न चान्नानन्नवैलक्षण्यमनुभूयते ..
तर्कबाधितेऽनन्नवैलक्षण्यज्ञानस्याभ्यवहारादिकारणत्वाभावसमर्थनम्
श्रीमज्जयतीर्थटीका
ननु यस्य तर्केणानन्नत्वं बाध्यते तदनन्नं भवत्येव । न चैवमभ्यवहाराद्यभावापातः । अनन्नवैलक्षण्येन तदुपपत्तेः । न हि तर्केण पदार्थानां स्वरूपासत्त्वमुच्यते । किं तर्हि प्रतिपन्न-स्वभावानुपमर्देन तदनिर्वाच्यमेवेति चेन्न । तथा सति नेदं रजतमिति बाधकानन्तरं शुक्तिकानुभववदन्नानन्नवैलक्षण्यानुभवप्रसङ्गः । न चासावस्तीत्याह–
मूल
न चान्नानन्नवैलक्षण्यमनुभूयते ।
कुतो युक्त्यनुसन्धातुरेवंविधानुभवाभावोऽवगम्यत इति चेत् । तत्कार्यव्यवहाराभावादित्याह-
मूल
न च तथा व्यवहारः ।
ननु न व्यवहार एवानुभवे प्रमाणं विनाऽपि व्यवहारेण बालमूकादीनामनुभवसद्भावात् । अतो व्यवहाराभावेऽपि तथाऽनुभवो युक्त्यनुसन्धातुः किं न स्यात् । स्यात्, यदि तथाऽन्यदपि किञ्चित्प्रमाणं स्यात् । न चैतदस्तीत्याह-
मूल
न च तत्र किञ्चिन्मानम् ।
न चानुभवाभावे प्रत्यक्षस्य सत्त्वात् किमनेनेति वाच्यम् । विप्रतिपन्नं प्रति सत्युपायान्तरे प्रत्यक्षस्यानवतार्यत्वात् ।
श्रीविजयीन्द्रभिक्षु
अनन्नेति ।। अनन्नवैलक्षण्यज्ञानेनेत्यर्थः । एवमपि क्षुन्निवृत्तिरूपार्थक्रिया न स्यादित्यत आह- न हीति ।। तर्केणेति ।। तर्कसहकृतप्रत्यक्षेणेत्यर्थः । उच्यते बोध्यत इत्यर्थः । क्षुन्निवर्तन-सामर्थ्यरूपप्रतिपन्नस्वभावानपायात् क्षुन्निवृत्त्याद्यर्थक्रियोपपद्यत इति भावः । तत्सहकृतप्रत्यक्षेण तदनिर्वचनीयताबोधने उभयवैलक्षण्यानुभवप्रसङ्गः । न च सोऽस्ति । प्रत्यक्षेणानन्नवैलक्षण्यानु-भवेऽपि नेदं रजतमिति बाधानन्तरं रजतवैलक्षण्यानुभववत् तर्केण बाधानन्तरम् अनन्न-वैलक्षण्यानुभवाभावादित्यभिप्रायं वर्णयन् शङ्कोत्तरत्वेन मूलमवतारयति- तथा सतीति ।। नन्वस्त्येव युक्त्यनुसन्धातुरनन्नवैलक्षण्यानुभवः । तथा नानुपलब्धिबाधः । परबुद्धेरप्रत्यक्षत्वेन योग्यानुपलब्धे-रभावादिति भावेन शङ्कते- कुत इति ।। योग्यानुपलब्ध्या तदभावानवगमे तत्कार्यभूतव्यव-हाराभावादिलिङ्गेन तदभावानुमितिः सम्भवतीत्यभिप्रायं वर्णयन् मूलमवतारयति- तत्कार्येति ।।
व्यावहार एवेति ।। अभिलापरूप एवेत्यर्थः । युक्तम् अभिलापाभावेऽपि बालमूकादीना-मनुभववत्त्वम् । प्रवृत्त्यादितत्कार्यसत्त्वात् । इह तु न तथा, तत्साधकस्य कस्याप्यभावादि-त्यभिप्रेत्याऽह- स्यादिति ।।
शङ्कते- न चेति ।। अनुभवाभावे अनन्नवैलक्षण्यानुभवाभावे । किमनेनेति ।। न च तत्र किञ्चिन्मानमित्यनेनेत्यर्थः । उपायान्तरे प्रमाणान्तर इत्यर्थः । अनवतार्यत्वादिति ।। प्रत्यक्षोपन्यासे त्वनुभवकलहः स्यादिति भावः ।
श्रीवेदेशतीर्थ
तथाऽन्यदपीति ।। यथा बालमूकाद्यनुभवानुमापकं व्यवहारादन्यच्चेष्टाविशेषादिकं प्रमाण-मस्ति, न तथा प्रकृत इत्यर्थः । अनुभवाभाव इति ।। अन्नानन्नवैलक्षण्यानुभवाभाव इत्यर्थः । अनेन व्यवहाराभावलिङ्गकानुमानेन ।। उपायान्तर इति ।। प्रमाणान्तर इत्यर्थः । अनवतार्यत्वादिति ।। प्रत्यक्षोपन्यासेऽनुभवकलहः स्यादिति भावः ।
श्रीराघवेन्द्रतीर्थ
