स्वविषयत्वं हि..

मूले कर्तृकर्मभावविरोधादित्युक्तेरयुक्तत्वशङ्का परमतस्वमतरीत्या तत्परिहारश्च

स्वविषयत्वं हि

श्रीमज्जयतीर्थटीका

ननु ज्ञानस्य स्वविषयत्वे कर्तृकर्मभाव एव नास्ति यो विरुद्ध्येत । न हि ज्ञानं ज्ञानस्य कर्तृ । न च कर्तुरभावे कर्मापि सम्भवति । तस्य तदुपहितलक्षणत्वात् । अतो ‘विषयविषयिभावस्य पराक्प्रत्यग्भावरूपत्वाद् एकस्य युगपद्विरोधात् स्वविषयत्वं ज्ञानस्य तैर्नाङ्गीक्रियते’ इति  वक्तव्यम् । कर्तृकर्मविरोधादिति तु कथम् । मैवम् । ज्ञानस्यापि विषयीकरणलक्षणव्यापारं प्रति कर्तृत्वेन स्वविषयत्वे कर्तृकर्मभावापरिहारात् । इतरथा ज्ञानमर्थं विषयीकरोतीति न स्यात् ।

अथवा स्वमते ज्ञानस्वरूपस्याप्यात्मनो ज्ञानं प्रति कर्तृताऽस्तीति ज्ञापनायेदमुदितम् । कथमेतदिति चेत् । इत्थम् । अस्माभिर्विज्ञानं सविशेषमङ्गीकृतम् । विशेषश्च भेदकार्यं करोति । एवं तर्ह्यतिप्रसङ्गः स्यादिति चेन्न । सति प्रमाणे तन्निर्वाहहेतुभूतभेदाभावे च तत्प्रतिनिधिना तत एव सिद्धेन विशेषेण तन्निर्वाहाभ्युपगमात् । प्रपञ्चितञ्चैतदन्यत्राऽचार्यैः ।

श्रीविजयीन्द्रभिक्षु

न हीति ।। ज्ञानस्य क्रियारूपतया कारकविशेषरूपकर्तृत्वं न सम्भवति । क्रियाकारक-भावस्य भेदनियतत्वादिति भावः । न चेति ।। यद्यपि ज्ञानस्य कर्तृत्वाभावेऽपि कर्त्रन्तरमादाय तद्घटितकर्मत्वं सूपपादनं तथाऽप्यात्मरूपज्ञानं प्रति कर्त्रन्तरस्याप्यसम्भवात्तदुपहितं कर्मत्वमपि न सम्भवतीति भावः । स्वयं क्रियारूपस्यापि ज्ञानस्य क्रियान्तरं प्रति कर्तृत्वसम्भवात् स्वविषयत्वे ज्ञानस्य तदुपहितं कर्मत्वमपि दुष्परिहरमिति कर्तृकर्मविरोधादिति सुष्ठूक्तमिति परिहरति- मैवमिति ।। अथ वा कर्तृकर्मविरोधात् प्रत्यक्पराग्भावविरोधादित्यर्थः । न चैवमाचार्योक्तिरपि तथैव स्यादिति वाच्यम् । स्वमते कर्तृकर्मभावाविरोधज्ञापनाय तथा तदुक्त्युपपत्तेरित्याह- अथ वेति ।। ननु कर्तृ-कर्मभावस्य भेदनियतत्वात् कथं तदविरोध इति पृच्छति- कथमिति ।। भेदप्रतिनिधिविशेषस्य सत्त्वान्न विरोध इति परिहरति- इत्थमिति ।। एवं तर्हीति ।। सर्वत्र विशेषेणैव भेदकार्योपपत्तौ भेदमात्रोच्छेदः स्यादित्यर्थः । न हि वयं सर्वत्र विशेषमभ्युपगच्छामः । यतो भेदोच्छेदः स्यात् । किं तु यत्र कार्यं प्रमितं भेदाभावश्च प्रमितस्तत्रैव । अतो न विरोध इति परिहरति- नेति ।। ननु विशेषे प्रमाणमेव नास्ति येनाविरोध उपपद्येतेत्यत आह- प्रपञ्चितञ्चैतदिति ।। ‘शुक्लः पटः’ इति सामानाधिकरण्यधीरेव विशेषे प्रमाणम् । अत्यन्तभेदे अत्यन्ताभेदे च ‘घटः पटः’ ‘घटो घटः’ इति सामानाधिकरण्यधियोऽदर्शनात् । न च तावता भेदाभेद एव सिद्ध्येन्न विशेष इति वाच्यम् । भेदाभेदयोरपि विरोधेनैकत्रासम्भवात् । तदविरोधाय १नित्यनियामकान्तरस्वीकारे च मदभ्युपगत-विशेषस्यैव नामान्तरकरणापत्तेः । आवश्यकत्वेन प्रथमत एव तदभ्युपगमस्योचितत्वाच्च । न च विशेषाभ्युपगमे तस्य भेदकार्यकरत्वमेव न स्यादिति वाच्यम् । पूतिकासाध्ययागस्य सोमकार्यत्ववत् सादृश्येन विशेषकार्यस्य भेदकार्यत्वोपपत्तेरित्याद्यस्य अनुव्याख्यानादौ आचार्यैः प्रपञ्चितत्वादि-त्यर्थः । विस्तरस्तु तत्रैवानुसन्धेयः ।

