एकजीववादपक्षे..

बहुजीववादादेकजीववादस्य विशेषसमर्थनम्

एकजीववादपक्षे

श्रीमज्जयतीर्थटीका

ननु तर्हि तत्तत्सुखदुःखादीनां तत्प्रयोजककर्मणां च प्रतिनियतत्वे बहुजीववादादस्य को विशेष इति चेदुच्यते । अविद्यैव जीवोपाधिर्न त्वन्तःकरणम् । एवं ये बहुजीववादिनस्तेषामन्तःकरणानामेव प्रतिजीवं भिन्नत्वाज्जीवत्वम् । तत्र प्रत्यविद्याजन्मानि जगन्त्यपि प्रतिजीवं भिन्नानीति चेद् ईश्वर-मायोपादानमम्बरादिकं सर्वजीवसाधारणम् । दुःखादिमात्रं स्वस्वाविद्योपादानकमित्यन्ये । ईश्वरा-श्रिता माया । नानापुरुषसम्बन्ध्यविद्योपादानकमम्बरादि । एकस्य मुक्तौ तदविद्याघटितोपादानक-जगतो नाशेन जगदन्तरमेवोत्पद्यते । एकतन्तुनाशेन पटनाशे सत्युर्वरिततन्तुभिः पटान्तरवदित्यादि-प्रकाराः सिद्धान्तकोशादिग्रन्थेषु दर्शिताः । यदा त्वेकैवाविद्या तदुपाधिकजीव एक एव । तत्र ब्रह्मजीवयोः बिम्बप्रतिबिम्बभावाभ्युपगमेन बिम्बब्रह्मणि सर्वज्ञत्वसर्वेश्वरत्वादिकमुपादायैका व्यवस्था । तत्रापि वक्ष्यमाणरीतिरूह्या ।।

अविद्यैकैव । तदुपहितचेतनो जीवः । न तु बिम्बप्रतिबिम्बभावादिस्वीकारेण जीवेश्वरादि-व्यवस्थेत्यपरः कल्पः । स चैकं शरीरमधितिष्ठति । अन्ये सर्वेऽपि निर्जीवा एव । स्वप्नदृष्टशरीर-वत् । ईश्वरोऽपि जगत्कर्तृत्वादिना तत्कल्पित एव । तदनुवादिन्यो जीवकर्तृत्वनिषेधेनेश्वर-कर्तृत्वावेदकश्रुतय इत्येकः पक्षः । अस्य पक्षस्यात्यन्तमनुभवविरुद्धत्वादेकाविद्यापरिणामानि नानामनांसि । गृहाकाशस्यैव घटाद्यवच्छिन्नत्ववत् । अविद्योपहितस्यैव तत्तन्मनोऽवच्छिन्नतया तत्तच्छरीरमात्राभिमानितया जीवाभासत्वम् । न तदधिष्ठेयानि तानि शरीराणि निर्जीवानि । ते च जीवाभासाः मनोरूपागन्तुकोपाधिभेदात् परस्परमत्यन्तभिन्नाः परस्परसुखदुःखानुसन्धानरहिताः मनःपरिणामभूतसुखादिकं स्वयमेवानुभवन्ति । परन्तु स्वोपाधिभूताविद्यापरिणतनानामनो-वच्छिन्नस्तदधिष्ठितसर्वशरीराभिमानी सर्वसुखाद्यनुसन्धाता समष्टिरूप एको जीवः हिरण्यगर्भः स्वीक्रियते । बहुजीववादे तु नैवमित्ययमेव विशेषः । एकस्य महागृहावच्छिन्नाकाशस्य तदन्तर्गत-घटशरावाद्यवच्छिन्नत्ववत् तस्योक्तसमष्टिरूपत्वं सङ्गच्छते । तस्यैव जगत्कल्पकत्वम् । तस्मिन् कल्पान्ते सुप्ते जगतो विलयः । तस्मिन् संस्कारात्मना स्थितप्रारब्धकर्मादिवशादुत्थिते पुनर्जग-दुत्पत्तिः । जीवकर्तृत्वनिषेधकश्रुतीनामविद्योपहितकर्तृत्वनिषेधपरत्वाभावेन विरोधाभावात् ।

