मय्यनन्तगुणेऽनन्ते..

स्पष्टैः सूत्रकारवचनैः श्रुत्या च ब्रह्मनिर्विशेषत्ववादनिरासेन पूर्वोक्तशङ्कानिरासः

मूल

‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।

यदासीत्तत एवाऽद्यः स्वयम्भूः समभूदजः ।।’ (भाग. ६.५.४८)

श्रीमज्जयतीर्थटीका

मयि मम नाभौ । ‘अनन्ते गुणतः’ इति गुणानां प्रत्येकमानन्त्यमुच्यते । यदासीत्पद्मम् । स्वयम्भूरज इति हिरण्यगर्भस्य परमेश्वरादुत्पत्तावागमसम्मतिकथनम् । स्वयंशब्दस्याकारस्य च विष्णुनामत्वात् ।

मूल

‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।।’ (भ.गी. २४.१७)

इति भगवद्राद्धान्तः ।

अनेन  सर्वस्माद्भगवतो भेद उत्तमत्वञ्चोक्तम् । परमात्मेत्युदाहृत इति तत्राऽगमसम्मति-रुक्ता । ‘लोकत्रयमाविश्य’ इति युक्तिः । विनाशिनि लोकत्रये स्थितस्य विनाशशङ्कायां तन्निरासाय ‘अव्ययः’ इत्युक्तम् । ‘ईश्वरः’ इति तदुपपादनायैश्वर्यवचनम् ।

स्यादेवं सूत्रकारस्यापसिद्धान्तो यदि ब्रह्माखण्डत्वं तत्सिद्धान्तः स्यात् । न चैवम् । यतस्तदीयैः स्पष्टवचनैर्निखिलगुणगणाढ्यमेव ब्रह्मेति भगवद्राद्धान्त इति गम्यते । ‘न स्थानतोऽपि’ इत्यादि त्वस्पष्टं वचनमन्यथा योजनीयम् । एतेन श्रुतिविरोधोऽपि परास्तः । श्रुतीनामपि भगवद्राद्धान्ता-विरोधेनैव व्याख्येयत्वात् श्रुतिष्वेव स्पष्टं निरवकाशतया ब्रह्मणः सगुणत्वावगमाच्च न श्रुतीना-मखण्डार्थनिष्ठत्वमित्यभिप्रायेणाऽह-

मूल

‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ।’

इत्यादिश्रुतिः ।

एतेनाविद्याकल्पितविशेषैः सविशेषं स्वतस्त्वविशेषमेव ब्रह्मेत्यपि निरस्तम् । स्वाभाविकीति श्रवणात् ।

श्रीविजयीन्द्रभिक्षु

मयीति ।। ‘अजस्य नाभावध्येकमर्पितम्’ ‘अजस्य नाभाविति यस्य नाभेः’ इति श्रुतितद्व्याख्यानरूपसमाख्याबलात् ‘मम नाभौ’ इति व्याख्यातम् । अनन्त इति ।। अनन्तगुण इत्यनेनैवानन्तगुणवत्त्वलाभाद्गुणतोऽनन्त इत्युक्तिः गुणानामपि प्रत्येकमानन्त्यप्रतिपादानार्था विज्ञायत इति भावः । यद्यपि अनन्तगुण इत्यस्य ‘न विद्यते अन्तो नाशो येषां ते अनन्ताः । अनन्ता गुणा यस्मिन् सोऽनन्तगुण इति विग्रहे नित्यानेकगुणवत्त्वमेव तस्यार्थो भवति । गुणतोऽनन्त इत्युक्ते पुनर्गुणानन्त्यं गुणानामियत्ताराहित्यरूपं लभ्यते । नित्यत्वस्य अनन्तगुण इत्यनेनैव प्रतिपादनेन पुनस्तस्यैव प्रतिपादने पौनरुक्त्यात् । तथा च अनन्तगुणे गुणतोऽनन्त इत्येताभ्यां नित्यासङ्ख्यगुणवत्त्वमेव लभ्यते । न तु गुणानां प्रत्येकमानन्त्यम् । तथाऽपि अनन्तगुण इत्यत्र अन्तशब्दस्य परिच्छेदार्थकत्वेन सङ्कोचकप्रमाणाभावेन देशत इव कालतः सङ्ख्यया च परिच्छेदार्थो विज्ञायते । तन्निषेधे गुणानामसङ्ख्यत्वं नित्यत्वञ्च लब्धमेवेति गुणतोऽनन्त इत्युक्ते पुनर्गुणानामेव प्रत्येकमानन्त्यं लभ्यत इति वक्तव्यम् । अन्यथा तद्वैयर्थ्यादिति भावः ।

