति शब्दो यस्यासाविति ।। नन्वस्तु मिथ्याशब्दस्यासदेव वाच्यार्थस्तथापि शुक्ति-रजतादेरनिर्वचनीयत्वेन तत्र भ्रान्त्युत्थितेन प्रयुज्यमानस्य मिथ्याशब्दस्य वाच्यार्थानुपपत्त्यैव लक्षणाश्रयणमित्यभिप्रेत्य शङ्कते- अनिर्वचनीयत्वादिति ।। मुख्यार्थानुपपत्ताविति ।। मिथ्या-शब्दस्यासत्त्वरूपमुख्यार्थानुपपत्तावित्यर्थः । तेनैवेति ।। मिथ्याशब्दस्यानिर्वचनीयपरत्वकल्पनेन तद्व्यवहारमूलप्रत्यक्षकल्पने तेनानिर्वचनीयसिद्धिरित्यर्थः । नन्वनुमानादिना शुक्तिरूप्यादेरनिर्वच-नीयत्वे सिद्धे मुख्यार्थानुपपत्तावमुख्यवृत्तिराश्रीयत इत्याशङ्क्य दूषयति- प्रमाणान्तरेणेति ।। अनेन प्रत्यक्षोपपादनेनेत्यर्थः । पुरुषदोषोऽयं न प्रमेयदोष इत्यत आह- तच्चेति ।।
द्वैतद्युमणि
वदतिरिति ।। वदधातुरित्यर्थः । वदनक्रिया उच्चारणरूपक्रिया । कर्मतैवेति ।। शब्द-मुच्चारयति, वदतीति प्रयोगादिति भावः । शाब्दप्रतीतिवाचीति ।। तदनुकूलव्यापाररूपतद्घटितार्थ-वाचीत्यर्थः । करणतैवेति ।। विक्लृप्त्यनुकूलव्यापाररूपपाके काष्ठानां करणत्वेन काष्ठैः पचतीतिवत् मिथ्याशब्देनानिर्वचनीयं वदतीति प्रयोगः स्यादिति भावः । दृष्टान्ते दार्ष्टान्तिके च धात्वर्थव्यापार-निरूपितकरणत्वं काष्ठशब्दनिष्ठं तन्निष्पाद्यनिष्पादकत्वरूपं पारिभाषिकमेव । धात्वर्थकोटिप्रविष्ट-विक्लृप्तिप्रतीत्यादिरूपफलान्वितं मुख्यमेव वा द्रष्टव्यम् । तत् कथमिति ।। शब्दे कर्तृत्वस्य सर्वथाऽ-योगादिति भावः । अवान्तरेति ।। ऊर्ध्वाधोदेशसंयोगादिरूपावान्तरव्यापारविशिष्टस्यैव कुठारादे-श्छिदाकरणत्वस्य दृष्टत्वादित्यर्थः । अन्यथेति ।। प्रागभावेन छिनत्तीति प्रसङ्गादित्यर्थः । प्राधान्येन आश्रयत्वेन । इदं कर्तृत्वोपपादकम् । कर्तृत्वात् प्रकृतधात्वर्थकर्तृत्वात् । तद्विवक्षयेति ।। शब्दनिष्ठ-शक्तिज्ञानविषयत्वादिव्यापारविवक्षयेत्यर्थः । युज्यत इति ।। यथा विक्लृप्त्यनुकूलचैत्रादिनिष्ठव्यापारो यदि धात्वर्थस्तदा तत्र काष्ठानामुक्तरीत्या करणत्वात् काष्ठैः पचतीति प्रयोगः, यदा तु काष्ठनिष्ठ-क्षिप्रप्रज्वलनरूपव्यापारो यदि धात्वर्थस्तदा तदाश्रयत्वेन कर्तृत्वात् काष्ठं पचतीति प्रयोगः तथा शाब्दप्रतीत्यनुकूलचैत्रनिष्ठशब्दोच्चारणादिरूपवदधात्वर्थव्यापारनिरूपितकरणतावतः शब्दस्यापि तादृशप्रतीत्यनुकूलव्यापारभूतस्य शक्तिमत्त्वादिना शीघ्रस्मृतिविषयत्वादेराश्रयतया