श्रीवेदेशतीर्थ

न हीति ।। ज्ञानस्य क्रियारूपतया कारकविशेषरूपकर्तृत्वं न सम्भवति । क्रियाकारक-भावस्य भेदनियतत्वादिति भावः । यद्यपि ज्ञानस्य कर्तृत्वाभावेऽपि कर्त्रन्तरमादाय तद्घटितकर्मत्वं सूपपादम् । तथाऽप्यात्मरूपज्ञानं प्रति कर्त्रन्तरस्याप्यसम्भवात्तदुपहितकर्मत्वमपि न सम्भवतीति भावः । स्वयं क्रियारूपस्यापि ज्ञानस्य क्रियान्तरं प्रति कर्तृत्वसम्भवात् स्वविषयत्वे ज्ञानस्य तदुपहितकर्मत्वमपि दुष्परिहरमिति कर्तृकर्मविरोधात् इति सुष्ठूक्तमिति परिहरति- मैवमिति ।। अथवा कर्तृकर्मविरोधात् प्रत्यक्पराग्भावविरोधादित्यर्थः । न चैवमाचार्योक्तिरपि तथैव स्यादिति वाच्यम् । स्वमते ज्ञानरूपस्याप्यात्मनो ज्ञानं प्रति कर्तृत्वञ्चास्तीति ज्ञापनाय तथा तदुक्त्युपपत्ते-रित्याह- अथ वेति ।। ज्ञानरूपत्वे आत्मनः कथं ज्ञानं प्रति कर्तृत्वम् । क्रियाभिन्नस्यैव कर्तृत्वनियमादित्याक्षिपति । कथमेतदिति ।। एवं तर्हीति ।। सर्वत्र विशेषेणैव भेदकार्योपपत्तौ भेदमात्रोच्छेदः स्यादित्यर्थः । सति प्रमाण इति ।। अभेदभेदकार्ययोरिति शेषः । ननु प्रमाणा-भावाद्विशेष एवासिद्ध इत्यत आह- तत एव सिद्धेनेति ।। भेदकार्यतन्निर्वाहकभेदाभावान्यथा-नुपपत्तित एवेत्यर्थः ।

द्वैतद्युमणि

तदुपहितेति ।। तथा च कर्तुरभावे स्वभिन्नसमेवेतक्रियाप्रसिद्ध्या तद्घटितं कर्मत्वमप्रसिद्ध-मिति भावः । परागिति ।। पराक्त्वं प्रतियोगित्वं प्रत्यक्त्वमनुयोगित्वं प्रकृते विवक्षितम् । विषयस्य यो विषयी तद्भावस्य विषयितायाः पराक् प्रत्यग्भावौ अनुयोगित्वप्रतियोगित्वे । ताभ्यां रूप्यते सत्त्वेन गृह्यत इति तादृशरूपस्तत्त्वादित्यर्थः । विषयितायाः सम्बन्धरूपतया प्रतियोग्यनुयोग्युभय-सापेक्षतया एकस्मिन्नेकनिरूपितप्रतियोग्यनुयोगिभावस्य१ उपाधिनैरपेक्ष्येण शुद्धात्मरूपज्ञानस्य न स्वविषयकत्वमिति भावः ।