अजस्य नाभाविति यस्य नाभेः’ इति समाख्यावचने पद्मपदपर्यायपुष्करपदसत्त्वात् ‘यन्नाभि-पद्मादभवन्महात्मा प्रजापतिर्विश्वसृग्विश्वरूपः’ ‘प्रजापतिरेकः पुष्करपर्णे समभवत्’ इति समाख्या-श्रुत्योश्च पद्मपुष्करशब्दसद्भावात्तदनुसारेण व्याख्याति- यदासीत्पद्ममिति ।। स्वयम्भुशब्दस्य अजशब्दस्य च योगरूढिभ्यां हिरण्यगर्भोऽर्थः । ‘तदात्मानं स्वयमकुरुत’ इति श्रुतौ परमात्मनि स्वयंशब्दप्रयोगात्स्वयमित्यव्ययं भगवद्वाचकम् । तस्माद्भवतीति स्वयम्भूः । ‘अः इति ब्रह्म’ इति श्रुतेः अः विष्णुः । तस्मिन् जात इत्यजः। ‘सप्तम्यां जनेर्डः’१ इति पाणिनिस्मरणात् । तदेतदभिप्रेत्य व्याचष्टे- स्वयम्भूरज इति ।। अर्थगत्या परमेश्वरादुत्पत्तावित्युक्तमित्यविरोधः । आगमसम्मतीति ।। ‘नारायणाद्ब्रह्मा जायते’ इति श्रुतिसम्मतिकथनमित्यर्थः । इति भगवद्राद्धान्त इति ।। अत्र इतिशब्दः पूर्वश्लोकस्यापि परामर्शकः। अनेनेति ।। ‘द्वाविमौ’ इति पूर्वश्लोके क्षराक्षरपदाभ्यां जडस्याप्युपलक्षणादिति भावः । उक्तार्थे-

तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।’२

इति श्रुतिसम्मतिरुक्तेत्याह- परमात्मेतीति ।। युक्तिरिति ।। न हि तदभिन्नस्य तत्प्रवेशः ततो निकृष्टस्य तद्भरणकर्तृत्वं वा सम्भवति । तथाऽनुपलब्धेरित्येवंरूपा युक्तिरित्यर्थः । लोकत्रय-मित्युपलक्षणम् । तद्वर्तिसकलपदार्थानित्यपि द्रष्टव्यम् । विनाशिन्यपि प्रविष्टस्य तद्विनाशसामग्री-समवधानकाले ततोऽन्यस्य निर्गतस्य न विनाशशङ्केत्यत उक्तम्- विनाशिनि लोकत्रये स्थित-स्येति ।। तत्र विनश्यतादशायां स्थितस्येत्यर्थः । अव्यय इतीति ।। न व्येति न विनश्यतीति योगादविनाशीत्यर्थः ।

ननु विनाशिनि गृहादौ प्रविष्टस्य गृहनाशकाले विद्यमानस्य नियमेन विनाशदर्शनात् तादृश-लोकत्रये प्रविष्टस्य तन्नाशकाले विद्यमानस्य तन्नाशे नाशावश्यम्भावादव्ययत्वमनुपपन्नमित्या-शङ्क्याऽह- ईश्वर इति ।। विमतो नाव्ययो भवितुमर्हति विनाशिनि प्रविश्य तद्विनाशकाले विद्यमान-त्वात् सम्प्रतिपन्नवत् इति तदव्ययत्वाभावसाधनं नोपपद्यते । तत्रानीश्वरत्वस्योपाधित्वात् । न च तस्य पक्षेतरत्वम् । तस्यापि बाधोन्नीतस्योपाधित्वात् । ईश्वरानित्यत्वस्य श्रुत्यादिबाधितत्वादिति भावः ।