कर्तृत्वात् शब्दो वदतीति व्यवहरो युज्यत इत्यर्थः । वाचकत्वपक्षेति ।। मिथ्याशब्दस्यानिर्वचनीयवाचकत्वरूप-प्राग्विकल्पितकल्पमङ्गीकृत्य पूर्वपक्षिणः प्रत्यवस्थानसूचनार्थमित्यर्थः । शक्तिस्मृतिविषयत्वा-देर्व्यापारत्वेनैव धात्वर्थतया कथमनेन वाचकत्वपक्षावलम्बनमेवेदानीं पूर्वपक्षिण इति ज्ञातुं शक्य-मित्यतः प्राधान्यनिर्देशेनेति । अनुमेयत्वरूपज्ञाप्यत्वमित्थम्भूतलक्षणतृतीयार्थभूतं कक्षीकर-णान्वयि । यद्वा, तृतीयार्थतल्लिङ्गकत्वमनुमित्यनुकूलव्यापाररूपसूचनपदार्थघटकानुमितावन्वेति । व्यापारश्च मानसो विमर्शात्मकः । तन्निर्वाहकश्चायं व्यपदेश इति भावः । यथा चैत्रः पचतीति विहाय काष्ठं पचतीति केनचिदभिहिते श्रोतुर्विमर्शो जायते । अयं मुख्यकर्तृव्यापारतात्पर्यं विहाय किमर्थममुख्यकरणादिनिष्ठव्यापारतात्पर्येण धातुं प्रयुङ्क्त इति । ततः ‘अयं काष्ठनिष्ठो यः प्रकृतविक्लृप्त्यनुकूलोऽतिशयस्तद्बोधतात्पर्यवान् । पाकमुख्यकर्तृचैत्रतुल्यतया प्राधान्येन तन्निर्देश-कर्तृत्वात् । शरवृत्त्यतिशयबोधतात्पर्येण हन्ता रामशर इत्यादिवाक्यप्रयोक्तृवत् । यो यादृशफल-मुख्यकर्तृतुल्यतया कर्तृत्वेन तदवान्तरकारणनिर्देशकर्ता प्रेक्षावान् स तन्निष्ठप्रकृतफलानुकूलाति-शयबोधतात्पर्यवान्’ इति सामान्यमुखी व्याप्तिः । तादृशातिशयः कीदृशः स्यादिति विमर्शे अन्यस्यासम्भवात् क्षिप्रप्रज्वलनादिकमेव स इति निश्चिनोति । तद्वत् प्रकृतेऽपि शाब्द-प्रतीति-रूपफलं प्रति मुख्यतया निर्वाहकवाक्यप्रयोक्तृतुल्यतया मिथ्याशब्दस्य कर्तृत्वेन निर्देशकर्तृत्वादयं पूर्वपक्षी मिथ्याशब्दनिष्ठानिर्वचनीयशाब्दबोधौपयिककिञ्चिदतिशयबोधतात्पर्यवानिति निश्चयो जायते । ततः ‘तादृशातिशयस्तद्वाचकत्वमेव भवेत् । लक्षणादीनामनुपपत्तिज्ञानादिविलम्बितोप-स्थितिकानामतिशयरूपत्वासम्भवात् । शक्तेरवश्यं प्राथमिकग्रहविषयत्वेन तत्सम्भवात्’ इति निश्चयो जायत इति क्रमेण प्राधान्यनिर्देशस्य वाचकपक्षाङ्गीकाररूपकक्षीकरणज्ञापकत्वं तदनुमितौ लिङ्गत्वं च निर्वहतीति भावः ।
श्रीराघवेन्द्रतीर्थ