युगपदिति ।। ‘उपाधिकृतभेदमन्तरैककाल इत्यर्थः । पराक्प्रत्यग्भावेत्यादेश्चित्त्वजडत्वाधीन-त्वादित्यर्थः । चितो जडतादात्म्यरूपविषयताऽश्रयत्वम् । तत्प्रतियोगित्वरूपं विषयत्वं जडस्यैव । न तु चितः’ इत्यर्थोऽत्र न सङ्गच्छते । युगपदित्युत्तरपङि्क्तविरोधात् । औपाधिकभेदेनापि चेतने जडत्वस्य जडे चेतनत्वस्यायोगेन युगपदित्यस्यालग्नकतापत्तेः । एकस्येति सामान्योक्त्यसङ्गतेश्च । इतरथेति ।। तथा च विषयीकरणं विषयितैव । तत्कर्तृत्वकर्मत्वेप्रतियोगित्वानुयोगित्वरूप एव पर्यवस्येत इत्युक्तविरोधो युक्त एवेति भावः । ननु तर्हि स्फुटतया पराक्प्रत्यग्भावविरोधादित्येव वक्तव्यम्  । किमर्थं विषयिताया अप्युक्तरीत्या क्रियात्वविवक्षया तथोक्तिरित्यत आह- अथ वेति ।।

श्रीराघवेन्द्रतीर्थ

तदुपहितेति ।। कर्तृसमवेतक्रियाफलशालित्वस्य लक्षणत्वादित्यर्थः । परागिति ।। बाह्यत्वान्तरत्वरूपत्वादित्यर्थः  । इति न स्यादिति ।। कर्तृप्रयोगो न स्यादित्यर्थः । भेदकार्य-मिति ।। भेदप्रतिनिधित्वाद्विशेषस्य सोमप्रतिनिधिः पूतीकं यथा सोमकार्यं करोति तथेति भावः । अतिप्रसङ्गः स्यादिति ।। प्रमितभेदे जीवेश्वरादावपि विशेष एवाभ्युपेयो न भेद इत्यर्थः । सति प्रमाणे भेदकार्ये प्रमाणे सतीत्यर्थः  । तत एवेति ।। प्रमितकार्यस्य निर्वाहकान्तराभावादेवेति वा प्रमाणनिर्वाहकाभावोभयान्यथानुपपत्तित एवेति वा अर्थः । अन्यत्रेति ।।

भेदहीने त्वपर्यायशब्दान्तरनियामकः ।

विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ।।’२

इत्यादिना अनुव्याख्यानबृहद्भाष्यादावित्यर्थः ।

प्रत्यक्त्वम् आन्तरत्वं पराक्त्वं बहिःष्ठत्वम् । एवं तर्हीति ।। घटपटयोरप्यभेदमङ्गीकृत्य भेदकार्यस्यापर्यायव्यवहारस्य विशेषादेवोपपत्तौ भेदमात्रोच्छेदः स्यादित्यर्थः । सतीति ।। अभेदभेदकार्ययोः सद्भावे ‘प्रमाणे सति’ इत्यर्थः । तन्निर्वाहकेति ।। भेदकार्यापर्यायव्यवहार-निर्वाहकेत्यर्थः । घटपटयोस्त्वभेदो न प्रमाणप्रमित इति भावः ।

गुरुराजीया

न हीति ।। क्रियारूपतया कारकविशेषरूपकर्तृत्वं न सम्भवति । क्रियाकारकभावस्य भेदनियतत्वेनाभेदे तदसम्भवादिति भावः । नापीति ।। एतच्चाऽत्मरूपज्ञानस्य कर्त्रन्तराभावाभि-प्रायेणोक्तम् । अन्यथा तद्घटितकर्मलक्षणसम्भवेनोक्तदोषाप्रसरादिति ध्येयम् । स्वयं क्रियारूप-स्यापि ज्ञानस्य विषयीकरणलक्षणव्यापारं प्रति कर्तृत्वेन स्वविषयत्वे ज्ञानस्य तदुपहितकर्मत्वमपि दुष्परिहरमिति कर्तृकर्मविरोधोऽस्त्येवेति परिहरति- ज्ञानस्यापीति ।। भवेदेतद् यदि विषयीकरण-लक्षणव्यापारं प्रति कर्तृत्वमेव सिद्धं स्यात् । तदेव कुत इत्यत आह- इतरथेति ।। इदमिति ।। कर्तृकर्मविरोधादितीदमित्यर्थः । ज्ञानरूपस्याऽत्मनो ज्ञानं प्रति कर्तृत्वं न सम्भवति । क्रियाकर्तृ-भावस्य भेदनियतत्वेन भेदाभावेऽयोगादिति शङ्कते- कथमेतदिति चेदिति ।। भेदाभावेऽपि भेद-प्रतिनिधिरूपविशेषबलादेव तदुपपत्तिरिति परिहरति- इत्थमिति ।। सविशेषमिति ।। आत्मना सविशेषाभिन्नमित्यर्थः । अतिप्रसङ्ग इति ।। घटपटयोरपि भेदाभावेऽपि भेदप्रतिनिधिरूपविशेष-बलेनैव भेदकार्यनिर्वाहाद्भेदो न स्यादित्यतिप्रसङ्ग इत्यर्थः ।