श्रीराघवेन्द्रतीर्थ

एकजीवमतमनुवदति- यदुक्तमित्यादिना ।। सर्वक्षेत्रेषु सर्वदेहेषु । क्षेत्रज्ञभेदो जीवभेदः । तदेवेति ।। संसरद्ब्रह्मैवेत्यर्थः । अर्थवादा एवेति ।। मुक्तसाधनप्रशंसापरा एव न त्वर्थपरा इत्यर्थः । उक्तोऽतिप्रसङ्ग इति ।। मुक्तस्य संसारः संसारिणो वा मुक्तत्वं स्यादिति प्रसङ्ग इत्यर्थः। साम्प्रत-मिति ।। इदानीं भेदनिष्ठ एव भेदनिश्चयवानेवेत्यर्थः । तथात्वेनेति ।। औतनिश्चयवत्त्वेनेत्यर्थः । तस्येति पदपरामृष्टं दर्शयन् व्याचष्टे- यदि चैको जीव इति ।। शङ्कते- प्रागनिवृत्ता-विति ।। अनुमानपक्ष इति ।। भेदप्रत्ययो निवर्तते प्रागनिवृत्तत्वात् । क्रोधादिवदित्यनुमानपक्षे एतदनुमानं न निवर्तते चेत्तत्रैव हेतोरनैकान्त्यम् । निवर्तते चेद्भेदप्रत्ययस्य न निवृत्तिसिद्धिरिति वा प्रागुक्तेश्वरप्रत्यक्षादिसिद्धत्वेन निवृत्तेरयुक्ततया बाधादिदोषदूषितत्वादिति वाऽर्थः । सर्वक्षेत्रेष्विति ।। सर्वशरीरेष्वित्यर्थः । ‘इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते’१ इति वचनात् । संसरतीति । एक एव जीवस्तस्यैवानेकशरीराणीत्येवम् अनेकशरीरैकजीववादिमतमनू-द्यते । न त्वेकशरीरैकजीववादिमतम् । एतन्मते एकस्यैव शरीरस्य जीववत्त्वेनेतरेषां निर्जीवत्वेन सर्वक्षेत्रेष्वित्यस्यासम्भवात् । ननु एतन्मतं विहायानेकशरीरैकजीववादिमतमनूद्यत इत्यत्र किं ज्ञापकमिति चेद् उच्यते । उत्तरत्र तन्निष्ठानामिति दूषणमुच्यते । इदं च दूषणं एकशरीरैकजीववादिमते न सम्भवति । एकस्य जीवस्य शरीरौपाधिकानेकत्वस्याप्यभावेन तन्निष्ठानामिति बहुवचना-योगादिति द्रष्टव्यम् । एवमेकजीववादिमतद्वैविध्यं न्यायामृते स्पष्टम् । क्षेत्रज्ञभेदः जीवभेदः । तदेव ब्रह्मैव    ननु तर्हि शुको मुक्तो वामदेवश्च मुक्त इत्यादिवचनानां  का  गतिः ? इत्यत  आह- शुकेति ।। भास्करमतानुसारेण तत्त्वत इत्युक्तम् । मायावादिरीत्या कल्पनया वेत्युक्तम् ।  ईश्वरश्चैकस्तिष्ठतीति शेषः । तथा च तेषामेवेश्वरप्रत्यक्षविरोधः स्यात् न मम । कुतः ? मन्मते ईश्वर-स्यापि स्वप्नवद् एकजीवाज्ञानकल्पितत्वाङ्गीकारादिति भावः । उक्तातिप्रसङ्ग इति ।। मुक्तामुक्त-योर्भेदाभाव इत्यादिनोक्त इत्यर्थः । साम्प्रतमिति ।। इदानीमित्यर्थः । अत्र तन्निष्ठानामिति बहुवचनं शरीरापेक्षम् । जीवस्वरूपे औपचारिकम् । तथा च तन्निष्ठस्येत्येवार्थो द्रष्टव्यः । अत एवोत्तरवाक्ये तस्य चेत्येकवचनेन तन्निष्ठस्य परामर्शादित्यभिप्रेत्य व्याचष्टे । यद्यद्वैतनिष्ठ इति ।। तथात्वेन औत-निष्ठत्वेन परप्रसिद्धः शङ्करगौडपादादिः । न त्वद्वैतेति ।। तस्य औतभावनाया अभावादिति भावः। निवर्तकाभावादिति ।। निवर्तकस्याद्वैतसाक्षात्कारस्याभावादित्यर्थः । अनिवृत्तिरेव स्यादिति संसार एव स्यादित्यर्थः । भेदे सति संसारप्राप्तिः कुतः ? इत्यत आह- भेदे सतीति ।। भेदभ्रमहेतुत्वेनाज्ञान-स्याऽवश्यकत्वेन तत्प्रयुक्तदुःखादिप्रसङ्गोऽपि दुर्वार इत्यर्थः । निवर्तमान इति ।। मुक्तिकाले ज्ञानेनेति शेषः । तथेति ।। प्रागनिवृत्तोऽपि निवर्तिष्यत इत्यर्थः । अनुमानपक्ष इति ।। विमतो भेदप्रत्ययः कालान्तरे ज्ञानेन निवृत्तो भविष्यति, अन्तःकरणवृत्तित्वात् कामक्रोधादिवदित्यनुमानपक्ष इत्यर्थः। ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्धीर्भीरित्येतत्सर्वं मन एव’ इति श्रुत्या काम-क्रोधज्ञानादीनामन्तःकरणवृत्तित्वस्य प्रसिद्धत्वादिति ज्ञातव्यम् । प्रागुक्तेति ।। अपलापयुक्तेर्नितरां भ्रान्तित्वादित्युक्तदूषणन्यायेन भेदप्रत्ययस्य निवर्त्त्यत्वाङ्गीकारे त्वपलापयुक्तेर्नितरां निवर्त्त्यत्वाद् भेदप्रत्ययस्यानिवर्त्यत्वमेव भवतीति दूषितत्वादित्यर्थः ।