कर्मतैवेति ।। तथा च ‘मिथ्याशब्दम्’ इति प्रयोगः स्यादिति भावः१ । शाब्दप्रतीतीति ।। वदतीत्यस्य प्रत्याययतीत्यर्थत्वे ‘मिथ्याशब्देन’ इति स्यादित्यर्थः । करणत्वमिति । क्रियानिष्पादकत्वरूपमित्यर्थः । अन्यथेति । व्यापारहीनस्यापि करणत्वे सदा ततः क्रियो-त्पादप्रसङ्गादित्यर्थः । प्राधान्यनिर्देशेनेति ।। कर्तृत्वनिर्देशेनेत्यर्थः२ । वाचकत्वपक्षकक्षीकरणेति ।। अनिर्वचनीयवादिनो मत इति योज्यम् । अत एव आद्यं निराकरोतीति वाचकत्वपक्षापाकरणपरतया पूर्वं तद्वाक्यं योजितमिति भावः । ननु मिथ्याशब्देनेति करणनिर्देशेऽपि वाचकत्वपक्षकक्षीकरण-सूचनं किं न स्यादित्यत आह- मिथ्याशब्देनेति ।।३ शाब्दप्रतीतिमात्र इति । ‘कुरीरपदेन घटं वदति चैत्रः’ इत्यादौ घटशब्देन प्रत्याययतीत्यपि दर्शनादिति भावः । यद्वा ‘सिंहपदेन चैत्रं वदति मैत्रः’ इत्यादौ चैत्रं बोधयतीत्यपि दर्शनादिति भावः । द्वितीयपक्षेऽपीति ।। अवाचकेनापीति ।। पक्ष इत्यर्थः । मूलवाक्यार्थमग्रे विवक्षुरुपोद्घातमाह-न हीत्यादिना ।। तदिति । तीरादिकमित्यर्थः । अनुपपत्त्यादीत्यादिपदेन सम्बन्धप्रयोजनयोर्ग्रहः । मूलार्थमाह- न चेत्यादिना ।। तेनेति ।। मिथ्येति शब्देनेत्यर्थः । किञ्चिन्मानमिति ।। मुख्यार्थबाधादित्यर्थः । शङ्कते- अनिर्वचनीयत्वादिति ।। मुख्यार्थेति ।। असत्त्वादिरूपेत्यर्थः। अमुख्येति ।। अनिर्वचनीयत्वरूपामुख्यार्थे वृत्तिराश्रीयते मिथ्याशब्दस्य ‘मिथ्यैव रजतं प्रत्यभात्’ इत्यनुवादवाक्य इत्यर्थः । तेनैवेति ।। अनुवादवाक्यगत-मिथ्याशब्देनैवेत्यर्थः । प्राक् तथैवोक्तेरिति भावः । किमनेनेति ।। मिथ्याशब्दात्तत्सिद्धि-कथनेनेत्यर्थः । निरसिष्यत इति ।। अनुपदमिति भावः ।स्वक्रियां प्रतीति ।। स्वजन्या या अर्थप्रतिपादनरूपा अवान्तरक्रिया अवान्तरव्यापार इति यावत् । तां प्रतीत्यर्थः । शब्दोऽर्थमभिधाय प्रतिपाद्येति यावत् । पश्चात् तं बोधयति । तथा च शब्दोऽर्थमभिधत्ते प्रतिपादयतीति शब्दस्यावान्तरव्यापारकर्तृत्वादित्यर्थः । प्राधान्यनिर्देशेनेति ।। स्वतन्त्रतया कर्तृत्वनिर्देशेनेत्यर्थः । ‘स्वतन्त्रः कर्ता’४ । क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यादित्युक्तत्वादित्यर्थः । कक्षीकरणं कटाक्षीकरणं शाब्दप्रतीतिलक्षणया शब्दजन्यज्ञानमात्रेऽ-पीत्यर्थः । इत्येवोत्तरमिति ।। मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च इति मूलवाक्यमेवेत्यर्थः । द्वितीयकोटिः नाङ्गीक्रियत इति चेत् तत्राह- प्रमाणान्तरेणेति ।
गुरुराजीया