सूत्रकारस्यापसिद्धान्तोद्भावने ‘मय्यनन्तगुणेऽनन्ते’ इति वाक्यं पठित्वा इति भगवद्राद्धान्त इत्युक्तिमात्रेण कथमपसिद्धान्तः परिहृत इत्याशङ्कानिरासायाऽह- स्यादेवमिति ।। स्पष्टवचनै-रिति ।। ‘मय्यनन्तगुणे’ इत्यादिभिः ‘अन्तस्तद्धर्मोपदेशात्’१, ‘विवक्षितगुणोपपत्तेश्च’२, ‘अदृश्यत्वादिगुणको धर्मोक्तेः’३, ‘सर्वधर्मोपपत्तेश्च’४ इत्यादिभिस्तदीयैः स्पष्टैर्वचनैरित्यर्थः । वचनानां स्पष्टत्वोक्त्या वैपरीत्यशङ्का निरस्ता । अनिर्णीतार्थकवचनापेक्षया निर्णीतार्थकवचनस्य प्रबलत्वादिति भावः ।

कथं तर्हि ‘न स्थानतोऽपि हि’५ इति सूत्रगमनिकेत्यत आह- न स्थानतोऽपीत्यादि त्विति ।। ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इत्यत्र सर्वावस्थाप्रेरकत्वेन प्रकृतः परमात्मा किं प्रतिशरीरं जाग्रदादिस्थानेषु च स्थितः अन्योन्यं भिन्नः उताभिन्न इति सन्देहः । अन्योन्यं भिन्न इति पूर्वः पक्षः ।

सिद्धान्तस्तु- स्थानभेदेऽपि न परमात्मनो भिन्नं रूपम् । ‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इति सर्वभूतेष्वेकस्यैव निर्दोषतया स्थितिश्रवणात् ।

एकरूपः परो विष्णुः सर्वत्रापि न संशयः ।

ऐश्वर्याद्रूपमेकञ्च सूर्यवद्बहुधेर्यते ।।’

इति मात्स्यवचनाच्चेति परमात्मनः स्थानभेदप्रयुक्तभेदनिराकरणपरत्वेनान्यथा योजनीयमित्यर्थः ।

नन्वेवं सूत्रकारस्यापसिद्धान्तदोषाभावेऽपि उदाहृतानेकश्रुतिविरोधस्तदवस्थ इत्यत आह- एतेनेति ।। ‘अशब्दमस्पर्शम्’ इत्यादिश्रुतीत्यर्थः । नन्वपौरुषेयश्रुतीनामुपक्रमादितात्पर्यग्राहक-प्रमाणानुसारेणैव व्याख्यानमुचितम् । न तु भगवद्राद्धान्तानुरोधेनेत्यत आह- श्रुतिष्वेवेति ।। ननु श्रुतिषु स्पष्टं ब्रह्मणः सगुणत्वावगमेऽपि अन्यार्थपरत्वस्यापि सम्भवेनायमेवार्थ इति निर्णयासम्भव इत्यत आह- निरवकाशतयेति ।। साधकाभावेन बाधकसत्त्वेन चान्यार्थपरतया नेतुमशक्यतये-त्यर्थः । ततःकिमित्यत आह- न श्रुतीनामिति ।। ‘अशब्दमस्पर्शम्’ इत्यादिश्रुतीनामित्यर्थः । अखण्डार्थनिष्ठत्वमिति ।। निर्विशेषब्रह्मपरत्वमित्यर्थः । मूले इत्यादिश्रुतिः इत्यादिपदेन -

विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशाः स्युः’, ‘विष्णोर्नु कं वीर्याणि प्रवोचम्’ ‘देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहा’ ‘एष नित्यो महिमा ब्राह्मणस्य’ ‘सत्यः सो अस्य महिमा’ ‘सत्यसङ्कल्पः’ इत्यादिश्रुतिपरिग्रहः । स्वतस्त्विति ।। स्वभावत इत्यर्थः । एतेनेत्येतदेव दर्शयति- स्वाभाविकीति श्रवणादिति ।। न च शक्तिज्ञानबलक्रियाणां स्वाभाविक-त्वश्रवणम् अविद्योपाधिकत्वे तद्रूपदोषप्रयुक्तारोपितत्वे वा सम्भवति । न ह्यग्न्यादीनामूर्ध्व-प्रज्वलनादिकं स्वाभाविकत्वेन सिद्धमन्योपाधिकं दोषादारोपितं वा । किन्तु अग्न्यादिसमान-सत्ताकमेव । एवं ब्रह्मणो जगत्सर्जनाद्यनुकूलशक्तिज्ञानबलक्रियाः स्वाभाविकत्वेन प्रमाण-सिद्धास्तत्समानसत्ताका एव स्वीकार्या इति भावः । एतच्चोपलक्षणम् । नित्यत्वसत्यत्व-श्रवणाच्छक्त्यादेराविद्यकत्वं न सम्भवति । कल्पितस्यासत्त्वज्ञाननिवर्त्यत्वयोरवश्यम्भावादित्यपि द्रष्टव्यम् । न च ‘एष नित्यो महिमा’ इत्यादिश्रुतौ महिम्न एव नित्यत्वसत्यत्वे श्रूयेते । न शक्त्यादेरिति वाच्यम् । जगत्सर्जनाद्यनुकूलशक्तिबलज्ञानक्रियाद्यतिरेकेण महिमशब्दार्थानिरूप-णादित्यपि द्रष्टव्यम् ।

श्रीवेदेशतीर्थ

साक्षात्पद्माधारत्वस्य भगवति बाधितत्वादाह- मम नाभाविति ।। ननु ‘गुणतोऽनन्ते’ इत्येतत् ‘अनन्तगुणे’ इत्यनेन पुनरुक्तमित्यत आह- अनन्त इति ।।

प्रत्येकशो गुणानान्तु निःसीमत्वमुदीर्यते ।

तदानन्त्यन्तु गुणतस्ते चानन्ता हि सङ्ख्यया ।।

अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च ।’

इति तन्त्रभागवतोक्तेरिति भावः । नन्वाद्य इत्यनेनैव वाक्यस्य पूर्णत्वात् स्वयम्भ्वज इति१ पदद्वयं व्यर्थमित्यत आह- स्वयम्भूरिति ।। विष्णुनामत्वादिति ।। तथा च स्वयम्भ्वजशब्दयोर्यौगिक-त्वेनोक्तार्थे आगमतया प्रामाण्यमुपपन्नमिति भावः । आगमसम्मतिरिति ।। ‘परमात्मा व्यवस्थितः’ इत्यागमसम्मतिरिति भावः । युक्तिरिति ।। यो यस्य  भरणकर्ता  स तस्मादुत्तम इति युक्तिरित्यर्थः । ऐश्वर्यवचनमिति ।। ईश्वरत्वमघटितघटकशक्तिमत्त्वम् । तद्वतीश्वरे लोकनाशेऽप्यनाश उपपद्यत इति भावः । अन्यथा योजनीयमिति ।। अत्र सर्वावस्थाप्रेरकत्वेन प्रकृतः परमात्मा किं प्रतिशरीरं जाग्रदादिस्थानेषु स्थितोऽन्योन्यं भिन्न उताभिन्न इति सन्देहे स्थानभेदादन्योन्यं भिन्न इति पूर्वपक्षे प्राप्ते स्थानभेदेऽपि न परस्परभिन्नं रूपम् । ‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इति सर्वभूतेष्वेकस्यैव गुणपूर्णत्वश्रवणादित्यभिहितम् । अतः परमात्मनः स्थानभेदप्रयुक्तभेदनिराकरणपरतया सूत्रस्य सावकाशत्वमिति भावः ।