तथाहि । भेदप्रत्ययविषयकनिवृत्तिप्रत्ययस्य निवृत्तिरूपो बाधोऽङ्गीक्रियते न वा । आद्ये भेदप्रत्ययस्यानिवर्त्यत्वमेव स्यात् । द्वितीये भेदप्रत्ययविषयकनिवृत्तिप्रत्यये अन्तःकरणवृत्तित्व-सद्भावेऽपि निवृत्त्यभावेन तत्रैव व्यभिचारः स्यादिति । प्रमाणस्येति ।। निश्चायकप्रमाणस्येत्यर्थः । सम्भावनामात्रस्य प्रमेयासाधकत्वादिति भावः । ननु ‘तरति शोकमात्मवित्’ इति ज्ञानान्मोक्षः श्रूयते तत्प्रामाण्यान्यथानुपपत्त्याऽद्वैतज्ञानं, तेन च भेदप्रत्ययनिवृत्तिश्च भविष्यतीत्याशङ्कते– मोक्षेति ।। औतज्ञानं तेन च भेदप्रत्ययनिवृत्तिरित्यत्र मोक्षश्रुतिः प्रमाणमित्यर्थः    सम्भवा-दिति ।। तथा च न स्वार्थे प्रामाण्यमिति भावः ।

गुरुराजीया

सर्वक्षेत्रेषु संसरतीति ।। यद्यपि एकजीववादिनः एकशरीरैकजीववादः सिद्धान्तः । ‘यच्चेदमुच्यते एकमेव शरीरं सजीवम् । अन्यानि स्वप्नशरीरवन्निर्जीवानि’ इत्यादिपरकीयस्वकीय-तन्मतानुवादरूपन्यायामृतादिग्रन्थानुसारेण तथाऽवगमात् । तथा च सर्वक्षेत्रेषु संसरतीत्यनुवादोऽ-नुपपन्न इवाऽभाति । तथाऽपि एकशरीरैकजीववादस्येव अनेकशरीरैकजीववादस्यापि तत्सिद्धान्त-त्वात् तदभिप्रायेण सर्वक्षेत्रेषु संसरतीत्ययं टीकाकारीयोऽनुवादो युक्त एव । ‘ननु चोक्तदोषा एकशरीरैकजीववादे । न त्वनेकशरीरैकजीववादे तस्य सर्वत्र सत्त्वात्’ इति परकीयग्रन्थतदनुवाद-रूपन्यायामृतादिग्रन्थानुगुण्येनानेकशरीरैकजीववादस्यापि तत्सिद्धान्ततायाः सिद्धत्वात् । न च सिद्धान्तद्वये सति  आद्यपरित्यागेन  द्वितीयसिद्धान्तानुवादः  टीकाकाराणां निर्निबन्धन इति वाच्यम् । ‘एकजीववादे तन्निष्ठानां मृत्यनन्तरं’ इति तन्मतस्यैव मूलकृता दूषितत्वेन तन्निबन्धनतया टीकाकारीयानुवादस्य निर्निबन्धनत्वाभावात् । न च सति पक्षद्वये आद्यपरित्यागेन द्वितीयमात्र-पक्षनिरासो मूलकृतोऽप्ययुक्तः निर्निबन्धनत्वादिति