गोविन्दीया

तस्येति ।। कर्मणः परसमवेतेति तदुपहितलक्षणत्वात् कर्तृसम्बन्धलक्षणत्वादित्यर्थः । अत इति ।। ज्ञानस्य कर्तृकर्मभावाभावात् विषयस्य पराग्भावरूपत्वेन पश्चिमाभिमुखरूपत्वेन एकस्य अज्ञानस्य विषयविषयिभावस्य युगपत् विरोधात् स्वविषयत्वं ज्ञानस्य तैः नाङ्गीक्रियत इति वक्तव्यमित्यर्थः । इतरथेति ।। विषयीकरणलक्षणव्यापारं प्रति ज्ञानस्य कर्तृत्वाभाव इत्यर्थः । कथमिति ।। एतज्ज्ञानरूपस्य आत्मनो ज्ञानं प्रति कर्तृत्वं कथमिति चेदित्यर्थः । उत्तरमाह- इत्थमस्तीति ।। एवमिति ।। यद्येवं विशेषः भेदकार्यं करोति तर्हि विशेषमादाय भेदस्य वक्तुं शक्यत्वात् घटपटयोरपि ऐक्यमङ्गीकार्यं स्यादित्यतिप्रसङ्गः स्यादिति चेदित्यर्थः । सतीति ।। प्रामाणिकैक्यस्थले भेदव्यवहारे प्रमाणे सति भेदव्यवहारनिर्वाहकारणभूतभेदस्याभावे च भेदप्रतिनिधिना तत एव विशेषं विना भेदव्यवहारानुपपत्त्या इत्यर्थापत्तिप्रमाणसिद्धेन विशेषेण भेदव्यवहारनिर्वहणाभ्युपगमादित्यर्थः । प्रपञ्चितमिति ।। अन्यत्र विष्णुतत्त्वनिर्णयादौ विशेषस्य भेदकार्यकरणसामर्थ्यं प्रपञ्चितमित्यर्थः ।

नारोपन्तीया

अतिप्रसङ्गस्स्यादिति ।। घटादेरपि भेदकार्यकारिविशेषवत्त्वात् मुद्गरप्रहारादिना तन्नाशेऽपि घटान्तरस्येव तस्यैवावस्थानं स्यात् । जीवब्रह्मादौ घटपटादौ चाभेद एवास्तु । विशेषबलादेव सर्वनिर्वाहोऽस्त्वित्यादिरतिप्रसङ्ग इत्यर्थः । आद्यस्योत्तरम्- सति प्रमाण इति ।। यदि तस्मिन्नष्टेऽपि तदवस्थानं प्रमितं स्यात् तदा स्यादेव । तदा प्रकृते च ‘मामहं जानामि’ इति सार्वजनीनाबाधितप्रत्ययात् युक्तं कल्पनम् । आरोपे सति निमित्तानुसरणम् । न तु निमित्तमस्ती-त्यारोप इति भावः । द्वितीयस्योत्तरम्- भेदाभाव इति ।। प्रतिनिधिर्हि मुख्यालाभ एवाऽद्रियते । सोमाभावे पूतिकावत् । घटपदादौ च जीवब्रह्मणोश्च सर्वजनसिद्धभेदप्रत्ययसत्त्वान्नानुभवापलापो युक्त इति भावः ।

प्रपञ्चितं चैतदन्यत्राऽचार्यैरिति ।। अस्तु तावत्कुण्डबदरप्रतीतिविलक्षणा तन्तुपटादिप्रतीतिः सर्वानुभवसिद्धा । एकत्र स्फुटतरविवेकप्रतिभासोऽपरत्र तदभावश्च । न च तत्र संयोगसमवायकृतं वैलक्षण्यमिति युक्तम् । समवायस्याप्रामाणिकत्वात् । तन्तवः पट इत्यभेदप्रतीतेश्च । एकीकृतजलद्वयवत्, गुरुत्वपरिमाणाधिक्यादृष्टेश्च । एवं च भेदाभावेऽपि अपर्यायशब्दादेर्नियामकं किञ्चिदवश्यं वक्तव्यम् । स एव भगवान्विशेष इति । तदुक्तम्–