एतेनेत्युक्तं विवृणोति- श्रुतीनामपीति ।। लौकिकगन्धाद्यभावपरतया व्याख्येयत्वादिति भावः । ‘अशब्दम्’ इत्यत्र साकल्येन शब्दागोचरत्वमप्यर्थ इत्यवधेयम् । मूले इत्यादिश्रुतिरित्यादिपदेन ‘विचित्रशक्तिः पुरुषः पुराणः’ ‘विष्णोर्नु कं वीर्याणि प्रवोचम्’ इत्यादिवाक्यं गृह्यत इति मन्तव्यम् ।

श्रीराघवेन्द्रतीर्थ

अपौनरुक्त्यायाऽह- अनन्ते गुणत इतीति ।। ‘यन्नाभिपद्मादभवन्महात्मा प्रजापतिर्विश्व-सृग्विश्वरूपः’ इति वचनानुरोधादाह- यदासीत्पद्ममिति  ।।  तत  एवाऽद्यः  समभूदित्येव  पूर्तौ  स्वयम्भूरज इति विशेषणद्वयवैयर्थ्यमाशङ्क्याऽह- स्वयम्भूरिति ।। आगमेति ।। ‘नारायणाद् ब्रह्मा जायते’ ‘यस्य प्रसादजो ब्रह्मा’ ‘यन्नाभिपद्मात्’ इत्याद्यागमेत्यर्थः । कथमित्यत आह- स्वयंशब्द-स्येति ।। ‘स्वातन्त्र्यात्स्व इति प्रोक्तः’ इति ‘स्वात्मना चोत्तरयोः’२ इत्यादौ स्वशब्दस्य विष्णौ प्रयोगेण तत्पर्यायत्वात् स्वयंशब्दस्य विष्णुवाचित्वं ‘अः इति ब्रह्म’ इति श्रुतेरकारस्य विष्णुवाचित्वं प्रसिद्धमिति तन्नामत्वादित्युक्तम् । अनेनेति ।। ‘उत्तमः पुरुषस्त्वन्यः’३ इत्यंशेनेत्यर्थः । तत्र पूर्वप्रकृतस्य क्षराक्षराभ्यामित्यस्यान्वयादिति भावः । तत्रेति ।। सर्वस्माद्भेदे उत्तमत्वे च परमात्मा परमचेतन इति ‘चेतनश्चेतनानाम्’ इत्यादौ उदाहृत इत्यागमसम्मतिरुक्तेत्यर्थः । युक्तिरिति ।। तत्र प्रवेशलिङ्गेन भेदस्य भरणरूपलिङ्गेन तदुत्तमत्वस्य च प्रतीत्या प्रविष्टत्वरूपा भर्तृत्वरूपा च युक्तिरुक्तेत्यर्थः ।

मूले ‘इति भगवद्राद्धान्तः’ इति पदेन मयीति पूर्वश्लोकोऽपि परामृश्यत इति भावेन श्लोकद्वय-तात्पर्योक्त्या पूर्वकृतशङ्कां निराह- स्यादेवमित्यादिना ।। अन्यथा योजनीयमिति ।। नानास्थान-गतभगवद्रूपाणामैक्योक्तिपरत्वेन योजनान्तरसम्भवादिति भावः । व्याख्येयत्वादिति । प्राकृतशब्द-स्पर्शादिराहित्यपरत्वादिरूपेण व्याख्येयत्वादित्यर्थः । स्वाभाविकीति श्रवणादिति ।। शक्तिः स्वाभाविकी ज्ञानबलाभ्यां सहिता क्रिया च स्वाभाविकीति शक्त्यादिचतुष्टयस्यापि स्वाभाविकत्व-श्रवणादित्यर्थः । युक्तिरिति ।। यो यस्य धारणपोषणादिकर्ता स तस्मादुत्तम इति प्रसिद्ध इति युक्तिरि-त्यर्थः । विनाशेति । दह्यमानगेहान्तर्गतपुरुषवदिति भावः । ऐश्वर्येति । अग्निस्तम्भनवतो दाहाभाव-वदिति भावः । अखण्डार्थनिष्ठत्वं निर्विशेषार्थप्रतिपादकत्वम् । स्वाभाविकीति श्रवणादिति ।। ज्ञानबलादिरूपविशेेषाणामविद्याकल्पितत्वे स्वाभाविकीत्युक्तस्वाभाविकत्वायोगादिति भावः ।

