न च जगत्प्रत्यक्षस्यापटुत्वे..
जगत्प्रत्यक्षस्यापटुत्वशङ्का तत्परिहारश्च
श्रीमज्जयतीर्थटीका
नन्वेवमेव तर्हि जगत्प्रत्यक्षस्यापटुत्वे यद्यपि नानुमानागमौ तस्य बाधकौ तथाऽपि तेनाबाधितौ विश्वमिथ्यात्वं निश्चेष्यत इति चेत् । तत्किमस्य चन्द्रप्रादेशत्वादिविषयवत् प्रतिभासतोऽपटुता कल्प्यते । उत प्रमाणान्तरेण । नाऽद्यः । सत्यस्तम्भो भवत्येवेति निश्चायकतयैवावभासनात् । तदिदमुक्तं प्राक् ‘प्रत्यक्षसिद्धम्’ इति । सिद्धं निश्चितम् । द्वितीयं निराचष्टे-
मूल
न च जगत्प्रत्यक्षस्यापटुत्वे किञ्चिन्मानम् ।
जगत्प्रत्यक्षस्य वियदादेरात्मभेदस्य च सत्यताग्राहिप्रत्यक्षस्य ।
श्रीविजयीन्द्रभिक्षु
एवमेवेति ।। चन्द्रप्रादेशत्वादिप्रत्यक्षवदेवेत्यर्थः । प्रतिभासत इति ।। ज्ञानमिति कृत्वेत्यर्थः । निश्चायकतयेति ।। अर्थसत्तानिश्चयरूपत्वेनैव साक्षिणा निश्चितत्वादित्यर्थः । तथा च ज्ञानत्वमात्रेण निःशङ्कप्रवृत्तिहेतुभूतार्थसत्तानिश्चयरूपत्वाभावरूपापटुत्वसाधने बाध इति भावः । ननु जगद्विषयकस्य चन्द्रप्रादेशत्वादिप्रत्यक्षस्यापटुत्वस्वीकारात् ‘न च जगत्प्रत्यक्षस्य’ इति वाक्यमयुक्तमित्याशङ्क्य व्याचष्टे- जगत्प्रत्यक्षस्येति ।।
श्रीवेदेशतीर्थ
प्रतिभासत इति ।। ल्यब्लोपनिमित्ता पञ्चमी प्रतिभासमारभ्येति । तथा च किं प्रागेव दोषनिश्चयेनापट्वेव ज्ञानमुत्पद्यत इति पृष्टं भवति । उत प्रमाणान्तरेणेति ।। सवितृसुषिरशुक्ति-रजतादिविषयप्रत्यक्षवदिति शेषः ।
प्रतिभासतः प्रतिभासत्वतः । ज्ञानत्वादिति हेतुनेति यावत् । अवभासनादिति ।। साक्षिणेति शेेषः । तथा च ज्ञानत्वानुमानं बाधितमिति भाव इत्यप्याहुः ।
किञ्चिन्मानमिति मूलम् । सवितृसुषिरादाविव न पूर्वमर्थाभावनिश्चयरूपं नापि शुक्ति-रजतादाविव पश्चात्परीक्षाप्रवृत्तिरूपं वा प्रमाणं जगत्सत्यताप्रत्यक्षाऽपटुत्वकल्पकमस्तीति भावः । उपलक्षणमेतत् । नापि सन्देहवदपटुत्वमेकाकारविषयत्वादित्यपि द्रष्टव्यम् । अत एव जगत्सत्यत्व-प्रत्यक्षस्यानयोक्तरीत्या सर्वापटुज्ञानवैलक्षण्योपपादनाय स्तम्भोऽयं भवत्येवेति प्रत्यक्षसाम्य-प्रदर्शनाय च पूर्वं हि ‘द्विविधं ज्ञानम्’ इत्यादिना ज्ञानभेदप्रपञ्चनं कृतम् । अन्यथोक्तरीत्या जगत्सत्यत्वप्रत्यक्षापटुत्वशङ्कापरिहारासम्भवादित्यवधेयम् ।
श्रीराघवेन्द्रतीर्थ
एवमेवेति ।। चन्द्रप्रादेशत्वादिप्रत्यक्षस्येव स्तम्भोऽयमित्यादिजगत्प्रत्यक्षस्यापि केनचित् प्रागेव स्तम्भादिसत्त्वाभावनिश्चयेन स्वार्थसत्त्वस्यानिश्चायकत्वरूपापटुत्व इत्यर्थः । नानुमानागमा-विति ।। मिथ्यात्वानुमानागमौ सिद्धान्तिभिरुक्तदिशा न बाधकौ जगत्सत्त्वप्रत्यक्षस्य यद्यपि तथाऽपि तेनापटुभूतेन जगत्सत्त्वप्रत्यक्षेणाबाधितौ मिथ्यात्वानुमानागमावित्यर्थः । प्रतिभासत इति ।। चन्द्रप्रादेशकत्वादिविषयप्रतिभास इव जगत्सत्त्वग्राह्यपि प्रतिभासः ज्ञानमिति कृत्वा तद्वदेवापटुतया कल्प्यत इत्यर्थः । ततो वैषम्यमाह- सत्य इति ।। तदिदमिति । चन्द्रप्रादेशत्वादिविषयवत् न प्रतिभासमात्रम् । किन्तु निश्चयरूपतया स्वार्थसत्त्वावधारकमित्येतत् ‘न च प्रत्यक्षसिद्धमन्येन’ इति वाक्ये उक्तमित्यर्थः । मूलं व्याचष्टे- जगदिति ।। आत्मभेदस्य चेति । आत्मनां जीवानाम् अन्योन्यं परमात्मना च भेदस्येत्यर्थः ।