दृष्ट्यबाधितदृष्टस्यापि तर्केणास्ति बाध इति शङ्कते- ननु यस्येति ।। दृष्ट्यबाधितदृष्टस्यापि यस्येत्यर्थः । प्रतिपन्नेति ।। प्रमितवस्तुस्वभावेत्यर्थः । अनिर्वाच्यत्वमेवेति ।। उच्यत इत्यनुषङ्गः। मूलार्थमनुवादेन विवृण्वन्नेवोत्तरवाक्यमवतारयति । कुत इत्यादिना ।। एवंविधेति ।। अन्नानन्न-विलक्षणमिदमित्येवंरूपेत्यर्थः ।
किं न स्यादिति चोद्योत्तरमाह- स्याद्यदीति ।। तथेति ।। ‘अन्नानन्नविलक्षणमेतत्’ इत्यत्रा-बाधितदृष्टेऽन्ने व्यवहारादन्यत्किञ्चित्प्रमाणं स्याद्यदीत्यर्थः । ‘इदमन्नमेव ; न तु तद्विलक्षणम्’ इति भोक्तुः प्रत्यक्षस्यैव वैलक्षण्यानुभवाभावे सत्त्वेन ‘न च तथा व्यवहारः’ इत्यादिवाक्यद्वयेन वैलक्षण्यव्यवहाराभावलिङ्गेन मानाभावहेतुना च वैलक्षण्यानुभवाभावोपपादनं कुतः कृतमित्याशङ्क्य निराह- न चानुभवेति ।। अनेनेति ।। न च तथेत्यादिग्रन्थेनेत्यर्थः । उपायान्तरे व्यवहारा-भावादिरूप इत्यर्थः । यस्य वास्तवान्नस्य । ननु तर्केणान्नस्यासत्त्वप्रतिपादनात् कथमभ्यवहारप्रसङ्ग इत्यत आह- न हीति ।। प्रतिपन्नेति ।। असद्विलक्षणस्वरूपानुपमर्देनेत्यर्थः । तथानुभवः अन्नानन्न-विलक्षणत्वानुभवः । युक्त्यनुसन्धातुः यदीदमन्नं स्यादिति युक्त्यनुसन्धानवतः । अनवतार्यत्वात् अनुभवकलहापत्त्याऽवक्तव्यत्वादित्यर्थः ।
गुरुराजीया
अनुभवाभाव इति ।। अन्नानन्नवैलक्षण्यानुभवाभाव इत्यर्थः ।
अनेनेति ।। व्यवहाराभावलिङ्गकानुमानेनेत्यर्थः । प्रत्यक्षसिद्धेऽर्थेऽनुमानस्यानपेक्षितत्वादिति भावः । उपायान्तर इति ।। प्रत्यक्षातिरिक्तप्रमाणसद्भाव इत्यर्थः । अनवतार्यत्वादिति ।। अन्यथा अनुभवकलहप्रसङ्गादिति भावः ।
गोविन्दीया
नन्विति ।। यस्य वस्तुतोऽन्नस्यापीत्यर्थः । न चैवमिति ।। एवं सति यद्यन्नस्यान्नत्वं बाधितं स्यात्तर्ह्यभ्यवहाराद्यभावापातः, इति न च वाच्यमित्यर्थः । अनन्नेति ।। तर्केणानन्नेति बाधकज्ञानानन्तरमनन्नवैलक्षण्येन ज्ञानादभ्यवहाराद्युपपत्तेरित्यर्थः । न हीति ।। तर्केणान्नपदार्थ-स्यासत्त्वं न ह्युच्यते किं तर्हि प्रतिपन्नान्नस्वभावानुपमर्देन तस्यान्नपदार्थस्यानिर्वाच्यत्वमेवेति चेदित्यर्थः । न चेति ।। बाधितान्नस्यानन्नत्वमेवानुभूयते न त्वनन्नविलक्षणत्वमित्यर्थः । स्यादिति ।। बालमूकाद्यनुभवे हस्ताङ्गुलिचलनादिरूपप्रमाणं यथाऽस्ति तथा यद्यन्यदपि तत्रानन्नवैलक्षण्यानुभवे किञ्चित्प्रमाणं स्यात् तर्हि व्यवहाराभावेऽप्यनुभवोऽनुमितः स्यादित्यर्थः । न चेति ।। अनुभवे तदभावे च साक्षिप्रत्यक्षस्य सत्त्वात् किं व्यवहारेण तदभावेन चेति न च वाच्यमित्यर्थः ।
जनार्दनभट्टीया
अनन्नवैलक्षण्येनेति ।। अनन्नवैलक्षण्यानुभवेनेत्यर्थः । अन्नानन्नवैलक्षण्यानुभवप्रसङ्गः इत्यस्यापि अन्नानन्नवैलक्षण्यानुभवस्य अनुभवप्रसङ्ग इत्यनुभवशब्दावृत्त्या अर्थो ज्ञेयः । अत एव अनुभवपदम् । ननु ‘व्यवहार एव अनुभवे प्रमाणम्’ इत्यनेन न चानुभवाभावे प्रत्यक्षस्य सत्त्वात् इत्यनेन वाक्येन तथैव प्रपञ्चयिष्यतीति ध्येयम् । युक्त्यनुसन्धातुरिति ।। तर्कात्मकयुक्त्यनुसन्धानवत इत्यर्थः । न चेति ।। अनुभवाभावे = अन्नानन्नवैलक्ष्यण्यानुभवाभावे ‘इदम् अन्नानन्नवैलक्षण्येन अनुभवामि’ इति साक्षिरूपप्रत्यक्षस्य सत्त्वाद् इत्यर्थः । किमनेनेति ।। प्रमाणाभावरूपानुमानोपन्यासेन किम्? स्फुटत्वात् प्रत्यक्षमेव अन्नानन्नवैलक्षण्याभावे प्रमाणत्वेन उपन्यस्यतामिति भावः ।