गुरुराजीया

साक्षात्पद्माधारत्वस्य भगवति बाधितत्वान्मयीत्यनुपपन्नम् । अतोऽपेक्षितपूरणेन तद्योजयति- मम नाभाविति ।। अनन्ता असङ्ख्याता गुणा यस्यासावनन्तगुणस्तस्मिन्ननन्तगुण इति अनन्तगुण इत्यनेनैवासङ्ख्यातगुणवत्त्वाभिधानात् तत्प्रतिपादकस्य ‘गुणतोऽनन्त’ इत्यस्य पौनरुक्त्यमित्यतः-

प्रत्येकशो गुणानां तु निःसीमत्वमुदीर्यते ।

अनन्तत्वं तु गुणतस्ते चानन्ता हि सङ्ख्यया ।।

अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव वा१ ।।’

इति प्रमाणं मनसि निधाय गुणतोऽनन्त इत्येतद्व्याचष्टे- गुणतोऽनन्त इतीति ।। नन्वाद्यो हिरण्यगर्भः समभूदित्येतावता पूर्णत्वात् स्वयम्भूरज इति विशेषणद्वयवैयर्थ्यमित्यतो हिरण्यगर्भस्य परमेश्वरादुत्पन्नत्वे आगमकथनार्थत्वात्तस्य न तदिति भावेनाऽह- स्वयम्भूरज इतीति ।। स्वयंशब्दस्य अकारस्य चेति ।। स्वयंशब्दपर्यायस्वशब्दस्य ‘स्वातन्त्र्यात्स्व इति प्रोक्तः’ इति स्मृत्या विष्णुनामत्वकथनेन तत्पर्यायस्य स्वयंशब्दस्यापि स्वातन्त्र्यार्थकत्वेन विष्णुवाचकतायाः ‘अकारो वासुदेवः स्यात्’ इति स्मृत्या ‘अ आ अं अः पुराणर्षिर्व्यासः शाखासहस्रकृत्’ इति वासुदेवसहस्रनामि्न व्यासनामसु पाठेन ऐतरेयभाष्ये ‘अकारो वै सर्वा वाक्’ इत्येतद्वाख्यानावसरे-