गुरुराजीया
प्रतिभासत इति ।। प्रतिभासमपेक्ष्येति१ ल्यब्लोपनिमित्ता पञ्चमी । ‘ल्यब्लोपे कर्मण्यधि-करणे च पञ्चमी वक्तव्या’२ इति वचनात् । ततश्चाप्रामाण्यशङ्काकलङ्कितैकाकारनियतसवितृसुषिर-प्रकाशादिवत् स्वार्थपरिच्छेदपराङ्मुखतयैव जगत्प्रत्यक्षस्यावभासनात् तस्यापटुत्वमित्यर्थः । जगत्प्रत्यक्षस्येति मौलपदव्याख्यानं वियदादेरात्मभेदस्य च सत्यताग्राहिप्रत्यक्षस्येति । तस्यैव पूर्वत्र प्रकृतत्वादिति भावः ।
गोविन्दीया
नन्विति ।। यथा चन्द्रप्रादेशत्वादिग्राहिणः प्रत्यक्षस्यापटुत्वम्, तर्हि तथा जगत्प्रत्यक्ष-स्याप्यपटुत्वे सति तस्य जगत्प्रत्यक्षस्य यद्यप्यनुमानागमौ न बाधकौ । तथापि तेनापटुना प्रत्यक्षेणा-बाधितौ विश्वमिथ्यात्वं निश्चेष्यत इति चेदित्यर्थः । तदिति ।। तदिदं जगद्ग्राहीन्द्रियजन्यं ज्ञानं चन्द्रप्रादेशत्वादिविषयप्रतिभासतः साक्षिप्रत्यक्षाद् अपटुत्वेन कल्प्यत उत साक्षिणोऽन्येन प्रमाणान्तरेणापटु कल्प्यते वेत्यर्थः । नाद्य इति ।। सत्यं स्तम्भो भवत्येवेति जगद्ज्ञानस्य तन्निश्चायकतया साक्षिणावभासनादित्यर्थः । तदिति ।। तस्मात्प्रत्यक्षसिद्धमन्येनेति तदिदं वाक्यमाचार्येण प्रागुक्तमित्यर्थः । तत्प्रत्यक्षेणापीति ।। अम्बरादिग्राहिप्रत्यक्षेणापीत्यर्थः ।
तथापीति ।। पटुत्वेऽप्यज्ञानजन्यत्वानुसन्धानवतां जायमानेन प्रत्यक्षेणापटुना न भाव्यमिति कथमपटुना भाव्यमेवेत्यर्थः । तस्मिन्निति ।। तस्मिन्नज्ञानजन्यत्वानुसन्धानवताम् अम्बरादि-विषयप्रत्यक्षेऽनुमानागमाभ्यामपटुस्थितेऽन्यदपि तत् तदनुसन्धानविधुराणामपि प्रत्यक्षं स्वार्थ-प्रच्युतमनुमानागमबाध्यं भविष्यति । तथा हि । विमतं प्रत्यक्षम् अनुमानागमबाध्यम् अम्बरादि-विषयकप्रत्यक्षत्वात्, अज्ञानजन्यत्वानुसन्धानवतां प्रत्यक्षवदित्यनुमानेन ‘मायामात्रमिदं विश्वम्’३ इत्यागमेन च बाध्यमित्यर्थः । तदिति ।। तत्तस्माद् अम्बरादिप्रत्यक्षम् अपटु मायाकल्पितार्थ-विषयकप्रत्यक्षत्वाद् ऐन्द्रजालिकार्थप्रत्यक्षवदिति । दुःखादिप्रत्यक्षम् अपटु आविद्यकार्थप्रत्यक्ष-त्वात्, मरीचिकोदकप्रत्यक्षवदिति चानुमानद्वयसद्भावाद् जगत्प्रत्यक्षस्यापटुत्वे कथं मानाभाव इति चेदित्यर्थः । स्यादिति ।। इदं जगत्प्रत्यक्षम् अनुमानागमबाध्यं स्यादित्यर्थः । न चेति ।। न (मानम्) तन्मानं नास्तीत्याहेत्यर्थः ।
नारोपन्तीया
अवभासोऽपटुतेति ।। साक्षिरूपस्य विपरीतज्ञानस्य प्राक्सत्त्वेनासम्भावितमेव प्रादेशपरिमितत्वं बलवता दोषेण भासते । तदनुव्यवसाय एव स्थूलतरोऽपि चन्द्रो मया प्रादेशतया गृहीत इति प्रतिभासतोऽपटुत्वमित्यर्थः ।।
प्रमाणान्तरेणेति ।। प्रथममप्रामाण्यशङ्कानास्कन्दितमेव ज्ञानमुत्पन्नम् । ततः प्राक् विपरीत-संस्काराद्यभावात् । तदनन्तरं चाप्तवाक्यादिना प्रमाणान्तरेण बाधादपटुतेति विकल्पद्वयविवेकः ।
जनार्दनभट्टीया
प्रतिभासत इति ।। उल्लेखानुसारादित्यर्थः । ‘सत्यः स्तम्भः’ इत्येका प्रतीतिः । ‘भवत्येव स्तम्भः’ इत्यपरा ।
ननु सिद्धिशब्दस्य ज्ञानमात्रपरत्वम् जगत्प्रत्यक्षस्य निश्चयनिरूपत्वे प्रत्यक्षसिद्धशब्दस्य कथं सम्मतित्वम्? इत्यत आह – सिद्धं निश्चितमिति ।। ‘सिद्धसाधनम्’ इत्यादौ सिद्धशब्दस्य निश्चयेऽपि प्रयोगदर्शनादिति भावः ।