भेदहीने त्वपर्यायशब्दान्तरनियामकः ।

विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ।।’

इत्यादि सङ्क्षेपः ।

जनार्दनभट्टीया

पराक् प्रत्यग्भावेति ।। प्रत्यङ्मुखप्राङ्मुखभावरूपत्वादित्यर्थः । कालान्तरे प्रत्यक्षस्यापि अन्यस्मिन् काले प्राङ्मुखत्वसम्भवात् ‘युगपत्’ इत्युक्तम् । इतरथेति ।। ज्ञानस्य विषयीकरणलक्षणव्यापारं प्रति कर्तृत्वाभावादित्यर्थः । इति न स्यादिति ।। ज्ञानमिति कर्तरि विहिता प्रथमा, अर्थमिति कर्मणि विहिता द्वितीया च न स्यादित्यर्थः । कथमेतदिति ।। एकस्यैव कर्तृत्वं, कर्मत्वं च कथम्? भेदाभावादिति भावः । एवमिति ।। विशेषस्य भेदकार्यकारित्व इत्यर्थः । अतिप्रसङ्ग इति ।।  एकस्मिन् सति अपराभावस्यापि भेदकार्यत्वात् ज्ञाने सत्यपि विषयीकारणाभावलक्षणोऽतिप्रसङ्गः स्यादित्यर्थः । तन्निर्वाहेति ।। भेदकार्यनिर्वाहेत्यर्थः । तत एवेति ।। भेदाभावस्थलीयभेदकार्यादित्यर्थः ।

ननु विशेषे मानाभावः । तथाहि न तावत् प्रत्यक्षम् ‘अयं घटः’ इतिवत् ‘अयं विशेषः’ इत्यनुप-लम्भात् । नाप्यनुमानम् । तद्व्याप्यलिङ्गाभावात् । न च भेदाभावस्थलीयभेदकार्यमेव तदनुमापकम् । तस्य भेदाभेदाभ्यामुपपत्त्या तदसाधकत्वात् । नाप्यागमः । तस्य अश्रवणात् । मङ्गलकर्तव्यता-बोधकश्रुतेरिव अनुमापकाभावाच्च । किञ्च विशेषस्य भेदकार्यकारित्वे भेदो दत्तजलाञ्जलिः स्यात् । सर्वत्र विशेषेणैव भेदकार्यनिर्वाहसम्भवात् इत्यत आह – प्रपञ्चितमिति ।।

अयमाशयः – न तावत् विशेषे प्रमाणाभावः । ‘आनन्दं ब्रह्मणो विद्वान्’ इति श्रौतो व्यवहारः सम्बन्धपूर्वकः । सम्बन्धव्यवहारत्वात्१ । ‘देवदत्तस्य कम्बलम्’ इति व्यवहारवत् । – इत्यनुमानेन तत्सिद्धिः । न च भेदाभेदाभ्यां तदुपपत्तिः । ‘एवं धर्मान् पृथक् पश्यन् तानेवानुविधावति’ इत्यादिवाक्ये ब्रह्मणः तद्गुणानां च भेदनिषेधात् । नापि भेदो दत्तजलाञ्जलिः । विशेषस्य एकसत्वेऽपि अपरनाशादिभेदसाधारणकार्यातिरिक्तभेदकार्यकारित्वाभ्युपगमेन न दत्तजलाञ्जलितापत्तिः । विशेषस्य भेदप्रतिनिधिताभ्युपगमात् । इदमेव हि लोके प्रतिनिधित्वं नाम यन्मुख्यासाधारणकार्यानिष्पादकत्वे सति तत्कार्यनिष्पादकत्वम् । राजरहिते राष्ट्रे राजयोग्यसिंहासनारोहणाद्यन्यसर्वतत्कार्यकर्तुरेव  पुरुषस्य राजप्रतिनिधित्वदर्शनात् । एवं भेदाभावस्थल एव विशेषाश्रयणादिति ।। ‘यस्मिन् न सङ्ख्येय-विशेषनामरूपाकृतो कविभिः कल्पितोऽयम्’  इति  भागवते  स्पष्टमुक्तत्वात्  तन्मूलश्रुतिसिद्धेश्च विशेषः । पुराणानां वेदव्याख्यानरूपत्वादिति ।। व्याख्यातप्रायमिति ।।

मिथ्यात्वस्य अनिर्वचनीयरूपत्वे प्रमाणाभावः । असत्वस्वरूपत्वे परविषयत्वं नास्तीत्युक्तं स्यादिति व्याख्यातप्रायमित्यर्थः ।