न चार्थापत्त्या अनिर्वचनीयत्वसिद्धिः ..
अनिर्वचनीयत्वे अर्थापत्तिप्रमाणनिराकरणम्
श्रीमज्जयतीर्थटीका
अथापि स्यात् । अर्थापत्त्या शुक्तिरजतादेरम्बरादेर्वा अनिर्वाच्यता सेत्स्यति । तथा हि । यदत्यन्तासत्, न तत्प्रतीयते, यथा नरविषाणम् । यच्चात्यन्तसत्, न तद्बाध्यते, यथाऽऽत्मा । तदिहोभयान्यथानुपपत्त्या अनिर्वचनीयतैवाऽश्रयितुं युक्तेति ।। तत्राऽह-
मूल
न चार्थापत्त्या अनिर्वचनीयत्वसिद्धिः ।
अर्थापत्तिः खलु नानुमानाद्भिद्यते । अनुमानञ्चाप्रसिद्धविशेषणतया निराकृतमिति नार्थापत्त्या च शुक्तिरजतादेरम्बरादेर्वाऽनिर्वाच्यतासिद्धिः ।
श्रीविजयीन्द्रभिक्षु
अर्थापत्तेः पृथक्प्रामाण्याभिमानी शङ्कते- अथापीति ।। अनुमानादिति ।। विमतं सदसद्विलक्षणं बाध्यत्वे सति प्रतीयमानत्वादित्येवंरूपादित्यर्थः । अप्रसिद्धविशेषणतयेति ।। ननु भवतु विशिष्टमप्रसिद्धम् । सद्वैलक्षण्यमसद्वैलक्षण्यञ्च प्रत्येकं सिद्धमेव । बाध्यत्वप्रतीतत्वहेतुभ्यां तदुभयमेकत्र सिद्धं पक्षधर्मताबलात्सदसद्विलक्षणत्वरूपमेव पर्यवस्यतीति चेन्न । सदसद्वैलक्षण्ययोः परस्परविरोधेनैकत्र तदुभयसिद्धेरेवाभावादिति भावः ।
श्रीवेदेशतीर्थ
ननु तर्हि विमतमनिर्वचनीयं बाध्यत्वे सति प्रतीयमानत्वादित्यनुमानेन तत्सिद्धिरित्यत आह- अनुमानञ्चेति ।। अप्रसिद्धविशेषणतयेत्युपलक्षणम् । विशेष्यवैयर्थञ्चेत्यपि ज्ञातव्यम् । यद्वा नेदम् असत् प्रतीतत्वात्, नेदं सद् बाध्यत्वादिति सत्त्वासत्त्वप्रतिक्षेपे इदम् अनिर्वचनीयमनुपपन्न-सत्ताऽसत्ताकत्वादित्यनुमानेन तत्सिद्धिः स्यादित्यत आह- अनुमानञ्चेति ।। अस्मिन्व्याख्याने शुक्तिरूप्यपक्षकत्वेऽसत्त्वस्यैवोपपन्नत्वाद् अम्बरादिपक्षकत्वे सत्त्वस्यैवोपपन्नत्वात् स्वरूपासिद्धो हेतुः । न च प्रतीतत्वाद्बाध्यत्वात्कथमसत्त्वं सत्त्वं वा शुक्तिरूप्यजगतोरिति वाच्यम् । असतोऽपि प्रतीतिसम्भवेन सतोऽपि बाध्यत्वसम्भवेन व्याप्त्यभावादित्येवम्परतयोत्तरग्रन्थो नेयः ।
द्वैतद्युमणि
अर्थापत्त्येति ।। परेण ‘व्यवहारे भट्टनयः’ इति वादिना अर्थापत्तेः पृथक् परिगणितत्वात् तन्मतानुसारेणाऽशङ्का । अतः स्वमतेऽस्या अनुमानाबहिर्भावेन तद्दूषणेन दूषितत्वेऽपि न पौन-रुक्त्यावकाशः । यदिति ।। असत्पदमभावप्रतियोग्यर्थकं प्रागभावादिप्रतियोगिघटादिबोधकमपि भवतीत्यतोऽत्यन्तेत्युक्तम् । यथा नरविषाणमिति ।। प्रत्यक्षातिरिक्तप्रमाणानङ्गीकर्तुरपि लोका-यतस्य परबोधनाय युक्त्याद्युपन्यासो यथा स्वमतसिद्धलोकरीत्यभिसन्धिपूर्वकः तथा नरविषाण-मित्यादिशब्दोऽपि विकल्पजननद्वारा प्रकृतोपयोगी भवत्वित्यभिसन्धिना परस्य व्यवहारः । अतोऽ-सत्प्रतीतिमनङ्गीकुर्वतः कथं तद्बोधेच्छया वाक्यप्रयोग इति शङ्कानवकाशः । विकल्पाख्यवृत्तीच्छयैव तत्प्रयोगात् । विकल्पे प्रतीतिभेदांशे परस्य भ्रम इत्यवसेयम् । अत्यन्तासत् बाध्यत्वसामान्यशून्यं, न बाध्यते - त्रैकालिकनिषेधप्रतियोगित्वप्रकारकप्रमागोचरत्वरूपबाध्यत्ववन्न भवतीत्यर्थः । यद्वा ज्ञानोच्छेद्यत्वस्वरूपबाध्यत्ववन्न भवतीत्यर्थः । अतो न यथाश्रुते साध्यावैशिष्ट्यमिति शङ्कावाकशः । स्वमतमनुरुद्ध्यानुमानपक्षोक्तदूषणेनेदमपि दूषितं भवतीत्याशयेन मूले हेत्वनुक्तिरित्यभिप्रेत्याऽह- अर्थापत्तिरिति ।। अनुमानञ्चेति ।। ‘विमतं सदसद्विलक्षणं बाध्यत्वे सति प्रतीतत्वात्’ इति व्यतिरेक्यनुमानमित्यर्थः ।
श्रीराघवेन्द्रतीर्थ
उभयेति ।। प्रतीतिबाधान्यथाऽनुपपत्त्येत्यर्थः । अम्बरादेः बाधो ‘नेह नाना’ इत्यादिश्रुतिसिद्धो मिथ्यात्वानुमानैर्वा सिद्ध इति भावः । प्रागुक्तदोषेण निराह - अर्थापत्तिः खल्विति ।। ‘विवादपदं सदसद्विलक्षणं प्रतीतत्वे सति बाध्यत्वात्’ इत्यादिरूपेण प्रयोग-सम्भवान्नानुमानाद्भिद्यत इत्युक्तम् ।
गुरुराजीया
ननु तर्हि विमतमनिर्वचनीयं बाध्यत्वे सति प्रतीयमानत्वादित्यनुमानेन तत्सिद्धिरस्त्वित्यत आह- अनुमानञ्चेति ।।
गोविन्दीया
अथापि स्यादिति ।। अथापि= अनिर्वचनीये प्रत्यक्षानुमानागमरूपप्रमाणाभावेऽपि प्रमाणान्तरं स्यादित्यर्थः ।
जनार्दनभट्टीया
अत्यन्तासदिति ।। स्वरूपेणासदित्यर्थः । अत्यन्तसदिति ।। पारमार्थिकसदित्यर्थः । अनिर्वचनीयतेति ।। सदसद्विलक्षणता इत्यर्थः । न हि प्रतिज्ञामात्रेण अर्थसिद्धिरित्यत आह – अर्थापत्तिः खल्विति ।।