वाच्यम् । स्पष्टदूषणतया शिष्यैरेव तदूह्यता-मिति भावेन आद्यपरित्यागेनास्पष्टदूषणद्वितीयपक्षमात्रनिरासस्योपपन्नत्वात् । द्वितीयपक्षनिरास इव प्रथमपक्षनिरासे बहुवक्तव्याभावाच्च । अत एव न्यायामृतेऽल्पेन प्रबन्धेनाऽद्यं निरस्य बहुना प्रबन्धेन द्वितीयनिरासो विहित इति द्रष्टव्यम् ।

तत्वत इति ।। भास्करमतमनुरुद्ध्योक्तम्, कल्पनया वेति तु मायावादिमतमनुसृत्येति द्रष्ट-व्यम् । यैरीश्वरोऽङ्गीक्रियते तेषामेव तदीयसंसारिभेदग्राहकप्रत्यक्षविरोधः प्रसज्यते । मया तु ईश्वरस्यापि १स्वप्नवज्जीवाज्ञानकल्पितत्वाङ्गीकारान्न तदीयभेदग्राहकप्रत्यक्षविरोधप्रसक्तिरिति भावेनोक्तम्- ईश्वरश्चैक इति ।। एकजीववादिपक्ष इति सामान्योक्त्या एकशरीरैकजीववादस्यापि प्राप्तौ तत्र च तन्निष्ठानामिति वक्ष्यमाणदूषणाप्रसक्तेस्तत्परित्यागेनानेकशरीरैकजीववादपरतया तद्व्याख्याति- ये त्विति ।। भेदनिष्ठ एवेत्यादिमूलम् अपेक्षितपूरणेन योजयति- साम्प्रतमिति ।। तदुपपादकतया तन्निष्ठानामित्यादिमूलांशं योजयितुमाह- यद्यद्वैतेत्यादिना ।। तथात्वेन परप्रसिद्ध इति ।। औतनिष्ठत्वेन परप्रसिद्धः गौडपादाद्यन्यतमः स्यादित्यर्थः । न तु द्वैतज्ञानित्वेन प्रसिद्धयत्किञ्चिदन्यतमः । तथा सति औतनिष्ठत्वानुपपत्तेः । तद्द्वैतनिष्ठस्य मोक्षः औतनिष्ठस्य बन्ध इति बन्धमोक्षयोः सांकर्यप्रसङ्गाच्च । तथा चैको जीव इति गतमिति भावः । अत्रेष्टापत्तिं परिहरति- न चेति ।। तथात्वे गौडपादाद्यन्यतमत्वे । कल्पकनिवृत्तौ कल्प्यनिवृत्तेरावश्यकत्वादिति भावः । अत्रापीष्टापत्तिं परिहरति- न चैवमिति ।। विश्वभ्रमानुवृत्तिदर्शनान्नेष्टापत्तिरिति भावः ।

एवमपेक्षितं पूरयित्वा विश्वस्यानिवृत्तत्वादित्यस्य भेदनिष्ठ एवेत्यनेन सम्बन्धं दर्शयन्नवधारण-व्यावर्त्यं दर्शयति- अत इति ।। विश्वस्यानिवृत्तत्वादित्यर्थः । वर्धेतेति ।।