नन्वत्र वदतिः किं वचनक्रियावाची किं शब्दजन्यप्रतीतिवाची । नाऽद्यः । तथा सति वचनक्रियां प्रति कर्मत्वेन ‘कर्मणि द्वितीया’ इति द्वितीयाप्राप्त्या शब्दं वदतीति प्रयोगापत्तेः । न द्वितीयः। शब्दजन्यप्रतीतिं प्रति शब्दस्य करणत्वेन ‘कर्तृकरणयोस्तृतीया’१ इति तृतीयायां मिथ्या-शब्देनानिर्वचनीयं वदतीति स्यात् । उभयथाऽपि शब्दो वदतीत्यनुपपन्नमिति भावेन शङ्कते- नन्विति ।। शाब्दप्रतीतिवाचीति द्वितीयं पक्षमेवाङ्गीकुर्मः । न चैवं तृतीयाप्रयोगप्रसङ्गः । प्रधानक्रियायां करणस्यापि शब्दस्य प्रतिपादनरूपावान्तरक्रियायां कर्तृत्वेन तद्विवक्षया मिथ्या-शब्दो वदतीति कर्तृत्वव्यपदेशो युक्तः । देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादौ देवदत्त-कर्तृकायां पचनक्रियायां काष्ठानां करणत्वेऽपि ज्वलनलक्षणायामवान्तरक्रियायां कर्तृत्वविवक्षया काष्ठानि ज्वलन्तीति प्राधान्यव्यपदेशदर्शनात् । अन्यथा काष्ठानि ज्वलन्तीति प्रयोगाभावप्रसङ्गात् । न च सिद्धे क्रियाद्वैविध्येऽवान्तरक्रियाप्राधान्यविवक्षया कर्तृत्वव्यपदेशः समर्थनीयः । क्रिया-द्वैविध्यमेव कुतः सिद्धमिति वाच्यम् । अवान्तरव्यापारवतः कारणस्यैव करणत्वदर्शनेन २कारक-त्वेनैवावान्तरव्यापारसिद्ध्या क्रियाद्वैविध्यस्याऽवश्यकत्वादित्याशयेनाऽह- अवान्तरव्यापारवतो हीत्यादिना ।। अन्यथेति ।। अवान्तरव्यापारवत्त्वाभावेऽपि कारकत्वे कालादेरपि कारकत्वं स्यादित्यतिप्रसङ्गादित्यर्थः । शाब्दप्रतीतिमात्रेऽपीति ।। तथा च मिथ्याशब्देनानिर्वचनीयं वदती-त्यस्यानिर्वचनीयावाचकत्वेऽपि सम्भवान्न वाचकत्वपक्षज्ञानमित्यर्थः । मूले पक्षद्वयनिरासाप्रति-भासादुक्तरीत्या विकल्पेन ग्रन्थोत्थानानुपपत्तिमाशङ्क्य आद्यपक्षनिरासकत्वेन योजितस्य मूल-ग्रन्थस्यैव तदुत्तरत्वान्नानुपपत्तिरित्याशयेनाऽह- द्वितीयेऽपीति ।। अत्र पक्षे पूर्वोक्तयोजनाया बाधितत्वात् प्रकारान्तरेण योजयति- न हीत्यादिना ।। वाक्यार्थानुपपत्त्यादिदर्शनस्य वाक्या-प्रामाण्येनाप्युपपत्त्याऽमुख्यार्थप्रत्यायकत्वं न भवतीत्यत उक्तम्- वक्तुराप्तत्वनिश्चये सतीति ।। यथोक्तं कर्मनिर्णये- विरोधादमुख्यवृत्तिर्वा आप्तत्वनिश्चये । आप्तत्वानिश्चये प्रामाण्यमेव न भवतीति । तात्पर्यवादिमतमाश्रित्य वाक्यार्थानुपपत्त्यादीति । आदिपदेन तात्पर्यानुपपत्तिपरिग्रहः ।