अकारः प्रथमं नाम विष्णोः सर्वगुणान् ब्रुवन् ।

सर्वदोषविरुद्धत्वाद्गुणानामन्यतामपि ।

विष्णोर्वदति जीवेभ्यो जडेभ्यश्चैव सर्वदा ।’१

इत्युदाहृतब्रह्मसारानुसारेणाकारस्य च विष्णुवाचितायाः सिद्धत्वादिति भावः । तथा चाऽगमिकयोः स्वयम्भ्वजशब्दयोः यौगिकत्वेनोक्तार्थे आगमिकतया प्रामाण्यमुपपन्नमिति भावः । आगम-सम्मतिरिति ।। ‘परमात्मा व्यवस्थितः’ ‘आत्मा नारायणः परः’ इत्यादिश्रुत्या नारायणपरतया प्रयुक्ते परमात्मशब्दे आत्मशब्दश्चेतनपर्यायः परमशब्दश्च उत्तमपर इति प्रसिद्धमेव । ततश्च परमात्मशब्द एव चेतनोत्तमत्वरूपपुरुषोत्तमत्वं तस्य वदतीत्यर्थः । युक्तिरिति ।। ‘यो यस्य धारणपोषणकर्ता स तस्मादुत्तमः’ इत्येवंरूपा युक्तिः ‘यो लोकत्रयमाविश्य बिभर्ति’ इत्यने-नोक्तेत्यर्थः । नाशः स्यादिति ।। गेहनाशे नश्यमानगेहान्तर्गतपुरुषनाशदर्शनादिति भावः । तदुपपादनायेति ।। लोकत्रयनाशेऽपि तत्प्रविष्टस्याविनाशोपपादनायेत्यर्थः । ऐश्वर्यवचनमिति ।। अघटितघटकशक्तिमत्त्वरूपैश्वर्यमीश्वर इत्यनेन कथितमित्यर्थः । अग्निस्तम्भनशक्तिमतो दह्य-मानगृहान्तर्गतस्य तन्नाशेऽप्यविनाशवदघटितघटकशक्तिमत्त्वाल्लोकत्रयनाशेऽप्यविनाशो युक्त इति भावः । ज्ञापकश्चायमर्थो न कारक इति भावेन गम्यते अवगम्यते इति शेषपूरणं कृतमिति द्रष्टव्यम् ।

का तर्ह्युदाहृतस्य ‘न स्थानतः’ इति सूत्रस्य गतिरित्यत आह- नेति ।। कुतोऽस्यैवान्यथा योज्यत्वमित्यत उक्तम्- अस्पष्टमिति ।। अत एव प्राक् स्पष्टवचनैरिति सविशेषत्ववचनानाम् अन्यथा योज्यत्वाभावसूचनाय स्पष्टतया निरवकाशत्वं सूचितमिति भावः । अन्यथा योजनीय-मिति ।। स्थानभेदप्रयुक्ततद्गतपरमात्मभेदनिराकरणपरतया योजनीयमित्यर्थः । तथा हि । सर्वावस्थाप्रेरकत्वेन प्रकृतः परमात्मा किं प्रतिशरीरं जाग्रदादिषु च स्थितो भिन्न उताभिन्न इति सन्देहे युगपद्भिन्नभिन्नस्थानस्थितानां घटपटादीनां भेददर्शनेन तादृशस्य परमात्मनः स्थान-भेदाद्भिन्नत्वमेवेति प्राप्ते स्थानभेदेऽपि न परस्य ब्रह्मणो भिन्नं रूपम् ‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इति सर्वेषु भूतेष्वेकस्यैव गुणपूर्णत्वश्रवणात् । अतो न तस्य भिन्नत्वमित्यन्यथा योजनीयमिति भावः । एतेनेत्यस्यैव विवरणम्- श्रुतीनामिति१ ।। लौकिकगन्धाद्यभावपरतया व्याख्येयत्वादित्यर्थः । अशब्दमित्यादौ तु साकल्येन विवक्षितत्वाददोषः । अन्यथाव्याख्येयत्वे युक्त्यन्तरमाह- श्रुतिष्वेवेति ।। इत्यादीत्यादिपदेन ‘विचित्रशक्तिः’ इत्यादिपरिग्रहः२ ।

गोविन्दीया

स्वयमिति ।। स्वयंशब्दस्याकारस्य च विष्णुनामत्वात् । स्वयंशब्दवाच्याद् विष्णोर्भवतीति स्वयंभूः । अकारवाच्याद् विष्णोः जायत इत्यजो हिरण्यगर्भ इत्यर्थः । तत्रेति ।। सर्वस्माद् भगवतो भेद उत्तमत्त्वं चेत्यर्थः । युक्तिरिति ।। परमात्मा जगतो भिन्न उत्तमो वा लोकत्रयमाविश्य भारकत्वाद् इत्युपपत्तिरित्यर्थः । ईश्वर इति ।। ईश्वरस्यैश्वर्यादिप्रतिपादकवचनम् अव्ययत्वोपपादनायेत्यर्थः  । न स्थानतोऽपीति ।। न स्थानतोऽपीत्यस्पष्टवचनमन्यथा योजनी-यम् । तथा हि- सर्वत्र शरीरादिषु स्थितस्य परस्य ब्रह्मणः स्थानतोऽपि स्थानभेदादपि उभयलिङ्गमन्योन्यभिन्नरूपं नास्तीत्यर्थः । एतेनेति ।। स्पष्टश्रुत्युदाहरणेनेत्यर्थः ।