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सन् ।’१

इति वचनादिति भावः । भेदे सतीति । भेदाध्यासस्याज्ञानकार्यतया असति अज्ञाने तदनुपपत्त्या तदुपपादकत्वेनाज्ञानस्यावश्यमङ्गीकर्तव्यत्वेन तत्प्रयुक्तदुःखादिप्रसङ्गो दुर्निवार इति भावः । अनुमानपक्ष इति ।। विमतो भेदप्रत्ययः कालान्तरे निवृत्तो भविष्यति । अन्तःकरणवृत्तित्वात् क्रोधादिवदित्यनुमानपक्षे इत्यर्थः । प्रागुक्तेति ।। अपलापयुक्तेर्नितरां भ्रान्तित्वादिति प्रागुक्ते-त्यर्थः । अत्र निवृत्तिशब्देन बाध एव न तु नाशः । भेदसत्त्वेऽपि तस्योपपन्नत्वात् । तथा च भेदप्रत्ययो बाध्य इति युक्तिजानुभवस्यापि अन्तःकरणवृत्तित्वेन बाध्यत्वे भेदप्रत्ययस्य बाधका-भावेन बाध्यत्वासिद्धिः । अबाध्यत्वे च तत्रैव सत्यपि अन्तःकरणवृत्तित्वे बाध्यत्वाभावाद्व्यभिचारः स्यादिति भावः । वक्तव्यत्वादिति ।। सम्भावनाया उत्कटैककोटिकसंशयरूपत्वेनाप्रमाणत्वादिति भावः ।

गोविन्दीया

यदुक्तमिति ।। मुक्तामुक्तयोरित्यादि मुक्तस्य संसारित्वं संसारिणो मुक्तत्वं चेति यदुक्तम्, तदनुपपन्नमित्यर्थः । सर्वक्षेत्रेष्विति ।। सर्वशरीरेष्वित्यर्थः । क्षेत्रज्ञभेद इति ।। जीवभेद इत्यर्थः । तदेवेति ।। जीवभावमापन्नं ब्रह्मैवेत्यर्थः । अर्थवादा इति रुच्यर्था एवेत्यर्थः । एकस्यैव जीवस्य मुक्तिवादस्तु परमार्थ एवेति भावः । तत्त्वत इति ।। भास्करादिमते तत्त्वतो बहवो जीवाः, कल्पनीयाः बहवो जीवा मायावादिमत इत्यर्थः । एकेति ।। एकजीववादिपक्षे २तन्निष्ठानामैक्य-निष्ठस्यैक्यज्ञननिष्ठं नेति यावत् । बहुवचनं शरीरापेक्षया । मृत्यनन्तरं भेदज्ञानाभावाद् तत्कल्पितस्य विश्वस्य निवृत्तिर्वक्तव्या तदानीमपि विश्वस्यानिवृत्तत्वादसावेकोऽपि जीवः ‘भेदनिष्ठः’ एव भेदज्ञान्येवेत्यापततीत्यर्थः । तदेति ।। तदा स एवाद्वैतज्ञानित्वेन परप्रसिद्धः कश्चित्पुरुषः स्यात् । न चासौ तथा । परप्रसिद्धत्वेनाद्वैतज्ञानीत्यर्थः । तथात्वेति ।। तस्य जीवस्याद्वैतज्ञानित्वे इत्यर्थः । न चैवम् । एवं विश्वनिवृत्तिर्न च भवतीत्यर्थः । तत इति ।। एकस्यापि जीवस्य भेदनिष्ठत्वेन प्रकृते किमित्यर्थः । तत्संस्कारेणेति ।। भेदसंस्कारेणेत्यर्थः । तदिति ।। तस्मादित्यर्थः । निवर्तकाभावा-दिति ।। औतसाक्षात्काररूपनिवर्तकाभावादित्यर्थः । अनुमानपक्ष इति ।। भेदप्रत्ययो निवर्तते बाध्यते, अन्तःकरणवृत्तित्वात् कामक्रोधादिवदित्यनुमानपक्षे प्रागुक्तदोषदूषितत्वात्, भेदाद्यनु-भवः, भ्रमः, भेदादिप्रत्ययत्वादित्यनुमाने यो दोष उक्तस्तेनैव दोषेणास्यापि दुष्टत्वात् । तथा हि- भेदादिप्रत्ययो बाध्यत इत्यनुमितेरन्तःकरणवृत्तित्वेनाबाध्यत्वे तत्रैव व्यभिचारः । बाध्यत्वे बाध्यानुमितिजनकान्तःकरणवृत्तित्वरूपहेतोर्दुष्टत्वात् तेन चासमर्थेन हेतुना प्रत्यक्षजन्यभेदप्रत्ययस्य बाध्यत्वसाधनायोगात् । अबाध्यत्वमेव सिद्ध्यतीति दोषदुष्टत्वादित्यर्थः । सम्भावनापक्ष इति ।। सम्भावनायाः साधकत्वाभावेन भेदादिप्रत्ययबाध्यत्वे प्रमाणस्य वक्तव्यत्वादित्यर्थः । मोक्षश्रुति-रिति ।। ‘तरति शोकमात्मवित्’ इति मोक्षश्रुतिः प्रमाणम् । भेदज्ञाननिवृत्तेरेव मोक्षत्वादिति चेदित्यर्थः । अर्थवादस्यापीति ।। शुकवामदेवादिमुक्तिवादवाक्यस्येव प्रकृतश्रुतिवाक्यस्याप्यर्थ-वादत्वसम्भवान्न तत्र प्रमाणमित्यर्थः ।