ननु प्रकृतेऽपि रजतस्यानिर्वचनीयत्वेन मिथ्याशब्दमुख्यार्थस्यासत्त्वस्यासम्भवेन मुख्यार्थानुप-पत्त्यादिरूपज्ञापकप्रमाणसद्भावेनावाचकेनापि मिथ्याशब्देनानिर्वचनीयव्यवहारस्सम्भवतीति शङ्कते- अनिर्वचनीयत्वादिति ।। मुख्यार्थानुपपत्ताविति ।। मिथ्याशब्दस्यासत्त्वरूपमुख्यार्थानुप-पत्तावित्यर्थः । तेनैवेति ।। मिथ्याशब्दस्यानिर्वचनीयपरत्वकल्पनेन तद्व्यवहारमूलप्रत्यक्षकल्पने तेनानिर्वचनीयत्वसिद्धिरित्यर्थः । ननु मिथ्याशब्दस्यानिर्वचनीयत्वपरत्वकल्पनस्य शुक्तिरजता-देरनिर्वचनीयत्वसिद्ध्यधीनत्वेऽपि शुक्तिरजतादेरनिर्वचनीयत्वसिद्धेर्न मिथ्याशब्दस्यानिर्वचनीय-त्वपरत्वकल्पनाधीनत्वम् । प्रमाणान्तरेणैव तस्यानिर्वचनीयत्वसिद्धेः । ततश्च परस्परसिद्धि-सापेक्ष्याभावान्नान्योन्याश्रय इत्याशङ्क्याऽह- प्रमाणान्तरेणेति ।। किमनेनेति ।। प्रत्यक्षोप-पादनेनेत्यर्थः । अस्तु तर्हि तदेव प्रमाणमित्यत आह- तच्चेति ।। निरसिष्यते अनुपदमेवेति शेषः।
गोविन्दीया
कर्मतैवेति ।। देवदत्तः शब्दं वदतीति शब्दस्य कर्मतैवेत्यर्थः । करणतयैवेति ।। देवदत्तः शब्देन घटं बोधयतीति शब्दस्य करणतैवेत्यर्थः । कारकत्वमिति ।। करणकारकत्वमित्यर्थः । अन्यथेति ।। करणस्य व्यापारवत्त्वाभावे दार्वसंयुक्तस्यापि कुठारस्य छिदिक्रियाजनकत्वं स्यादि-त्यतिप्रसङ्गादित्यर्थः । स्वक्रियां प्रतीति ।। अवान्तरव्यापाररूपक्रियां प्रतीत्यर्थः । तद्विवक्षयेति ।। शब्दः घटेन संयुज्यत इति संयोगक्रियापेक्षयेत्यर्थः । प्राधान्येनेति ।। वाचकत्वावाचकत्वपक्षयोः वाचकत्वपक्षस्य प्राधान्येन तत्पक्षाङ्गीकरणसूचनार्थम् अवान्तरव्यापारं प्रति शब्दस्य कर्तृत्वं विवक्षितमित्यर्थः । सत्यमिति ।। वाचकत्वे प्रयुज्यत इत्यङ्गीकारः । वाचकत्व एव न त्ववाचकत्व इत्यनङ्गीकार इत्यर्थः । द्वितीयेति ।। मिथ्याशब्दोऽनिर्वचनीयमित्येव वाक्यमुत्तरमित्यर्थः । तद्व-दिति ।। तीरपुरुषादिकं वदतीत्यर्थः । न च तथेति ।। नदीसिंहादिशब्देन तीरपुरुषादिकथने यथा प्रमाणं वर्तते तथा प्रकृते किञ्चिदपि मानं न चास्तीत्यर्थः । तत्परत्वेति ।। अनिर्वचनीयार्थकत्व-कल्पनमित्यर्थः । तेन चेति ।। मिथ्याशब्दस्यानिर्वचनीयार्थकत्वसिद्ध्या रजतस्यानिर्वचनीयत्वकल्पनं सिध्यतीत्यर्थः । प्रमाणान्तरेणेति ।। किमनेन प्रत्यक्षोपपादनेनेत्यर्थः ।
नारोपन्तीया
