अविषयत्वादेव तस्य ..

आत्मज्ञानस्य निर्विषयत्त्वे ज्ञानत्वाभावाऽपादनम्

श्रीमज्जयतीर्थटीका

ननु घटादिज्ञानं घटादिविषयेण ग्रस्तं कथमात्माज्ञानं निवर्तयेदिति चेत्तत्किं इदानीं वेदान्तवाक्यजनितविज्ञानं निर्विषयमेव । बाढमिति चेत्तत्राऽह-

मूल

अविषयत्वादेव तस्य ज्ञानत्वञ्च न स्याद्घटवत् ।

न विद्यते विषयो यस्य तदविषयम् ।

श्रीविजयीन्द्रभिक्षु

नन्वनात्मविषयकमपि ज्ञानमात्माज्ञाननिवर्तकमेव । ‘तरति शोकमात्मवित्’ इत्यादिश्रुत्या तथा बोधनादित्याशयेन शङ्कते- अथेति ।। श्रुतिप्रतीताज्ञाननिवर्तकत्वनिर्वाहायैव ज्ञानस्य तद्विषयत्वमपि वाच्यम् । लोके तथा क्लृप्तत्वात् । अन्यथा यागव्यापारत्वेनापूर्वकल्पनमपि न स्यादिति भावेन परिहरति- हन्तेति ।। तदविषयकस्य ज्ञानस्य तदज्ञाननिवर्तकत्वे घटादिज्ञानेष्वपि तथात्वप्रसङ्गः । न चेष्टापत्तिः । विशिष्टज्ञानसमूहालम्बनाभ्यां विशेषणाद्यज्ञानानिवृत्तिप्रसङ्गादित्यपि द्रष्टव्यम् ।

श्रीवेदेशतीर्थनन्वात्माज्ञाननिवर्तकत्वे तदन्याविषयकत्वमेव तन्त्रम् । घटादिज्ञानं चान्यविषयमिति न तेन तन्निवृत्तिप्रसङ्ग इति शङ्कते- नन्विति ।।

निर्विषयमेवेति ।। सविषयत्वे किमात्मविषयमुत तदन्यविषयम् । आद्ये दृश्यत्वहेतोर्व्यभिचारः । द्वितीये कथमन्यविषयकमात्माज्ञानं निवर्तयेदिति भावः ।

श्रीराघवेन्द्रतीर्थ

अविषयत्वादेवेत्यस्य तत्पुरुषत्वभ्रान्तिं निराह - न विद्यत इति ।। तस्य भावस्तस्मादिति व्यक्तत्वान्नोक्तम् ।

अनात्मविषयमपि तदिति । आत्माविषयकमपि तत् वेदान्तवाक्यजन्यं ज्ञानमित्यर्थः । अस्य शशविषाणादिज्ञानस्य । अन्यः शशविषाणात् ।

गुरुराजीया

ननु दृष्टान्ताभावेनोक्तविधयाऽपाद्यापादकयोः व्याप्त्यसिद्ध्या मूलशैथिल्यात् तर्का-भासत्वमित्यतो विशेषव्याप्तेरभावेऽपि ‘यदविशिष्टस्य यस्य यद्भवति तदविशिष्टस्यापरस्यापि तत्’ इत्यविशेषलक्षणसामान्यव्याप्तेरविकलतया तन्मूलकत्वाद्युक्तस्तर्क इत्याशयेनाऽह- अनात्म-विषयत्वाविशेषादिति ।।

नन्वात्माज्ञाननिवर्तकत्वे तदन्याविषयकत्वमेव तन्त्रम् । घटादिज्ञानं चान्यविषयमिति वैषम्या-न्नाविशेषलक्षणा व्याप्तिरित्याशयेन शङ्कते- नन्विति ।। ग्रस्तमिति ।। तद्विषयकमित्यर्थः । निर्विषयमेवेति ।। सविषयत्वे किमात्मविषयमुत तदन्यविषयकम् । आद्ये आत्मनि व्यभिचारः । द्वितीये आत्माज्ञाननिवर्तकत्वानुपपत्तिप्रसङ्गादिति भावः ।

गोविन्दीया

तत्किमिति ।। दृक्कर्मत्वानुपपत्त्या विषयत्वाभावात् यत्किञ्चिद्विषयमादाय सविषयत्वे तस्य विषयग्रस्तत्वेन आत्माज्ञाननिवर्तकत्वायोगाद् इदानीं तद्वेदान्तवाक्यजनितं विज्ञानं निर्विषय-मेव किमित्यर्थः ।

जनार्दनभट्टीया

हन्त तर्हीति ।। घटज्ञानम् आत्माज्ञानं कस्मात् न निवर्तयेत्? इति पूर्वेण सम्बन्धः । घटज्ञानस्य आत्माज्ञानानिवर्तकत्वं न भिन्नविषयत्वप्रयुक्तम् । किन्तु मिथ्याभूतविषयावच्छिन्नत्व-प्रयुक्तमित्याशङ्कते – नन्विति ।। इदानीमिति ।। संसारदशायामित्यर्थः । बाढं = सत्यमित्यर्थः ।

विषयो न भवतीत्यविषयमित्यर्थस्य प्रकृतासङ्गतत्वादाह – न विद्यत इति ।।