जनार्दनभट्टीया

तदनुपपन्नमिति ।। एकजीववादिनो ममेष्टापत्तिरिति भावः । इष्टापत्तिमेव उपपादयति –  ब्रह्मैवेत्यादिना ।। प्रतिक्षेत्रमिति ।। प्रतिशरीरमित्यर्थः । क्षेत्रज्ञभेद इति ।। जीवभेद इत्यर्थः । उक्तोऽतिप्रसङ्ग इति ।। मुक्तस्य संसारः, संसारिणो वा मुक्तत्वं स्यादिति अतिप्रसङ्ग इत्यर्थः । ‘एकजीव’ इत्यादि मूले ऐक्यस्य वादिविशेषणघटकतयोपसर्जनत्वेन तच्छब्दपरामर्शविषयाप्रतीतेः तच्छब्दार्थकथनपूर्वकम् आपाद्यापादकयोः निमित्तनैमित्तिकाभावस्य अस्फुटत्वात् तदाविष्करणपूर्वकं च मूलं तर्कपरतया योजयति – यदीत्यादिना ।। परप्रसिद्धः कश्चिदिति ।। विवरणकारमण्डनादिरूप इत्यर्थः । ‘तस्य च’ इत्यादिमूले पूर्ववाक्यवदेव तर्के उपपाद्योपपादकभावाप्रतीतेः तत्परतया योजयति – यदि चेत्या-दिना ।। भेदे सतीति ।। भेदप्रत्यये सतीत्यर्थः । अनुमानपक्ष इति ।। विमतो भेदप्रत्ययो निवर्तते अन्तःकरणवृत्तित्वात् । कामक्रोधवद् इत्यनुमानपक्ष इत्यर्थः । प्रागुक्तेति ।। भेदप्रत्ययनिवृत्त्यङ्गीकारे भेदनिष्ठपुरुषस्य मृतौ विश्वनिवृत्त्यापत्तिलक्षणदोषदूषितत्वाद् इत्यर्थः । सम्भावनेति ।। अप्रामाणिकस्य सम्भावनां प्रत्यविषयत्वात् सम्भावनापक्षे प्रमाणं वाच्यम् । न हि ‘गजो मम कर्णं प्रविश्य गर्जति’ इत्येतत् सम्भावनार्हमिति भावः । मोक्षश्रुतिरिति ।। ‘परमं साम्यम् उपैति’ इति श्रुतौ परमसाम्यशब्देन भेदसमानकालीनैक्यप्रतीतेरिति ऐक्यवादिनो हृदयम् ।