अवान्तरव्यापारवतो हि कारणस्य करणत्वमिति । देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादौ देवदत्तकर्तृकायां क्रियायां काष्ठादीनां करणत्वेऽपि ज्वलनादिरूपकाष्ठादिव्यापारं प्रति काष्ठानां कर्तृत्वमेव । काष्ठानि ज्वलन्तीति व्यवहारात् । एवं देवदत्तः शब्देन अमुमर्थं बोधयतीत्यत्र शब्दस्य करणत्वेऽपि, शब्दोऽर्थं प्रतिपादयतीत्यादिव्यवहारात् शब्दस्याप्यवान्तरव्यापारं प्रति कर्तृत्वमिति भावः ।।
वाचकत्वपक्षकक्षीकरणसूचनार्थमिति । देवदत्तो गङ्गाशब्देन तीरं वदति, गङ्गाशब्दस्तु न तीरं वदति किन्तु प्रवाहमेव वदतीत्यादिव्यवहारात् प्राधान्यनिर्देशे वाचकता प्रतीयत इति भावः ।
जनार्दनभट्टीया
वचनक्रियावाचीति ।। अभिलपनलक्षणक्रियावाचीत्यर्थः । शब्दस्य कर्मतैवेति ।। अभिलपनस्य शब्दमात्रकर्मकक्रियाविशेषरूपत्वादिति भावः । तथा च ‘देवदत्तः शब्दं वदति’ इति वक्तव्यमिति भावः । करणतैवेति ।। करणत्वविवक्षायां मिथ्याशब्देन वदतीति निर्देशः स्यादिति भावः । स्वक्रियां प्रतीति ।। अवान्तरव्यापारहेतुभूतां प्रधानक्रियातिरिक्तस्वक्रियां प्रति इत्यर्थः । प्राधान्येन कर्तृत्वादिति ।। ‘स्वतन्त्रः कर्ता’ इति सूत्रोक्तत्वादिति भावः । तद्विवक्षयेति ।। कर्तृत्वविवक्षयेत्यर्थः । वाचकत्वपक्षेति ।। अनिर्वचनीयेति शेषः । ‘मिथ्याशब्देन’ इति तृतीयानिर्देशेन तत्सूचनमस्त्वित्यत आह – मिथ्याशब्देनेति ।। वाचकत्व इति ।। प्राधान्येन वाचकत्व इत्यर्थः । तथा वदतीत्युक्त्यैव तत्सूचनसम्भवे प्रथमान्तनिर्देशवैय्यर्थ्यमिति शङ्कितुराशयः । शाब्दप्रतीतिमात्र इति ।। तथा च प्राधान्येन वाचकत्वपक्षकक्षीकरणसूचनार्थं प्रथमान्तनिर्देशः सार्थक इति भावः । द्वितीयपक्षेऽपीति ।। उत अवाचकेनापि तेनेति द्वितीयपक्ष इत्यर्थः । ‘विना प्रमाणेन’ इत्युक्तं कल्पकप्रमाणं किम्? इत्याशङ्कायामाह – अपि त्विति ।। वाच्यार्थानुपपत्तिदर्शनमात्रस्य अनाप्तोदीरितायोग्य-वाक्यसाधारणत्वेन अमुख्यवृत्तिकल्पकत्वात् ‘वक्तुराप्तत्वनिश्चये सति’ इत्युक्तम् । उक्तार्थपरतया मिथ्याशब्द इति वाक्यं मिथ्याशब्दावृत्या योजयति – नच तथेति ।। तेनेति ।। मिथ्याशब्देनेत्यर्थः । तथा च मिथ्याशब्दस्य तृतीयान्ततया आवृत्तिरिति भावः । मुख्यार्थानुपपत्ताविति ।। असद्रूप-मुख्यार्थानुपपत्तावित्यर्थः । परस्पराश्रयमुपपादयति– सिद्ध इति ।। तेनैव च अनिर्वचनीयत्वेत्येव-कारमसहमानोऽन्योन्याश्रयपरिहारमाशङ्कते – प्रमाणान्तरेणेति ।। किमनेनेति ।। न किमपीत्यर्थः । उत्पत्तिज्ञप्त्यप्रतिबन्धकत्वादित्यर्थः । तच्चेति ।। प्रमाणान्तरमित्यर्थः ।