नारोपन्तीया

स्वयंशब्दस्याकारस्य च विष्णुनामत्वादिति ।। स्वयंशब्दप्रवृत्तिनिमित्तस्वातन्त्र्यस्य भगवदेकनिष्ठत्वात्, ‘अकारो वासुदेवस्स्यात्’ इत्यभिधानाच्चेति भावः । न स्थानतोऽपीति ।।

जनार्दनभट्टीया

मन्दिरे मणिमालेत्युक्ते तत्रापि किमवच्छेदेनेति जिज्ञासावत् मय्यासीदित्यत्राऽपि  जिज्ञासायामाह – मम नाभाविति ।।

गुणतोऽनन्ते’ इत्यनेनैव अनन्तगुणवत्वलाभाद् अनन्तगुण इत्यस्य वैय्यर्थ्यमाशङ्क्याऽह – अनन्तेति ।। आगमसम्मतिकथनमिति ।। ‘तदात्मानं स्वयमकुरुत’ इत्यागमसम्मतिकथनमित्यर्थः । स्वयमित्येतदन्यम् । स्वस्मादित्यर्थः । स्वयंशब्दस्येति ।। ‘तदात्मानं स्वयमकुरुत’ इति श्रुतौ स्वयंशब्दस्य विष्णुनामत्वम्,  ओमित्येतदक्षरमुद्गीथमुपासीत’३  इत्यादौ अकारस्य विष्णुनामत्वं प्रसिद्धमिति भावः । न स्थानतोऽपीत्यादीति ।। अन्यथा योजनीयमिति ।। परस्य परमात्मनः स्थानतः अक्षादिस्थानभेदापेक्षया, सुरनरतिर्यगादिस्थानभेदापेक्षया वा उभयलिङ्गं भिन्नं रूपं नास्ति । कुतः? हि = यस्मात्, ‘सर्वेषु भूतेषु एतमेव ब्रह्म इत्याचक्षते’ इति श्रुतिराह इति ब्रह्मसूत्रार्थः – इति अन्यथा योजनीयमित्यर्थः । अविरोधेनैव व्याख्येयत्वादिति ।।

तथा च अयं भावः – न तावद् ब्रह्मशब्दो निर्गुणत्वपर्यवसायी । तस्य गुणानन्त्यरूपवृद्धिवाचक-त्वात् । न च अशब्दमस्पर्शम् इति श्रुतिविरोधेन ‘मय्यनन्तगुणे’ इत्यादेः पौरुषेयागमस्य आरोपितगुणपरत्वम् । अप्रामाण्यापत्तेः । ‘स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादौ गुणानां स्वाभाविकत्वोक्तेश्च । किञ्च गुणारोपान्यथानुपपत्त्या एव ब्रह्मणः पारमार्थिकगुणाश्रयत्वसिद्धिः । धर्मिसमसत्ताक इदन्त्वशुक्तित्वादिधर्मवत्येव शुक्त्यादौ रजतत्वाद्यारोपस्य दर्शनात् । तदेतदुक्तम् अनुव्याख्याने –

धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने ।

इदं तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि ।

सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ।। (अ.व्या. ३.२.१०२३)

इति । न च अशब्दमित्यादेरगतिः । तस्य साङ्केतिकनामप्राकृतस्पर्शादिनिषेधपरत्वात् – इत्यलं पल्लवेन इत्याशयवानाह – अविरोधेनैव व्याख्येयत्वात् इति ।।